अष्टाङ्गहृदयसंहिताAṣṭāṅgahṛdayasaṃhitā
AHS, 6, 8
Select a line for its word-by-word analysis.
अथातो वर्त्मरोगविज्ञानीयम् अध्यायं व्याख्यास्यामः । (१।१)
athāto vartmarogavijñānīyam adhyāyaṃ vyākhyāsyāmaḥ |
गेनेरेल्ले पथोगेनेसेसर्वरोगनिदानोक्तैरहितैः कुपिता मलाः । (१।३)
generelle Pathogenesesarvaroganidānoktairahitaiḥ kupitā malāḥ |
अचक्षुष्यैर् विशेषेण प्रायः पित्तानुसारिणः ॥ (१।४)
acakṣuṣyair viśeṣeṇa prāyaḥ pittānusāriṇaḥ ||
सिराभिरूर्ध्वं प्रसृता नेत्रावयवम् आश्रिताः । (२।१)
sirābhirūrdhvaṃ prasṛtā netrāvayavam āśritāḥ |
वर्त्म संधिं सितं कृष्णं दृष्टिं वा सर्वम् अक्षि वा ॥ (२।२)
vartma saṃdhiṃ sitaṃ kṛṣṇaṃ dṛṣṭiṃ vā sarvam akṣi vā ||
रोगान् कुर्युश्चलस् तत्र प्राप्य वर्त्माश्रयाः सिराः । (३।१)
rogān kuryuścalas tatra prāpya vartmāśrayāḥ sirāḥ |
सुप्तोत्थितस्य कुरुते वर्त्मस्तम्भं सवेदनम् ॥ (३।२)
suptotthitasya kurute vartmastambhaṃ savedanam ||
पांसुपूर्णाभनेत्रत्वं कृच्छ्रोन्मीलनम् अश्रु च । (४।१)
pāṃsupūrṇābhanetratvaṃ kṛcchronmīlanam aśru ca |
विमर्दनात् स्याच्च शमः कृच्छ्रोन्मीलं वदन्ति तत् ॥ (४।२)
vimardanāt syācca śamaḥ kṛcchronmīlaṃ vadanti tat ||
चालयन् वर्त्मनी वायुर् निमेषोन्मेषणं मुहुः । (५।१)
cālayan vartmanī vāyur nimeṣonmeṣaṇaṃ muhuḥ |
करोत्यरुङ् निमेषो ऽसौ वर्त्म यत् तु निमील्यते ॥ (५।२)
karotyaruṅ nimeṣo 'sau vartma yat tu nimīlyate ||
विमुक्तसंधि निश्चेष्टं हीनं वातहतं हि तत् । (६।१)
vimuktasaṃdhi niśceṣṭaṃ hīnaṃ vātahataṃ hi tat |
कुम्भीकृष्णाः पित्तेन बह्व्यो ऽन्तर्वर्त्म कुम्भीकबीजवत् ॥ (६।२)
kumbhīkṛṣṇāḥ pittena bahvyo 'ntarvartma kumbhīkabījavat ||
आध्मायन्ते पुनर् भिन्नाः पिटिकाः कुम्भिसंज्ञिताः । (७।१)
ādhmāyante punar bhinnāḥ piṭikāḥ kumbhisaṃjñitāḥ |
सदाहक्लेदनिस्तोदं रक्ताभं स्पर्शनाक्षमम् ॥ (७।२)
sadāhakledanistodaṃ raktābhaṃ sparśanākṣamam ||
पित्तेन जायते वर्त्म पित्तोत्क्लिष्टम् उशन्ति तत् । (८।१)
pittena jāyate vartma pittotkliṣṭam uśanti tat |
करोति कण्डूं दाहं च पित्तं पक्ष्मान्तम् आस्थितम् ॥ (८।२)
karoti kaṇḍūṃ dāhaṃ ca pittaṃ pakṣmāntam āsthitam ||
पक्ष्मणां शातनं चानु पक्ष्मशातं वदन्ति तम् । (९।१)
pakṣmaṇāṃ śātanaṃ cānu pakṣmaśātaṃ vadanti tam |
पोथक्यः पिटिकाः श्वेताः सर्षपाभा घनाः कफात् ॥ (९।२)
pothakyaḥ piṭikāḥ śvetāḥ sarṣapābhā ghanāḥ kaphāt ||
कफोत्क्लिष्टं भवेद् वर्त्म स्तम्भक्लेदोपदेहवत् ॥ (१०।२)
kaphotkliṣṭaṃ bhaved vartma stambhakledopadehavat ||
ग्रन्थिः पाण्डुररुक्पाकः कण्डूमान् कठिनः कफात् । (११।१)
granthiḥ pāṇḍurarukpākaḥ kaṇḍūmān kaṭhinaḥ kaphāt |
कोलमात्रः स लगणः किंचिद् अल्पस् ततो ऽथवा ॥ (११।२)
kolamātraḥ sa lagaṇaḥ kiṃcid alpas tato 'thavā ||
उत्सङ्गाख्या तथोत्क्लिष्टं राजीमत् स्पर्शनाक्षमम् ॥ (१२।२)
utsaṅgākhyā tathotkliṣṭaṃ rājīmat sparśanākṣamam ||
अर्शो ऽधिमांसं वर्त्मान्तः स्तब्धं स्निग्धं सदाहरुक् । (१३।१)
arśo 'dhimāṃsaṃ vartmāntaḥ stabdhaṃ snigdhaṃ sadāharuk |
रक्तं रक्तेन तत्स्रावि छिन्नं छिन्नं च वर्धते ॥ (१३।२)
raktaṃ raktena tatsrāvi chinnaṃ chinnaṃ ca vardhate ||
मध्ये वा वर्त्मनो ऽन्ते वा कण्डूषारुग्वती स्थिरा । (१४।१)
madhye vā vartmano 'nte vā kaṇḍūṣārugvatī sthirā |
दोषैर् वर्त्म बहिः शूनं यद् अन्तः सूक्ष्मखाचितम् । (१५।१)
doṣair vartma bahiḥ śūnaṃ yad antaḥ sūkṣmakhācitam |
सस्रावम् अन्तरुदकं बिसाभं बिसवर्त्म तत् ॥ (१५।२)
sasrāvam antarudakaṃ bisābhaṃ bisavartma tat ||
यद् वर्त्मोत्क्लिष्टम् उत्क्लिष्टम् अकस्मान् म्लानताम् इयात् । (१६।१)
yad vartmotkliṣṭam utkliṣṭam akasmān mlānatām iyāt |
रक्तदोषत्रयोत्क्लेशाद् भवत्युत्क्लिष्टवर्त्म तत् ॥ (१६।२)
raktadoṣatrayotkleśād bhavatyutkliṣṭavartma tat ||
श्याववर्त्म मलैः सास्रैः श्यावं रुक्क्लेदशोफवत् । (१७।१)
śyāvavartma malaiḥ sāsraiḥ śyāvaṃ rukkledaśophavat |
श्लिष्टाख्यं वर्त्मनी श्लिष्टे कण्डूश्वयथुरागिणी ॥ (१७।२)
śliṣṭākhyaṃ vartmanī śliṣṭe kaṇḍūśvayathurāgiṇī ||
वर्त्मनो ऽन्तः खरा रूक्षाः पिटिकाः सिकतोपमाः । (१८।१)
vartmano 'ntaḥ kharā rūkṣāḥ piṭikāḥ sikatopamāḥ |
सिकतावर्त्म कृष्णं तु कर्दमं कर्दमोपमम् ॥ (१८।२)
sikatāvartma kṛṣṇaṃ tu kardamaṃ kardamopamam ||
बहलबहलं बहलैर् मांसैः सवर्णैश्चीयते समैः । (१९।१)
bahalabahalaṃ bahalair māṃsaiḥ savarṇaiścīyate samaiḥ |
कुकूणककुकूणकः शिशोरेव दन्तोत्पत्तिनिमित्तजः ॥ (१९।२)
kukūṇakakukūṇakaḥ śiśoreva dantotpattinimittajaḥ ||
स्यात् तेन शिशुरुच्छूनताम्राक्षो वीक्षणाक्षमः । (२०।१)
syāt tena śiśurucchūnatāmrākṣo vīkṣaṇākṣamaḥ |
सवर्त्मशूलपैच्छिल्यः कर्णनासाक्षिमर्दनः ॥ (२०।२)
savartmaśūlapaicchilyaḥ karṇanāsākṣimardanaḥ ||
पक्ष्मोपरोधे संकोचो वर्त्मनां जायते तथा । (२१।१)
pakṣmoparodhe saṃkoco vartmanāṃ jāyate tathā |
खरतान्तर्मुखत्वं च रोम्णाम् अन्यानि वा पुनः ॥ (२१।२)
kharatāntarmukhatvaṃ ca romṇām anyāni vā punaḥ ||
कण्टकैरिव तीक्ष्णाग्रैर् घृष्टं तैरक्षि शूयते । (२२।१)
kaṇṭakairiva tīkṣṇāgrair ghṛṣṭaṃ tairakṣi śūyate |
उष्यते चानिलादिद्विड् अल्पाहः शान्तिरुद्धृतैः ॥ (२२।२)
uṣyate cānilādidviḍ alpāhaḥ śāntiruddhṛtaiḥ ||
कनीनके बहिर्वर्त्म कठिनो ग्रन्थिरुन्नतः । (२३।१)
kanīnake bahirvartma kaṭhino granthirunnataḥ |
ताम्रः पक्वो ऽस्रपूयस्रुद् अलज्याध्मायते मुहुः ॥ (२३।२)
tāmraḥ pakvo 'srapūyasrud alajyādhmāyate muhuḥ ||
वर्त्मान्तर् मांसपिण्डाभः श्वयथुर् ग्रथितो ऽरुजः । (२४।१)
vartmāntar māṃsapiṇḍābhaḥ śvayathur grathito 'rujaḥ |
सास्रैः स्याद् अर्बुदो दोषैर् विषमो बाह्यतश्चलः ॥ (२४।२)
sāsraiḥ syād arbudo doṣair viṣamo bāhyataścalaḥ ||
चतुर्विंशतिरित्येते व्याधयो वर्त्मसंश्रयाः । (२५।१)
caturviṃśatirityete vyādhayo vartmasaṃśrayāḥ |
आद्यो ऽत्र भेषजैः साध्यो द्वौ ततो ऽर्शश्च वर्जयेत् ॥ (२५।२)
ādyo 'tra bheṣajaiḥ sādhyo dvau tato 'rśaśca varjayet ||
पक्ष्मोपरोधो याप्यः स्याच्छेषाञ्छस्त्रेण साधयेत् । (२६।१)
pakṣmoparodho yāpyaḥ syāccheṣāñchastreṇa sādhayet |
कुट्टयेत् पक्ष्मसदनं छिन्द्यात् तेष्वपि चार्बुदम् ॥ (२६।२)
kuṭṭayet pakṣmasadanaṃ chindyāt teṣvapi cārbudam ||
भिन्द्याल्लगणकुम्भीकाबिसोत्सङ्गाञ्जनालजीः । (२७।१)
bhindyāllagaṇakumbhīkābisotsaṅgāñjanālajīḥ |
पोथकीश्यावसिकताश्लिष्टोत्क्लिष्टचतुष्टयम् । (२७।२)
pothakīśyāvasikatāśliṣṭotkliṣṭacatuṣṭayam |
Data courtesy of The Digital Corpus of Sanskrit.