अष्टाङ्गहृदयसंहिताAṣṭāṅgahṛdayasaṃhitā
AHS, 6, 9
Select a line for its word-by-word analysis.
कृच्छ्रोन्मीले पुराणाज्यं द्राक्षाकल्काम्बुसाधितम् । (१।३)
kṛcchronmīle purāṇājyaṃ drākṣākalkāmbusādhitam |
ससितं योजयेत् स्निग्धं नस्यधूमाञ्जनादि च ॥ (१।४)
sasitaṃ yojayet snigdhaṃ nasyadhūmāñjanādi ca ||
कुम्भीकावर्त्म लिखितं सैन्धवप्रतिसारितम् । (२।१)
kumbhīkāvartma likhitaṃ saindhavapratisāritam |
निवाते ऽधिष्ठितस्याप्तैः शुद्धस्योत्तानशायिनः । (३।१)
nivāte 'dhiṣṭhitasyāptaiḥ śuddhasyottānaśāyinaḥ |
बहिः कोष्णाम्बुतप्तेन स्वेदितं वर्त्म वाससा ॥ (३।२)
bahiḥ koṣṇāmbutaptena sveditaṃ vartma vāsasā ||
निर्भुज्य वस्त्रान्तरितं वामाङ्गुष्ठाङ्गुलीघृतम् । (४।१)
nirbhujya vastrāntaritaṃ vāmāṅguṣṭhāṅgulīghṛtam |
न स्रंसते चलति वा वर्त्मैवं सर्वतस् ततः ॥ (४।२)
na sraṃsate calati vā vartmaivaṃ sarvatas tataḥ ||
मण्डलाग्रेण तत् तिर्यक् कृत्वा शस्त्रपदाङ्कितम् । (५।१)
maṇḍalāgreṇa tat tiryak kṛtvā śastrapadāṅkitam |
लिखेत् तेनैव पत्त्रैर् वा शाकशेफालिकादिजैः ॥ (५।२)
likhet tenaiva pattrair vā śākaśephālikādijaiḥ ||
फेनेन तोयराशेर् वा पिचुना प्रमृजन्न् असृक् । (६।१)
phenena toyarāśer vā picunā pramṛjann asṛk |
स्थिते रक्ते सुलिखितं सक्षौद्रैः प्रतिसारयेत् ॥ (६।२)
sthite rakte sulikhitaṃ sakṣaudraiḥ pratisārayet ||
यथास्वम् उक्तैरनु च प्रक्षाल्योष्णेन वारिणा । (७।१)
yathāsvam uktairanu ca prakṣālyoṣṇena vāriṇā |
घृतेन सिक्तम् अभ्यक्तं बध्नीयान् मधुसर्पिषा ॥ (७।२)
ghṛtena siktam abhyaktaṃ badhnīyān madhusarpiṣā ||
ऊर्ध्वाधः कर्णयोर् दत्त्वा पिण्डीं च यवसक्तुभिः । (८।१)
ūrdhvādhaḥ karṇayor dattvā piṇḍīṃ ca yavasaktubhiḥ |
कुर्याच्चतुर्थे नस्यादीन् मुञ्चेद् एवाह्नि पञ्चमे । (९।१)
kuryāccaturthe nasyādīn muñced evāhni pañcame |
विद्यात् सुलिखितं वर्त्म लिखेद् भूयो विपर्यये । (१०।१)
vidyāt sulikhitaṃ vartma likhed bhūyo viparyaye |
रुक्पक्ष्मवर्त्मसदनस्रंसनान्यतिलेखनात् ॥ (१०।२)
rukpakṣmavartmasadanasraṃsanānyatilekhanāt ||
स्नेहस्वेदादिकस् तस्मिन्न् इष्टो वातहरः क्रमः । (११।१)
snehasvedādikas tasminn iṣṭo vātaharaḥ kramaḥ |
अभ्यज्य नवनीतेन श्वेतलोध्रं प्रलेपयेत् ॥ (११।२)
abhyajya navanītena śvetalodhraṃ pralepayet ||
स्विन्नं प्रक्षालितं शुष्कं चूर्णितं पोटलीकृतम् ॥ (१२।२)
svinnaṃ prakṣālitaṃ śuṣkaṃ cūrṇitaṃ poṭalīkṛtam ||
स्त्रियाः क्षीरे छगल्या वा मृदितं नेत्रसेचनम् । (१३।१)
striyāḥ kṣīre chagalyā vā mṛditaṃ netrasecanam |
शालितण्डुलकल्केन लिप्तं तद्वत् परिष्कृतम् ॥ (१३।२)
śālitaṇḍulakalkena liptaṃ tadvat pariṣkṛtam ||
कुर्यान् नेत्रे ऽतिलिखिते मृदितं दधिमस्तुना । (१४।१)
kuryān netre 'tilikhite mṛditaṃ dadhimastunā |
पिटिका व्रीहिवक्त्रेण भित्त्वा तु कठिनोन्नताः । (१५।१)
piṭikā vrīhivaktreṇa bhittvā tu kaṭhinonnatāḥ |
निष्पीडयेद् अनु विधिः परिशेषस् तु पूर्ववत् ॥ (१५।२)
niṣpīḍayed anu vidhiḥ pariśeṣas tu pūrvavat ||
लेखने भेदने चायं क्रमः सर्वत्र वर्त्मनि । (१६।१)
lekhane bhedane cāyaṃ kramaḥ sarvatra vartmani |
पित्तास्रोत्क्लिष्टयोः स्वादुस्कन्धसिद्धेन सर्पिषा ॥ (१६।२)
pittāsrotkliṣṭayoḥ svāduskandhasiddhena sarpiṣā ||
सिराविमोक्षः स्निग्धस्य त्रिवृच्छ्रेष्ठं विरेचनम् । (१७।१)
sirāvimokṣaḥ snigdhasya trivṛcchreṣṭhaṃ virecanam |
लिखिते स्रुतरक्ते च वर्त्मनि क्षालनं हितम् ॥ (१७।२)
likhite srutarakte ca vartmani kṣālanaṃ hitam ||
यष्टीकषायः सेकस् तु क्षीरं चन्दनसाधितम् । (१८।१)
yaṣṭīkaṣāyaḥ sekas tu kṣīraṃ candanasādhitam |
पक्ष्मणां सदने सूच्या रोमकूपान् विकुट्टयेत् ॥ (१८।२)
pakṣmaṇāṃ sadane sūcyā romakūpān vikuṭṭayet ||
संचूर्ण्य पुष्पकासीसं भावयेत् सुरसारसैः । (२०।१)
saṃcūrṇya puṣpakāsīsaṃ bhāvayet surasārasaiḥ |
ताम्रे दशाहं परमं पक्ष्मशाते तद् अञ्जनम् ॥ (२०।२)
tāmre daśāhaṃ paramaṃ pakṣmaśāte tad añjanam ||
पोथकीर् लिखिताः शुण्ठीसैन्धवप्रतिसारिताः । (२१।१)
pothakīr likhitāḥ śuṇṭhīsaindhavapratisāritāḥ |
उष्णाम्बुक्षालिताः सिञ्चेत् खदिराढकिशिग्रुभिः ॥ (२१।२)
uṣṇāmbukṣālitāḥ siñcet khadirāḍhakiśigrubhiḥ ||
अप्सिद्धैर् द्विनिशाश्रेष्ठामधुकैर् वा समाक्षिकैः । (२२।१)
apsiddhair dviniśāśreṣṭhāmadhukair vā samākṣikaiḥ |
कफोत्क्लिष्टे विलिखिते सक्षौद्रैः प्रतिसारणम् ॥ (२२।२)
kaphotkliṣṭe vilikhite sakṣaudraiḥ pratisāraṇam ||
सूक्ष्मैः सैन्धवकासीसमनोह्वाकणतार्क्ष्यजैः । (२३।१)
sūkṣmaiḥ saindhavakāsīsamanohvākaṇatārkṣyajaiḥ |
कर्तव्यं लगणे ऽप्येतद् अशान्तावग्निना दहेत् । (२४।१)
kartavyaṃ lagaṇe 'pyetad aśāntāvagninā dahet |
कुकूणे खदिरश्रेष्ठानिम्बपत्त्रशृतं घृतम् ॥ (२४।२)
kukūṇe khadiraśreṣṭhānimbapattraśṛtaṃ ghṛtam ||
पीत्वा धात्री वमेत् कृष्णायष्टीसर्षपसैन्धवैः । (२५।१)
pītvā dhātrī vamet kṛṣṇāyaṣṭīsarṣapasaindhavaiḥ |
अभयापिप्पलीद्राक्षाक्वाथेनैनां विरेचयेत् ॥ (२५।२)
abhayāpippalīdrākṣākvāthenaināṃ virecayet ||
धूपयेत् सर्षपैः साज्यैः शुद्धां क्वाथं च पाययेत् ॥ (२६।२)
dhūpayet sarṣapaiḥ sājyaiḥ śuddhāṃ kvāthaṃ ca pāyayet ||
शिशोस् तु लिखितं वर्त्म स्रुतासृग् वाम्बुजन्मभिः ॥ (२७।२)
śiśos tu likhitaṃ vartma srutāsṛg vāmbujanmabhiḥ ||
धात्र्यश्मन्तकजम्बूत्थपत्त्रक्वाथेन सेचयेत् । (२८।१)
dhātryaśmantakajambūtthapattrakvāthena secayet |
प्रायः क्षीरघृताशित्वाद् बालानां श्लेष्मजा गदाः ॥ (२८।२)
prāyaḥ kṣīraghṛtāśitvād bālānāṃ śleṣmajā gadāḥ ||
तस्माद् वमनम् एवाग्रे सर्वव्याधिषु पूजितम् । (२९।१)
tasmād vamanam evāgre sarvavyādhiṣu pūjitam |
सिन्धूत्थकृष्णापामार्गबीजाज्यस्तन्यमाक्षिकम् ॥ (२९।२)
sindhūtthakṛṣṇāpāmārgabījājyastanyamākṣikam ||
चूर्णो वचायाः सक्षौद्रो मदनं मधुकान्वितम् । (३०।१)
cūrṇo vacāyāḥ sakṣaudro madanaṃ madhukānvitam |
क्षीरं क्षीरान्नम् अन्नं च भजतः क्रमतः शिशोः ॥ (३०।२)
kṣīraṃ kṣīrānnam annaṃ ca bhajataḥ kramataḥ śiśoḥ ||
सप्तलारससिद्धाज्यं योज्यं चोभयशोधनम् ॥ (३१।२)
saptalārasasiddhājyaṃ yojyaṃ cobhayaśodhanam ||
द्विनिशालोध्रयष्ट्याह्वरोहिणीनिम्बपल्लवैः । (३२।१)
dviniśālodhrayaṣṭyāhvarohiṇīnimbapallavaiḥ |
कुकूणके हिता वर्तिः पिष्टैस् ताम्ररजोऽन्वितैः ॥ (३२।२)
kukūṇake hitā vartiḥ piṣṭais tāmrarajo'nvitaiḥ ||
क्षीरक्षौद्रघृतोपेतं दग्धं वा लोहजं रजः । (३३।१)
kṣīrakṣaudraghṛtopetaṃ dagdhaṃ vā lohajaṃ rajaḥ |
वर्तिः कुकूणपोथक्योः सुरापिष्टैः सकट्फलैः । (३४।१)
vartiḥ kukūṇapothakyoḥ surāpiṣṭaiḥ sakaṭphalaiḥ |
पक्ष्मरोधे प्रवृद्धेषु शुद्धदेहस्य रोमसु ॥ (३४।२)
pakṣmarodhe pravṛddheṣu śuddhadehasya romasu ||
उत्सृज्य द्वौ भ्रुवो ऽधस्ताद् भागौ भागं च पक्ष्मतः । (३५।१)
utsṛjya dvau bhruvo 'dhastād bhāgau bhāgaṃ ca pakṣmataḥ |
यवमात्रं यवाकारं तिर्यक् छित्त्वार्द्रवाससा ॥ (३५।२)
yavamātraṃ yavākāraṃ tiryak chittvārdravāsasā ||
सीव्येत् कुटिलया सूच्या मुद्गमात्रान्तरैः पदैः ॥ (३६।२)
sīvyet kuṭilayā sūcyā mudgamātrāntaraiḥ padaiḥ ||
बद्ध्वा ललाटे पट्टं च तत्र सीवनसूत्रकम् । (३७।१)
baddhvā lalāṭe paṭṭaṃ ca tatra sīvanasūtrakam |
नातिगाढश्लथं सूच्या निक्षिपेद् अथ योजयेत् ॥ (३७।२)
nātigāḍhaślathaṃ sūcyā nikṣiped atha yojayet ||
मधुसर्पिःकवलिकां न चास्मिन् बन्धम् आचरेत् । (३८।१)
madhusarpiḥkavalikāṃ na cāsmin bandham ācaret |
न्यग्रोधादिकषायैश्च सक्षीरैः सेचयेद् रुजि ॥ (३८।२)
nyagrodhādikaṣāyaiśca sakṣīraiḥ secayed ruji ||
गैरिकेण व्रणं युञ्ज्यात् तीक्ष्णं नस्याञ्जनादि च ॥ (३९।२)
gairikeṇa vraṇaṃ yuñjyāt tīkṣṇaṃ nasyāñjanādi ca ||
दहेद् अशान्तौ निर्भुज्य वर्त्मदोषाश्रयां वलीम् । (४०।१)
dahed aśāntau nirbhujya vartmadoṣāśrayāṃ valīm |
संदंशेनाधिकं पक्ष्म हृत्वा तस्याश्रयं दहेत् ॥ (४०।२)
saṃdaṃśenādhikaṃ pakṣma hṛtvā tasyāśrayaṃ dahet ||
सूच्यग्रेणाग्निवर्णेन दाहो बाह्यालजेः पुनः । (४१।१)
sūcyagreṇāgnivarṇena dāho bāhyālajeḥ punaḥ |
भिन्नस्य क्षारवह्निभ्यां सुच्छिन्नस्यार्बुदस्य च ॥ (४१।२)
bhinnasya kṣāravahnibhyāṃ succhinnasyārbudasya ca ||
Data courtesy of The Digital Corpus of Sanskrit.