अष्टाङ्गहृदयसंहिताAṣṭāṅgahṛdayasaṃhitā
AHS, 4, 13
Select a line for its word-by-word analysis.
अथातो विद्रधिवृद्धिचिकित्सितं व्याख्यास्यामः । (१।१)
athāto vidradhivṛddhicikitsitaṃ vyākhyāsyāmaḥ |
प्रततं च हरेद् रक्तं पक्वे तु व्रणवत् क्रिया ॥ (१।४)
pratataṃ ca hared raktaṃ pakve tu vraṇavat kriyā ||
भद्रादिवर्गयष्ट्याह्वतिलैरालेपयेद् व्रणम् ॥ (२।२)
bhadrādivargayaṣṭyāhvatilairālepayed vraṇam ||
क्षालितं क्षीरितोयेन लिम्पेद् यष्ट्यमृतातिलैः । (४।१)
kṣālitaṃ kṣīritoyena limped yaṣṭyamṛtātilaiḥ |
पैत्तं घृतेन सिद्धेन मञ्जिष्ठोशीरपद्मकैः ॥ (४।२)
paittaṃ ghṛtena siddhena mañjiṣṭhośīrapadmakaiḥ ||
पयस्याद्विनिशाश्रेष्ठायष्टीदुग्धैश्च रोपयेत् । (५।१)
payasyādviniśāśreṣṭhāyaṣṭīdugdhaiśca ropayet |
न्यग्रोधादिप्रवालत्वक्फलैर् वा कफजं पुनः ॥ (५।२)
nyagrodhādipravālatvakphalair vā kaphajaṃ punaḥ ||
लिम्पेत् कुलत्थिकादन्तीत्रिवृच्छ्यामाग्नितिल्वकैः ॥ (६।२)
limpet kulatthikādantītrivṛcchyāmāgnitilvakaiḥ ||
ससैन्धवैः सगोमूत्रैस् तैलं कुर्वीत रोपणम् । (७।१)
sasaindhavaiḥ sagomūtrais tailaṃ kurvīta ropaṇam |
रक्तागन्तूद्भवे कार्या पित्तविद्रधिवत् क्रिया ॥ (७।२)
raktāgantūdbhave kāryā pittavidradhivat kriyā ||
ऊषकादिप्रतीवापं पूर्वाह्णे विद्रधौ पिबेत् ॥ (८।२)
ūṣakādipratīvāpaṃ pūrvāhṇe vidradhau pibet ||
घृतं विरेचनद्रव्यैः सिद्धं ताभ्यां च पाययेत् । (९।१)
ghṛtaṃ virecanadravyaiḥ siddhaṃ tābhyāṃ ca pāyayet |
निरूहं स्नेहवस्तिं च ताभ्याम् एव प्रकल्पयेत् ॥ (९।२)
nirūhaṃ snehavastiṃ ca tābhyām eva prakalpayet ||
दत्तावापो यथादोषम् अपक्वं हन्ति विद्रधिम् ॥ (१०।२)
dattāvāpo yathādoṣam apakvaṃ hanti vidradhim ||
त्रिवृत्पटोलमूलाभ्यां चत्वारो ऽंशाः पृथक् पृथक् ॥ (११।२)
trivṛtpaṭolamūlābhyāṃ catvāro 'ṃśāḥ pṛthak pṛthak ||
मसूरान् निस्तुषाद् अष्टौ तत्क्वाथः सघृतो जयेत् । (१२।१)
masūrān nistuṣād aṣṭau tatkvāthaḥ saghṛto jayet |
तृण्मूर्छाछर्दिहृद्रोगपित्तासृक्कुष्ठकामलाः । (१३।१)
tṛṇmūrchāchardihṛdrogapittāsṛkkuṣṭhakāmalāḥ |
कुडवं त्रायमाणायाः साध्यम् अष्टगुणे ऽम्भसि ॥ (१३।२)
kuḍavaṃ trāyamāṇāyāḥ sādhyam aṣṭaguṇe 'mbhasi ||
कुडवं तद्रसाद्धात्रीस्वरसात् क्षीरतो घृतात् । (१४।१)
kuḍavaṃ tadrasāddhātrīsvarasāt kṣīrato ghṛtāt |
कर्षांशं कल्कितं तिक्तात्रायन्तीधन्वयासकम् ॥ (१४।२)
karṣāṃśaṃ kalkitaṃ tiktātrāyantīdhanvayāsakam ||
पचेद् एकत्र संयोज्य तद् घृतं पूर्ववद् गुणैः ॥ (१५।२)
paced ekatra saṃyojya tad ghṛtaṃ pūrvavad guṇaiḥ ||
परूषकाणि त्रिफला तत्क्वाथे पाचयेद् घृतम् ॥ (१६।२)
parūṣakāṇi triphalā tatkvāthe pācayed ghṛtam ||
क्षीरेक्षुधात्रीनिर्यासप्राणदाकल्कसंयुतम् । (१७।१)
kṣīrekṣudhātrīniryāsaprāṇadākalkasaṃyutam |
तच्छीतं शर्कराक्षौद्रपादिकं पूर्ववद् गुणैः ॥ (१७।२)
tacchītaṃ śarkarākṣaudrapādikaṃ pūrvavad guṇaiḥ ||
हरेच्छृङ्गादिभिरसृक् सिरया वा यथान्तिकम् । (१८।१)
harecchṛṅgādibhirasṛk sirayā vā yathāntikam |
विद्रधिं पच्यमानं च कोष्ठस्थं बहिरुन्नतम् ॥ (१८।२)
vidradhiṃ pacyamānaṃ ca koṣṭhasthaṃ bahirunnatam ||
ज्ञात्वोपनाहयेत् शूले स्थिते तत्रैव पिण्डिते । (१९।१)
jñātvopanāhayet śūle sthite tatraiva piṇḍite |
तत्पार्श्वपीडनात् सुप्तौ दाहादिष्वल्पकेषु च ॥ (१९।२)
tatpārśvapīḍanāt suptau dāhādiṣvalpakeṣu ca ||
पक्वः स्याद् विद्रधिं भित्त्वा व्रणवत् तम् उपाचरेत् । (२०।१)
pakvaḥ syād vidradhiṃ bhittvā vraṇavat tam upācaret |
अन्तर्भागस्य चाप्येतच्चिह्नं पक्वस्य विद्रधेः ॥ (२०।२)
antarbhāgasya cāpyetaccihnaṃ pakvasya vidradheḥ ||
पक्वः स्रोतांसि सम्पूर्य स यात्यूर्ध्वम् अधो ऽथवा । (२१।१)
pakvaḥ srotāṃsi sampūrya sa yātyūrdhvam adho 'thavā |
स्वयंप्रवृत्तं तं दोषम् उपेक्षेत हिताशिनः ॥ (२१।२)
svayaṃpravṛttaṃ taṃ doṣam upekṣeta hitāśinaḥ ||
दशाहं द्वादशाहं वा रक्षन् भिषग् उपद्रवात् । (२२।१)
daśāhaṃ dvādaśāhaṃ vā rakṣan bhiṣag upadravāt |
असम्यग् वहति क्लेदे वरुणादिं सुखाम्भसा ॥ (२२।२)
asamyag vahati klede varuṇādiṃ sukhāmbhasā ||
पाययेन् मधुशिग्रुं वा यवागूं तेन वा कृताम् । (२३।१)
pāyayen madhuśigruṃ vā yavāgūṃ tena vā kṛtām |
ऊर्ध्वं दशाहात् त्रायन्तीसर्पिषा तैल्वकेन वा । (२४।१)
ūrdhvaṃ daśāhāt trāyantīsarpiṣā tailvakena vā |
शोधयेद् बलतः शुद्धः सक्षौद्रं तिक्तकं पिबेत् ॥ (२४।२)
śodhayed balataḥ śuddhaḥ sakṣaudraṃ tiktakaṃ pibet ||
सर्वावस्थासु सर्वासु गुग्गुलुं विद्रधीषु च ॥ (२५।२)
sarvāvasthāsu sarvāsu gugguluṃ vidradhīṣu ca ||
कषायैर् यौगिकैर् युञ्ज्यात् स्वैः स्वैस् तद्वच्छिलाजतु । (२६।१)
kaṣāyair yaugikair yuñjyāt svaiḥ svais tadvacchilājatu |
पाकं च वारयेद् यत्नात् सिद्धिः पक्वे हि दैविकी ॥ (२६।२)
pākaṃ ca vārayed yatnāt siddhiḥ pakve hi daivikī ||
अपि चाशु विदाहित्वाद् विद्रधिः सो ऽभिधीयते । (२७।१)
api cāśu vidāhitvād vidradhiḥ so 'bhidhīyate |
सति चालोचयेन्मेहे प्रमेहाणां चिकित्सितम् ॥ (२७।२)
sati cālocayenmehe pramehāṇāṃ cikitsitam ||
स्तनजे व्रणवत् सर्वं न त्वेनम् उपनाहयेत् । (२८।१)
stanaje vraṇavat sarvaṃ na tvenam upanāhayet |
पाटयेत् पालयन् स्तन्यवाहिनीः कृष्णचूचुकौ ॥ (२८।२)
pāṭayet pālayan stanyavāhinīḥ kṛṣṇacūcukau ||
सर्वास्वामाद्यवस्थासु निर्दुहीत च तत् स्तनम् । (२९।१)
sarvāsvāmādyavasthāsu nirduhīta ca tat stanam |
शोधयेत् त्रिवृता स्निग्धं वृद्धौ स्नेहैश्चलात्मके ॥ (२९।२)
śodhayet trivṛtā snigdhaṃ vṛddhau snehaiścalātmake ||
ततो ऽनिलघ्ननिर्यूहकल्कस्नेहैर् निरूहयेत् ॥ (३०।२)
tato 'nilaghnaniryūhakalkasnehair nirūhayet ||
स्वेदप्रलेपा वातघ्नाः पक्वे भित्त्वा व्रणक्रियाम् ॥ (३१।२)
svedapralepā vātaghnāḥ pakve bhittvā vraṇakriyām ||
पित्तरक्तोद्भवे वृद्धावामपक्वे यथायथम् । (३२।१)
pittaraktodbhave vṛddhāvāmapakve yathāyatham |
शोफव्रणक्रियां कुर्यात् प्रततं च हरेद् असृक् ॥ (३२।२)
śophavraṇakriyāṃ kuryāt pratataṃ ca hared asṛk ||
गोमूत्रेण पिबेत् कल्कं श्लैष्मिके पीतदारुजम् । (३३।१)
gomūtreṇa pibet kalkaṃ ślaiṣmike pītadārujam |
विम्लापनाद् ऋते चास्य श्लेष्मग्रन्थिक्रमो हितः ॥ (३३।२)
vimlāpanād ṛte cāsya śleṣmagranthikramo hitaḥ ||
पक्वे च पाटिते तैलम् इष्यते व्रणशोधनम् । (३४।१)
pakve ca pāṭite tailam iṣyate vraṇaśodhanam |
सुमनोऽरुष्कराङ्कोल्लसप्तपर्णेषु साधितम् ॥ (३४।२)
sumano'ruṣkarāṅkollasaptaparṇeṣu sādhitam ||
मेदोजं मूत्रपिष्टेन सुस्विन्नं सुरसादिना ॥ (३५।२)
medojaṃ mūtrapiṣṭena susvinnaṃ surasādinā ||
शिरोविरेकद्रव्यैर् वा वर्जयन् फलसेवनीम् । (३६।१)
śirovirekadravyair vā varjayan phalasevanīm |
दारयेद् वृद्धिपत्त्रेण सम्यङ् मेदसि सूद्धृते ॥ (३६।२)
dārayed vṛddhipattreṇa samyaṅ medasi sūddhṛte ||
सीव्येद् अभ्यञ्जनं चास्य योज्यं मेदोविशुद्धये ॥ (३७।२)
sīvyed abhyañjanaṃ cāsya yojyaṃ medoviśuddhaye ||
तैलम् आ व्रणसंधानात् स्नेहस्वेदौ च शीलयेत् ॥ (३८।२)
tailam ā vraṇasaṃdhānāt snehasvedau ca śīlayet ||
मूत्रजं स्वेदितं स्निग्धैर् वस्त्रपट्टेन वेष्टितम् । (३९।१)
mūtrajaṃ sveditaṃ snigdhair vastrapaṭṭena veṣṭitam |
विध्येद् अधस्तात् सेवन्याः स्रावयेच्च यथोदरम् ॥ (३९।२)
vidhyed adhastāt sevanyāḥ srāvayecca yathodaram ||
व्रणं च स्थगिकाबद्धं रोपयेद् अन्त्रहेतुके । (४०।१)
vraṇaṃ ca sthagikābaddhaṃ ropayed antrahetuke |
फलकोशम् असंप्राप्ते चिकित्सा वातवृद्धिवत् ॥ (४०।२)
phalakośam asaṃprāpte cikitsā vātavṛddhivat ||
वहे ऽपाम् अष्टभागस्थे तत्र त्रिंशत्पलं गुडात् ॥ (४२।२)
vahe 'pām aṣṭabhāgasthe tatra triṃśatpalaṃ guḍāt ||
प्रस्थम् एरण्डतैलस्य द्वौ घृतात् पयसस् तथा । (४३।१)
prastham eraṇḍatailasya dvau ghṛtāt payasas tathā |
आवपेद् द्विपलांशं च कृष्णातन्मूलसैन्धवम् ॥ (४३।२)
āvaped dvipalāṃśaṃ ca kṛṣṇātanmūlasaindhavam ||
तत्सिद्धं सुकुमाराख्यं सुकुमारं रसायनम् ॥ (४४।२)
tatsiddhaṃ sukumārākhyaṃ sukumāraṃ rasāyanam ||
प्रयोज्यं सुकुमाराणाम् ईश्वराणाम् सुखात्मनाम् ॥ (४५।२)
prayojyaṃ sukumārāṇām īśvarāṇām sukhātmanām ||
नृणां स्त्रीवृन्दभर्तॄणाम् अलक्ष्मीकलिनाशनम् । (४६।१)
nṛṇāṃ strīvṛndabhartṝṇām alakṣmīkalināśanam |
वर्ध्मविद्रधिगुल्मार्शोयोनिमेढ्रानिलार्तिषु । (४७।१)
vardhmavidradhigulmārśoyonimeḍhrānilārtiṣu |
यायाद् वर्ध्म न चेच्छान्तिं स्नेहरेकानुवासनैः । (४८।१)
yāyād vardhma na cecchāntiṃ sneharekānuvāsanaiḥ |
वस्तिकर्म पुरः कृत्वा वङ्क्षणस्थं ततो दहेत् ॥ (४८।२)
vastikarma puraḥ kṛtvā vaṅkṣaṇasthaṃ tato dahet ||
अग्निना मार्गरोधार्थं मरुतो ऽर्धेन्दुवक्रया । (४९।१)
agninā mārgarodhārthaṃ maruto 'rdhenduvakrayā |
अङ्गुष्ठस्योपरि स्नाव पीतं तन्तुसमं च यत् ॥ (४९।२)
aṅguṣṭhasyopari snāva pītaṃ tantusamaṃ ca yat ||
उत्क्षिप्य सूच्या तत् तिर्यग् दहेच्छित्त्वा यतो गदः । (५०।१)
utkṣipya sūcyā tat tiryag dahecchittvā yato gadaḥ |
ततो ऽन्यपार्श्वे ऽन्ये त्वाहुर् दहेद् वानामिकाङ्गुलेः ॥ (५०।२)
tato 'nyapārśve 'nye tvāhur dahed vānāmikāṅguleḥ ||
गुल्मे ऽन्यैर् वातकफजे प्लीह्नि चायं विधिः स्मृतः । (५१।१)
gulme 'nyair vātakaphaje plīhni cāyaṃ vidhiḥ smṛtaḥ |
कनिष्ठिकानामिकयोर् विश्वाच्यां च यतो गदः ॥ (५१।२)
kaniṣṭhikānāmikayor viśvācyāṃ ca yato gadaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.