अष्टाङ्गहृदयसंहिताAṣṭāṅgahṛdayasaṃhitā
AHS, 4, 16
Select a line for its word-by-word analysis.
पाण्ड्वामयी पिबेत् सर्पिरादौ कल्याणकाह्वयम् । (१।३)
pāṇḍvāmayī pibet sarpirādau kalyāṇakāhvayam |
दाडिमात् कुडवो धान्यात् कुडवार्धं पलं पलम् । (२।१)
dāḍimāt kuḍavo dhānyāt kuḍavārdhaṃ palaṃ palam |
चित्रकाच्छृङ्गवेराच्च पिप्पल्यर्धपलं च तैः ॥ (२।२)
citrakācchṛṅgaverācca pippalyardhapalaṃ ca taiḥ ||
सिद्धं हृत्पाण्डुगुल्मार्शःप्लीहवातकफार्तिनुत् ॥ (३।२)
siddhaṃ hṛtpāṇḍugulmārśaḥplīhavātakaphārtinut ||
दुःखप्रसविनीनां च वन्ध्यानां च प्रशस्यते ॥ (४।२)
duḥkhaprasavinīnāṃ ca vandhyānāṃ ca praśasyate ||
स्नेहितं वामयेत् तीक्ष्णैः पुनः स्निग्धं च शोधयेत् । (५।१)
snehitaṃ vāmayet tīkṣṇaiḥ punaḥ snigdhaṃ ca śodhayet |
द्राक्षाञ्जलिं वा मृदितं तत् पिबेत् पाण्डुरोगजित् ॥ (६।२)
drākṣāñjaliṃ vā mṛditaṃ tat pibet pāṇḍurogajit ||
मूत्रेण पिष्टां पथ्यां वा तत्सिद्धं वा फलत्रयम् । (७।१)
mūtreṇa piṣṭāṃ pathyāṃ vā tatsiddhaṃ vā phalatrayam |
स्वर्णक्षीरीत्रिवृच्छ्यामाभद्रदारुमहौषधम् ॥ (७।२)
svarṇakṣīrītrivṛcchyāmābhadradārumahauṣadham ||
गोमूत्राञ्जलिना पिष्टं शृतं तेनैव वा पिबेत् । (८।१)
gomūtrāñjalinā piṣṭaṃ śṛtaṃ tenaiva vā pibet |
साधितं क्षीरम् एभिर् वा पिबेद् दोषानुलोमनम् ॥ (८।२)
sādhitaṃ kṣīram ebhir vā pibed doṣānulomanam ||
मूत्रे स्थितं वा सप्ताहं पयसायोरजः पिबेत् । (९।१)
mūtre sthitaṃ vā saptāhaṃ payasāyorajaḥ pibet |
शुद्धश्चोभयतो लिह्यात् पथ्यां मधुघृतद्रुताम् । (१०।१)
śuddhaścobhayato lihyāt pathyāṃ madhughṛtadrutām |
कर्षांशा द्विपिचुर् मूर्वा कर्षार्धांशा घुणप्रिया । (११।१)
karṣāṃśā dvipicur mūrvā karṣārdhāṃśā ghuṇapriyā |
पीत्वा तच्चूर्णम् अम्भोभिः सुखैर् लिह्यात् ततो मधु ॥ (११।२)
pītvā taccūrṇam ambhobhiḥ sukhair lihyāt tato madhu ||
पाण्डुरोगं ज्वरं दाहं कासं श्वासम् अरोचकम् । (१२।१)
pāṇḍurogaṃ jvaraṃ dāhaṃ kāsaṃ śvāsam arocakam |
गुल्मानाहामवातांश्च रक्तपित्तं च तज्जयेत् ॥ (१२।२)
gulmānāhāmavātāṃśca raktapittaṃ ca tajjayet ||
क्वाथः क्षौद्रयुतो हन्ति पाण्डुपित्तास्रकामलाः ॥ (१३।२)
kvāthaḥ kṣaudrayuto hanti pāṇḍupittāsrakāmalāḥ ||
व्योषाग्निवेल्लत्रिफलामुस्तैस् तुल्यम् अयोरजः । (१४।१)
vyoṣāgnivellatriphalāmustais tulyam ayorajaḥ |
चूर्णितं तक्रमध्वाज्यकोष्णाम्भोभिः प्रयोजितम् ॥ (१४।२)
cūrṇitaṃ takramadhvājyakoṣṇāmbhobhiḥ prayojitam ||
पिप्पलीद्विगुणान् दद्याद् गुटिकां पाण्डुरोगिणे । (१६।१)
pippalīdviguṇān dadyād guṭikāṃ pāṇḍurogiṇe |
ताप्यं दार्व्यास् त्वचं चव्यं ग्रन्थिकं देवदारु च ॥ (१६।२)
tāpyaṃ dārvyās tvacaṃ cavyaṃ granthikaṃ devadāru ca ||
व्योषादिनवकं चैतच्चूर्णयेद् द्विगुणं ततः । (१७।१)
vyoṣādinavakaṃ caitaccūrṇayed dviguṇaṃ tataḥ |
मण्डूरं चाञ्जननिभं सर्वतो ऽष्टगुणे ऽथ तत् ॥ (१७।२)
maṇḍūraṃ cāñjananibhaṃ sarvato 'ṣṭaguṇe 'tha tat ||
प्रक्षिप्य वटकान् कुर्यात् तान् खादेत् तक्रभोजनः ॥ (१८।२)
prakṣipya vaṭakān kuryāt tān khādet takrabhojanaḥ ||
कुष्ठान्यजरकं शोफम् ऊरुस्तम्भम् अरोचकम् ॥ (१९।२)
kuṣṭhānyajarakaṃ śopham ūrustambham arocakam ||
अर्शांसि कामलां मेहान् प्लीहानं शमयन्ति च । (२०।१)
arśāṃsi kāmalāṃ mehān plīhānaṃ śamayanti ca |
ताप्याद्रिजतुरौप्यायोमलाः पञ्चपलाः पृथक् ॥ (२०।२)
tāpyādrijaturaupyāyomalāḥ pañcapalāḥ pṛthak ||
शर्कराष्टपलोन्मिश्राश्चूर्णिता मधुना द्रुताः ॥ (२१।२)
śarkarāṣṭapalonmiśrāścūrṇitā madhunā drutāḥ ||
पाण्डुरोगं विषं कासं यक्ष्माणं विषमं ज्वरम् । (२२।१)
pāṇḍurogaṃ viṣaṃ kāsaṃ yakṣmāṇaṃ viṣamaṃ jvaram |
कुष्ठान्यजरकं मेहं शोफं श्वासम् अरोचकम् ॥ (२२।२)
kuṣṭhānyajarakaṃ mehaṃ śophaṃ śvāsam arocakam ||
भावितानि दशाहानि रसैर् द्वित्रिगुणानि वा । (२४।१)
bhāvitāni daśāhāni rasair dvitriguṇāni vā |
त्वक्क्षीरीपिप्पलीधात्रीकर्कटाख्याः पलोन्मिताः । (२५।१)
tvakkṣīrīpippalīdhātrīkarkaṭākhyāḥ palonmitāḥ |
निदिग्ध्याः फलमूलाभ्यां पलं युक्त्या त्रिजातकम् ॥ (२५।२)
nidigdhyāḥ phalamūlābhyāṃ palaṃ yuktyā trijātakam ||
मधुत्रिपलसंयुक्तान् कुर्याद् अक्षसमान् गुडान् । (२६।१)
madhutripalasaṃyuktān kuryād akṣasamān guḍān |
तान् भक्षयित्वानुपिबेन् निरन्नो भुक्त एव वा । (२७।१)
tān bhakṣayitvānupiben niranno bhukta eva vā |
मेहवर्ध्मभ्रमान् हन्युः सर्वदोषहराः शिवाः । (२९।१)
mehavardhmabhramān hanyuḥ sarvadoṣaharāḥ śivāḥ |
द्राक्षाप्रस्थं कणाप्रस्थं शर्करार्धतुलां तथा ॥ (२९।२)
drākṣāprasthaṃ kaṇāprasthaṃ śarkarārdhatulāṃ tathā ||
द्विपलं मधुकं शुण्ठीं त्वक्क्षीरीं च विचूर्णितम् । (३०।१)
dvipalaṃ madhukaṃ śuṇṭhīṃ tvakkṣīrīṃ ca vicūrṇitam |
धात्रीफलरसद्रोणे तत् क्षिप्त्वा लेहवत् पचेत् ॥ (३०।२)
dhātrīphalarasadroṇe tat kṣiptvā lehavat pacet ||
शीतान् मधुप्रस्थयुताल्लिह्यात् पाणितलं ततः । (३१।१)
śītān madhuprasthayutāllihyāt pāṇitalaṃ tataḥ |
पाण्डूनां कामलार्तानां मृद्वीकामलकाद् रसः ॥ (३२।२)
pāṇḍūnāṃ kāmalārtānāṃ mṛdvīkāmalakād rasaḥ ||
इति सामान्यतः प्रोक्तं पाण्डुरोगे भिषग्जितम् । (३३।१)
iti sāmānyataḥ proktaṃ pāṇḍuroge bhiṣagjitam |
विकल्प्य योज्यं विदुषा पृथग् दोषबलं प्रति ॥ (३३।२)
vikalpya yojyaṃ viduṣā pṛthag doṣabalaṃ prati ||
स्नेहप्रायं पवनजे तिक्तशीतं तु पैत्तिके । (३४।१)
snehaprāyaṃ pavanaje tiktaśītaṃ tu paittike |
श्लैष्मिके कटुरूक्षोष्णं विमिश्रं सांनिपातिके ॥ (३४।२)
ślaiṣmike kaṭurūkṣoṣṇaṃ vimiśraṃ sāṃnipātike ||
मृदं निर्यापयेत् कायात् तीक्ष्णैः संशोधनैः पुरः । (३५।१)
mṛdaṃ niryāpayet kāyāt tīkṣṇaiḥ saṃśodhanaiḥ puraḥ |
बलाधानानि सर्पींषि शुद्धे कोष्ठे तु योजयेत् ॥ (३५।२)
balādhānāni sarpīṃṣi śuddhe koṣṭhe tu yojayet ||
वृश्चिकाली च भार्गी च सक्षीरैस् तैः शृतं घृतम् । (३७।१)
vṛścikālī ca bhārgī ca sakṣīrais taiḥ śṛtaṃ ghṛtam |
सर्वान् प्रशमयत्याशु विकारान् मृत्तिकाकृतान् ॥ (३७।२)
sarvān praśamayatyāśu vikārān mṛttikākṛtān ||
तद्वत् केसरयष्ट्याह्वपिप्पलीक्षीरशाद्वलैः । (३८।१)
tadvat kesarayaṣṭyāhvapippalīkṣīraśādvalaiḥ |
मृद्द्वेषणाय तल्लौल्ये वितरेद् भावितां मृदम् ॥ (३८।२)
mṛddveṣaṇāya tallaulye vitared bhāvitāṃ mṛdam ||
वेल्लाग्निनिम्बप्रसवैः पाठया मूर्वयाथवा । (३९।१)
vellāgninimbaprasavaiḥ pāṭhayā mūrvayāthavā |
मृद्भेदभिन्नदोषानुगमाद् योज्यं च भेषजम् ॥ (३९।२)
mṛdbhedabhinnadoṣānugamād yojyaṃ ca bheṣajam ||
कामलायां तु पित्तघ्नं पाण्डुरोगाविरोधि यत् । (४०।१)
kāmalāyāṃ tu pittaghnaṃ pāṇḍurogāvirodhi yat |
प्रस्थः सिद्धो घृताद् गुल्मकामलापाण्डुरोगनुत् । (४१।१)
prasthaḥ siddho ghṛtād gulmakāmalāpāṇḍuroganut |
सत्र्यूषणं बिल्वमात्रं पाययेत् कामलापहम् । (४२।१)
satryūṣaṇaṃ bilvamātraṃ pāyayet kāmalāpaham |
पिबेन्निकुम्भकल्कं वा द्विगुडं शीतवारिणा ॥ (४२।२)
pibennikumbhakalkaṃ vā dviguḍaṃ śītavāriṇā ||
कुम्भस्य चूर्णं सक्षौद्रं त्रैफलेन रसेन वा । (४३।१)
kumbhasya cūrṇaṃ sakṣaudraṃ traiphalena rasena vā |
त्रिफलाया गुडूच्या वा दार्व्या निम्बस्य वा रसम् ॥ (४३।२)
triphalāyā guḍūcyā vā dārvyā nimbasya vā rasam ||
प्रातः प्रातर् मधुयुतं कामलार्ताय योजयेत् । (४४।१)
prātaḥ prātar madhuyutaṃ kāmalārtāya yojayet |
तिलपिष्टनिभं यस् तु कामलावान् सृजेन् मलम् । (४५।१)
tilapiṣṭanibhaṃ yas tu kāmalāvān sṛjen malam |
कफरुद्धपथं तस्य पित्तं कफहरैर् जयेत् ॥ (४५।२)
kapharuddhapathaṃ tasya pittaṃ kaphaharair jayet ||
कफसंमूर्छितो वायुर् यदा पित्तं बहिः क्षिपेत् ॥ (४६।२)
kaphasaṃmūrchito vāyur yadā pittaṃ bahiḥ kṣipet ||
हारिद्रनेत्रमूत्रत्वक् श्वेतवर्चास् तदा नरः । (४७।१)
hāridranetramūtratvak śvetavarcās tadā naraḥ |
दौर्बल्याल्पाग्निपार्श्वार्तिहिध्माश्वासारुचिज्वरैः । (४८।१)
daurbalyālpāgnipārśvārtihidhmāśvāsārucijvaraiḥ |
क्रमेणाल्पे ऽनुषज्येत पित्ते शाखासमाश्रिते ॥ (४८।२)
krameṇālpe 'nuṣajyeta pitte śākhāsamāśrite ||
रसैस् तं रूक्षकट्वम्लैः शिखितित्तिरिदक्षजैः । (४९।१)
rasais taṃ rūkṣakaṭvamlaiḥ śikhitittiridakṣajaiḥ |
शुष्कमूलकजैर् यूषैः कुलत्थोत्थैश्च भोजयेत् ॥ (४९।२)
śuṣkamūlakajair yūṣaiḥ kulatthotthaiśca bhojayet ||
स्वं पित्तम् एति तेनास्य शकृद् अप्यनुरज्यते । (५१।१)
svaṃ pittam eti tenāsya śakṛd apyanurajyate |
वायुश्च याति प्रशमं सहाटोपाद्युपद्रवैः ॥ (५१।२)
vāyuśca yāti praśamaṃ sahāṭopādyupadravaiḥ ||
निवृत्तोपद्रवस्यास्य कार्यः कामलिको विधिः । (५२।१)
nivṛttopadravasyāsya kāryaḥ kāmaliko vidhiḥ |
मासं माक्षिकधातुं वा किट्टं वाथ हिरण्यजम् । (५३।१)
māsaṃ mākṣikadhātuṃ vā kiṭṭaṃ vātha hiraṇyajam |
महिषीहविषा स्निग्धः पिबेद्धात्रीरसेन तु । (५४।१)
mahiṣīhaviṣā snigdhaḥ pibeddhātrīrasena tu |
त्रिवृतां तद्विरिक्तो ऽद्यात् स्वादु पित्तानिलापहम् ॥ (५४।२)
trivṛtāṃ tadvirikto 'dyāt svādu pittānilāpaham ||
द्राक्षालेहं च पूर्वोक्तं सर्पींषि मधुराणि च । (५५।१)
drākṣālehaṃ ca pūrvoktaṃ sarpīṃṣi madhurāṇi ca |
यापनान् क्षीरवस्तींश्च शीलयेत् सानुवासनान् ॥ (५५।२)
yāpanān kṣīravastīṃśca śīlayet sānuvāsanān ||
मार्द्वीकारिष्टयोगांश्च पिबेद् युक्त्याग्निवृद्धये । (५६।१)
mārdvīkāriṣṭayogāṃśca pibed yuktyāgnivṛddhaye |
कासिकं चाभयालेहं पिप्पलीं मधुकं बलाम् ॥ (५६।२)
kāsikaṃ cābhayālehaṃ pippalīṃ madhukaṃ balām ||
पाण्डुरोगेषु कुशलः शोफोक्तं च क्रियाक्रमम् ॥ (५७।२)
pāṇḍurogeṣu kuśalaḥ śophoktaṃ ca kriyākramam ||
Data courtesy of The Digital Corpus of Sanskrit.