अष्टाङ्गहृदयसंहिताAṣṭāṅgahṛdayasaṃhitā
AHS, 2, 6
Select a line for its word-by-word analysis.
अथातो दूतादिविज्ञानीयं शारीरं व्याख्यास्यामः । (१।१)
athāto dūtādivijñānīyaṃ śārīraṃ vyākhyāsyāmaḥ |
दीनं भीतं द्रुतं त्रस्तं रूक्षामङ्गलवादिनम् । (२।१)
dīnaṃ bhītaṃ drutaṃ trastaṃ rūkṣāmaṅgalavādinam |
शस्त्रिणं दण्डिनं षण्ढं मुण्डश्मश्रुजटाधरम् ॥ (२।२)
śastriṇaṃ daṇḍinaṃ ṣaṇḍhaṃ muṇḍaśmaśrujaṭādharam ||
अमङ्गलाह्वयं क्रूरकर्माणं मलिनं स्त्रियम् । (३।१)
amaṅgalāhvayaṃ krūrakarmāṇaṃ malinaṃ striyam |
अनेकं व्याधितं व्यङ्गं रक्तमाल्यानुलेपनम् ॥ (३।२)
anekaṃ vyādhitaṃ vyaṅgaṃ raktamālyānulepanam ||
नानुगच्छेद् भिषग् दूतम् आह्वयन्तं च दूरतः । (५।१)
nānugacched bhiṣag dūtam āhvayantaṃ ca dūrataḥ |
जुह्वाने पावकं पिण्डान् पितृभ्यो निर्वपत्यपि । (६।१)
juhvāne pāvakaṃ piṇḍān pitṛbhyo nirvapatyapi |
सुप्ते मुक्तकचे ऽभ्यक्ते रुदत्यप्रयते तथा ॥ (६।२)
supte muktakace 'bhyakte rudatyaprayate tathā ||
वैद्ये दूता मनुष्याणाम् आगच्छन्ति मुमूर्षताम् । (७।१)
vaidye dūtā manuṣyāṇām āgacchanti mumūrṣatām |
दूतम् अभ्यागतं दृष्ट्वा नातुरं तम् उपाचरेत् । (८।१)
dūtam abhyāgataṃ dṛṣṭvā nāturaṃ tam upācaret |
रज्जूपानत्तुलापाशम् अन्यद् वा भग्नविच्युतम् ॥ (१०।२)
rajjūpānattulāpāśam anyad vā bhagnavicyutam ||
तत्पूर्वदर्शने दूता व्याहरन्ति मरिष्यताम् । (११।१)
tatpūrvadarśane dūtā vyāharanti mariṣyatām |
तथार्धरात्रे मध्याह्ने संध्ययोः पर्ववासरे ॥ (११।२)
tathārdharātre madhyāhne saṃdhyayoḥ parvavāsare ||
भरणीकृत्तिकाश्लेषापूर्वार्द्रापैत्र्यनैरृते ॥ (१२।२)
bharaṇīkṛttikāśleṣāpūrvārdrāpaitryanairṛte ||
यस्मिंश्च दूते ब्रुवति वाक्यम् आतुरसंश्रयम् । (१३।१)
yasmiṃśca dūte bruvati vākyam āturasaṃśrayam |
पश्येन् निमित्तम् अशुभं तं च नानुव्रजेद् भिषक् ॥ (१३।२)
paśyen nimittam aśubhaṃ taṃ ca nānuvrajed bhiṣak ||
तद् यथा विकलः प्रेतः प्रेतालङ्कार एव वा । (१४।१)
tad yathā vikalaḥ pretaḥ pretālaṅkāra eva vā |
छिन्नं दग्धं विनष्टं वा तद्वादीनि वचांसि वा ॥ (१४।२)
chinnaṃ dagdhaṃ vinaṣṭaṃ vā tadvādīni vacāṃsi vā ||
रसो वा कटुकस् तीव्रो गन्धो वा कौणपो महान् । (१५।१)
raso vā kaṭukas tīvro gandho vā kauṇapo mahān |
स्पर्शो वा विपुलः क्रूरो यद् वान्यद् अपि तादृशम् ॥ (१५।२)
sparśo vā vipulaḥ krūro yad vānyad api tādṛśam ||
तत् सर्वम् अभितो वाक्यं वाक्यकाले ऽथवा पुनः । (१६।१)
tat sarvam abhito vākyaṃ vākyakāle 'thavā punaḥ |
दूतम् अभ्यागतं दृष्ट्वा नातुरं तम् उपाचरेत् ॥ (१६।२)
dūtam abhyāgataṃ dṛṣṭvā nāturaṃ tam upācaret ||
हाहाक्रन्दितम् उत्क्रुष्टम् आक्रुष्टं स्खलनं क्षुतम् । (१७।१)
hāhākranditam utkruṣṭam ākruṣṭaṃ skhalanaṃ kṣutam |
चैत्यध्वजानां पात्राणां पूर्णानां च निमज्जनम् । (१८।१)
caityadhvajānāṃ pātrāṇāṃ pūrṇānāṃ ca nimajjanam |
हतानिष्टप्रवादाश्च दूषणं भस्मपांसुभिः ॥ (१८।२)
hatāniṣṭapravādāśca dūṣaṇaṃ bhasmapāṃsubhiḥ ||
दीप्तां प्रति दिशं वाचः क्रूराणां मृगपक्षिणाम् ॥ (१९।२)
dīptāṃ prati diśaṃ vācaḥ krūrāṇāṃ mṛgapakṣiṇām ||
न्युब्जानाम् इतरेषां च पात्रादीनाम् अशोभनम् । (२३।१)
nyubjānām itareṣāṃ ca pātrādīnām aśobhanam |
पुंसंज्ञाः पक्षिणो वामाः स्त्रीसंज्ञा दक्षिणाः शुभाः ॥ (२३।२)
puṃsaṃjñāḥ pakṣiṇo vāmāḥ strīsaṃjñā dakṣiṇāḥ śubhāḥ ||
प्रदक्षिणं खगमृगा यान्तो नैवं श्वजम्बुकाः । (२४।१)
pradakṣiṇaṃ khagamṛgā yānto naivaṃ śvajambukāḥ |
अयुग्माश्च मृगाः शस्ताः शस्ता नित्यं च दर्शने ॥ (२४।२)
ayugmāśca mṛgāḥ śastāḥ śastā nityaṃ ca darśane ||
न दर्शने न विरुते वानरर्क्षावतो ऽन्यथा ॥ (२६।२)
na darśane na virute vānararkṣāvato 'nyathā ||
धनुरैन्द्रं च लालाटम् अशुभं शुभम् अन्यतः । (२७।१)
dhanuraindraṃ ca lālāṭam aśubhaṃ śubham anyataḥ |
अग्निपूर्णानि पात्राणि भिन्नानि विशिखानि च ॥ (२७।२)
agnipūrṇāni pātrāṇi bhinnāni viśikhāni ca ||
दध्यक्षतादि निर्गच्छद् वक्ष्यमाणं च मङ्गलम् । (२८।१)
dadhyakṣatādi nirgacchad vakṣyamāṇaṃ ca maṅgalam |
वैद्यो मरिष्यतां वेश्म प्रविशन्न् एव पश्यति ॥ (२८।२)
vaidyo mariṣyatāṃ veśma praviśann eva paśyati ||
दूताद्यसाधु दृष्ट्वैवं त्यजेद् आर्तम् अतो ऽन्यथा । (२९।१)
dūtādyasādhu dṛṣṭvaivaṃ tyajed ārtam ato 'nyathā |
दध्यक्षतेक्षुनिष्पावप्रियङ्गुमधुसर्पिषाम् । (३०।१)
dadhyakṣatekṣuniṣpāvapriyaṅgumadhusarpiṣām |
दूर्वार्द्रमत्स्यमांसानां लाजानां फलभक्षयोः । (३१।१)
dūrvārdramatsyamāṃsānāṃ lājānāṃ phalabhakṣayoḥ |
रत्नेभपूर्णकुम्भानां कन्यायाः स्यन्दनस्य च ॥ (३१।२)
ratnebhapūrṇakumbhānāṃ kanyāyāḥ syandanasya ca ||
भूमेः समुद्धतायाश्च वह्नेः प्रज्वलितस्य च ॥ (३३।२)
bhūmeḥ samuddhatāyāśca vahneḥ prajvalitasya ca ||
नृभिर् धेन्वाः सवत्साया वडबायाः स्त्रिया अपि ॥ (३४।२)
nṛbhir dhenvāḥ savatsāyā vaḍabāyāḥ striyā api ||
हंसानां शतपत्त्राणां बद्धस्यैकपशोस् तथा ॥ (३५।२)
haṃsānāṃ śatapattrāṇāṃ baddhasyaikapaśos tathā ||
गन्धः सुसुरभिर् वर्णः सुशुक्लो मधुरो रसः ॥ (३६।२)
gandhaḥ susurabhir varṇaḥ suśuklo madhuro rasaḥ ||
छत्त्रध्वजपताकानाम् उत्क्षेपणम् अभिष्टुतिः । (३८।१)
chattradhvajapatākānām utkṣepaṇam abhiṣṭutiḥ |
भेरीमृदङ्गशङ्खानां शब्दाः पुण्याहनिःस्वनाः ॥ (३८।२)
bherīmṛdaṅgaśaṅkhānāṃ śabdāḥ puṇyāhaniḥsvanāḥ ||
वेदाध्ययनशब्दाश्च सुखो वायुः प्रदक्षिणः । (३९।१)
vedādhyayanaśabdāśca sukho vāyuḥ pradakṣiṇaḥ |
पथि वेश्मप्रवेशे च विद्याद् आरोग्यलक्षणम् ॥ (३९।२)
pathi veśmapraveśe ca vidyād ārogyalakṣaṇam ||
इत्युक्तं दूतशकुनं स्वप्नान् ऊर्ध्वं प्रचक्षते । (४०।१)
ityuktaṃ dūtaśakunaṃ svapnān ūrdhvaṃ pracakṣate |
स्वप्ने मद्यं सह प्रेतैर् यः पिबन् कृष्यते शुना ॥ (४०।२)
svapne madyaṃ saha pretair yaḥ piban kṛṣyate śunā ||
स मर्त्यो मृत्युना शीघ्रं ज्वररूपेण नीयते । (४१।१)
sa martyo mṛtyunā śīghraṃ jvararūpeṇa nīyate |
रक्तमाल्यवपुर्वस्त्रो यो हसन् ह्रियते स्त्रिया ॥ (४१।२)
raktamālyavapurvastro yo hasan hriyate striyā ||
सो ऽस्रपित्तेन महिषश्ववराहोष्ट्रगर्दभैः । (४२।१)
so 'srapittena mahiṣaśvavarāhoṣṭragardabhaiḥ |
यः प्रयाति दिशं याम्यां मरणं तस्य यक्ष्मणा ॥ (४२।२)
yaḥ prayāti diśaṃ yāmyāṃ maraṇaṃ tasya yakṣmaṇā ||
यस्य तस्याशु गुल्मेन यस्य वह्निम् अनर्चिषम् ॥ (४३।२)
yasya tasyāśu gulmena yasya vahnim anarciṣam ||
पद्मं स नश्येत् कुष्ठेन चण्डालैः सह यः पिबेत् ॥ (४४।२)
padmaṃ sa naśyet kuṣṭhena caṇḍālaiḥ saha yaḥ pibet ||
स्नेहं बहुविधं स्वप्ने स प्रमेहेण नश्यति । (४५।१)
snehaṃ bahuvidhaṃ svapne sa prameheṇa naśyati |
उन्मादेन जले मज्जेद् यो नृत्यन् राक्षसैः सह ॥ (४५।२)
unmādena jale majjed yo nṛtyan rākṣasaiḥ saha ||
अपस्मारेण यो मर्त्यो नृत्यन् प्रेतेन नीयते । (४६।१)
apasmāreṇa yo martyo nṛtyan pretena nīyate |
यस्य प्रेतैः शृगालैर् वा स मृत्योर् वर्तते मुखे । (४७।१)
yasya pretaiḥ śṛgālair vā sa mṛtyor vartate mukhe |
अपूपशष्कुलीर् जग्ध्वा विबुद्धस् तद्विधं वमन् ॥ (४७।२)
apūpaśaṣkulīr jagdhvā vibuddhas tadvidhaṃ vaman ||
न जीवत्यक्षिरोगाय सूर्येन्दुग्रहणेक्षणम् । (४८।१)
na jīvatyakṣirogāya sūryendugrahaṇekṣaṇam |
सूर्याचन्द्रमसोः पातदर्शनं दृग्विनाशनम् ॥ (४८।२)
sūryācandramasoḥ pātadarśanaṃ dṛgvināśanam ||
मूर्ध्नि वंशलतादीनां संभवो वयसां तथा । (४९।१)
mūrdhni vaṃśalatādīnāṃ saṃbhavo vayasāṃ tathā |
निलयो मुण्डता काकगृध्राद्यैः परिवारणम् ॥ (४९।२)
nilayo muṇḍatā kākagṛdhrādyaiḥ parivāraṇam ||
तथा प्रेतपिशाचस्त्रीद्रविडान्ध्रगवाशनैः । (५०।१)
tathā pretapiśācastrīdraviḍāndhragavāśanaiḥ |
मज्जनं जलपङ्कादौ शीघ्रेण स्रोतसा हृतिः ॥ (५१।२)
majjanaṃ jalapaṅkādau śīghreṇa srotasā hṛtiḥ ||
नृत्यवादित्रगीतानि रक्तस्रग्वस्त्रधारणम् । (५२।१)
nṛtyavāditragītāni raktasragvastradhāraṇam |
वयोऽङ्गवृद्धिरभ्यङ्गो विवाहः श्मश्रुकर्म च ॥ (५२।२)
vayo'ṅgavṛddhirabhyaṅgo vivāhaḥ śmaśrukarma ca ||
हर्षो भृशं प्रकुपितैः पितृभिश्चावभर्त्सनम् ॥ (५४।२)
harṣo bhṛśaṃ prakupitaiḥ pitṛbhiścāvabhartsanam ||
पातः प्रासादशैलादेर् मत्स्येन ग्रसनं तथा । (५७।१)
pātaḥ prāsādaśailāder matsyena grasanaṃ tathā |
काषायिणाम् असौम्यानां नग्नानां दण्डधारिणाम् ॥ (५७।२)
kāṣāyiṇām asaumyānāṃ nagnānāṃ daṇḍadhāriṇām ||
रक्ताक्षाणां च कृष्णानां दर्शनं जातु नेष्यते । (५८।१)
raktākṣāṇāṃ ca kṛṣṇānāṃ darśanaṃ jātu neṣyate |
एन्त्स्तेहुन्ग् वोन् त्र्¦उमेन्मनोवहानां पूर्णत्वात् स्रोतसां प्रबलैर् मलैः ॥ (५९।२)
Entstehung von Tr¦umenmanovahānāṃ pūrṇatvāt srotasāṃ prabalair malaiḥ ||
दृश्यन्ते दारुणाः स्वप्ना रोगी यैर् याति पञ्चताम् । (६०।१)
dṛśyante dāruṇāḥ svapnā rogī yair yāti pañcatām |
अरोगः संशयं प्राप्य कश्चिद् एव विमुच्यते ॥ (६०।२)
arogaḥ saṃśayaṃ prāpya kaścid eva vimucyate ||
दृष्टः श्रुतो ऽनुभूतश्च प्रार्थितः कल्पितस् तथा । (६१।१)
dṛṣṭaḥ śruto 'nubhūtaśca prārthitaḥ kalpitas tathā |
भाविको दोषजश्चेति स्वप्नः सप्तविधो मतः ॥ (६१।२)
bhāviko doṣajaśceti svapnaḥ saptavidho mataḥ ||
Wइर्कुन्ग् वेर्स्छ्। त्रौम्क्लस्सेन्तेष्वाद्या निष्फलाः पञ्च यथास्वप्रकृतिर् दिवा । (६२।१)
Wirkung versch. Traumklassenteṣvādyā niṣphalāḥ pañca yathāsvaprakṛtir divā |
विस्मृतो दीर्घह्रस्वो ऽति पूर्वरात्रे चिरात् फलम् ॥ (६२।२)
vismṛto dīrghahrasvo 'ti pūrvarātre cirāt phalam ||
दृष्टः करोति तुच्छं च गोसर्गे तदहर् महत् । (६३।१)
dṛṣṭaḥ karoti tucchaṃ ca gosarge tadahar mahat |
निद्रया वानुपहतः प्रतीपैर् वचनैस् तथा ॥ (६३।२)
nidrayā vānupahataḥ pratīpair vacanais tathā ||
अकल्याणम् अपि स्वप्नं दृष्ट्वा तत्रैव यः पुनः ॥ (६४।२)
akalyāṇam api svapnaṃ dṛṣṭvā tatraiva yaḥ punaḥ ||
पश्येत् सौम्यं शुभं तस्य शुभम् एव फलं भवेत् । (६५।१)
paśyet saumyaṃ śubhaṃ tasya śubham eva phalaṃ bhavet |
देवान् द्विजान् गोवृषभान् जीवतः सुहृदो नृपान् ॥ (६५।२)
devān dvijān govṛṣabhān jīvataḥ suhṛdo nṛpān ||
साधून् यशस्विनो वह्निम् इद्धं स्वच्छान् जलाशयान् । (६६।१)
sādhūn yaśasvino vahnim iddhaṃ svacchān jalāśayān |
कन्याः कुमारकान् गौरान् शुक्लवस्त्रान् सुतेजसः ॥ (६६।२)
kanyāḥ kumārakān gaurān śuklavastrān sutejasaḥ ||
नराशनं दीप्ततनुं समन्ताद् रुधिरोक्षितम् । (६७।१)
narāśanaṃ dīptatanuṃ samantād rudhirokṣitam |
यः पश्येल् लभते यो वा छत्त्रादर्शविषामिषम् ॥ (६७।२)
yaḥ paśyel labhate yo vā chattrādarśaviṣāmiṣam ||
शुक्लाः सुमनसो वस्त्रम् अमेध्यालेपनं फलम् । (६८।१)
śuklāḥ sumanaso vastram amedhyālepanaṃ phalam |
आरोहेद् गोऽश्वयानं च तरेन् नदह्रदोदधीन् । (६९।१)
ārohed go'śvayānaṃ ca taren nadahradodadhīn |
संबाधान् निःसृतिर् देवैः पितृभिश्चाभिनन्दनम् । (७०।१)
saṃbādhān niḥsṛtir devaiḥ pitṛbhiścābhinandanam |
रोदनं पतितोत्थानं द्विषतां चावमर्दनम् ॥ (७०।२)
rodanaṃ patitotthānaṃ dviṣatāṃ cāvamardanam ||
यस्य स्याद् आयुरारोग्यं वित्तं बहु च सो ऽश्नुते । (७१।१)
yasya syād āyurārogyaṃ vittaṃ bahu ca so 'śnute |
श्रद्दधानो ऽनुकूलश्च प्रभूतद्रव्यसंग्रहः । (७२।१)
śraddadhāno 'nukūlaśca prabhūtadravyasaṃgrahaḥ |
सत्त्वलक्षणसंयोगो भक्तिर् वैद्यद्विजातिषु ॥ (७२।२)
sattvalakṣaṇasaṃyogo bhaktir vaidyadvijātiṣu ||
चिकित्सायाम् अनिर्वेदस् तद् आरोग्यस्य लक्षणम् । (७३।१)
cikitsāyām anirvedas tad ārogyasya lakṣaṇam |
शरीरस्य ततः स्थानं शारीरम् इदम् उच्यते ॥ (७४।१)
śarīrasya tataḥ sthānaṃ śārīram idam ucyate ||
Data courtesy of The Digital Corpus of Sanskrit.