अष्टाङ्गहृदयसंहिताAṣṭāṅgahṛdayasaṃhitā
AHS, 1, 30
Select a line for its word-by-word analysis.
अथातः क्षाराग्निकर्मविधिम् अध्यायं व्याख्यास्यामः । (१।१)
athātaḥ kṣārāgnikarmavidhim adhyāyaṃ vyākhyāsyāmaḥ |
सर्वशस्त्रानुशस्त्राणां क्षारः श्रेष्ठो बहूनि यत् । (१।३)
sarvaśastrānuśastrāṇāṃ kṣāraḥ śreṣṭho bahūni yat |
दुःखावचार्यशस्त्रेषु तेन सिद्धिम् अयात्सु च । (२।१)
duḥkhāvacāryaśastreṣu tena siddhim ayātsu ca |
अतिकृच्छ्रेषु रोगेषु यच्च पाने ऽपि युज्यते ॥ (२।२)
atikṛcchreṣu rogeṣu yacca pāne 'pi yujyate ||
योज्यः साक्षान् मषश्वित्रबाह्यार्शःकुष्ठसुप्तिषु ॥ (३।२)
yojyaḥ sākṣān maṣaśvitrabāhyārśaḥkuṣṭhasuptiṣu ||
न तूभयो ऽपि योक्तव्यः पित्ते रक्ते चले ऽबले ॥ (४।२)
na tūbhayo 'pi yoktavyaḥ pitte rakte cale 'bale ||
ज्वरे ऽतीसारे हृन्मूर्धरोगे पाण्ड्वामये ऽरुचौ । (५।१)
jvare 'tīsāre hṛnmūrdharoge pāṇḍvāmaye 'rucau |
अजीर्णे ऽन्ने शिशौ वृद्धे धमनीसंधिमर्मसु ॥ (६।२)
ajīrṇe 'nne śiśau vṛddhe dhamanīsaṃdhimarmasu ||
वर्त्मरोगाद् ऋते ऽक्ष्णोश्च शीतवर्षोष्णदुर्दिने । (८।१)
vartmarogād ṛte 'kṣṇośca śītavarṣoṣṇadurdine |
काकजङ्घाम् अपामार्गम् अग्निमन्थाग्नितिल्वकान् । (१०।१)
kākajaṅghām apāmārgam agnimanthāgnitilvakān |
सार्द्रान् समूलशाखादीन् खण्डशः परिकल्पितान् ॥ (१०।२)
sārdrān samūlaśākhādīn khaṇḍaśaḥ parikalpitān ||
प्रक्षिप्य मुष्ककचये सुधाश्मानि च दीपयेत् । (१२।१)
prakṣipya muṣkakacaye sudhāśmāni ca dīpayet |
ततस् तिलानां कुतलैर् दग्ध्वाग्नौ विगते पृथक् ॥ (१२।२)
tatas tilānāṃ kutalair dagdhvāgnau vigate pṛthak ||
कृत्वा सुधाश्मनां भस्म द्रोणं त्वितरभस्मनः । (१३।१)
kṛtvā sudhāśmanāṃ bhasma droṇaṃ tvitarabhasmanaḥ |
मुष्ककोत्तरम् आदाय प्रत्येकं जलमूत्रयोः ॥ (१३।२)
muṣkakottaram ādāya pratyekaṃ jalamūtrayoḥ ||
यावत् पिच्छिलरक्ताच्छस् तीक्ष्णो जातस् तदा च तम् ॥ (१४।२)
yāvat picchilaraktācchas tīkṣṇo jātas tadā ca tam ||
गृहीत्वा क्षारनिष्यन्दं पचेल् लौह्यां विघट्टयन् । (१५।१)
gṛhītvā kṣāraniṣyandaṃ pacel lauhyāṃ vighaṭṭayan |
पच्यमाने ततस् तस्मिंस् ताः सुधाभस्मशर्कराः ॥ (१५।२)
pacyamāne tatas tasmiṃs tāḥ sudhābhasmaśarkarāḥ ||
कृत्वाग्निवर्णान् बहुशः क्षारोत्थे कुडवोन्मिते ॥ (१६।२)
kṛtvāgnivarṇān bahuśaḥ kṣārotthe kuḍavonmite ||
निर्वाप्य पिष्ट्वा तेनैव प्रतीवापं विनिक्षिपेत् । (१७।१)
nirvāpya piṣṭvā tenaiva pratīvāpaṃ vinikṣipet |
श्लक्ष्णं शकृद् दक्षशिखिगृध्रकङ्ककपोतजम् ॥ (१७।२)
ślakṣṇaṃ śakṛd dakṣaśikhigṛdhrakaṅkakapotajam ||
परितः सुतरां चातो दर्व्या तम् अवघट्टयेत् ॥ (१८।२)
paritaḥ sutarāṃ cāto darvyā tam avaghaṭṭayet ||
सबाष्पैश्च यदोत्तिष्ठेद् बुद्बुदैर् लेहवद् घनः । (१९।१)
sabāṣpaiśca yadottiṣṭhed budbudair lehavad ghanaḥ |
स्थाप्यो ऽयं मध्यमः क्षारो न तु पिष्ट्वा क्षिपेन् मृदौ । (२०।१)
sthāpyo 'yaṃ madhyamaḥ kṣāro na tu piṣṭvā kṣipen mṛdau |
निर्वाप्यापनयेत् तीक्ष्णे पूर्ववत् प्रतिवापनम् ॥ (२०।२)
nirvāpyāpanayet tīkṣṇe pūrvavat prativāpanam ||
तालपत्त्री विडं चेति सप्तरात्रात् परं तु सः । (२२।१)
tālapattrī viḍaṃ ceti saptarātrāt paraṃ tu saḥ |
योज्यस् तीक्ष्णो ऽनिलश्लेष्ममेदोजेष्वर्बुदादिषु ॥ (२२।२)
yojyas tīkṣṇo 'nilaśleṣmamedojeṣvarbudādiṣu ||
मध्येष्वेष्वेव मध्यो ऽन्यः पित्तास्रगुदजन्मसु । (२३।१)
madhyeṣveṣveva madhyo 'nyaḥ pittāsragudajanmasu |
बलार्थं क्षीणपानीये क्षाराम्बु पुनरावपेत् ॥ (२३।२)
balārthaṃ kṣīṇapānīye kṣārāmbu punarāvapet ||
नातितीक्ष्णमृदुः श्लक्ष्णः पिच्छिलः शीघ्रगः सितः । (२४।१)
nātitīkṣṇamṛduḥ ślakṣṇaḥ picchilaḥ śīghragaḥ sitaḥ |
शिखरी सुखनिर्वाप्यो न विष्यन्दी न चातिरुक् ॥ (२४।२)
śikharī sukhanirvāpyo na viṣyandī na cātiruk ||
आचूषन्न् इव संरम्भाद् गात्रम् आपीडयन्न् इव ॥ (२५।२)
ācūṣann iva saṃrambhād gātram āpīḍayann iva ||
क्षारसाध्ये गदे छिन्ने लिखिते स्राविते ऽथवा । (२७।१)
kṣārasādhye gade chinne likhite srāvite 'thavā |
क्षारं शलाकया दत्त्वा प्लोतप्रावृतदेहया ॥ (२७।२)
kṣāraṃ śalākayā dattvā plotaprāvṛtadehayā ||
मात्राशतम् उपेक्षेत तत्रार्शःस्वावृताननम् । (२८।१)
mātrāśatam upekṣeta tatrārśaḥsvāvṛtānanam |
हस्तेन यन्त्रं कुर्वीत वर्त्मरोगेषु वर्त्मनी ॥ (२८।२)
hastena yantraṃ kurvīta vartmarogeṣu vartmanī ||
निर्भुज्य पिचुनाच्छाद्य कृष्णभागं विनिक्षिपेत् । (२९।१)
nirbhujya picunācchādya kṛṣṇabhāgaṃ vinikṣipet |
पद्मपत्त्रतनुः क्षारलेपो घ्राणार्बुदेषु च ॥ (२९।२)
padmapattratanuḥ kṣāralepo ghrāṇārbudeṣu ca ||
प्रत्यादित्यं निषण्णस्य समुन्नम्याग्रनासिकाम् । (३०।१)
pratyādityaṃ niṣaṇṇasya samunnamyāgranāsikām |
मात्रा विधार्यः पञ्चाशत् तद्वद् अर्शसि कर्णजे ॥ (३०।२)
mātrā vidhāryaḥ pañcāśat tadvad arśasi karṇaje ||
सुदग्धं घृतमध्वक्तं तत् पयोमस्तुकाञ्जिकैः ॥ (३१।२)
sudagdhaṃ ghṛtamadhvaktaṃ tat payomastukāñjikaiḥ ||
निर्वापयेत् ततः साज्यैः स्वादुशीतैः प्रदेहयेत् । (३२।१)
nirvāpayet tataḥ sājyaiḥ svāduśītaiḥ pradehayet |
अभिष्यन्दीनि भोज्यानि भोज्यानि क्लेदनाय च ॥ (३२।२)
abhiṣyandīni bhojyāni bhojyāni kledanāya ca ||
यदि च स्थिरमूलत्वात् क्षारदग्धं न शीर्यते । (३३।१)
yadi ca sthiramūlatvāt kṣāradagdhaṃ na śīryate |
धान्याम्लबीजयष्ट्याह्वतिलैरालेपयेत् ततः ॥ (३३।२)
dhānyāmlabījayaṣṭyāhvatilairālepayet tataḥ ||
पक्वजम्ब्वसितं सन्नं सम्यग्दग्धं विपर्यये ॥ (३४।२)
pakvajambvasitaṃ sannaṃ samyagdagdhaṃ viparyaye ||
ताम्रतातोदकण्ड्वाद्यैर् दुर्दग्धं तं पुनर् दहेत् । (३५।१)
tāmratātodakaṇḍvādyair durdagdhaṃ taṃ punar dahet |
अतिदग्धे स्रवेद् रक्तं मूर्छादाहज्वरादयः ॥ (३५।२)
atidagdhe sraved raktaṃ mūrchādāhajvarādayaḥ ||
गुदे विशेषाद् विण्मूत्रसंरोधो ऽतिप्रवर्तनम् । (३६।१)
gude viśeṣād viṇmūtrasaṃrodho 'tipravartanam |
पुंस्त्वोपघातो मृत्युर् वा गुदस्य शातनाद्ध्रुवम् ॥ (३६।२)
puṃstvopaghāto mṛtyur vā gudasya śātanāddhruvam ||
भवेच्च विषयाज्ञानं तद्वच्छ्रोत्रादिकेष्वपि ॥ (३७।२)
bhavecca viṣayājñānaṃ tadvacchrotrādikeṣvapi ||
विशेषाद् अत्र सेको ऽम्लैर् लेपो मधु घृतं तिलाः । (३८।१)
viśeṣād atra seko 'mlair lepo madhu ghṛtaṃ tilāḥ |
वातपित्तहरा चेष्टा सर्वैव शिशिरा क्रिया ॥ (३८।२)
vātapittaharā ceṣṭā sarvaiva śiśirā kriyā ||
अम्लो हि शीतः स्पर्शेन क्षारस् तेनोपसंहितः । (३९।१)
amlo hi śītaḥ sparśena kṣāras tenopasaṃhitaḥ |
यात्याशु स्वादुतां तस्माद् अम्लैर् निर्वापयेत्तराम् । (३९।२)
yātyāśu svādutāṃ tasmād amlair nirvāpayettarām |
विषाग्निशस्त्राशनिमृत्युतुल्यः क्षारो भवेद् अल्पम् अतिप्रयुक्तः । (३९।३)
viṣāgniśastrāśanimṛtyutulyaḥ kṣāro bhaved alpam atiprayuktaḥ |
रोगान् निहन्याद् अचिरेण घोरान् स धीमता सम्यग् अनुप्रयुक्तः ॥ (३९।४)
rogān nihanyād acireṇa ghorān sa dhīmatā samyag anuprayuktaḥ ||
अग्निः क्षाराद् अपि श्रेष्ठस् तद्दग्धानाम् असंभवात् । (४०।१)
agniḥ kṣārād api śreṣṭhas taddagdhānām asaṃbhavāt |
भेषजक्षारशस्त्रैश्च न सिद्धानां प्रसाधनात् ॥ (४०।२)
bheṣajakṣāraśastraiśca na siddhānāṃ prasādhanāt ||
त्वचि मांसे सिरास्नायुसंध्यस्थिषु स युज्यते । (४१।१)
tvaci māṃse sirāsnāyusaṃdhyasthiṣu sa yujyate |
श्लिष्टवर्त्मन्यसृक्स्रावनील्यसम्यग्व्यधादिषु ॥ (४३।२)
śliṣṭavartmanyasṛksrāvanīlyasamyagvyadhādiṣu ||
अन्तःशल्यासृजो भिन्नकोष्ठान् भूरिव्रणातुरान् ॥ (४४।२)
antaḥśalyāsṛjo bhinnakoṣṭhān bhūrivraṇāturān ||
सुदग्धं घृतमध्वक्तं स्निग्धशीतैः प्रदेहयेत् । (४५।१)
sudagdhaṃ ghṛtamadhvaktaṃ snigdhaśītaiḥ pradehayet |
तस्य लिङ्गं स्थिते रक्ते शब्दवल्लसिकान्वितम् ॥ (४५।२)
tasya liṅgaṃ sthite rakte śabdavallasikānvitam ||
प्रमाददग्धवत् सर्वं दुर्दग्धात्यर्थदग्धयोः ॥ (४६।२)
pramādadagdhavat sarvaṃ durdagdhātyarthadagdhayoḥ ||
चतुर्धा तत् तु तुच्छेन सह तुच्छस्य लक्षणम् । (४७।१)
caturdhā tat tu tucchena saha tucchasya lakṣaṇam |
त्वग् विवर्णोष्यते ऽत्यर्थं न च स्फोटसमुद्भवः ॥ (४७।२)
tvag vivarṇoṣyate 'tyarthaṃ na ca sphoṭasamudbhavaḥ ||
सिरादिनाशस् तृण्मूर्छाव्रणगाम्भीर्यमृत्यवः । (४९।१)
sirādināśas tṛṇmūrchāvraṇagāmbhīryamṛtyavaḥ |
तुच्छस्याग्निप्रतपनं कार्यम् उष्णं च भेषजम् ॥ (४९।२)
tucchasyāgnipratapanaṃ kāryam uṣṇaṃ ca bheṣajam ||
स्त्याने ऽस्रे वेदनात्यर्थं विलीने मन्दता रुजः । (५०।१)
styāne 'sre vedanātyarthaṃ vilīne mandatā rujaḥ |
दुर्दग्धे शीतम् उष्णं च युञ्ज्याद् आदौ ततो हिमम् ॥ (५०।२)
durdagdhe śītam uṣṇaṃ ca yuñjyād ādau tato himam ||
सम्यग्दग्धे तवक्षीरीप्लक्षचन्दनगैरिकैः । (५१।१)
samyagdagdhe tavakṣīrīplakṣacandanagairikaiḥ |
लिम्पेत् साज्यामृतैरूर्ध्वं पित्तविद्रधिवत् क्रिया ॥ (५१।२)
limpet sājyāmṛtairūrdhvaṃ pittavidradhivat kriyā ||
अतिदग्धे द्रुतं कुर्यात् सर्वं पित्तविसर्पवत् । (५२।१)
atidagdhe drutaṃ kuryāt sarvaṃ pittavisarpavat |
स्नेहदग्धे भृशतरं रूक्षं तत्र तु योजयेत् । (५२।२)
snehadagdhe bhṛśataraṃ rūkṣaṃ tatra tu yojayet |
शस्त्रक्षाराग्नयो यस्मान् मृत्योः परमम् आयुधम् । (५२।३)
śastrakṣārāgnayo yasmān mṛtyoḥ paramam āyudham |
अप्रमत्तो भिषक् तस्मात् तान् सम्यग् अवचारयेत् ॥ (५२।४)
apramatto bhiṣak tasmāt tān samyag avacārayet ||
अत्रार्थाः सूत्रिताः सूक्ष्माः प्रतन्यन्ते हि सर्वतः ॥ (५३।२)
atrārthāḥ sūtritāḥ sūkṣmāḥ pratanyante hi sarvataḥ ||
Data courtesy of The Digital Corpus of Sanskrit.