अष्टाङ्गहृदयसंहिताAṣṭāṅgahṛdayasaṃhitā

AHS, 1, 3

3 of 120 · 119 verses

Select a line for its word-by-word analysis.

1.1१.१

अथात ऋतुचर्याध्यायं व्याख्यास्यामः । (१।१)

athāta ṛtucaryādhyāyaṃ vyākhyāsyāmaḥ |

1.2१.२

इति ह स्माहुरात्रेयादयो महर्षयः । (१।२)

iti ha smāhurātreyādayo maharṣayaḥ |

1.3१.३

देड़िनितिओन् जह्रेस्ज़ेइतेन्मासैर् द्विसंख्यैर् माघाद्यैः क्रमात् षड् ऋतवः स्मृताः । (१।३)

Definition Jahreszeitenmāsair dvisaṃkhyair māghādyaiḥ kramāt ṣaḍ ṛtavaḥ smṛtāḥ |

1.4१.४

शिशिरो ऽथ वसन्तश् च ग्रीष्मो वर्षाशरद्धिमाः ॥ (१।४)

śiśiro 'tha vasantaś ca grīṣmo varṣāśaraddhimāḥ ||

2.1२.१

अयनशिशिराद्यास् त्रिभिस् तैस् तु विद्याद् अयनम् उत्तरम् । (२।१)

ayanaśiśirādyās tribhis tais tu vidyād ayanam uttaram |

2.2२.२

आदानआदानं च तद् आदत्ते नृणां प्रतिदिनं बलम् ॥ (२।२)

ādānaādānaṃ ca tad ādatte nṛṇāṃ pratidinaṃ balam ||

3.1३.१

तस्मिन् ह्य् अत्यर्थतीक्ष्णोष्णरूक्षा मार्गस्वभावतः । (३।१)

tasmin hy atyarthatīkṣṇoṣṇarūkṣā mārgasvabhāvataḥ |

3.2३.२

आदित्यपवनाः सौम्यान् क्षपयन्ति गुणान् भुवः ॥ (३।२)

ādityapavanāḥ saumyān kṣapayanti guṇān bhuvaḥ ||

4.1४.१

तिक्तः कषायः कटुको बलिनो ऽत्र रसाः क्रमात् । (४।१)

tiktaḥ kaṣāyaḥ kaṭuko balino 'tra rasāḥ kramāt |

4.2४.२

तस्माद् आदानम् आग्नेयम् ऋतवो दक्षिणायनम् ॥ (४।२)

tasmād ādānam āgneyam ṛtavo dakṣiṇāyanam ||

5.1५.१

विसर्गवर्षादयो विसर्गश् च यद् बलं विसृजत्य् अयम् । (५।१)

visargavarṣādayo visargaś ca yad balaṃ visṛjaty ayam |

5.2५.२

सौम्यत्वाद् अत्र सोमो हि बलवान् हीयते रविः ॥ (५।२)

saumyatvād atra somo hi balavān hīyate raviḥ ||

6.1६.१

मेघवृष्ट्यनिलैः शीतैः शान्ततापे महीतले । (६।१)

meghavṛṣṭyanilaiḥ śītaiḥ śāntatāpe mahītale |

6.2६.२

स्निग्धाश् चेहाम्ललवणमधुरा बलिनो रसाः ॥ (६।२)

snigdhāś cehāmlalavaṇamadhurā balino rasāḥ ||

7.1७.१

जह्रेस्ज़ेइत् -> बलशीते ऽग्र्यं वृष्टिघर्मे ऽल्पं बलं मध्यं तु शेषयोः । (७।१)

Jahreszeit -> balaśīte 'gryaṃ vṛṣṭigharme 'lpaṃ balaṃ madhyaṃ tu śeṣayoḥ |

7.2७.२

बलिनः शीतसंरोधाद्धेमन्ते प्रबलो ऽनलः ॥ (७।२)

balinaḥ śītasaṃrodhāddhemante prabalo 'nalaḥ ||

8.1८.१

वेर्दौउन्ग् इम् Wइन्तेर्भवत्य् अल्पेन्धनो धातून् स पचेद् वायुनेरितः । (८।१)

verdauung im Winterbhavaty alpendhano dhātūn sa paced vāyuneritaḥ |

8.2८.२

अतो हिमे ऽस्मिन् सेवेत स्वाद्वम्ललवणान् रसान् ॥ (८।२)

ato hime 'smin seveta svādvamlalavaṇān rasān ||

9.1९.१

तगेसब्लौड़्दैर्घ्यान् निशानाम् एतर्हि प्रातर् एव बुभुक्षितः । (९।१)

Tagesablaufdairghyān niśānām etarhi prātar eva bubhukṣitaḥ |

9.2९.२

अवश्यकार्यं संभाव्य यथोक्तं शीलयेद् अनु ॥ (९।२)

avaśyakāryaṃ saṃbhāvya yathoktaṃ śīlayed anu ||

10.1१०.१

वातघ्नतैलैर् अभ्यङ्गं मूर्ध्नि तैलं विमर्दनम् । (१०।१)

vātaghnatailair abhyaṅgaṃ mūrdhni tailaṃ vimardanam |

10.2१०.२

नियुद्धं कुशलैः सार्धं पादाघातं च युक्तितः ॥ (१०।२)

niyuddhaṃ kuśalaiḥ sārdhaṃ pādāghātaṃ ca yuktitaḥ ||

11.1११.१

कषायापहृतस्नेहस् ततः स्नातो यथाविधि । (११।१)

kaṣāyāpahṛtasnehas tataḥ snāto yathāvidhi |

11.2११.२

कुङ्कुमेन सदर्पेण प्रदिग्धो ऽगुरुधूपितः ॥ (११।२)

kuṅkumena sadarpeṇa pradigdho 'gurudhūpitaḥ ||

12.1१२.१

रसान् स्निग्धान् पलं पुष्टं गौडम् अच्छसुरां सुराम् । (१२।१)

rasān snigdhān palaṃ puṣṭaṃ gauḍam acchasurāṃ surām |

12.2१२.२

गोधूमपिष्टमाषेक्षुक्षीरोत्थविकृतीः शुभाः ॥ (१२।२)

godhūmapiṣṭamāṣekṣukṣīrotthavikṛtīḥ śubhāḥ ||

13.1१३.१

नवम् अन्नं वसां तैलं शौचकार्ये सुखोदकम् । (१३।१)

navam annaṃ vasāṃ tailaṃ śaucakārye sukhodakam |

13.2१३.२

प्रावाराजिनकौशेयप्रवेणीकौचवास्तृतम् ॥ (१३।२)

prāvārājinakauśeyapraveṇīkaucavāstṛtam ||

14.1१४.१

उष्णस्वभावैर् लघुभिः प्रावृतः शयनं भजेत् । (१४।१)

uṣṇasvabhāvair laghubhiḥ prāvṛtaḥ śayanaṃ bhajet |

14.2१४.२

युक्त्यार्ककिरणान् स्वेदं पादत्राणं च सर्वदा ॥ (१४।२)

yuktyārkakiraṇān svedaṃ pādatrāṇaṃ ca sarvadā ||

15.1१५.१

W¦र्मुन्ग् दुर्छ् ड़्रौएन्पीवरोरुस्तनश्रोण्यः समदाः प्रमदाः प्रियाः । (१५।१)

W¦rmung durch Frauenpīvarorustanaśroṇyaḥ samadāḥ pramadāḥ priyāḥ |

15.2१५.२

हरन्ति शीतम् उष्णाङ्ग्यो धूपकुङ्कुमयौवनैः ॥ (१५।२)

haranti śītam uṣṇāṅgyo dhūpakuṅkumayauvanaiḥ ||

16.1१६.१

अङ्गारतापसंतप्तगर्भभूवेश्मचारिणः । (१६।१)

aṅgāratāpasaṃtaptagarbhabhūveśmacāriṇaḥ |

16.2१६.२

शीतपारुष्यजनितो न दोषो जातु जायते ॥ (१६।२)

śītapāruṣyajanito na doṣo jātu jāyate ||

17.1१७.१

अयम् एव विधिः कार्यः शिशिरे ऽपि विशेषतः । (१७।१)

ayam eva vidhiḥ kāryaḥ śiśire 'pi viśeṣataḥ |

17.2१७.२

तदा हि शीतम् अधिकं रौक्ष्यं चादानकालजम् ॥ (१७।२)

tadā hi śītam adhikaṃ raukṣyaṃ cādānakālajam ||

18.1१८.१

वेर्हल्तेन् इन् शिशिर + वसन्तकफश् चितो हि शिशिरे वसन्ते ऽर्कांशुतापितः । (१८।१)

verhalten in śiśira + vasantakaphaś cito hi śiśire vasante 'rkāṃśutāpitaḥ |

18.2१८.२

हत्वाग्निं कुरुते रोगान् अतस् तं त्वरया त्यजेत् ॥ (१८।२)

hatvāgniṃ kurute rogān atas taṃ tvarayā tyajet ||

19.1१९.१

तीक्ष्णैर् वमननस्याद्यैर् लघुरूक्षैश् च भोजनैः । (१९।१)

tīkṣṇair vamananasyādyair laghurūkṣaiś ca bhojanaiḥ |

19.2१९.२

व्यायामोद्वर्तनाघातैर् जित्वा श्लेष्माणम् उल्बणम् ॥ (१९।२)

vyāyāmodvartanāghātair jitvā śleṣmāṇam ulbaṇam ||

20.1२०.१

स्नातो ऽनुलिप्तः कर्पूरचन्दनागुरुकुङ्कुमैः । (२०।१)

snāto 'nuliptaḥ karpūracandanāgurukuṅkumaiḥ |

20.2२०.२

पुराणयवगोधूमक्षौद्रजाङ्गलशूल्यभुक् ॥ (२०।२)

purāṇayavagodhūmakṣaudrajāṅgalaśūlyabhuk ||

21.1२१.१

सहकाररसोन्मिश्रान् आस्वाद्य प्रिययार्पितान् । (२१।१)

sahakārarasonmiśrān āsvādya priyayārpitān |

21.2२१.२

प्रियास्यसङ्गसुरभीन् प्रियानेत्रोत्पलाङ्कितान् ॥ (२१।२)

priyāsyasaṅgasurabhīn priyānetrotpalāṅkitān ||

22.1२२.१

सौमनस्यकृतो हृद्यान् वयस्यैः सहितः पिबेत् । (२२।१)

saumanasyakṛto hṛdyān vayasyaiḥ sahitaḥ pibet |

22.2२२.२

निर्गदान् आसवारिष्टसीधुमार्द्वीकमाधवान् ॥ (२२।२)

nirgadān āsavāriṣṭasīdhumārdvīkamādhavān ||

23.1२३.१

शृङ्गवेराम्बु साराम्बु मध्वम्बु जलदाम्बु च । (२३।१)

śṛṅgaverāmbu sārāmbu madhvambu jaladāmbu ca |

23.2२३.२

दक्षिणानिलशीतेषु परितो जलवाहिषु ॥ (२३।२)

dakṣiṇānilaśīteṣu parito jalavāhiṣu ||

24.1२४.१

अदृष्टनष्टसूर्येषु मणिकुट्टिमकान्तिषु । (२४।१)

adṛṣṭanaṣṭasūryeṣu maṇikuṭṭimakāntiṣu |

24.2२४.२

परपुष्टविघुष्टेषु कामकर्मान्तभूमिषु ॥ (२४।२)

parapuṣṭavighuṣṭeṣu kāmakarmāntabhūmiṣu ||

25.1२५.१

विचित्रपुष्पवृक्षेषु काननेषु सुगन्धिषु । (२५।१)

vicitrapuṣpavṛkṣeṣu kānaneṣu sugandhiṣu |

25.2२५.२

गोष्ठीकथाभिश् चित्राभिर् मध्याह्नं गमयेत् सुखी ॥ (२५।२)

goṣṭhīkathābhiś citrābhir madhyāhnaṃ gamayet sukhī ||

26.1२६.१

गुरुशीतदिवास्वप्नस्निग्धाम्लमधुरांस् त्यजेत् । (२६।१)

guruśītadivāsvapnasnigdhāmlamadhurāṃs tyajet |

26.2२६.२

सोम्मेर्तीक्ष्णांशुर् अतितीक्ष्णांशुर् ग्रीष्मे संक्षिपतीव यत् ॥ (२६।२)

sommertīkṣṇāṃśur atitīkṣṇāṃśur grīṣme saṃkṣipatīva yat ||

27.1२७.१

प्रत्यहं क्षीयते श्लेष्मा तेन वायुश् च वर्धते । (२७।१)

pratyahaṃ kṣīyate śleṣmā tena vāyuś ca vardhate |

27.2२७.२

अतो ऽस्मिन् पटुकट्वम्लव्यायामार्ककरांस् त्यजेत् ॥ (२७।२)

ato 'smin paṭukaṭvamlavyāyāmārkakarāṃs tyajet ||

28.1२८.१

भजेन् मधुरम् एवान्नं लघु स्निग्धं हिमं द्रवम् । (२८।१)

bhajen madhuram evānnaṃ laghu snigdhaṃ himaṃ dravam |

28.2२८.२

सुशीततोयसिक्ताङ्गो लिह्यात् सक्तून् सशर्करान् ॥ (२८।२)

suśītatoyasiktāṅgo lihyāt saktūn saśarkarān ||

29.1२९.१

मद्यं न पेयं पेयं वा स्वल्पं सुबहुवारि वा । (२९।१)

madyaṃ na peyaṃ peyaṃ vā svalpaṃ subahuvāri vā |

29.2२९.२

अन्यथा शोषशैथिल्यदाहमोहान् करोति तत् ॥ (२९।२)

anyathā śoṣaśaithilyadāhamohān karoti tat ||

30.1३०.१

कुन्देन्दुधवलं शालिम् अश्नीयाज् जाङ्गलैः पलैः । (३०।१)

kundendudhavalaṃ śālim aśnīyāj jāṅgalaiḥ palaiḥ |

30.2३०.२

पिबेद् रसं नातिघनं रसालां रागखाण्डवौ ॥ (३०।२)

pibed rasaṃ nātighanaṃ rasālāṃ rāgakhāṇḍavau ||

31.1३१.१

पानकं पञ्चसारं वा नवमृद्भाजने स्थितम् । (३१।१)

pānakaṃ pañcasāraṃ vā navamṛdbhājane sthitam |

31.2३१.२

मोचचोचदलैर् युक्तं साम्लं मृन्मयशुक्तिभिः ॥ (३१।२)

mocacocadalair yuktaṃ sāmlaṃ mṛnmayaśuktibhiḥ ||

32.1३२.१

पाटलावासितं चाम्भः सकर्पूरं सुशीतलम् । (३२।१)

pāṭalāvāsitaṃ cāmbhaḥ sakarpūraṃ suśītalam |

32.2३२.२

शशाङ्ककिरणान् भक्ष्यान् रजन्यां भक्षयन् पिबेत् ॥ (३२।२)

śaśāṅkakiraṇān bhakṣyān rajanyāṃ bhakṣayan pibet ||

33.1३३.१

ससितं माहिषं क्षीरं चन्द्रनक्षत्रशीतलम् । (३३।१)

sasitaṃ māhiṣaṃ kṣīraṃ candranakṣatraśītalam |

33.2३३.२

अभ्रङ्कषमहाशालतालरुद्धोष्णरश्मिषु ॥ (३३।२)

abhraṅkaṣamahāśālatālaruddhoṣṇaraśmiṣu ||

34.1३४.१

वनेषु माधवीश्लिष्टद्राक्षास्तबकशालिषु । (३४।१)

vaneṣu mādhavīśliṣṭadrākṣāstabakaśāliṣu |

34.2३४.२

सुगन्धिहिमपानीयसिच्यमानपटालिके ॥ (३४।२)

sugandhihimapānīyasicyamānapaṭālike ||

35.1३५.१

कायमाने चिते चूतप्रवालफललुम्बिभिः । (३५।१)

kāyamāne cite cūtapravālaphalalumbibhiḥ |

35.2३५.२

कदलीदलकल्हारमृणालकमलोत्पलैः ॥ (३५।२)

kadalīdalakalhāramṛṇālakamalotpalaiḥ ||

36.1३६.१

कोमलैः कल्पिते तल्पे हसत्कुसुमपल्लवे । (३६।१)

komalaiḥ kalpite talpe hasatkusumapallave |

36.2३६.२

मध्यन्दिने ऽर्कतापार्तः स्वप्याद् धारागृहे ऽथवा ॥ (३६।२)

madhyandine 'rkatāpārtaḥ svapyād dhārāgṛhe 'thavā ||

37.1३७.१

पुस्तस्त्रीस्तनहस्तास्यप्रवृत्तोशीरवारिणि । (३७।१)

pustastrīstanahastāsyapravṛttośīravāriṇi |

37.2३७.२

निशाकरकराकीर्णे सौधपृष्ठे निशासु च ॥ (३७।२)

niśākarakarākīrṇe saudhapṛṣṭhe niśāsu ca ||

38.1३८.१

आसना स्वस्थचित्तस्य चन्दनार्द्रस्य मालिनः । (३८।१)

āsanā svasthacittasya candanārdrasya mālinaḥ |

38.2३८.२

निवृत्तकामतन्त्रस्य सुसूक्ष्मतनुवाससः ॥ (३८।२)

nivṛttakāmatantrasya susūkṣmatanuvāsasaḥ ||

39.1३९.१

जलार्द्रास् तालवृन्तानि विस्तृताः पद्मिनीपुटाः । (३९।१)

jalārdrās tālavṛntāni vistṛtāḥ padminīpuṭāḥ |

39.2३९.२

उत्क्षेपाश् च मृदूत्क्षेपा जलवर्षिहिमानिलाः ॥ (३९।२)

utkṣepāś ca mṛdūtkṣepā jalavarṣihimānilāḥ ||

40.1४०.१

कर्पूरमल्लिकामाला हाराः सहरिचन्दनाः । (४०।१)

karpūramallikāmālā hārāḥ saharicandanāḥ |

40.2४०.२

मनोहरकलालापाः शिशवः सारिकाः शुकाः ॥ (४०।२)

manoharakalālāpāḥ śiśavaḥ sārikāḥ śukāḥ ||

41.1४१.१

मृणालवलयाः कान्ताः प्रोत्फुल्लकमलोज्ज्वलाः । (४१।१)

mṛṇālavalayāḥ kāntāḥ protphullakamalojjvalāḥ |

41.2४१.२

जङ्गमा इव पद्मिन्यो हरन्ति दयिताः क्लमम् ॥ (४१।२)

jaṅgamā iva padminyo haranti dayitāḥ klamam ||

42.1४२.१

आदानग्लानवपुषाम् अग्निः सन्नो ऽपि सीदति । (४२।१)

ādānaglānavapuṣām agniḥ sanno 'pi sīdati |

42.2४२.२

वर्षासु दोषैर् दुष्यन्ति ते ऽम्बुलम्बाम्बुदे ऽम्बरे ॥ (४२।२)

varṣāsu doṣair duṣyanti te 'mbulambāmbude 'mbare ||

43.1४३.१

सतुषारेण मरुता सहसा शीतलेन च । (४३।१)

satuṣāreṇa marutā sahasā śītalena ca |

43.2४३.२

भूबाष्पेणाम्लपाकेन मलिनेन च वारिणा ॥ (४३।२)

bhūbāṣpeṇāmlapākena malinena ca vāriṇā ||

44.1४४.१

वह्निनैव च मन्देन तेष्व् इत्य् अन्योन्यदूषिषु । (४४।१)

vahninaiva ca mandena teṣv ity anyonyadūṣiṣu |

44.2४४.२

भजेत् साधारणं सर्वम् ऊष्मणस् तेजनं च यत् ॥ (४४।२)

bhajet sādhāraṇaṃ sarvam ūṣmaṇas tejanaṃ ca yat ||

45.1४५.१

आस्थापनं शुद्धतनुर् जीर्णं धान्यं रसान् कृतान् । (४५।१)

āsthāpanaṃ śuddhatanur jīrṇaṃ dhānyaṃ rasān kṛtān |

45.2४५.२

जाङ्गलं पिशितं यूषान् मध्वरिष्टं चिरन्तनम् ॥ (४५।२)

jāṅgalaṃ piśitaṃ yūṣān madhvariṣṭaṃ cirantanam ||

46.1४६.१

मस्तु सौवर्चलाढ्यं वा पञ्चकोलावचूर्णितम् । (४६।१)

mastu sauvarcalāḍhyaṃ vā pañcakolāvacūrṇitam |

46.2४६.२

दिव्यं कौपं शृतं चाम्भो भोजनं त्व् अतिदुर्दिने ॥ (४६।२)

divyaṃ kaupaṃ śṛtaṃ cāmbho bhojanaṃ tv atidurdine ||

47.1४७.१

व्यक्ताम्ललवणस्नेहं संशुष्कं क्षौद्रवल्लघु । (४७।१)

vyaktāmlalavaṇasnehaṃ saṃśuṣkaṃ kṣaudravallaghu |

47.2४७.२

अपादचारी सुरभिः सततं धूपिताम्बरः ॥ (४७।२)

apādacārī surabhiḥ satataṃ dhūpitāmbaraḥ ||

48.1४८.१

हर्म्यपृष्ठे वसेद् बाष्पशीतसीकरवर्जिते । (४८।१)

harmyapṛṣṭhe vased bāṣpaśītasīkaravarjite |

48.2४८.२

नदीजलोदमन्थाहःस्वप्नायासातपांस् त्यजेत् ॥ (४८।२)

nadījalodamanthāhaḥsvapnāyāsātapāṃs tyajet ||

49.1४९.१

वर्षाशीतोचिताङ्गानां सहसैवार्करश्मिभिः । (४९।१)

varṣāśītocitāṅgānāṃ sahasaivārkaraśmibhiḥ |

49.2४९.२

तप्तानां संचितं वृष्टौ पित्तं शरदि कुप्यति ॥ (४९।२)

taptānāṃ saṃcitaṃ vṛṣṭau pittaṃ śaradi kupyati ||

50.1५०.१

तज्जयाय घृतं तिक्तं विरेको रक्तमोक्षणम् । (५०।१)

tajjayāya ghṛtaṃ tiktaṃ vireko raktamokṣaṇam |

50.2५०.२

तिक्तं स्वादु कषायं च क्षुधितो ऽन्नं भजेल् लघु ॥ (५०।२)

tiktaṃ svādu kaṣāyaṃ ca kṣudhito 'nnaṃ bhajel laghu ||

51.1५१.१

शालिमुद्गसिताधात्रीपटोलमधुजाङ्गलम् । (५१।१)

śālimudgasitādhātrīpaṭolamadhujāṅgalam |

51.2५१.२

तप्तं तप्तांशुकिरणैः शीतं शीतांशुरश्मिभिः ॥ (५१।२)

taptaṃ taptāṃśukiraṇaiḥ śītaṃ śītāṃśuraśmibhiḥ ||

52.1५२.१

समन्ताद् अप्य् अहोरात्रम् अगस्त्योदयनिर्विषम् । (५२।१)

samantād apy ahorātram agastyodayanirviṣam |

52.2५२.२

शुचि हंसोदकं नाम निर्मलं मलजिज् जलम् ॥ (५२।२)

śuci haṃsodakaṃ nāma nirmalaṃ malajij jalam ||

53.1५३.१

नाभिष्यन्दि न वा रूक्षं पानादिष्व् अमृतोपमम् । (५३।१)

nābhiṣyandi na vā rūkṣaṃ pānādiṣv amṛtopamam |

53.2५३.२

चन्दनोशीरकर्पूरमुक्तास्रग्वसनोज्ज्वलः ॥ (५३।२)

candanośīrakarpūramuktāsragvasanojjvalaḥ ||

54.1५४.१

सौधेषु सौधधवलां चन्द्रिकां रजनीमुखे । (५४।१)

saudheṣu saudhadhavalāṃ candrikāṃ rajanīmukhe |

54.2५४.२

तुषारक्षारसौहित्यदधितैलवसातपान् ॥ (५४।२)

tuṣārakṣārasauhityadadhitailavasātapān ||

55.1५५.१

तीक्ष्णमद्यदिवास्वप्नपुरोवातान् परित्यजेत् । (५५।१)

tīkṣṇamadyadivāsvapnapurovātān parityajet |

55.2५५.२

शीते वर्षासु चाद्यांस् त्रीन् वसन्ते ऽन्त्यान् रसान् भजेत् ॥ (५५।२)

śīte varṣāsu cādyāṃs trīn vasante 'ntyān rasān bhajet ||

56.1५६.१

स्वादुं निदाघे शरदि स्वादुतिक्तकषायकान् । (५६।१)

svāduṃ nidāghe śaradi svādutiktakaṣāyakān |

56.2५६.२

शरद्वसन्तयो रूक्षं शीतं घर्मघनान्तयोः ॥ (५६।२)

śaradvasantayo rūkṣaṃ śītaṃ gharmaghanāntayoḥ ||

57.1५७.१

अन्नपानं समासेन विपरीतम् अतो ऽन्यदा । (५७।१)

annapānaṃ samāsena viparītam ato 'nyadā |

57.2५७.२

नित्यं सर्वरसाभ्यासः स्वस्वाधिक्यम् ऋताव् ऋतौ ॥ (५७।२)

nityaṃ sarvarasābhyāsaḥ svasvādhikyam ṛtāv ṛtau ||

58.1५८.१

ऋत्वोर् अन्त्यादिसप्ताहाव् ऋतुसंधिर् इति स्मृतः । (५८।१)

ṛtvor antyādisaptāhāv ṛtusaṃdhir iti smṛtaḥ |

58.2५८.२

तत्र पूर्वो विधिस् त्याज्यः सेवनीयो ऽपरः क्रमात् ॥ (५८।२)

tatra pūrvo vidhis tyājyaḥ sevanīyo 'paraḥ kramāt ||

59.1५९.१

असात्म्यजा हि रोगाः स्युः सहसा त्यागशीलनात् ॥ (५९।१)

asātmyajā hi rogāḥ syuḥ sahasā tyāgaśīlanāt ||

Data courtesy of The Digital Corpus of Sanskrit.

AHS, 1, 3

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit