अष्टाङ्गहृदयसंहिताAṣṭāṅgahṛdayasaṃhitā
AHS, 1, 14
Select a line for its word-by-word analysis.
उपक्रम्यस्य हि द्वित्वाद् द्विधैवोपक्रमो मतः । (१।१)
upakramyasya hi dvitvād dvidhaivopakramo mataḥ |
बृंहण - लङ्घनएकः संतर्पणस् तत्र द्वितीयश् चापतर्पणः ॥ (१।२)
bṛṃhaṇa - laṅghanaekaḥ saṃtarpaṇas tatra dvitīyaś cāpatarpaṇaḥ ||
बृंहणं यद् बृहत्त्वाय लङ्घनं लाघवाय यत् ॥ (२।२)
bṛṃhaṇaṃ yad bṛhattvāya laṅghanaṃ lāghavāya yat ||
देहस्य भवतः प्रायो भौमाप्यम् इतरच् च ते । (३।१)
dehasya bhavataḥ prāyo bhaumāpyam itarac ca te |
स्नेहनं रूक्षणं कर्म स्वेदनं स्तम्भनं च यत् ॥ (३।२)
snehanaṃ rūkṣaṇaṃ karma svedanaṃ stambhanaṃ ca yat ||
भूतानां तद् अपि द्वैध्याद् द्वितयं नातिवर्तते । (४।१)
bhūtānāṃ tad api dvaidhyād dvitayaṃ nātivartate |
लङ्घन:: सुब्त्य्पेस्शोधनं शमनं चेति द्विधा तत्रापि लङ्घनम् ॥ (४।२)
laṅghana:: subtypesśodhanaṃ śamanaṃ ceti dvidhā tatrāpi laṅghanam ||
लङ्घन:: शोधनयद् ईरयेद् बहिर् दोषान् पञ्चधा शोधनं च तत् । (५।१)
laṅghana:: śodhanayad īrayed bahir doṣān pañcadhā śodhanaṃ ca tat |
लङ्घन:: शमनन शोधयति यद् दोषान् समान् नोदीरयत्य् अपि । (६।१)
laṅghana:: śamanana śodhayati yad doṣān samān nodīrayaty api |
लङ्घन:: शमन:: सुब्त्य्पेस्पाचनं दीपनं क्षुत्तृड्व्यायामातपमारुताः । (७।१)
laṅghana:: śamana:: subtypespācanaṃ dīpanaṃ kṣuttṛḍvyāyāmātapamārutāḥ |
बृंहणं शमनं त्व् एव वायोः पित्तानिलस्य च ॥ (७।२)
bṛṃhaṇaṃ śamanaṃ tv eva vāyoḥ pittānilasya ca ||
बृंहण:: मेथोद्बृंहयेद् व्याधिभैषज्यमद्यस्त्रीशोककर्शितान् । (८।१)
bṛṃhaṇa:: methodbṛṃhayed vyādhibhaiṣajyamadyastrīśokakarśitān |
गर्भिणीसूतिकाबालवृद्धान् ग्रीष्मे ऽपरान् अपि । (९।१)
garbhiṇīsūtikābālavṛddhān grīṣme 'parān api |
स्वप्नशय्यासुखाभ्यङ्गस्नाननिर्वृतिहर्षणैः । (१०।१)
svapnaśayyāsukhābhyaṅgasnānanirvṛtiharṣaṇaiḥ |
स्थूलांश् च लङ्घयेन् नित्यं शिशिरे त्व् अपरान् अपि ॥ (११।२)
sthūlāṃś ca laṅghayen nityaṃ śiśire tv aparān api ||
शोधन:: उसेतत्र संशोधनैः स्थौल्यबलपित्तकफाधिकान् । (१२।१)
śodhana:: usetatra saṃśodhanaiḥ sthaulyabalapittakaphādhikān |
मध्यस्थौल्यादिकान् प्रायः पूर्वं पाचनदीपनैः ॥ (१३।२)
madhyasthaulyādikān prāyaḥ pūrvaṃ pācanadīpanaiḥ ||
एभिर् एवामयैर् आर्तान् हीनस्थौल्यबलादिकान् । (१४।१)
ebhir evāmayair ārtān hīnasthaulyabalādikān |
क्षुत्तृष्णानिग्रहैर् दोषैस् त्व् आर्तान् मध्यबलैर् दृढान् ॥ (१४।२)
kṣuttṛṣṇānigrahair doṣais tv ārtān madhyabalair dṛḍhān ||
बृंहण, लङ्गन निछ्त् औस्तौस्छेन्न बृंहयेल् लङ्घनीयान् बृंह्यांस् तु मृदु लङ्घयेत् ॥ (१५।२)
bṛṃhaṇa, laṅgana nicht austauschenna bṛṃhayel laṅghanīyān bṛṃhyāṃs tu mṛdu laṅghayet ||
बृंहण:: रेसुल्त्बृंहिते स्याद् बलं पुष्टिस् तत्साध्यामयसंक्षयः ॥ (१६।२)
bṛṃhaṇa:: resultbṛṃhite syād balaṃ puṣṭis tatsādhyāmayasaṃkṣayaḥ ||
लङ्घन:: रेसुल्त्विमलेन्द्रियता सर्गो मलानां लाघवं रुचिः । (१७।१)
laṅghana:: resultvimalendriyatā sargo malānāṃ lāghavaṃ ruciḥ |
क्षुत्तृट्सहोदयः शुद्धहृदयोद्गारकण्ठता ॥ (१७।२)
kṣuttṛṭsahodayaḥ śuddhahṛdayodgārakaṇṭhatā ||
व्याधिमार्दवम् उत्साहस् तन्द्रानाशश् च लङ्घिते । (१८।१)
vyādhimārdavam utsāhas tandrānāśaś ca laṅghite |
लङ्घन, बृंहण:: wरोन्ग् उसेअनपेक्षितमात्रादिसेविते कुरुतस् तु ते ॥ (१८।२)
laṅghana, bṛṃhaṇa:: wrong useanapekṣitamātrādisevite kurutas tu te ||
अतिस्थौल्यातिकार्श्यादीन् वक्ष्यन्ते ते च सौषधाः । (१९।१)
atisthaulyātikārśyādīn vakṣyante te ca sauṣadhāḥ |
रूपं तैर् एव च ज्ञेयम् अतिबृंहितलङ्घिते ॥ (१९।२)
rūpaṃ tair eva ca jñeyam atibṛṃhitalaṅghite ||
एxचेस्सिवे बृंहणअतिस्थौल्यापचीमेहज्वरोदरभगन्दरान् । (२०।१)
excessive bṛṃhaṇaatisthaulyāpacīmehajvarodarabhagandarān |
काससंन्यासकृच्छ्रामकुष्ठादीन् अतिदारुणान् ॥ (२०।२)
kāsasaṃnyāsakṛcchrāmakuṣṭhādīn atidāruṇān ||
एxच्। बृं।:: त्रेअत्मेन्त्तत्र मेदोऽनिलश्लेष्मनाशनं सर्वम् इष्यते । (२१।१)
exc. bṛṃ.:: treatmenttatra medo'nilaśleṣmanāśanaṃ sarvam iṣyate |
मधुना त्रिफलां लिह्याद् गुडूचीम् अभयां घनम् ॥ (२२।२)
madhunā triphalāṃ lihyād guḍūcīm abhayāṃ ghanam ||
यवामलकचूर्णं च योगो ऽतिस्थौल्यदोषजित् ॥ (२४।२)
yavāmalakacūrṇaṃ ca yogo 'tisthaulyadoṣajit ||
निशे बृहत्यौ हपुषा पाठा मूलं च केम्बुकात् । (२६।१)
niśe bṛhatyau hapuṣā pāṭhā mūlaṃ ca kembukāt |
एषां चूर्णं मधु घृतं तैलं च सदृशांशकम् ॥ (२६।२)
eṣāṃ cūrṇaṃ madhu ghṛtaṃ tailaṃ ca sadṛśāṃśakam ||
सक्तुभिः षोडशगुणैर् युक्तं पीतं निहन्ति तत् । (२७।१)
saktubhiḥ ṣoḍaśaguṇair yuktaṃ pītaṃ nihanti tat |
अतिस्थौल्यादिकान् सर्वान् रोगान् अन्यांश् च तद्विधान् ॥ (२७।२)
atisthaulyādikān sarvān rogān anyāṃś ca tadvidhān ||
बुद्धिमेधास्मृतिकरं संनस्याग्नेश् च दीपनम् ॥ (२८।२)
buddhimedhāsmṛtikaraṃ saṃnasyāgneś ca dīpanam ||
एxचेस्सिवे लङ्घन:: स्य्म्प्तोम्सतिकार्श्यं भ्रमः कासस् तृष्णाधिक्यम् अरोचकः । (२९।१)
excessive laṅghana:: symptomsatikārśyaṃ bhramaḥ kāsas tṛṣṇādhikyam arocakaḥ |
वस्तिहृन्मूर्धजङ्घोरुत्रिकपार्श्वरुजा ज्वरः । (३०।१)
vastihṛnmūrdhajaṅghorutrikapārśvarujā jvaraḥ |
प्रलापोर्ध्वानिलग्लानिच्छर्दिपर्वास्थिभेदनम् ॥ (३०।२)
pralāpordhvānilaglānicchardiparvāsthibhedanam ||
वर्चोमूत्रग्रहाद्याश् च जायन्ते ऽतिविलङ्घनात् । (३१।१)
varcomūtragrahādyāś ca jāyante 'tivilaṅghanāt |
थिन्नेस्स् बेत्तेर् थन् ड़त्नेस्स्कार्श्यम् एव वरं स्थौल्यान् न हि स्थूलस्य भेषजम् ॥ (३१।२)
thinness better than fatnesskārśyam eva varaṃ sthaulyān na hi sthūlasya bheṣajam ||
बृंहणं लङ्घनं वालम् अतिमेदोऽग्निवातजित् । (३२।१)
bṛṃhaṇaṃ laṅghanaṃ vālam atimedo'gnivātajit |
मधुरस्निग्धसौहित्यैर् यत् सौख्येन च नश्यति ॥ (३२।२)
madhurasnigdhasauhityair yat saukhyena ca naśyati ||
योजयेद् बृंहणं तत्र सर्वं पानान्नभेषजम् ॥ (३३।२)
yojayed bṛṃhaṇaṃ tatra sarvaṃ pānānnabheṣajam ||
स्वप्नप्रसङ्गाच् च कृशो वराह इव पुष्यति ॥ (३४।२)
svapnaprasaṅgāc ca kṛśo varāha iva puṣyati ||
उसे ओड़् मेअत् ड़ोर् बृंहणन हि मांससमं किंचिद् अन्यद् देहबृहत्त्वकृत् । (३५।१)
use of meat for bṛṃhaṇana hi māṃsasamaṃ kiṃcid anyad dehabṛhattvakṛt |
मांसादमांसं मांसेन संभृतत्वाद् विशेषतः ॥ (३५।२)
māṃsādamāṃsaṃ māṃsena saṃbhṛtatvād viśeṣataḥ ||
गुरु चातर्पणं स्थूले विपरीतं हितं कृशे । (३६।१)
guru cātarpaṇaṃ sthūle viparītaṃ hitaṃ kṛśe |
उपक्रमा न ते द्वित्वाद् भिन्ना अपि गदा इव ॥ (३७।२)
upakramā na te dvitvād bhinnā api gadā iva ||
Data courtesy of The Digital Corpus of Sanskrit.