अष्टाङ्गहृदयसंहिताAṣṭāṅgahṛdayasaṃhitā
AHS, 1, 29
Select a line for its word-by-word analysis.
अथातः शस्त्रकर्मविधिम् अध्यायं व्याख्यास्यामः । (१।१)
athātaḥ śastrakarmavidhim adhyāyaṃ vyākhyāsyāmaḥ |
व्रणः संजायते प्रायः पाकाच्छ्वयथुपूर्वकात् । (१।३)
vraṇaḥ saṃjāyate prāyaḥ pākācchvayathupūrvakāt |
तम् एवोपचरेत् तस्माद् रक्षन् पाकं प्रयत्नतः ॥ (१।४)
tam evopacaret tasmād rakṣan pākaṃ prayatnataḥ ||
शोफो ऽल्पो ऽल्पोष्मरुक् सामः सवर्णः कठिनः स्थिरः ॥ (२।२)
śopho 'lpo 'lpoṣmaruk sāmaḥ savarṇaḥ kaṭhinaḥ sthiraḥ ||
स्त्यानं विष्यन्दयत्याज्यं व्रणवत् स्पर्शनासहः ॥ (४।२)
styānaṃ viṣyandayatyājyaṃ vraṇavat sparśanāsahaḥ ||
पक्वे ऽल्पवेगता म्लानिः पाण्डुता वलिसंभवः । (५।१)
pakve 'lpavegatā mlāniḥ pāṇḍutā valisaṃbhavaḥ |
नामो ऽन्तेषून्नतिर् मध्ये कण्डूशोफादिमार्दवम् ॥ (५।२)
nāmo 'nteṣūnnatir madhye kaṇḍūśophādimārdavam ||
स्पृष्टे पूयस्य संचारो भवेद् वस्ताविवाम्भसः । (६।१)
spṛṣṭe pūyasya saṃcāro bhaved vastāvivāmbhasaḥ |
शूलं नर्ते ऽनिलाद् दाहः पित्ताच्छोफः कफोदयात् ॥ (६।२)
śūlaṃ narte 'nilād dāhaḥ pittācchophaḥ kaphodayāt ||
रागो रक्ताच्च पाकः स्याद् अतो दोषैः सशोणितैः । (७।१)
rāgo raktācca pākaḥ syād ato doṣaiḥ saśoṇitaiḥ |
पाके ऽतिवृत्ते सुषिरस् तनुत्वग्दोषभक्षितः ॥ (७।२)
pāke 'tivṛtte suṣiras tanutvagdoṣabhakṣitaḥ ||
कफजेषु तु शोफेषु गम्भीरं पाकम् एत्यसृक् ॥ (८।२)
kaphajeṣu tu śopheṣu gambhīraṃ pākam etyasṛk ||
पक्वलिङ्गं ततो ऽस्पष्टं यत्र स्याच्छीतशोफता । (९।१)
pakvaliṅgaṃ tato 'spaṣṭaṃ yatra syācchītaśophatā |
त्वक्सावर्ण्यं रुजो ऽल्पत्वं घनस्पर्शत्वम् अश्मवत् ॥ (९।२)
tvaksāvarṇyaṃ rujo 'lpatvaṃ ghanasparśatvam aśmavat ||
रक्तपाकम् इति ब्रूयात् तं प्राज्ञो मुक्तसंशयः । (१०।१)
raktapākam iti brūyāt taṃ prājño muktasaṃśayaḥ |
अल्पसत्त्वे ऽबले बाले पाकाद् वात्यर्थम् उद्धते ॥ (१०।२)
alpasattve 'bale bāle pākād vātyartham uddhate ||
दारणं मर्मसंध्यादिस्थिते चान्यत्र पाटनम् । (११।१)
dāraṇaṃ marmasaṃdhyādisthite cānyatra pāṭanam |
आमच्छेदे सिरास्नायुव्यापदो ऽसृगतिस्रुतिः ॥ (११।२)
āmacchede sirāsnāyuvyāpado 'sṛgatisrutiḥ ||
रुजो ऽतिवृद्धिर् दरणं विसर्पो वा क्षतोद्भवः । (१२।१)
rujo 'tivṛddhir daraṇaṃ visarpo vā kṣatodbhavaḥ |
तिष्ठन्न् अन्तः पुनः पूयः सिरास्नाय्वसृगामिषम् ॥ (१२।२)
tiṣṭhann antaḥ punaḥ pūyaḥ sirāsnāyvasṛgāmiṣam ||
यश्छिनत्त्यामम् अज्ञानाद् यश्च पक्वम् उपेक्षते ॥ (१३।२)
yaśchinattyāmam ajñānād yaśca pakvam upekṣate ||
प्राक् शस्त्रकर्मणश्चेष्टं भोजयेद् अन्नम् आतुरम् ॥ (१४।२)
prāk śastrakarmaṇaśceṣṭaṃ bhojayed annam āturam ||
पानपं पाययेन् मद्यं तीक्ष्णं यो वेदनाक्षमः । (१५।१)
pānapaṃ pāyayen madyaṃ tīkṣṇaṃ yo vedanākṣamaḥ |
न मूर्छत्यन्नसंयोगान् मत्तः शस्त्रं न बुध्यते ॥ (१५।२)
na mūrchatyannasaṃyogān mattaḥ śastraṃ na budhyate ||
अथाहृतोपकरणं वैद्यः प्राङ्मुखम् आतुरम् ॥ (१६।२)
athāhṛtopakaraṇaṃ vaidyaḥ prāṅmukham āturam ||
संमुखो यन्त्रयित्वाशु न्यस्येन् मर्मादि वर्जयन् । (१७।१)
saṃmukho yantrayitvāśu nyasyen marmādi varjayan |
अनुलोमं सुनिशितं शस्त्रम् आ पूयदर्शनात् ॥ (१७।२)
anulomaṃ suniśitaṃ śastram ā pūyadarśanāt ||
पाटयेद् द्व्यङ्गुलं सम्यग् द्व्यङ्गुलत्र्यङ्गुलान्तरम् ॥ (१८।२)
pāṭayed dvyaṅgulaṃ samyag dvyaṅgulatryaṅgulāntaram ||
यतो गतां गतिं विद्याद् उत्सङ्गो यत्र यत्र च । (२०।१)
yato gatāṃ gatiṃ vidyād utsaṅgo yatra yatra ca |
तत्र तत्र व्रणं कुर्यात् सुविभक्तं निराशयम् ॥ (२०।२)
tatra tatra vraṇaṃ kuryāt suvibhaktaṃ nirāśayam ||
शौर्यम् आशुक्रिया तीक्ष्णं शस्त्रम् अस्वेदवेपथू ॥ (२१।२)
śauryam āśukriyā tīkṣṇaṃ śastram asvedavepathū ||
असंमोहश्च वैद्यस्य शस्त्रकर्मणि शस्यते । (२२।१)
asaṃmohaśca vaidyasya śastrakarmaṇi śasyate |
तिर्यक् छिन्द्याल्ललाटभ्रूदन्तवेष्टकजत्रुणि ॥ (२२।२)
tiryak chindyāllalāṭabhrūdantaveṣṭakajatruṇi ||
अन्यत्र छेदनात् तिर्यक् सिरास्नायुविपाटनम् ॥ (२३।२)
anyatra chedanāt tiryak sirāsnāyuvipāṭanam ||
शस्त्रे ऽवचारिते वाग्भिः शीताम्भोभिश्च रोगिणम् । (२४।१)
śastre 'vacārite vāgbhiḥ śītāmbhobhiśca rogiṇam |
आश्वास्य परितो ऽङ्गुल्या परिपीड्य व्रणं ततः ॥ (२४।२)
āśvāsya parito 'ṅgulyā paripīḍya vraṇaṃ tataḥ ||
क्षालयित्वा कषायेण प्लोतेनाम्भो ऽपनीय च । (२५।१)
kṣālayitvā kaṣāyeṇa plotenāmbho 'panīya ca |
गुग्गुल्वगुरुसिद्धार्थहिङ्गुसर्जरसान्वितैः ॥ (२५।२)
guggulvagurusiddhārthahiṅgusarjarasānvitaiḥ ||
धूपयेत् पटुषड्ग्रन्थानिम्बपत्त्रैर् घृतप्लुतैः । (२६।१)
dhūpayet paṭuṣaḍgranthānimbapattrair ghṛtaplutaiḥ |
दिग्धां वर्तिं ततो दद्यात् तैरेवाच्छादयेच्च ताम् । (२७।१)
digdhāṃ vartiṃ tato dadyāt tairevācchādayecca tām |
घृताक्तैः सक्तुभिश्चोर्ध्वं घनां कवलिकां ततः ॥ (२७।२)
ghṛtāktaiḥ saktubhiścordhvaṃ ghanāṃ kavalikāṃ tataḥ ||
निधाय युक्त्या बध्नीयात् पट्टेन सुसमाहितम् । (२८।१)
nidhāya yuktyā badhnīyāt paṭṭena susamāhitam |
पार्श्वे सव्ये ऽपसव्ये वा नाधस्तान् नैव चोपरि ॥ (२८।२)
pārśve savye 'pasavye vā nādhastān naiva copari ||
शुचिसूक्ष्मदृढाः पट्टाः कवल्यः सविकेशिकाः । (२९।१)
śucisūkṣmadṛḍhāḥ paṭṭāḥ kavalyaḥ savikeśikāḥ |
धूपिता मृदवः श्लक्ष्णा निर्वलीका व्रणे हिताः ॥ (२९।२)
dhūpitā mṛdavaḥ ślakṣṇā nirvalīkā vraṇe hitāḥ ||
कुर्वीतानन्तरं तस्य रक्षां रक्षोनिषिद्धये । (३०।१)
kurvītānantaraṃ tasya rakṣāṃ rakṣoniṣiddhaye |
बलिं चोपहरेत् तेभ्यः सदा मूर्ध्ना च धारयेत् ॥ (३०।२)
baliṃ copaharet tebhyaḥ sadā mūrdhnā ca dhārayet ||
लक्ष्मीं गुहाम् अतिगुहां जटिलां ब्रह्मचारिणीम् । (३१।१)
lakṣmīṃ guhām atiguhāṃ jaṭilāṃ brahmacāriṇīm |
वचां छत्त्राम् अतिच्छत्त्रां दूर्वां सिद्धार्थकान् अपि ॥ (३१।२)
vacāṃ chattrām aticchattrāṃ dūrvāṃ siddhārthakān api ||
ततः स्नेहदिनेहोक्तं तस्याचारं समादिशेत् । (३२।१)
tataḥ snehadinehoktaṃ tasyācāraṃ samādiśet |
दिवास्वप्नो व्रणे कण्डूरागरुक्शोफपूयकृत् ॥ (३२।२)
divāsvapno vraṇe kaṇḍūrāgarukśophapūyakṛt ||
स्त्रीणां तु स्मृतिसंस्पर्शदर्शनैश्चलितस्रुते । (३३।१)
strīṇāṃ tu smṛtisaṃsparśadarśanaiścalitasrute |
शुक्रे व्यवायजान् दोषान् असंसर्गे ऽप्यवाप्नुयात् ॥ (३३।२)
śukre vyavāyajān doṣān asaṃsarge 'pyavāpnuyāt ||
सैन्धवं दाडिमं धात्री घृतं तप्तहिमं जलम् । (३६।१)
saindhavaṃ dāḍimaṃ dhātrī ghṛtaṃ taptahimaṃ jalam |
जीर्णशाल्योदनं स्निग्धम् अल्पम् उष्णोदकोत्तरम् ॥ (३६।२)
jīrṇaśālyodanaṃ snigdham alpam uṣṇodakottaram ||
भुञ्जानो जाङ्गलैर् मांसैः शीघ्रं व्रणम् अपोहति । (३७।१)
bhuñjāno jāṅgalair māṃsaiḥ śīghraṃ vraṇam apohati |
अशितं मात्रया काले पथ्यं याति जरां सुखम् ॥ (३७।२)
aśitaṃ mātrayā kāle pathyaṃ yāti jarāṃ sukham ||
अजीर्णात् त्वनिलादीनां विभ्रमो बलवान् भवेत् । (३८।१)
ajīrṇāt tvanilādīnāṃ vibhramo balavān bhavet |
नवं धान्यं तिलान् माषान् मद्यं मांसम् अजाङ्गलम् । (३९।१)
navaṃ dhānyaṃ tilān māṣān madyaṃ māṃsam ajāṅgalam |
क्षीरेक्षुविकृतीरम्लं लवणं कटुकं त्यजेत् ॥ (३९।२)
kṣīrekṣuvikṛtīramlaṃ lavaṇaṃ kaṭukaṃ tyajet ||
यच्चान्यद् अपि विष्टम्भि विदाहि गुरु शीतलम् । (४०।१)
yaccānyad api viṣṭambhi vidāhi guru śītalam |
वर्गो ऽयं नवधान्यादिर् व्रणिनः सर्वदोषकृत् ॥ (४०।२)
vargo 'yaṃ navadhānyādir vraṇinaḥ sarvadoṣakṛt ||
मद्यं तीक्ष्णोष्णरूक्षाम्लम् आशु व्यापादयेद् व्रणम् । (४१।१)
madyaṃ tīkṣṇoṣṇarūkṣāmlam āśu vyāpādayed vraṇam |
वालोशीरैश्च वीज्येत न चैनं परिघट्टयेत् ॥ (४१।२)
vālośīraiśca vījyeta na cainaṃ parighaṭṭayet ||
न तुदेन् न च कण्डूयेच्चेष्टमानश्च पालयेत् । (४२।१)
na tuden na ca kaṇḍūyecceṣṭamānaśca pālayet |
स्निग्धवृद्धद्विजातीनां कथाः शृण्वन् मनःप्रियाः ॥ (४२।२)
snigdhavṛddhadvijātīnāṃ kathāḥ śṛṇvan manaḥpriyāḥ ||
आशावान् व्याधिमोक्षाय क्षिप्रं व्रणम् अपोहति । (४३।१)
āśāvān vyādhimokṣāya kṣipraṃ vraṇam apohati |
तृतीये ऽह्नि पुनः कुर्याद् व्रणकर्म च पूर्ववत् ॥ (४३।२)
tṛtīye 'hni punaḥ kuryād vraṇakarma ca pūrvavat ||
तीव्रव्यथो विग्रथितश्चिरात् संरोहति व्रणः ॥ (४४।२)
tīvravyatho vigrathitaścirāt saṃrohati vraṇaḥ ||
स्निग्धां रूक्षां श्लथां गाढां दुर्न्यस्तां च विकेशिकाम् । (४५।१)
snigdhāṃ rūkṣāṃ ślathāṃ gāḍhāṃ durnyastāṃ ca vikeśikām |
व्रणे न दद्यात् कल्कं वा स्नेहात् क्लेदो विवर्धते ॥ (४५।२)
vraṇe na dadyāt kalkaṃ vā snehāt kledo vivardhate ||
मांसच्छेदो ऽतिरुग्रौक्ष्याद् दरणं शोणितागमः । (४६।१)
māṃsacchedo 'tirugraukṣyād daraṇaṃ śoṇitāgamaḥ |
श्लथातिगाढदुर्न्यासैर् व्रणवर्त्मावघर्षणम् ॥ (४६।२)
ślathātigāḍhadurnyāsair vraṇavartmāvagharṣaṇam ||
सपूतिमांसं सोत्सङ्गं सगतिं पूयगर्भिणम् । (४७।१)
sapūtimāṃsaṃ sotsaṅgaṃ sagatiṃ pūyagarbhiṇam |
व्रणं विशोधयेच्छीघ्रं स्थिता ह्यन्तर् विकेशिका ॥ (४७।२)
vraṇaṃ viśodhayecchīghraṃ sthitā hyantar vikeśikā ||
व्यम्लं तु पाटितं शोफं पाचनैः समुपाचरेत् । (४८।१)
vyamlaṃ tu pāṭitaṃ śophaṃ pācanaiḥ samupācaret |
सद्यः सद्योव्रणान् सीव्येद् विवृतान् अभिघातजान् । (४९।१)
sadyaḥ sadyovraṇān sīvyed vivṛtān abhighātajān |
मेदोजांल्लिखितान् ग्रन्थीन् ह्रस्वाः पालीश्च कर्णयोः ॥ (४९।२)
medojāṃllikhitān granthīn hrasvāḥ pālīśca karṇayoḥ ||
न तु वङ्क्षणकक्षादावल्पमांसे चले व्रणान् ॥ (५१।२)
na tu vaṅkṣaṇakakṣādāvalpamāṃse cale vraṇān ||
वायुनिर्वाहिणः शल्यगर्भान् क्षारविषाग्निजान् । (५२।१)
vāyunirvāhiṇaḥ śalyagarbhān kṣāraviṣāgnijān |
प्रलम्बि मांसं विच्छिन्नं निवेश्य स्वनिवेशने । (५३।१)
pralambi māṃsaṃ vicchinnaṃ niveśya svaniveśane |
संध्यस्थि च स्थिते रक्ते स्नाय्वा सूत्रेण वल्कलैः ॥ (५३।२)
saṃdhyasthi ca sthite rakte snāyvā sūtreṇa valkalaiḥ ||
सीव्येन् न दूरे नासन्ने गृह्णन् नाल्पं न वा बहु । (५४।१)
sīvyen na dūre nāsanne gṛhṇan nālpaṃ na vā bahu |
सान्त्वयित्वा ततश्चार्तं व्रणे मधुघृतद्रुतैः ॥ (५४।२)
sāntvayitvā tataścārtaṃ vraṇe madhughṛtadrutaiḥ ||
सलोध्रमधुकैर् दिग्धे युञ्ज्याद् बन्धादि पूर्ववत् ॥ (५५।२)
salodhramadhukair digdhe yuñjyād bandhādi pūrvavat ||
व्रणो निःशोणितौष्ठो यः किंचिद् एवावलिख्य तम् । (५६।१)
vraṇo niḥśoṇitauṣṭho yaḥ kiṃcid evāvalikhya tam |
संजातरुधिरं सीव्येत् संधानं ह्यस्य शोणितम् ॥ (५६।२)
saṃjātarudhiraṃ sīvyet saṃdhānaṃ hyasya śoṇitam ||
बन्धनानि तु देशादीन् वीक्ष्य युञ्जीत तेषु च । (५७।१)
bandhanāni tu deśādīn vīkṣya yuñjīta teṣu ca |
आविकाजिनकौशेयम् उष्णं क्षौमं तु शीतलम् ॥ (५७।२)
āvikājinakauśeyam uṣṇaṃ kṣaumaṃ tu śītalam ||
भङ्गे च युञ्ज्यात् फलकं चर्मवल्ककुशादि च । (५९।१)
bhaṅge ca yuñjyāt phalakaṃ carmavalkakuśādi ca |
खट्वाविबन्धस्थगिकावितानोत्सङ्गगोष्फणाः ॥ (६०।२)
khaṭvāvibandhasthagikāvitānotsaṅgagoṣphaṇāḥ ||
यमकं मण्डलाख्यं च पञ्चाङ्गी चेति योजयेत् । (६१।१)
yamakaṃ maṇḍalākhyaṃ ca pañcāṅgī ceti yojayet |
विदध्यात् तेषु तेष्वेव कोशम् अङ्गुलिपर्वसु । (६१।२)
vidadhyāt teṣu teṣveva kośam aṅguliparvasu |
स्वस्तिकं कर्णकक्षादिस्तनेषूक्तं च संधिषु । (६१।३)
svastikaṃ karṇakakṣādistaneṣūktaṃ ca saṃdhiṣu |
मुत्तोलीं मेढ्रग्रीवादौ युञ्ज्याच्चीनम् अपाङ्गयोः । (६१।४)
muttolīṃ meḍhragrīvādau yuñjyāccīnam apāṅgayoḥ |
संबाधे ऽङ्गे तथा दाम शाखास्वेवानुवेल्लितम् । (६१।५)
saṃbādhe 'ṅge tathā dāma śākhāsvevānuvellitam |
खट्वां गण्डे हनौ शङ्खे विबन्धं पृष्ठकोदरे । (६१।६)
khaṭvāṃ gaṇḍe hanau śaṅkhe vibandhaṃ pṛṣṭhakodare |
अङ्गुष्ठाङ्गुलिमेढ्राग्रे स्थगिकाम् अन्त्रवृद्धिषु । (६१।७)
aṅguṣṭhāṅgulimeḍhrāgre sthagikām antravṛddhiṣu |
गोष्फणं संधिषु तथा यमकं यमिके व्रणे । (६१।१०)
goṣphaṇaṃ saṃdhiṣu tathā yamakaṃ yamike vraṇe |
वृत्ते ऽङ्गे मण्डलाख्यं च पञ्चाङ्गीं चोर्ध्वजत्रुषु । (६१।११)
vṛtte 'ṅge maṇḍalākhyaṃ ca pañcāṅgīṃ cordhvajatruṣu |
यो यत्र सुनिविष्टः स्यात्तं तेषां तत्र बुद्धिमान् ॥ (६१।१२)
yo yatra suniviṣṭaḥ syāttaṃ teṣāṃ tatra buddhimān ||
बध्नीयाद् गाढम् ऊरुस्फिक्कक्षावङ्क्षणमूर्धसु । (६२।१)
badhnīyād gāḍham ūrusphikkakṣāvaṅkṣaṇamūrdhasu |
समं मेहनमुष्के च नेत्रे संधिषु च श्लथम् । (६३।१)
samaṃ mehanamuṣke ca netre saṃdhiṣu ca ślatham |
बध्नीयाच्छिथिलस्थाने वातश्लेष्मोद्भवे समम् ॥ (६३।२)
badhnīyācchithilasthāne vātaśleṣmodbhave samam ||
शीते वसन्ते ऽपि च तौ मोक्षणीयौ त्र्यहात् त्र्यहात् ॥ (६४।२)
śīte vasante 'pi ca tau mokṣaṇīyau tryahāt tryahāt ||
पित्तरक्तोत्थयोर् बन्धो गाढस्थाने समो मतः । (६५।१)
pittaraktotthayor bandho gāḍhasthāne samo mataḥ |
सायं प्रातस् तयोर् मोक्षो ग्रीष्मे शरदि चेष्यते । (६६।१)
sāyaṃ prātas tayor mokṣo grīṣme śaradi ceṣyate |
दुष्टीभवेच्चिरं चात्र न तिष्ठेत् स्नेहभेषजम् । (६७।१)
duṣṭībhavecciraṃ cātra na tiṣṭhet snehabheṣajam |
कृच्छ्रेण शुद्धिं रूढिं वा याति रूढो विवर्णताम् ॥ (६७।२)
kṛcchreṇa śuddhiṃ rūḍhiṃ vā yāti rūḍho vivarṇatām ||
बद्धस् तु चूर्णितो भग्नो विश्लिष्टः पाटितो ऽपि वा । (६८।१)
baddhas tu cūrṇito bhagno viśliṣṭaḥ pāṭito 'pi vā |
छिन्नस्नायुसिरो ऽप्याशु सुखं संरोहति व्रणः ॥ (६८।२)
chinnasnāyusiro 'pyāśu sukhaṃ saṃrohati vraṇaḥ ||
उद्वृत्तौष्ठः समुत्सन्नो विषमः कठिनो ऽतिरुक् ॥ (६९।२)
udvṛttauṣṭhaḥ samutsanno viṣamaḥ kaṭhino 'tiruk ||
समो मृदुररुक् शीघ्रं व्रणः शुध्यति रोहति । (७०।१)
samo mṛduraruk śīghraṃ vraṇaḥ śudhyati rohati |
स्थिराणाम् अल्पमांसानां रौक्ष्याद् अनुपरोहताम् ॥ (७०।२)
sthirāṇām alpamāṃsānāṃ raukṣyād anuparohatām ||
प्रच्छाद्यम् औषधं पत्त्रैर् यथादोषं यथर्तु च । (७१।१)
pracchādyam auṣadhaṃ pattrair yathādoṣaṃ yathartu ca |
अजीर्णतरुणाच्छिद्रैः समन्तात् सुनिवेशितैः ॥ (७१।२)
ajīrṇataruṇācchidraiḥ samantāt suniveśitaiḥ ||
धौतैरकर्कशैः क्षीरिभूर्जार्जुनकदम्बजैः । (७२।१)
dhautairakarkaśaiḥ kṣīribhūrjārjunakadambajaiḥ |
कुष्ठिनाम् अग्निदग्धानां पिटिका मधुमेहिनाम् ॥ (७२।२)
kuṣṭhinām agnidagdhānāṃ piṭikā madhumehinām ||
कर्णिकाश्चोन्दुरुविषे क्षारदग्धा विषान्विताः । (७३।१)
karṇikāśconduruviṣe kṣāradagdhā viṣānvitāḥ |
शीर्यमाणाः सरुग्दाहाः शोफावस्थाविसर्पिणः । (७४।१)
śīryamāṇāḥ sarugdāhāḥ śophāvasthāvisarpiṇaḥ |
अरक्षया व्रणे यस्मिन् मक्षिका निक्षिपेत् कृमीन् ॥ (७४।२)
arakṣayā vraṇe yasmin makṣikā nikṣipet kṛmīn ||
ते भक्षयन्तः कुर्वन्ति रुजाशोफास्रसंस्रवान् । (७५।१)
te bhakṣayantaḥ kurvanti rujāśophāsrasaṃsravān |
गोमूत्रकल्कितो लेपः सेकः क्षाराम्बुना हितः ॥ (७६।२)
gomūtrakalkito lepaḥ sekaḥ kṣārāmbunā hitaḥ ||
प्रच्छाद्य मांसपेश्या वा व्रणं तान् आशु निर्हरेत् । (७७।१)
pracchādya māṃsapeśyā vā vraṇaṃ tān āśu nirharet |
न चैनं त्वरमाणो ऽन्तः सदोषम् उपरोहयेत् ॥ (७७।२)
na cainaṃ tvaramāṇo 'ntaḥ sadoṣam uparohayet ||
रूढे ऽप्यजीर्णव्यायामव्यवायादीन् विवर्जयेत् ॥ (७८।२)
rūḍhe 'pyajīrṇavyāyāmavyavāyādīn vivarjayet ||
हर्षं क्रोधं भयं चापि यावद् आ स्थैर्यसंभवात् । (७९।१)
harṣaṃ krodhaṃ bhayaṃ cāpi yāvad ā sthairyasaṃbhavāt |
आदरेणानुवर्त्यो ऽयं मासान् षट् सप्त वा विधिः ॥ (७९।२)
ādareṇānuvartyo 'yaṃ māsān ṣaṭ sapta vā vidhiḥ ||
उत्पद्यमानासु च तासु तासु वार्त्तासु दोषादिबलानुसारी । (८०।१)
utpadyamānāsu ca tāsu tāsu vārttāsu doṣādibalānusārī |
तैस् तैरुपायैः प्रयतश्चिकित्सेद् आलोचयन् विस्तरम् उत्तरोक्तम् ॥ (८०।२)
tais tairupāyaiḥ prayataścikitsed ālocayan vistaram uttaroktam ||
Data courtesy of The Digital Corpus of Sanskrit.