अष्टाङ्गहृदयसंहिताAṣṭāṅgahṛdayasaṃhitā

AHS, 4, 10

62 of 120 · 188 verses

Select a line for its word-by-word analysis.

1.1१.१

अथातो ग्रहणीदोषचिकित्सितं व्याख्यास्यामः । (१।१)

athāto grahaṇīdoṣacikitsitaṃ vyākhyāsyāmaḥ |

1.2१.२

इति ह स्माहुर् आत्रेयादयो महर्षयः । (१।२)

iti ha smāhur ātreyādayo maharṣayaḥ |

1.3१.३

ग्रहणीम् आश्रितं दोषम् अजीर्णवद् उपाचरेत् । (१।३)

grahaṇīm āśritaṃ doṣam ajīrṇavad upācaret |

1.4१.४

अतीसारोक्तविधिना तस्यामं च विपाचयेत् ॥ (१।४)

atīsāroktavidhinā tasyāmaṃ ca vipācayet ||

2.1२.१

अन्नकाले यवाग्वादि पञ्चकोलादिभिर् युतम् । (२।१)

annakāle yavāgvādi pañcakolādibhir yutam |

2.2२.२

वितरेत् पटुलघ्वन्नं पुनर् योगांश्च दीपनान् ॥ (२।२)

vitaret paṭulaghvannaṃ punar yogāṃśca dīpanān ||

3.1३.१

दद्यात् सातिविषां पेयाम् आमे साम्लां सनागराम् । (३।१)

dadyāt sātiviṣāṃ peyām āme sāmlāṃ sanāgarām |

3.2३.२

पाने ऽतीसारविहितं वारि तक्रं सुरादि च ॥ (३।२)

pāne 'tīsāravihitaṃ vāri takraṃ surādi ca ||

4.1४.१

ग्रहणीदोषिणां तक्रं दीपनग्राहिलाघवात् । (४।१)

grahaṇīdoṣiṇāṃ takraṃ dīpanagrāhilāghavāt |

4.2४.२

पथ्यं मधुरपाकित्वान् न च पित्तप्रदूषणम् ॥ (४।२)

pathyaṃ madhurapākitvān na ca pittapradūṣaṇam ||

5.1५.१

कषायोष्णविकाशित्वाद् रूक्षत्वाच्च कफे हितम् । (५।१)

kaṣāyoṣṇavikāśitvād rūkṣatvācca kaphe hitam |

5.2५.२

वाते स्वाद्वम्लसान्द्रत्वात् सद्यस्कम् अविदाहि तत् ॥ (५।२)

vāte svādvamlasāndratvāt sadyaskam avidāhi tat ||

6.1६.१

चतुर्णां प्रस्थम् अम्लानां त्र्यूषणाच्च पलत्रयम् । (६।१)

caturṇāṃ prastham amlānāṃ tryūṣaṇācca palatrayam |

6.2६.२

लवणानां च चत्वारि शर्करायाः पलाष्टकम् ॥ (६।२)

lavaṇānāṃ ca catvāri śarkarāyāḥ palāṣṭakam ||

7.1७.१

तच्चूर्णं शाकसूपान्नरागादिष्ववचारयेत् । (७।१)

taccūrṇaṃ śākasūpānnarāgādiṣvavacārayet |

7.2७.२

कासाजीर्णारुचिश्वासहृत्पाण्डुप्लीहगुल्मनुत् ॥ (७।२)

kāsājīrṇāruciśvāsahṛtpāṇḍuplīhagulmanut ||

8.1८.१

नागरातिविषामुस्तं पाक्यम् आमहरं पिबेत् । (८।१)

nāgarātiviṣāmustaṃ pākyam āmaharaṃ pibet |

8.2८.२

उष्णाम्बुना वा तत्कल्कं नागरं वाथवाभयाम् ॥ (८।२)

uṣṇāmbunā vā tatkalkaṃ nāgaraṃ vāthavābhayām ||

9.1९.१

ससैन्धवं वचादिं वा तद्वन् मदिरयाथवा । (९।१)

sasaindhavaṃ vacādiṃ vā tadvan madirayāthavā |

9.2९.२

वर्चस्यामे सप्रवाहे पिबेद् वा दाडिमाम्बुना ॥ (९।२)

varcasyāme sapravāhe pibed vā dāḍimāmbunā ||

10.1१०.१

विडेन लवणं पिष्टं बिल्वचित्रकनागरम् । (१०।१)

viḍena lavaṇaṃ piṣṭaṃ bilvacitrakanāgaram |

10.2१०.२

सामे कफानिले कोष्ठरुक्करे कोष्णवारिणा ॥ (१०।२)

sāme kaphānile koṣṭharukkare koṣṇavāriṇā ||

11.1११.१

कलिङ्गहिङ्ग्वतिविषावचासौवर्चलाभयम् । (११।१)

kaliṅgahiṅgvativiṣāvacāsauvarcalābhayam |

11.2११.२

छर्दिहृद्रोगशूलेषु पेयम् उष्णेन वारिणा ॥ (११।२)

chardihṛdrogaśūleṣu peyam uṣṇena vāriṇā ||

12.1१२.१

पथ्यासौवर्चलाजाजीचूर्णं मरिचसंयुतम् । (१२।१)

pathyāsauvarcalājājīcūrṇaṃ maricasaṃyutam |

12.2१२.२

पिप्पलीं नागरं पाठां शारिवां बृहतीद्वयम् ॥ (१२।२)

pippalīṃ nāgaraṃ pāṭhāṃ śārivāṃ bṛhatīdvayam ||

13.1१३.१

चित्रकं कौटजं क्षारं तथा लवणपञ्चकम् । (१३।१)

citrakaṃ kauṭajaṃ kṣāraṃ tathā lavaṇapañcakam |

13.2१३.२

चूर्णीकृतं दधिसुरातन्मण्डोष्णाम्बुकाञ्जिकैः ॥ (१३।२)

cūrṇīkṛtaṃ dadhisurātanmaṇḍoṣṇāmbukāñjikaiḥ ||

14.1१४.१

पिबेद् अग्निविवृद्ध्यर्थं कोष्ठवातहरं परम् । (१४।१)

pibed agnivivṛddhyarthaṃ koṣṭhavātaharaṃ param |

14.2१४.२

पटूनि पञ्च द्वौ क्षारौ मरिचं पञ्चकोलकम् ॥ (१४।२)

paṭūni pañca dvau kṣārau maricaṃ pañcakolakam ||

15.1१५.१

दीप्यकं हिङ्गु गुटिका बीजपूररसे कृता । (१५।१)

dīpyakaṃ hiṅgu guṭikā bījapūrarase kṛtā |

15.2१५.२

कोलदाडिमतोये वा परं पाचनदीपनी ॥ (१५।२)

koladāḍimatoye vā paraṃ pācanadīpanī ||

16.1१६.१

तालीशपत्त्रचविकामरिचानां पलं पलम् । (१६।१)

tālīśapattracavikāmaricānāṃ palaṃ palam |

16.2१६.२

कृष्णातन्मूलयोर् द्वे द्वे पले शुण्ठीपलत्रयम् ॥ (१६।२)

kṛṣṇātanmūlayor dve dve pale śuṇṭhīpalatrayam ||

17.1१७.१

चतुर्जातम् उशीरं च कर्षांशं श्लक्ष्णचूर्णितम् । (१७।१)

caturjātam uśīraṃ ca karṣāṃśaṃ ślakṣṇacūrṇitam |

17.2१७.२

गुडेन वटकान् कृत्वा त्रिगुणेन सदा भजेत् ॥ (१७।२)

guḍena vaṭakān kṛtvā triguṇena sadā bhajet ||

18.1१८.१

मद्ययूषरसारिष्टमस्तुपेयापयोऽनुपः । (१८।१)

madyayūṣarasāriṣṭamastupeyāpayo'nupaḥ |

18.2१८.२

वातश्लेष्मात्मनां छर्दिग्रहणीपार्श्वहृद्रुजाम् ॥ (१८।२)

vātaśleṣmātmanāṃ chardigrahaṇīpārśvahṛdrujām ||

19.1१९.१

ज्वरश्वयथुपाण्डुत्वगुल्मपानात्ययार्शसाम् । (१९।१)

jvaraśvayathupāṇḍutvagulmapānātyayārśasām |

19.2१९.२

प्रसेकपीनसश्वासकासानां च निवृत्तये ॥ (१९।२)

prasekapīnasaśvāsakāsānāṃ ca nivṛttaye ||

20.1२०.१

अभयां नागरस्थाने दद्यात् तत्रैव विड्ग्रहे । (२०।१)

abhayāṃ nāgarasthāne dadyāt tatraiva viḍgrahe |

20.2२०.२

छर्द्यादिषु च पैत्तेषु चतुर्गुणसितान्विताः ॥ (२०।२)

chardyādiṣu ca paitteṣu caturguṇasitānvitāḥ ||

21.1२१.१

पक्वेन वटकाः कार्या गुडेन सितयापि वा । (२१।१)

pakvena vaṭakāḥ kāryā guḍena sitayāpi vā |

21.2२१.२

परं हि वह्निसंपर्काल् लघिमानं भजन्ति ते ॥ (२१।२)

paraṃ hi vahnisaṃparkāl laghimānaṃ bhajanti te ||

22.1२२.१

अथैनं परिपक्वामं मारुतग्रहणीगदम् । (२२।१)

athainaṃ paripakvāmaṃ mārutagrahaṇīgadam |

22.2२२.२

दीपनीययुतं सर्पिः पाययेद् अल्पशो भिषक् ॥ (२२।२)

dīpanīyayutaṃ sarpiḥ pāyayed alpaśo bhiṣak ||

23.1२३.१

किंचित्संधुक्षिते त्वग्नौ सक्तविण्मूत्रमारुतम् । (२३।१)

kiṃcitsaṃdhukṣite tvagnau saktaviṇmūtramārutam |

23.2२३.२

द्व्यहं त्र्यहं वा संस्नेह्य स्विन्नाभ्यक्तं निरूहयेत् ॥ (२३।२)

dvyahaṃ tryahaṃ vā saṃsnehya svinnābhyaktaṃ nirūhayet ||

24.1२४.१

तत एरण्डतैलेन सर्पिषा तैल्वकेन वा । (२४।१)

tata eraṇḍatailena sarpiṣā tailvakena vā |

24.2२४.२

सक्षारेणानिले शान्ते स्रस्तदोषं विरेचयेत् ॥ (२४।२)

sakṣāreṇānile śānte srastadoṣaṃ virecayet ||

25.1२५.१

शुद्धरूक्षाशयं बद्धवर्चस्कं चानुवासयेत् । (२५।१)

śuddharūkṣāśayaṃ baddhavarcaskaṃ cānuvāsayet |

25.2२५.२

दीपनीयाम्लवातघ्नसिद्धतैलेन तं ततः ॥ (२५।२)

dīpanīyāmlavātaghnasiddhatailena taṃ tataḥ ||

26.1२६.१

निरूढं च विरिक्तं च सम्यक् चाप्यनुवासितम् । (२६।१)

nirūḍhaṃ ca viriktaṃ ca samyak cāpyanuvāsitam |

26.2२६.२

लघ्वन्नप्रतिसंयुक्तं सर्पिरभ्यासयेत् पुनः ॥ (२६।२)

laghvannapratisaṃyuktaṃ sarpirabhyāsayet punaḥ ||

27.1२७.१

पञ्चमूलाभयाव्योषपिप्पलीमूलसैन्धवैः । (२७।१)

pañcamūlābhayāvyoṣapippalīmūlasaindhavaiḥ |

27.2२७.२

रास्नाक्षारद्वयाजाजीविडङ्गशठिभिर् घृतम् ॥ (२७।२)

rāsnākṣāradvayājājīviḍaṅgaśaṭhibhir ghṛtam ||

28.1२८.१

शुक्तेन मातुलुङ्गस्य स्वरसेनार्द्रकस्य च । (२८।१)

śuktena mātuluṅgasya svarasenārdrakasya ca |

28.2२८.२

शुष्कमूलककोलाम्लचुक्रिकादाडिमस्य च ॥ (२८।२)

śuṣkamūlakakolāmlacukrikādāḍimasya ca ||

29.1२९.१

तक्रमस्तुसुरामण्डसौवीरकतुषोदकैः । (२९।१)

takramastusurāmaṇḍasauvīrakatuṣodakaiḥ |

29.2२९.२

काञ्जिकेन च तत् पक्वम् अग्निदीप्तिकरं परम् ॥ (२९।२)

kāñjikena ca tat pakvam agnidīptikaraṃ param ||

30.1३०.१

शूलगुल्मोदरश्वासकासानिलकफापहम् । (३०।१)

śūlagulmodaraśvāsakāsānilakaphāpaham |

30.2३०.२

सबीजपूरकरसं सिद्धं वा पाययेद् घृतम् ॥ (३०।२)

sabījapūrakarasaṃ siddhaṃ vā pāyayed ghṛtam ||

31.1३१.१

तैलम् अभ्यञ्जनार्थं च सिद्धम् एभिश्चलापहम् । (३१।१)

tailam abhyañjanārthaṃ ca siddham ebhiścalāpaham |

31.2३१.२

एतेषाम् औषधानां वा पिबेच्चूर्णं सुखाम्बुना ॥ (३१।२)

eteṣām auṣadhānāṃ vā pibeccūrṇaṃ sukhāmbunā ||

32.1३२.१

वाते श्लेष्मावृते सामे कफे वा वायुनोद्धते । (३२।१)

vāte śleṣmāvṛte sāme kaphe vā vāyunoddhate |

32.2३२.२

अग्नेर् निर्वापकं पित्तं रेकेण वमनेन वा ॥ (३२।२)

agner nirvāpakaṃ pittaṃ rekeṇa vamanena vā ||

33.1३३.१

हत्वा तिक्तलघुग्राहिदीपनैरविदाहिभिः । (३३।१)

hatvā tiktalaghugrāhidīpanairavidāhibhiḥ |

33.2३३.२

अन्नैः संधुक्षयेद् अग्निं चूर्णैः स्नेहैश्च तिक्तकैः ॥ (३३।२)

annaiḥ saṃdhukṣayed agniṃ cūrṇaiḥ snehaiśca tiktakaiḥ ||

34.1३४.१

पटोलनिम्बत्रायन्तीतिक्तातिक्तकपर्पटम् । (३४।१)

paṭolanimbatrāyantītiktātiktakaparpaṭam |

34.2३४.२

कुटजत्वक्फलं मूर्वा मधुशिग्रुफलं वचा ॥ (३४।२)

kuṭajatvakphalaṃ mūrvā madhuśigruphalaṃ vacā ||

35.1३५.१

दार्वीत्वक्पद्मकोशीरयवानीमुस्तचन्दनम् । (३५।१)

dārvītvakpadmakośīrayavānīmustacandanam |

35.2३५.२

सौराष्ट्र्यतिविषाव्योषत्वगेलापत्त्रदारु च ॥ (३५।२)

saurāṣṭryativiṣāvyoṣatvagelāpattradāru ca ||

36.1३६.१

चूर्णितं मधुना लेह्यं पेयं मद्यैर् जलेन वा । (३६।१)

cūrṇitaṃ madhunā lehyaṃ peyaṃ madyair jalena vā |

36.2३६.२

हृत्पाण्डुग्रहणीरोगगुल्मशूलारुचिज्वरान् ॥ (३६।२)

hṛtpāṇḍugrahaṇīrogagulmaśūlārucijvarān ||

37.1३७.१

कामलां संनिपातं च मुखरोगांश्च नाशयेत् । (३७।१)

kāmalāṃ saṃnipātaṃ ca mukharogāṃśca nāśayet |

37.2३७.२

भूनिम्बकटुकामुस्तात्र्यूषणेन्द्रयवान् समान् ॥ (३७।२)

bhūnimbakaṭukāmustātryūṣaṇendrayavān samān ||

38.1३८.१

द्वौ चित्रकाद् वत्सकत्वग्भागान् षोडश चूर्णयेत् । (३८।१)

dvau citrakād vatsakatvagbhāgān ṣoḍaśa cūrṇayet |

38.2३८.२

गुडशीताम्बुना पीतं ग्रहणीदोषगुल्मनुत् ॥ (३८।२)

guḍaśītāmbunā pītaṃ grahaṇīdoṣagulmanut ||

39.1३९.१

कामलाज्वरपाण्डुत्वमेहारुच्यतिसारजित् । (३९।१)

kāmalājvarapāṇḍutvamehārucyatisārajit |

39.2३९.२

नागरातिविषामुस्तापाठाबिल्वं रसाञ्जनम् ॥ (३९।२)

nāgarātiviṣāmustāpāṭhābilvaṃ rasāñjanam ||

40.1४०.१

कुटजत्वक्फलं तिक्ता धातकी च कृतं रजः । (४०।१)

kuṭajatvakphalaṃ tiktā dhātakī ca kṛtaṃ rajaḥ |

40.2४०.२

क्षौद्रतण्डुलवारिभ्यां पैत्तिके ग्रहणीगदे ॥ (४०।२)

kṣaudrataṇḍulavāribhyāṃ paittike grahaṇīgade ||

41.1४१.१

प्रवाहिकार्शोगुदरुग्रक्तोत्थानेषु चेष्यते । (४१।१)

pravāhikārśogudarugraktotthāneṣu ceṣyate |

41.2४१.२

चन्दनं पद्मकोशीरं पाठां मूर्वां कुटन्नटम् ॥ (४१।२)

candanaṃ padmakośīraṃ pāṭhāṃ mūrvāṃ kuṭannaṭam ||

42.1४२.१

षड्ग्रन्थाशारिवास्फोतासप्तपर्णाटरूषकान् । (४२।१)

ṣaḍgranthāśārivāsphotāsaptaparṇāṭarūṣakān |

42.2४२.२

पटोलोदुम्बराश्वत्थवटप्लक्षकपीतनान् ॥ (४२।२)

paṭolodumbarāśvatthavaṭaplakṣakapītanān ||

43.1४३.१

कटुकां रोहिणीं मुस्तां निम्बं च द्विपलांशकान् । (४३।१)

kaṭukāṃ rohiṇīṃ mustāṃ nimbaṃ ca dvipalāṃśakān |

43.2४३.२

द्रोणे ऽपां साधयेत् तेन पचेत् सर्पिः पिचून्मितैः ॥ (४३।२)

droṇe 'pāṃ sādhayet tena pacet sarpiḥ picūnmitaiḥ ||

44.1४४.१

किराततिक्तेन्द्रयववीरामागधिकोत्पलैः । (४४।१)

kirātatiktendrayavavīrāmāgadhikotpalaiḥ |

44.2४४.२

पित्तग्रहण्यां तत् पेयं कुष्ठोक्तं तिक्तकं च यत् ॥ (४४।२)

pittagrahaṇyāṃ tat peyaṃ kuṣṭhoktaṃ tiktakaṃ ca yat ||

45.1४५.१

ग्रहण्यां श्लेष्मदुष्टायां तीक्ष्णैः प्रच्छर्दने कृते । (४५।१)

grahaṇyāṃ śleṣmaduṣṭāyāṃ tīkṣṇaiḥ pracchardane kṛte |

45.2४५.२

कट्वम्ललवणक्षारैः क्रमाद् अग्निं विवर्धयेत् ॥ (४५।२)

kaṭvamlalavaṇakṣāraiḥ kramād agniṃ vivardhayet ||

46.1४६.१

पञ्चकोलाभयाधान्यपाठागन्धपलाशकैः । (४६।१)

pañcakolābhayādhānyapāṭhāgandhapalāśakaiḥ |

46.2४६.२

बीजपूरप्रगाढैश्च सिद्धैः पेयादि कल्पयेत् ॥ (४६।२)

bījapūrapragāḍhaiśca siddhaiḥ peyādi kalpayet ||

47.1४७.१

द्रोणं मधूकपुष्पाणां विडङ्गं च ततो ऽर्धतः । (४७।१)

droṇaṃ madhūkapuṣpāṇāṃ viḍaṅgaṃ ca tato 'rdhataḥ |

47.2४७.२

चित्रकस्य ततो ऽर्धं च तथा भल्लातकाढकम् ॥ (४७।२)

citrakasya tato 'rdhaṃ ca tathā bhallātakāḍhakam ||

48.1४८.१

मञ्जिष्ठाष्टपलं चैतज् जलद्रोणत्रये पचेत् । (४८।१)

mañjiṣṭhāṣṭapalaṃ caitaj jaladroṇatraye pacet |

48.2४८.२

द्रोणशेषं शृतं शीतं मध्वर्धाढकसंयुतम् ॥ (४८।२)

droṇaśeṣaṃ śṛtaṃ śītaṃ madhvardhāḍhakasaṃyutam ||

49.1४९.१

एलामृणालागुरुभिश्चन्दनेन च रूषिते । (४९।१)

elāmṛṇālāgurubhiścandanena ca rūṣite |

49.2४९.२

कुम्भे मासं स्थितं जातम् आसवं तं प्रयोजयेत् ॥ (४९।२)

kumbhe māsaṃ sthitaṃ jātam āsavaṃ taṃ prayojayet ||

50.1५०.१

ग्रहणीं दीपयत्येष बृंहणः पित्तरक्तनुत् । (५०।१)

grahaṇīṃ dīpayatyeṣa bṛṃhaṇaḥ pittaraktanut |

50.2५०.२

शोषकुष्ठकिलासानां प्रमेहाणां च नाशनः ॥ (५०।२)

śoṣakuṣṭhakilāsānāṃ pramehāṇāṃ ca nāśanaḥ ||

51.1५१.१

मधूकपुष्पस्वरसं शृतम् अर्धक्षयीकृतम् । (५१।१)

madhūkapuṣpasvarasaṃ śṛtam ardhakṣayīkṛtam |

51.2५१.२

क्षौद्रपादयुतं शीतं पूर्ववत् संनिधापयेत् ॥ (५१।२)

kṣaudrapādayutaṃ śītaṃ pūrvavat saṃnidhāpayet ||

52.1५२.१

तत् पिबन् ग्रहणीदोषान् जयेत् सर्वान् हिताशनः । (५२।१)

tat piban grahaṇīdoṣān jayet sarvān hitāśanaḥ |

52.2५२.२

तद्वद् द्राक्षेक्षुखर्जूरस्वरसान् आसुतान् पिबेत् ॥ (५२।२)

tadvad drākṣekṣukharjūrasvarasān āsutān pibet ||

53.1५३.१

हिङ्गुतिक्तावचामाद्रीपाठेन्द्रयवगोक्षुरम् । (५३।१)

hiṅgutiktāvacāmādrīpāṭhendrayavagokṣuram |

53.2५३.२

पञ्चकोलं च कर्षांशं पलांशं पटुपञ्चकम् ॥ (५३।२)

pañcakolaṃ ca karṣāṃśaṃ palāṃśaṃ paṭupañcakam ||

54.1५४.१

घृततैलद्विकुडवे दध्नः प्रस्थद्वये च तत् । (५४।१)

ghṛtatailadvikuḍave dadhnaḥ prasthadvaye ca tat |

54.2५४.२

आपोथ्य क्वाथयेद् अग्नौ मृदावनुगते रसे ॥ (५४।२)

āpothya kvāthayed agnau mṛdāvanugate rase ||

55.1५५.१

अन्तर्धूमं ततो दग्ध्वा चूर्णीकृत्य घृताप्लुतम् । (५५।१)

antardhūmaṃ tato dagdhvā cūrṇīkṛtya ghṛtāplutam |

55.2५५.२

पिबेत् पाणितलं तस्मिञ् जीर्णे स्यान् मधुराशनः ॥ (५५।२)

pibet pāṇitalaṃ tasmiñ jīrṇe syān madhurāśanaḥ ||

56.1५६.१

वातश्लेष्मामयान् सर्वान् हन्याद् विषगरांश्च सः । (५६।१)

vātaśleṣmāmayān sarvān hanyād viṣagarāṃśca saḥ |

56.2५६.२

भूनिम्बं रोहिणीं तिक्तां पटोलं निम्बपर्पटम् ॥ (५६।२)

bhūnimbaṃ rohiṇīṃ tiktāṃ paṭolaṃ nimbaparpaṭam ||

57.1५७.१

दग्ध्वा माहिषमूत्रेण पिबेद् अग्निविवर्धनम् । (५७।१)

dagdhvā māhiṣamūtreṇa pibed agnivivardhanam |

57.2५७.२

द्वे हरिद्रे वचा कुष्ठं चित्रकः कटुरोहिणी ॥ (५७।२)

dve haridre vacā kuṣṭhaṃ citrakaḥ kaṭurohiṇī ||

58.1५८.१

मुस्ता च छागमूत्रेण सिद्धः क्षारो ऽग्निवर्धनः । (५८।१)

mustā ca chāgamūtreṇa siddhaḥ kṣāro 'gnivardhanaḥ |

58.2५८.२

चतुःपलं सुधाकाण्डात् त्रिपलं लवणत्रयात् ॥ (५८।२)

catuḥpalaṃ sudhākāṇḍāt tripalaṃ lavaṇatrayāt ||

59.1५९.१

वार्ताककुडवं चार्काद् अष्टौ द्वे चित्रकात् पले । (५९।१)

vārtākakuḍavaṃ cārkād aṣṭau dve citrakāt pale |

59.2५९.२

दग्ध्वा रसेन वार्ताकाद् गुटिका भोजनोत्तराः ॥ (५९।२)

dagdhvā rasena vārtākād guṭikā bhojanottarāḥ ||

60.1६०.१

भुक्तम् अन्नं पचन्त्याशु कासश्वासार्शसां हिताः । (६०।१)

bhuktam annaṃ pacantyāśu kāsaśvāsārśasāṃ hitāḥ |

60.2६०.२

विषूचिकाप्रतिश्यायहृद्रोगशमनाश्च ताः ॥ (६०।२)

viṣūcikāpratiśyāyahṛdrogaśamanāśca tāḥ ||

61.1६१.१

मातुलुङ्गशठीरास्नाकटुत्रयहरीतकि । (६१।१)

mātuluṅgaśaṭhīrāsnākaṭutrayaharītaki |

61.2६१.२

स्वर्जिकायावशूकाख्यौ क्षारौ पञ्चपटूनि च ॥ (६१।२)

svarjikāyāvaśūkākhyau kṣārau pañcapaṭūni ca ||

62.1६२.१

सुखाम्बुपीतं तच्चूर्णं बलवर्णाग्निवर्धनम् । (६२।१)

sukhāmbupītaṃ taccūrṇaṃ balavarṇāgnivardhanam |

62.2६२.२

श्लैष्मिके ग्रहणीदोषे सवाते तैर् घृतं पचेत् ॥ (६२।२)

ślaiṣmike grahaṇīdoṣe savāte tair ghṛtaṃ pacet ||

63.1६३.१

धान्वन्तरं षट्पलं च भल्लातकघृताभयम् । (६३।१)

dhānvantaraṃ ṣaṭpalaṃ ca bhallātakaghṛtābhayam |

63.2६३.२

विडकाचोषलवणस्वर्जिकायावशूकजान् ॥ (६३।२)

viḍakācoṣalavaṇasvarjikāyāvaśūkajān ||

64.1६४.१

सप्तलां कण्टकारीं च चित्रकं चैकतो दहेत् । (६४।१)

saptalāṃ kaṇṭakārīṃ ca citrakaṃ caikato dahet |

64.2६४.२

सप्तकृत्वः स्रुतस्यास्य क्षारस्यार्धाढके पचेत् ॥ (६४।२)

saptakṛtvaḥ srutasyāsya kṣārasyārdhāḍhake pacet ||

65.1६५.१

आढकं सर्पिषः पेयं तद् अग्निबलवृद्धये । (६५।१)

āḍhakaṃ sarpiṣaḥ peyaṃ tad agnibalavṛddhaye |

65.2६५.२

निचये पञ्च कर्माणि युञ्ज्याच्चैतद् यथाबलम् ॥ (६५।२)

nicaye pañca karmāṇi yuñjyāccaitad yathābalam ||

66.1६६.१

प्रसेके श्लैष्मिके ऽल्पाग्नेर् दीपनं रूक्षतिक्तकम् । (६६।१)

praseke ślaiṣmike 'lpāgner dīpanaṃ rūkṣatiktakam |

66.2६६.२

योज्यं कृशस्य व्यत्यासात् स्निग्धरूक्षं कफोदये ॥ (६६।२)

yojyaṃ kṛśasya vyatyāsāt snigdharūkṣaṃ kaphodaye ||

67.1६७.१

क्षीणक्षामशरीरस्य दीपनं स्नेहसंयुतम् । (६७।१)

kṣīṇakṣāmaśarīrasya dīpanaṃ snehasaṃyutam |

67.2६७.२

दीपनं बहुपित्तस्य तिक्तं मधुरकैर् युतम् ॥ (६७।२)

dīpanaṃ bahupittasya tiktaṃ madhurakair yutam ||

68.1६८.१

स्नेहो ऽम्ललवणैर् युक्तो बहुवातस्य शस्यते । (६८।१)

sneho 'mlalavaṇair yukto bahuvātasya śasyate |

68.2६८.२

स्नेहम् एव परं विद्याद् दुर्बलानलदीपनम् ॥ (६८।२)

sneham eva paraṃ vidyād durbalānaladīpanam ||

69.1६९.१

नालं स्नेहसमिद्धस्य शमायान्नं सुगुर्वपि । (६९।१)

nālaṃ snehasamiddhasya śamāyānnaṃ sugurvapi |

69.2६९.२

यो ऽल्पाग्नित्वात् कफे क्षीणे वर्चः पक्वम् अपि श्लथम् ॥ (६९।२)

yo 'lpāgnitvāt kaphe kṣīṇe varcaḥ pakvam api ślatham ||

70.1७०.१

मुञ्चेत् पट्वौषधयुतं स पिबेद् अल्पशो घृतम् । (७०।१)

muñcet paṭvauṣadhayutaṃ sa pibed alpaśo ghṛtam |

70.2७०.२

तेन स्वमार्गम् आनीतः स्वकर्मणि नियोजितः ॥ (७०।२)

tena svamārgam ānītaḥ svakarmaṇi niyojitaḥ ||

71.1७१.१

समानो दीपयत्यग्निम् अग्नेः संधुक्षको हि सः । (७१।१)

samāno dīpayatyagnim agneḥ saṃdhukṣako hi saḥ |

71.2७१.२

पुरीषं यश्च कृच्छ्रेण कठिनत्वाद् विमुञ्चति ॥ (७१।२)

purīṣaṃ yaśca kṛcchreṇa kaṭhinatvād vimuñcati ||

72.1७२.१

स घृतं लवणैर् युक्तं नरो ऽन्नावग्रहं पिबेत् । (७२।१)

sa ghṛtaṃ lavaṇair yuktaṃ naro 'nnāvagrahaṃ pibet |

72.2७२.२

रौक्ष्यान् मन्दे ऽनले सर्पिस् तैलं वा दीपनैः पिबेत् ॥ (७२।२)

raukṣyān mande 'nale sarpis tailaṃ vā dīpanaiḥ pibet ||

73.1७३.१

क्षारचूर्णासवारिष्टान् मन्दे स्नेहातिपानतः । (७३।१)

kṣāracūrṇāsavāriṣṭān mande snehātipānataḥ |

73.2७३.२

उदावर्तात् तु योक्तव्या निरूहस्नेहवस्तयः ॥ (७३।२)

udāvartāt tu yoktavyā nirūhasnehavastayaḥ ||

74.1७४.१

दोषातिवृद्ध्या मन्दे ऽग्नौ संशुद्धो ऽन्नविधिं चरेत् । (७४।१)

doṣātivṛddhyā mande 'gnau saṃśuddho 'nnavidhiṃ caret |

74.2७४.२

व्याधिमुक्तस्य मन्दे ऽग्नौ सर्पिरेव तु दीपनम् ॥ (७४।२)

vyādhimuktasya mande 'gnau sarpireva tu dīpanam ||

75.1७५.१

अध्वोपवासक्षामत्वैर् यवाग्वा पाययेद् घृतम् । (७५।१)

adhvopavāsakṣāmatvair yavāgvā pāyayed ghṛtam |

75.2७५.२

अन्नावपीडितं बल्यं दीपनं बृंहणं च तत् ॥ (७५।२)

annāvapīḍitaṃ balyaṃ dīpanaṃ bṛṃhaṇaṃ ca tat ||

76.1७६.१

दीर्घकालप्रसङ्गात् तु क्षामक्षीणकृशान् नरान् । (७६।१)

dīrghakālaprasaṅgāt tu kṣāmakṣīṇakṛśān narān |

76.2७६.२

प्रसहानां रसैः साम्लैर् भोजयेत् पिशिताशिनाम् ॥ (७६।२)

prasahānāṃ rasaiḥ sāmlair bhojayet piśitāśinām ||

77.1७७.१

लघूष्णकटुशोधित्वाद् दीपयन्त्याशु ते ऽनलम् । (७७।१)

laghūṣṇakaṭuśodhitvād dīpayantyāśu te 'nalam |

77.2७७.२

मांसोपचितमांसत्वात् परं च बलवर्धनाः ॥ (७७।२)

māṃsopacitamāṃsatvāt paraṃ ca balavardhanāḥ ||

78.1७८.१

स्नेहासवसुरारिष्टचूर्णक्वाथहिताशनैः । (७८।१)

snehāsavasurāriṣṭacūrṇakvāthahitāśanaiḥ |

78.2७८.२

सम्यक्प्रयुक्तैर् देहस्य बलम् अग्नेश्च वर्धते ॥ (७८।२)

samyakprayuktair dehasya balam agneśca vardhate ||

79.1७९.१

दीप्तो यथैव स्थाणुश्च बाह्यो ऽग्निः सारदारुभिः । (७९।१)

dīpto yathaiva sthāṇuśca bāhyo 'gniḥ sāradārubhiḥ |

79.2७९.२

सस्नेहैर् जायते तद्वद् आहारैः कोष्ठगो ऽनलः ॥ (७९।२)

sasnehair jāyate tadvad āhāraiḥ koṣṭhago 'nalaḥ ||

80.1८०.१

नाभोजनेन कायाग्निर् दीप्यते नातिभोजनात् । (८०।१)

nābhojanena kāyāgnir dīpyate nātibhojanāt |

80.2८०.२

यथा निरिन्धनो वह्निरल्पो वातीन्धनावृतः ॥ (८०।२)

yathā nirindhano vahniralpo vātīndhanāvṛtaḥ ||

81.1८१.१

यदा क्षीणे कफे पित्तं स्वस्थाने पवनानुगम् । (८१।१)

yadā kṣīṇe kaphe pittaṃ svasthāne pavanānugam |

81.2८१.२

प्रवृद्धं वर्धयत्यग्निं तदासौ सानिलो ऽनलः ॥ (८१।२)

pravṛddhaṃ vardhayatyagniṃ tadāsau sānilo 'nalaḥ ||

82.1८२.१

पक्त्वान्नम् आशु धातूंश्च सर्वान् ओजश्च संक्षिपन् । (८२।१)

paktvānnam āśu dhātūṃśca sarvān ojaśca saṃkṣipan |

82.2८२.२

मारयेत् स्यात् स ना स्वस्थो भुक्ते जीर्णे तु ताम्यति ॥ (८२।२)

mārayet syāt sa nā svastho bhukte jīrṇe tu tāmyati ||

83.1८३.१

तृट्कासदाहमूर्छाद्या व्याधयो ऽत्यग्निसंभवाः । (८३।१)

tṛṭkāsadāhamūrchādyā vyādhayo 'tyagnisaṃbhavāḥ |

83.2८३.२

तम् अत्यग्निं गुरुस्निग्धमन्दसान्द्रहिमस्थिरैः ॥ (८३।२)

tam atyagniṃ gurusnigdhamandasāndrahimasthiraiḥ ||

84.1८४.१

अन्नपानैर् नयेच्छान्तिं दीप्तम् अग्निम् इवाम्बुभिः । (८४।१)

annapānair nayecchāntiṃ dīptam agnim ivāmbubhiḥ |

84.2८४.२

मुहुर् मुहुरजीर्णे ऽपि भोज्यान्यस्योपहारयेत् ॥ (८४।२)

muhur muhurajīrṇe 'pi bhojyānyasyopahārayet ||

85.1८५.१

निरिन्धनो ऽन्तरं लब्ध्वा यथैनं न विपादयेत् । (८५।१)

nirindhano 'ntaraṃ labdhvā yathainaṃ na vipādayet |

85.2८५.२

कृशरां पायसं स्निग्धं पैष्टिकं गुडवैकृतम् ॥ (८५।२)

kṛśarāṃ pāyasaṃ snigdhaṃ paiṣṭikaṃ guḍavaikṛtam ||

86.1८६.१

अश्नीयाद् औदकानूपपिशितानि भृतानि च । (८६।१)

aśnīyād audakānūpapiśitāni bhṛtāni ca |

86.2८६.२

मत्स्यान् विशेषतः श्लक्ष्णान् स्थिरतोयचराश्च ये ॥ (८६।२)

matsyān viśeṣataḥ ślakṣṇān sthiratoyacarāśca ye ||

87.1८७.१

आविकं सुभृतं मांसम् अद्याद् अत्यग्निवारणम् । (८७।१)

āvikaṃ subhṛtaṃ māṃsam adyād atyagnivāraṇam |

87.2८७.२

पयः सहमधूच्छिष्टं घृतं वा तृषितः पिबेत् ॥ (८७।२)

payaḥ sahamadhūcchiṣṭaṃ ghṛtaṃ vā tṛṣitaḥ pibet ||

88.1८८.१

गोधूमचूर्णं पयसा बहुसर्पिःपरिप्लुतम् । (८८।१)

godhūmacūrṇaṃ payasā bahusarpiḥpariplutam |

88.2८८.२

आनूपरसयुक्तान् वा स्नेहांस् तैलविवर्जितान् ॥ (८८।२)

ānūparasayuktān vā snehāṃs tailavivarjitān ||

89.1८९.१

श्यामात्रिवृद्विपक्वं वा पयो दद्याद् विरेचनम् । (८९।१)

śyāmātrivṛdvipakvaṃ vā payo dadyād virecanam |

89.2८९.२

असकृत् पित्तहरणं पायसप्रतिभोजनम् ॥ (८९।२)

asakṛt pittaharaṇaṃ pāyasapratibhojanam ||

90.1९०.१

यत् किंचिद् गुरु मेद्यं च श्लेष्मकारि च भोजनम् । (९०।१)

yat kiṃcid guru medyaṃ ca śleṣmakāri ca bhojanam |

90.2९०.२

सर्वं तद् अत्यग्निहितं भुक्त्वा च स्वपनं दिवा ॥ (९०।२)

sarvaṃ tad atyagnihitaṃ bhuktvā ca svapanaṃ divā ||

91.1९१.१

आहारम् अग्निः पचति दोषान् आहारवर्जितः । (९१।१)

āhāram agniḥ pacati doṣān āhāravarjitaḥ |

91.2९१.२

धातून् क्षीणेषु दोषेषु जीवितं धातुसंक्षये ॥ (९१।२)

dhātūn kṣīṇeṣu doṣeṣu jīvitaṃ dhātusaṃkṣaye ||

92.1९२.१

एतत् प्रकृत्यैव विरुद्धम् अन्नं संयोगसंस्कारवशेन चेदम् । (९२।१)

etat prakṛtyaiva viruddham annaṃ saṃyogasaṃskāravaśena cedam |

92.2९२.२

इत्यादि अविज्ञाय यथेष्टचेष्टाश्चरन्ति यत् साग्निबलस्य शक्तिः ॥ (९२।२)

ityādi avijñāya yatheṣṭaceṣṭāścaranti yat sāgnibalasya śaktiḥ ||

93.1९३.१

तस्माद् अग्निं पालयेत् सर्वयत्नैस् तस्मिन् नष्टे याति ना नाशम् एव । (९३।१)

tasmād agniṃ pālayet sarvayatnais tasmin naṣṭe yāti nā nāśam eva |

93.2९३.२

दोषैर् ग्रस्ते ग्रस्यते रोगसंघैर् युक्ते तु स्यान् नीरुजो दीर्घजीवी ॥ (९३।२)

doṣair graste grasyate rogasaṃghair yukte tu syān nīrujo dīrghajīvī ||

Data courtesy of The Digital Corpus of Sanskrit.

AHS, 4, 10

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit