अष्टाङ्गहृदयसंहिताAṣṭāṅgahṛdayasaṃhitā

AHS, 6, 18

98 of 120 · 134 verses

Select a line for its word-by-word analysis.

1.1१.१

अथातः कर्णरोगप्रतिषेधं व्याख्यास्यामः । (१।१)

athātaḥ karṇarogapratiṣedhaṃ vyākhyāsyāmaḥ |

1.2१.२

इति ह स्माहुर् आत्रेयादयो महर्षयः । (१।२)

iti ha smāhur ātreyādayo maharṣayaḥ |

1.3१.३

कर्णशूले पवनजे पिबेद् रात्रौ रसाशितः । (१।३)

karṇaśūle pavanaje pibed rātrau rasāśitaḥ |

1.4१.४

वातघ्नसाधितं सर्पिः कर्णं स्विन्नं च पूरयेत् ॥ (१।४)

vātaghnasādhitaṃ sarpiḥ karṇaṃ svinnaṃ ca pūrayet ||

2.1२.१

पत्त्राणां पृथग् अश्वत्थबिल्वार्कैरण्डजन्मनाम् । (२।१)

pattrāṇāṃ pṛthag aśvatthabilvārkairaṇḍajanmanām |

2.2२.२

तैलसिन्धूत्थदिग्धानां स्विन्नानां पुटपाकतः ॥ (२।२)

tailasindhūtthadigdhānāṃ svinnānāṃ puṭapākataḥ ||

3.1३.१

रसैः कवोष्णैस्तद्वच्च मूलकस्यारलोरपि । (३।१)

rasaiḥ kavoṣṇaistadvacca mūlakasyāralorapi |

3.2३.२

गणे वातहरे ऽम्लेषु मूत्रेषु च विपाचितः ॥ (३।२)

gaṇe vātahare 'mleṣu mūtreṣu ca vipācitaḥ ||

4.1४.१

महास्नेहो द्रुतं हन्ति सुतीव्राम् अपि वेदनाम् । (४।१)

mahāsneho drutaṃ hanti sutīvrām api vedanām |

4.2४.२

महतः पञ्चमूलस्य काष्ठात् क्षौमेण वेष्टितात् ॥ (४।२)

mahataḥ pañcamūlasya kāṣṭhāt kṣaumeṇa veṣṭitāt ||

5.1५.१

तैलसिक्तात् प्रदीप्ताग्रात् स्नेहः सद्यो रुजापहः । (५।१)

tailasiktāt pradīptāgrāt snehaḥ sadyo rujāpahaḥ |

5.2५.२

योज्यश्चैवं भद्रकाष्ठात् कुष्ठात् काष्ठाच्च सारलात् ॥ (५।२)

yojyaścaivaṃ bhadrakāṣṭhāt kuṣṭhāt kāṣṭhācca sāralāt ||

6.1६.१

वातव्याधिप्रतिश्यायविहितं हितम् अत्र च । (६।१)

vātavyādhipratiśyāyavihitaṃ hitam atra ca |

6.2६.२

वर्जयेच्छिरसा स्नानं शीताम्भःपानम् अह्न्यपि ॥ (६।२)

varjayecchirasā snānaṃ śītāmbhaḥpānam ahnyapi ||

7.1७.१

पित्तशूले सितायुक्तघृतस्निग्धं विरेचयेत् । (७।१)

pittaśūle sitāyuktaghṛtasnigdhaṃ virecayet |

7.2७.२

द्राक्षायष्टीशृतं स्तन्यं शस्यते कर्णपूरणम् ॥ (७।२)

drākṣāyaṣṭīśṛtaṃ stanyaṃ śasyate karṇapūraṇam ||

8.1८.१

यष्ट्यनन्ताहिमोशीरकाकोलीलोध्रजीवकैः । (८।१)

yaṣṭyanantāhimośīrakākolīlodhrajīvakaiḥ |

8.2८.२

मृणालबिसमञ्जिष्ठाशारिवाभिश्च साधयेत् ॥ (८।२)

mṛṇālabisamañjiṣṭhāśārivābhiśca sādhayet ||

9.1९.१

यष्टीमधुरसप्रस्थक्षीरद्विप्रस्थसंयुतम् । (९।१)

yaṣṭīmadhurasaprasthakṣīradviprasthasaṃyutam |

9.2९.२

तैलस्य कुडवं नस्यपूरणाभ्यञ्जनैरिदम् ॥ (९।२)

tailasya kuḍavaṃ nasyapūraṇābhyañjanairidam ||

10.1१०.१

निहन्ति शूलदाहोषाः केवलं क्षौद्रम् एव वा । (१०।१)

nihanti śūladāhoṣāḥ kevalaṃ kṣaudram eva vā |

10.2१०.२

यष्ट्यादिभिश्च सघृतैः कर्णौ दिह्यात् समन्ततः ॥ (१०।२)

yaṣṭyādibhiśca saghṛtaiḥ karṇau dihyāt samantataḥ ||

11.1११.१

वामयेत् पिप्पलीसिद्धसर्पिःस्निग्धं कफोद्भवे । (११।१)

vāmayet pippalīsiddhasarpiḥsnigdhaṃ kaphodbhave |

11.2११.२

धूमनावनगण्डूषस्वेदान् कुर्यात् कफापहान् ॥ (११।२)

dhūmanāvanagaṇḍūṣasvedān kuryāt kaphāpahān ||

12.1१२.१

लशुनार्द्रकशिग्रूणां मुरङ्ग्या मूलकस्य च । (१२।१)

laśunārdrakaśigrūṇāṃ muraṅgyā mūlakasya ca |

12.2१२.२

कदल्याः स्वरसः श्रेष्ठः कदुष्णः कर्णपूरणे ॥ (१२।२)

kadalyāḥ svarasaḥ śreṣṭhaḥ kaduṣṇaḥ karṇapūraṇe ||

13.1१३.१

अर्काङ्कुरान् अम्लपिष्टांस्तैलाक्तांल्लवणान्वितान् । (१३।१)

arkāṅkurān amlapiṣṭāṃstailāktāṃllavaṇānvitān |

13.2१३.२

संनिधाय स्नुहीकाण्डे कोरिते तच्छदावृतान् ॥ (१३।२)

saṃnidhāya snuhīkāṇḍe korite tacchadāvṛtān ||

14.1१४.१

स्वेदयेत् पुटपाकेन स रसः शूलजित् परम् । (१४।१)

svedayet puṭapākena sa rasaḥ śūlajit param |

14.2१४.२

रसेन बीजपूरस्य कपित्थस्य च पूरयेत् ॥ (१४।२)

rasena bījapūrasya kapitthasya ca pūrayet ||

15.1१५.१

शुक्तेन पूरयित्वा वा फेनेनान्ववचूर्णयेत् । (१५।१)

śuktena pūrayitvā vā phenenānvavacūrṇayet |

15.2१५.२

अजाविमूत्रवंशत्वक्सिद्धं तैलं च पूरणम् ॥ (१५।२)

ajāvimūtravaṃśatvaksiddhaṃ tailaṃ ca pūraṇam ||

16.1१६.१

सिद्धं वा सार्षपं तैलं हिङ्गुतुम्बुरुनागरैः । (१६।१)

siddhaṃ vā sārṣapaṃ tailaṃ hiṅgutumburunāgaraiḥ |

16.2१६.२

रक्तजे पित्तवत् कार्यं सिरां चाशु विमोक्षयेत् ॥ (१६।२)

raktaje pittavat kāryaṃ sirāṃ cāśu vimokṣayet ||

17.1१७.१

पक्वे पूयवहे कर्णे धूमगण्डूषनावनम् । (१७।१)

pakve pūyavahe karṇe dhūmagaṇḍūṣanāvanam |

17.2१७.२

युञ्ज्यान् नाडीविधानं च दुष्टव्रणहरं च यत् ॥ (१७।२)

yuñjyān nāḍīvidhānaṃ ca duṣṭavraṇaharaṃ ca yat ||

18.1१८.१

स्रोतः प्रमृज्य दिग्धं तु द्वौ कालौ पिचुवर्तिभिः । (१८।१)

srotaḥ pramṛjya digdhaṃ tu dvau kālau picuvartibhiḥ |

18.2१८.२

पुरेण धूपयित्वा तु माक्षिकेण प्रपूरयेत् ॥ (१८।२)

pureṇa dhūpayitvā tu mākṣikeṇa prapūrayet ||

19.1१९.१

सुरसादिगणक्वाथफाणिताक्तां च योजयेत् । (१९।१)

surasādigaṇakvāthaphāṇitāktāṃ ca yojayet |

19.2१९.२

पिचुवर्तिं सुसूक्ष्मैश्च तच्चूर्णैरवचूर्णयेत् ॥ (१९।२)

picuvartiṃ susūkṣmaiśca taccūrṇairavacūrṇayet ||

20.1२०.१

शूलक्लेदगुरुत्वानां विधिरेष निवर्तकः । (२०।१)

śūlakledagurutvānāṃ vidhireṣa nivartakaḥ |

20.2२०.२

प्रियङ्गुमधुकाम्बष्ठाधातक्युत्पलपर्णिभिः ॥ (२०।२)

priyaṅgumadhukāmbaṣṭhādhātakyutpalaparṇibhiḥ ||

21.1२१.१

मञ्जिष्ठालोध्रलाक्षाभिः कपित्थस्य रसेन च । (२१।१)

mañjiṣṭhālodhralākṣābhiḥ kapitthasya rasena ca |

21.2२१.२

पचेत् तैलं तद् आस्रावं निगृह्णात्याशु पूरणात् ॥ (२१।२)

pacet tailaṃ tad āsrāvaṃ nigṛhṇātyāśu pūraṇāt ||

22.1२२.१

नादबाधिर्ययोः कुर्याद् वातशूलोक्तम् औषधम् । (२२।१)

nādabādhiryayoḥ kuryād vātaśūloktam auṣadham |

22.2२२.२

श्लेष्मानुबन्धे श्लेष्माणम् प्राग् जयेद् वमनादिभिः ॥ (२२।२)

śleṣmānubandhe śleṣmāṇam prāg jayed vamanādibhiḥ ||

23.1२३.१

एरण्डशिग्रुवरुणमूलकात् पत्त्रजे रसे । (२३।१)

eraṇḍaśigruvaruṇamūlakāt pattraje rase |

23.2२३.२

चतुर्गुणे पचेत् तैलं क्षीरे चाष्टगुणोन्मिते ॥ (२३।२)

caturguṇe pacet tailaṃ kṣīre cāṣṭaguṇonmite ||

24.1२४.१

यष्ट्याह्वाक्षीरकाकोलीकल्कयुक्तं निहन्ति तत् । (२४।१)

yaṣṭyāhvākṣīrakākolīkalkayuktaṃ nihanti tat |

24.2२४.२

नादबाधिर्यशूलानि नावनाभ्यङ्गपूरणैः ॥ (२४।२)

nādabādhiryaśūlāni nāvanābhyaṅgapūraṇaiḥ ||

25.1२५.१

पक्वं प्रतिविषाहिङ्गुमिशित्वक्स्वर्जिकोषणैः । (२५।१)

pakvaṃ prativiṣāhiṅgumiśitvaksvarjikoṣaṇaiḥ |

25.2२५.२

सशुक्तैः पूरणात् तैलं रुक्स्रावाश्रुतिनादनुत् ॥ (२५।२)

saśuktaiḥ pūraṇāt tailaṃ ruksrāvāśrutinādanut ||

26.1२६.१

कर्णनादे हितं तैलं सर्षपोत्थं च पूरणे । (२६।१)

karṇanāde hitaṃ tailaṃ sarṣapotthaṃ ca pūraṇe |

26.2२६.२

शुष्कमूलकखण्डानां क्षारो हिङ्गु महौषधम् ॥ (२६।२)

śuṣkamūlakakhaṇḍānāṃ kṣāro hiṅgu mahauṣadham ||

27.1२७.१

शतपुष्पावचाकुष्ठदारुशिग्रुरसाञ्जनम् । (२७।१)

śatapuṣpāvacākuṣṭhadāruśigrurasāñjanam |

27.2२७.२

सौवर्चलयवक्षारस्वर्जिकौद्भिदसैन्धवम् ॥ (२७।२)

sauvarcalayavakṣārasvarjikaudbhidasaindhavam ||

28.1२८.१

भूर्जग्रन्थिविडं मुस्ता मधुशुक्तं चतुर्गुणम् । (२८।१)

bhūrjagranthiviḍaṃ mustā madhuśuktaṃ caturguṇam |

28.2२८.२

मातुलुङ्गरसस्तद्वत् कदलीस्वरसश्च तैः ॥ (२८।२)

mātuluṅgarasastadvat kadalīsvarasaśca taiḥ ||

29.1२९.१

पक्वं तैलं जयत्याशु सुकृच्छ्रान् अपि पूरणात् । (२९।१)

pakvaṃ tailaṃ jayatyāśu sukṛcchrān api pūraṇāt |

29.2२९.२

कण्डूं क्लेदं च बाधिर्यपूतिकर्णत्वरुक्कृमीन् ॥ (२९।२)

kaṇḍūṃ kledaṃ ca bādhiryapūtikarṇatvarukkṛmīn ||

30.1३०.१

क्षारतैलम् इदं श्रेष्ठं मुखदन्तामयेषु च । (३०।१)

kṣāratailam idaṃ śreṣṭhaṃ mukhadantāmayeṣu ca |

30.2३०.२

अथ सुप्ताविव स्यातां कर्णौ रक्तं हरेत् ततः ॥ (३०।२)

atha suptāviva syātāṃ karṇau raktaṃ haret tataḥ ||

31.1३१.१

सशोफक्लेदयोर् मन्दश्रुतेर् वमनम् आचरेत् । (३१।१)

saśophakledayor mandaśruter vamanam ācaret |

31.2३१.२

बाधिर्यं वर्जयेद् बालवृद्धयोश्चिरजं च यत् ॥ (३१।२)

bādhiryaṃ varjayed bālavṛddhayościrajaṃ ca yat ||

32.1३२.१

प्रतीनाहे परिक्लेद्य स्नेहस्वेदैर् विशोधयेत् । (३२।१)

pratīnāhe parikledya snehasvedair viśodhayet |

32.2३२.२

कर्णशोधनकेनानु कर्णं तैलस्य पूरयेत् ॥ (३२।२)

karṇaśodhanakenānu karṇaṃ tailasya pūrayet ||

33.1३३.१

सशुक्तसैन्धवमधोर् मातुलुङ्गरसस्य वा । (३३।१)

saśuktasaindhavamadhor mātuluṅgarasasya vā |

33.2३३.२

शोधनाद् रूक्षतोत्पत्तौ घृतमण्डस्य पूरणम् ॥ (३३।२)

śodhanād rūkṣatotpattau ghṛtamaṇḍasya pūraṇam ||

34.1३४.१

क्रमो ऽयं मलपूर्णे ऽपि कर्णे कण्ड्वां कफापहम् । (३४।१)

kramo 'yaṃ malapūrṇe 'pi karṇe kaṇḍvāṃ kaphāpaham |

34.2३४.२

नस्यादि तद्वच्छोफे ऽपि कटूष्णैश्चात्र लेपनम् ॥ (३४।२)

nasyādi tadvacchophe 'pi kaṭūṣṇaiścātra lepanam ||

35.1३५.१

कर्णस्रावोदितं कुर्यात् पूतिकृमिणकर्णयोः । (३५।१)

karṇasrāvoditaṃ kuryāt pūtikṛmiṇakarṇayoḥ |

35.2३५.२

पूरणं कटुतैलेन विशेषात् कृमिकर्णके ॥ (३५।२)

pūraṇaṃ kaṭutailena viśeṣāt kṛmikarṇake ||

36.1३६.१

वमिपूर्वा हिता कर्णविद्रधौ विद्रधिक्रिया । (३६।१)

vamipūrvā hitā karṇavidradhau vidradhikriyā |

36.2३६.२

पित्तोत्थकर्णशूलोक्तं कर्तव्यं क्षतविद्रधौ ॥ (३६।२)

pittotthakarṇaśūloktaṃ kartavyaṃ kṣatavidradhau ||

37.1३७.१

अर्शोऽर्बुदेषु नासावद् आमा कर्णविदारिका । (३७।१)

arśo'rbudeṣu nāsāvad āmā karṇavidārikā |

37.2३७.२

कर्णविद्रधिवत् साध्या यथादोषोदयेन च ॥ (३७।२)

karṇavidradhivat sādhyā yathādoṣodayena ca ||

38.1३८.१

पालीशोषे ऽनिलश्रोत्रशूलवन् नस्यलेपनम् । (३८।१)

pālīśoṣe 'nilaśrotraśūlavan nasyalepanam |

38.2३८.२

स्वेदं च कुर्यात् स्विन्नां च पालीम् उद्वर्तयेत् तिलैः ॥ (३८।२)

svedaṃ ca kuryāt svinnāṃ ca pālīm udvartayet tilaiḥ ||

39.1३९.१

प्रियालबीजयष्ट्याह्वहयगन्धायवान्वितैः । (३९।१)

priyālabījayaṣṭyāhvahayagandhāyavānvitaiḥ |

39.2३९.२

ततः पुष्टिकरैः स्नेहैरभ्यङ्गं नित्यम् आचरेत् ॥ (३९।२)

tataḥ puṣṭikaraiḥ snehairabhyaṅgaṃ nityam ācaret ||

40.1४०.१

शतावरीवाजिगन्धापयस्यैरण्डजीवकैः । (४०।१)

śatāvarīvājigandhāpayasyairaṇḍajīvakaiḥ |

40.2४०.२

तैलं विपक्वं सक्षीरं पालीनां पुष्टिकृत् परम् ॥ (४०।२)

tailaṃ vipakvaṃ sakṣīraṃ pālīnāṃ puṣṭikṛt param ||

41.1४१.१

कल्केन जीवनीयेन तैलं पयसि पाचितम् । (४१।१)

kalkena jīvanīyena tailaṃ payasi pācitam |

41.2४१.२

आनूपमांसक्वाथे च पालीपोषणवर्धनम् ॥ (४१।२)

ānūpamāṃsakvāthe ca pālīpoṣaṇavardhanam ||

42.1४२.१

पालीं छित्त्वातिसंक्षीणां शेषां संधाय पोषयेत् । (४२।१)

pālīṃ chittvātisaṃkṣīṇāṃ śeṣāṃ saṃdhāya poṣayet |

42.2४२.२

याप्यैवं तन्त्रिकाख्यापि परिपोटे ऽप्ययं विधिः ॥ (४२।२)

yāpyaivaṃ tantrikākhyāpi paripoṭe 'pyayaṃ vidhiḥ ||

43.1४३.१

उत्पाते शीतलैर् लेपो जलौकोहृतशोणिते । (४३।१)

utpāte śītalair lepo jalaukohṛtaśoṇite |

43.2४३.२

जम्ब्वाम्रपल्लवबलायष्टीलोध्रतिलोत्पलैः ॥ (४३।२)

jambvāmrapallavabalāyaṣṭīlodhratilotpalaiḥ ||

44.1४४.१

सधान्याम्लैः समञ्जिष्ठैः सकदम्बैः सशारिवैः । (४४।१)

sadhānyāmlaiḥ samañjiṣṭhaiḥ sakadambaiḥ saśārivaiḥ |

44.2४४.२

सिद्धम् अभ्यञ्जने तैलं विसर्पोक्तघृतानि च ॥ (४४।२)

siddham abhyañjane tailaṃ visarpoktaghṛtāni ca ||

45.1४५.१

उन्मन्थे ऽभ्यञ्जनं तैलं गोधाकर्कवसान्वितम् । (४५।१)

unmanthe 'bhyañjanaṃ tailaṃ godhākarkavasānvitam |

45.2४५.२

तालपत्त्र्यश्वगन्धार्कवाकुचीफलसैन्धवैः ॥ (४५।२)

tālapattryaśvagandhārkavākucīphalasaindhavaiḥ ||

46.1४६.१

सुरसालाङ्गलीभ्यां च सिद्धं तीक्ष्णं च नावनम् । (४६।१)

surasālāṅgalībhyāṃ ca siddhaṃ tīkṣṇaṃ ca nāvanam |

46.2४६.२

दुर्विद्धे ऽश्मन्तजम्ब्वाम्रपत्त्रक्वाथेन सेचिताम् ॥ (४६।२)

durviddhe 'śmantajambvāmrapattrakvāthena secitām ||

47.1४७.१

तैलेन पालीं स्वभ्यक्तां सुश्लक्ष्णैरवचूर्णयेत् । (४७।१)

tailena pālīṃ svabhyaktāṃ suślakṣṇairavacūrṇayet |

47.2४७.२

चूर्णैर् मधुकमञ्जिष्ठाप्रपुण्ड्राह्वनिशोद्भवैः ॥ (४७।२)

cūrṇair madhukamañjiṣṭhāprapuṇḍrāhvaniśodbhavaiḥ ||

48.1४८.१

लाक्षाविडङ्गसिद्धं च तैलम् अभ्यञ्जने हितम् । (४८।१)

lākṣāviḍaṅgasiddhaṃ ca tailam abhyañjane hitam |

48.2४८.२

स्विन्नां गोमयजैः पिण्डैर् बहुशः परिलेहिकाम् ॥ (४८।२)

svinnāṃ gomayajaiḥ piṇḍair bahuśaḥ parilehikām ||

49.1४९.१

विडङ्गसारैरालिम्पेद् उरभ्रीमूत्रकल्कितैः । (४९।१)

viḍaṅgasārairālimped urabhrīmūtrakalkitaiḥ |

49.2४९.२

कौटजेङ्गुदकारञ्जबीजशम्याकवल्कलैः ॥ (४९।२)

kauṭajeṅgudakārañjabījaśamyākavalkalaiḥ ||

50.1५०.१

अथवाभ्यञ्जनं तैर् वा कटुतैलं विपाचयेत् । (५०।१)

athavābhyañjanaṃ tair vā kaṭutailaṃ vipācayet |

50.2५०.२

सनिम्बपत्त्रमरिचमदनैर् लेहिकाव्रणे ॥ (५०।२)

sanimbapattramaricamadanair lehikāvraṇe ||

51.1५१.१

छिन्नं तु कर्णं शुद्धस्य बन्धम् आलोच्य यौगिकम् । (५१।१)

chinnaṃ tu karṇaṃ śuddhasya bandham ālocya yaugikam |

51.2५१.२

शुद्धास्रं लागयेल्लग्ने सद्यश्छिन्ने विशोधनम् ॥ (५१।२)

śuddhāsraṃ lāgayellagne sadyaśchinne viśodhanam ||

52.1५२.१

अथ ग्रथित्वा केशान्तं कृत्वा छेदनलेखनम् । (५२।१)

atha grathitvā keśāntaṃ kṛtvā chedanalekhanam |

52.2५२.२

निवेश्य संधिं सुषमं न निम्नं न समुन्नतम् ॥ (५२।२)

niveśya saṃdhiṃ suṣamaṃ na nimnaṃ na samunnatam ||

53.1५३.१

अभ्यज्य मधुसर्पिर्भ्यां पिचुप्लोतावगुण्ठितम् । (५३।१)

abhyajya madhusarpirbhyāṃ picuplotāvaguṇṭhitam |

53.2५३.२

सूत्रेणागाढशिथिलं बद्ध्वा चूर्णैरवाकिरेत् ॥ (५३।२)

sūtreṇāgāḍhaśithilaṃ baddhvā cūrṇairavākiret ||

54.1५४.१

शोणितस्थापनैर् व्रण्यम् आचारं चादिशेत् ततः । (५४।१)

śoṇitasthāpanair vraṇyam ācāraṃ cādiśet tataḥ |

54.2५४.२

सप्ताहाद् आमतैलाक्तं शनैरपनयेत् पिचुम् ॥ (५४।२)

saptāhād āmatailāktaṃ śanairapanayet picum ||

55.1५५.१

सुरूढं जातरोमाणं श्लिष्टसंधिं समं स्थिरम् । (५५।१)

surūḍhaṃ jātaromāṇaṃ śliṣṭasaṃdhiṃ samaṃ sthiram |

55.2५५.२

सुवर्ष्माणम् अरोगं च शनैः कर्णं विवर्धयेत् ॥ (५५।२)

suvarṣmāṇam arogaṃ ca śanaiḥ karṇaṃ vivardhayet ||

56.1५६.१

जलशूकः स्वयङ्गुप्ता रजन्यौ बृहतीफलम् । (५६।१)

jalaśūkaḥ svayaṅguptā rajanyau bṛhatīphalam |

56.2५६.२

अश्वगन्धाबलाहस्तिपिप्पलीगौरसर्षपाः ॥ (५६।२)

aśvagandhābalāhastipippalīgaurasarṣapāḥ ||

57.1५७.१

मूलं कोशातकाश्वघ्नरूपिकासप्तपर्णजम् । (५७।१)

mūlaṃ kośātakāśvaghnarūpikāsaptaparṇajam |

57.2५७.२

छुच्छुन्दरी कालमृता गृहं मधुकरीकृतम् ॥ (५७।२)

chucchundarī kālamṛtā gṛhaṃ madhukarīkṛtam ||

58.1५८.१

जतूका जलजन्मा च तथा शबरकन्दकम् । (५८।१)

jatūkā jalajanmā ca tathā śabarakandakam |

58.2५८.२

एभिः कल्कैः खरं पक्वं सतैलं माहिषं घृतम् ॥ (५८।२)

ebhiḥ kalkaiḥ kharaṃ pakvaṃ satailaṃ māhiṣaṃ ghṛtam ||

59.1५९.१

हस्त्यश्वमूत्रेण परम् अभ्यङ्गात् कर्णवर्धनम् । (५९।१)

hastyaśvamūtreṇa param abhyaṅgāt karṇavardhanam |

59.2५९.२

अथ कुर्याद् वयःस्थस्य छिन्नां शुद्धस्य नासिकाम् ॥ (५९।२)

atha kuryād vayaḥsthasya chinnāṃ śuddhasya nāsikām ||

60.1६०.१

छिन्द्यान् नासासमं पत्त्रं तत्तुल्यं च कपोलतः । (६०।१)

chindyān nāsāsamaṃ pattraṃ tattulyaṃ ca kapolataḥ |

60.2६०.२

त्वङ्मांसं नासिकासन्ने रक्षंस् तत्तनुतां नयेत् ॥ (६०।२)

tvaṅmāṃsaṃ nāsikāsanne rakṣaṃs tattanutāṃ nayet ||

61.1६१.१

सीव्येद् गण्डं ततः सूच्या सेविन्या पिचुयुक्तया । (६१।१)

sīvyed gaṇḍaṃ tataḥ sūcyā sevinyā picuyuktayā |

61.2६१.२

नासाछेदे ऽथ लिखिते परिवर्त्योपरि त्वचम् ॥ (६१।२)

nāsāchede 'tha likhite parivartyopari tvacam ||

62.1६२.१

कपोलवध्रं संदध्यात् सीव्येन् नासां च यत्नतः । (६२।१)

kapolavadhraṃ saṃdadhyāt sīvyen nāsāṃ ca yatnataḥ |

62.2६२.२

नाडीभ्याम् उत्क्षिपेद् अन्तः सुखोच्छ्वासप्रवृत्तये ॥ (६२।२)

nāḍībhyām utkṣiped antaḥ sukhocchvāsapravṛttaye ||

63.1६३.१

आमतैलेन सिक्त्वानु पत्तङ्गमधुकाञ्जनैः । (६३।१)

āmatailena siktvānu pattaṅgamadhukāñjanaiḥ |

63.2६३.२

शोणितस्थापनैश्चान्यैः सुश्लक्ष्णैरवचूर्णयेत् ॥ (६३।२)

śoṇitasthāpanaiścānyaiḥ suślakṣṇairavacūrṇayet ||

64.1६४.१

ततो मधुघृताभ्यक्तं बद्ध्वाचारिकम् आदिशेत् । (६४।१)

tato madhughṛtābhyaktaṃ baddhvācārikam ādiśet |

64.2६४.२

ज्ञात्वावस्थान्तरं कुर्यात् सद्योव्रणविधिं ततः ॥ (६४।२)

jñātvāvasthāntaraṃ kuryāt sadyovraṇavidhiṃ tataḥ ||

65.1६५.१

छिन्द्याद् रूढे ऽधिकं मांसं नासोपान्ताच्च चर्म तत् । (६५।१)

chindyād rūḍhe 'dhikaṃ māṃsaṃ nāsopāntācca carma tat |

65.2६५.२

सीव्येत् ततश्च सुश्लक्ष्णं हीनं संवर्धयेत् पुनः ॥ (६५।२)

sīvyet tataśca suślakṣṇaṃ hīnaṃ saṃvardhayet punaḥ ||

66.1६६.१

निवेशिते यथान्यासं सद्यश्छिन्ने ऽप्ययं विधिः । (६६।१)

niveśite yathānyāsaṃ sadyaśchinne 'pyayaṃ vidhiḥ |

66.2६६.२

नाडीयोगाद् विनौष्ठस्य नासासंधानवद् विधिः ॥ (६६।२)

nāḍīyogād vinauṣṭhasya nāsāsaṃdhānavad vidhiḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

AHS, 6, 18

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit