अष्टाङ्गहृदयसंहिताAṣṭāṅgahṛdayasaṃhitā
AHS, 3, 3
Select a line for its word-by-word analysis.
कोद्रवोद्दालकैश्चान्नैस् तद्युक्तैरतिसेवितैः ॥ (१।४)
kodravoddālakaiścānnais tadyuktairatisevitaiḥ ||
कुपितं पित्तलैः पित्तं द्रवं रक्तं च मूर्छिते । (२।१)
kupitaṃ pittalaiḥ pittaṃ dravaṃ raktaṃ ca mūrchite |
ते मिथस् तुल्यरूपत्वम् आगम्य व्याप्नुतस् तनुम् ॥ (२।२)
te mithas tulyarūpatvam āgamya vyāpnutas tanum ||
पित्तं रक्तस्य विकृतेः संसर्गाद् दूषणाद् अपि । (३।१)
pittaṃ raktasya vikṛteḥ saṃsargād dūṣaṇād api |
प्रभवत्यसृजः स्थानात् प्लीहतो यकृतश्च तत् । (४।१)
prabhavatyasṛjaḥ sthānāt plīhato yakṛtaśca tat |
शिरोगुरुत्वम् अरुचिः शीतेच्छा धूमको ऽम्लकः ॥ (४।२)
śirogurutvam aruciḥ śītecchā dhūmako 'mlakaḥ ||
छर्दिश्छर्दितबैभत्स्यं कासः श्वासो भ्रमः क्लमः । (५।१)
chardiścharditabaibhatsyaṃ kāsaḥ śvāso bhramaḥ klamaḥ |
स्वप्ने तद्वर्णदर्शित्वं भवत्यस्मिन् भविष्यति । (७।१)
svapne tadvarṇadarśitvaṃ bhavatyasmin bhaviṣyati |
ऊर्ध्वं नासाक्षिकर्णास्यैर् मेढ्रयोनिगुदैरधः ॥ (७।२)
ūrdhvaṃ nāsākṣikarṇāsyair meḍhrayonigudairadhaḥ ||
कुपितं रोमकूपैश्च समस्तैस् तत् प्रवर्तते । (८।१)
kupitaṃ romakūpaiśca samastais tat pravartate |
ऊर्ध्वं साध्यं कफाद् यस्मात् तद् विरेचनसाधनम् ॥ (८।२)
ūrdhvaṃ sādhyaṃ kaphād yasmāt tad virecanasādhanam ||
अनुबन्धी कफो यश्च तत्र तस्यापि शुद्धिकृत् ॥ (९।२)
anubandhī kapho yaśca tatra tasyāpi śuddhikṛt ||
कषायाः स्वादवो ऽप्यस्य विशुद्धश्लेष्मणो हिताः । (१०।१)
kaṣāyāḥ svādavo 'pyasya viśuddhaśleṣmaṇo hitāḥ |
किमु तिक्ताः कषाया वा ये निसर्गात् कफापहाः ॥ (१०।२)
kimu tiktāḥ kaṣāyā vā ye nisargāt kaphāpahāḥ ||
अधो याप्यं चलाद् यस्मात् तत् प्रच्छर्दनसाधनम् । (११।१)
adho yāpyaṃ calād yasmāt tat pracchardanasādhanam |
अल्पौषधं च पित्तस्य वमनं न वरौषधम् ॥ (११।२)
alpauṣadhaṃ ca pittasya vamanaṃ na varauṣadham ||
अनुबन्धी चलो यश्च शान्तये ऽपि न तस्य तत् । (१२।१)
anubandhī calo yaśca śāntaye 'pi na tasya tat |
अशक्यप्रातिलोम्यत्वाद् अभावाद् औषधस्य च ॥ (१३।२)
aśakyaprātilomyatvād abhāvād auṣadhasya ca ||
न हि संशोधनं किंचिद् अस्त्यस्य प्रतिलोमगम् । (१४।१)
na hi saṃśodhanaṃ kiṃcid astyasya pratilomagam |
शोधनं प्रतिलोमं च रक्तपित्ते भिषग्जितम् ॥ (१४।२)
śodhanaṃ pratilomaṃ ca raktapitte bhiṣagjitam ||
संसृष्टेषु हि दोषेषु सर्वजिच्छमनं हितम् ॥ (१५।२)
saṃsṛṣṭeṣu hi doṣeṣu sarvajicchamanaṃ hitam ||
उपद्रवांश्च विकृतिज्ञानतस् तेषु चाधिकम् ॥ (१६।२)
upadravāṃśca vikṛtijñānatas teṣu cādhikam ||
कासआशुकारी यतः कासस् तम् एवातः प्रवक्ष्यति । (१७।१)
kāsaāśukārī yataḥ kāsas tam evātaḥ pravakṣyati |
पञ्च कासाः स्मृता वातपित्तश्लेष्मक्षतक्षयैः ॥ (१७।२)
pañca kāsāḥ smṛtā vātapittaśleṣmakṣatakṣayaiḥ ||
क्षयायोपेक्षिताः सर्वे बलिनश्चोत्तरोत्तरम् । (१८।१)
kṣayāyopekṣitāḥ sarve balinaścottarottaram |
तेषां भविष्यतां रूपं कण्ठे कण्डूररोचकः ॥ (१८।२)
teṣāṃ bhaviṣyatāṃ rūpaṃ kaṇṭhe kaṇḍūrarocakaḥ ||
शूकपूर्णाभकण्ठत्वं तत्राधो विहतो ऽनिलः । (१९।१)
śūkapūrṇābhakaṇṭhatvaṃ tatrādho vihato 'nilaḥ |
ऊर्ध्वं प्रवृत्तः प्राप्योरस् तस्मिन् कण्ठे च संसजन् ॥ (१९।२)
ūrdhvaṃ pravṛttaḥ prāpyoras tasmin kaṇṭhe ca saṃsajan ||
शिरःस्रोतांसि सम्पूर्य ततो ऽङ्गान्युत्क्षिपन्न् इव । (२०।१)
śiraḥsrotāṃsi sampūrya tato 'ṅgānyutkṣipann iva |
क्षिपन्न् इवाक्षिणी पृष्ठम् उरः पार्श्वे च पीडयन् ॥ (२०।२)
kṣipann ivākṣiṇī pṛṣṭham uraḥ pārśve ca pīḍayan ||
प्रवर्तते स वक्त्रेण भिन्नकांस्योपमध्वनिः । (२१।१)
pravartate sa vaktreṇa bhinnakāṃsyopamadhvaniḥ |
कुपितो वातलैर् वातः शुष्कोरःकण्ठवक्त्रताम् ॥ (२२।२)
kupito vātalair vātaḥ śuṣkoraḥkaṇṭhavaktratām ||
हृत्पार्श्वोरःशिरःशूलं मोहक्षोभस्वरक्षयान् । (२३।१)
hṛtpārśvoraḥśiraḥśūlaṃ mohakṣobhasvarakṣayān |
सो ऽङ्गहर्षी कफं शुष्कं कृच्छ्रान् मुक्त्वाल्पतां व्रजेत् । (२४।१)
so 'ṅgaharṣī kaphaṃ śuṣkaṃ kṛcchrān muktvālpatāṃ vrajet |
पित्तात् पीताक्षिकफता तिक्तास्यत्वं ज्वरो भ्रमः ॥ (२४।२)
pittāt pītākṣikaphatā tiktāsyatvaṃ jvaro bhramaḥ ||
पित्तासृग्वमनं तृष्णा वैस्वर्यं धूमको ऽम्लकः । (२५।१)
pittāsṛgvamanaṃ tṛṣṇā vaisvaryaṃ dhūmako 'mlakaḥ |
कफाद् उरो ऽल्परुङ् मूर्धहृदयं स्तिमितं गुरु । (२६।१)
kaphād uro 'lparuṅ mūrdhahṛdayaṃ stimitaṃ guru |
रोमहर्षो घनस्निग्धश्वेतश्लेष्मप्रवर्तनम् । (२७।१)
romaharṣo ghanasnigdhaśvetaśleṣmapravartanam |
युद्धाद्यैः साहसैस् तैस् तैः सेवितैरयथाबलम् ॥ (२७।२)
yuddhādyaiḥ sāhasais tais taiḥ sevitairayathābalam ||
पीतं श्यावं च शुष्कं च ग्रथितं कुथितं बहु । (२९।१)
pītaṃ śyāvaṃ ca śuṣkaṃ ca grathitaṃ kuthitaṃ bahu |
ष्ठीवेत् कण्ठेन रुजता विभिन्नेनेव चोरसा ॥ (२९।२)
ṣṭhīvet kaṇṭhena rujatā vibhinneneva corasā ||
सूचीभिरिव तीक्ष्णाभिस् तुद्यमानेन शूलिना । (३०।१)
sūcībhiriva tīkṣṇābhis tudyamānena śūlinā |
पर्वभेदज्वरश्वासतृष्णावैस्वर्यकम्पवान् ॥ (३०।२)
parvabhedajvaraśvāsatṛṣṇāvaisvaryakampavān ||
क्रमाद् वीर्यं रुचिः पक्ता बलं वर्णश्च हीयते ॥ (३१।२)
kramād vīryaṃ ruciḥ paktā balaṃ varṇaśca hīyate ||
क्षीणस्य सासृङ्मूत्रत्वं स्याच्च पृष्ठकटीग्रहः । (३२।१)
kṣīṇasya sāsṛṅmūtratvaṃ syācca pṛṣṭhakaṭīgrahaḥ |
वायुप्रधानाः कुपिता धातवो राजयक्ष्मिणः ॥ (३२।२)
vāyupradhānāḥ kupitā dhātavo rājayakṣmiṇaḥ ||
कुर्वन्ति यक्ष्मायतनैः कासं ष्ठीवेत् कफं ततः । (३३।१)
kurvanti yakṣmāyatanaiḥ kāsaṃ ṣṭhīvet kaphaṃ tataḥ |
अकस्माद् उष्णशीतेच्छा बह्वाशित्वं बलक्षयः ॥ (३४।२)
akasmād uṣṇaśītecchā bahvāśitvaṃ balakṣayaḥ ||
स्निग्धप्रसन्नवक्त्रत्वं श्रीमद्दर्शननेत्रता । (३५।१)
snigdhaprasannavaktratvaṃ śrīmaddarśananetratā |
ततो ऽस्य क्षयरूपाणि सर्वाण्याविर्भवन्ति च ॥ (३५।२)
tato 'sya kṣayarūpāṇi sarvāṇyāvirbhavanti ca ||
याप्यो वा बलिनां तद्वत् क्षतजो ऽभिनवौ तु तौ ॥ (३६।२)
yāpyo vā balināṃ tadvat kṣatajo 'bhinavau tu tau ||
सिध्येताम् अपि सानाथ्यात् साध्या दोषैः पृथक् त्रयः । (३७।१)
sidhyetām api sānāthyāt sādhyā doṣaiḥ pṛthak trayaḥ |
मिश्रा याप्या द्वयात् सर्वे जरसा स्थविरस्य च ॥ (३७।२)
miśrā yāpyā dvayāt sarve jarasā sthavirasya ca ||
भवन्त्युपेक्षया यस्मात् तस्मात् तं त्वरया जयेत् ॥ (३८।२)
bhavantyupekṣayā yasmāt tasmāt taṃ tvarayā jayet ||
Data courtesy of The Digital Corpus of Sanskrit.