अष्टाङ्गहृदयसंहिताAṣṭāṅgahṛdayasaṃhitā
AHS, 4, 15
Select a line for its word-by-word analysis.
सम्भवत्युदरं तस्मान् नित्यम् एनं विरेचयेत् ॥ (१।४)
sambhavatyudaraṃ tasmān nityam enaṃ virecayet ||
पाययेत् तैलम् ऐरण्डं समूत्रं सपयो ऽपि वा । (२।१)
pāyayet tailam airaṇḍaṃ samūtraṃ sapayo 'pi vā |
मासं द्वौ वाथवा गव्यं मूत्रं माहिषम् एव वा ॥ (२।२)
māsaṃ dvau vāthavā gavyaṃ mūtraṃ māhiṣam eva vā ||
पिबेद् गोक्षीरभुक् स्याद् वा करभीक्षीरवर्तनः । (३।१)
pibed gokṣīrabhuk syād vā karabhīkṣīravartanaḥ |
रूक्षाणां बहुवातानां दोषसंशुद्धिकाङ्क्षिणाम् । (४।१)
rūkṣāṇāṃ bahuvātānāṃ doṣasaṃśuddhikāṅkṣiṇām |
नागरत्रिपलं प्रस्थं घृततैलात् तथाढकम् ॥ (५।२)
nāgaratripalaṃ prasthaṃ ghṛtatailāt tathāḍhakam ||
मस्तुनः साधयित्वैतत् पिबेत् सर्वोदरापहम् । (६।१)
mastunaḥ sādhayitvaitat pibet sarvodarāpaham |
चतुर्गुणे जले मूत्रे द्विगुणे चित्रकात् पले । (७।१)
caturguṇe jale mūtre dviguṇe citrakāt pale |
कल्के सिद्धं घृतप्रस्थं सक्षारं जठरी पिबेत् ॥ (७।२)
kalke siddhaṃ ghṛtaprasthaṃ sakṣāraṃ jaṭharī pibet ||
सुरासौवीरकाभ्यां च सिद्धं वा पाययेद् घृतम् ॥ (८।२)
surāsauvīrakābhyāṃ ca siddhaṃ vā pāyayed ghṛtam ||
एभिः स्निग्धाय संजाते बले शान्ते च मारुते । (९।१)
ebhiḥ snigdhāya saṃjāte bale śānte ca mārute |
स्रस्ते दोषाशये दद्यात् कल्पदृष्टं विरेचनम् ॥ (९।२)
sraste doṣāśaye dadyāt kalpadṛṣṭaṃ virecanam ||
पटोलमूलं त्रिफलां निशां वेल्लं च कार्षिकम् । (१०।१)
paṭolamūlaṃ triphalāṃ niśāṃ vellaṃ ca kārṣikam |
कम्पिल्लनीलिनीकुम्भभागान् द्वित्रिचतुर्गुणान् ॥ (१०।२)
kampillanīlinīkumbhabhāgān dvitricaturguṇān ||
पिबेत् संचूर्ण्य मूत्रेण पेयापूर्वं ततो रसैः । (११।१)
pibet saṃcūrṇya mūtreṇa peyāpūrvaṃ tato rasaiḥ |
विरिक्तो जाङ्गलैरद्यात् ततः षड्दिवसं पयः ॥ (११।२)
virikto jāṅgalairadyāt tataḥ ṣaḍdivasaṃ payaḥ ||
शृतं पिबेद् व्योषयुतं पीतम् एवं पुनः पुनः । (१२।१)
śṛtaṃ pibed vyoṣayutaṃ pītam evaṃ punaḥ punaḥ |
हन्ति सर्वोदराण्येतच्चूर्णं जातोदकान्यपि ॥ (१२।२)
hanti sarvodarāṇyetaccūrṇaṃ jātodakānyapi ||
गवाक्षीं शङ्खिनीं दन्तीं तिल्वकस्य त्वचं वचाम् । (१३।१)
gavākṣīṃ śaṅkhinīṃ dantīṃ tilvakasya tvacaṃ vacām |
पिबेत् कर्कन्धुमृद्वीकाकोलाम्भोमूत्रसीधुभिः ॥ (१३।२)
pibet karkandhumṛdvīkākolāmbhomūtrasīdhubhiḥ ||
चित्रको ऽजाजिकं व्योषं स्वर्णक्षीरी फलत्रयम् । (१५।१)
citrako 'jājikaṃ vyoṣaṃ svarṇakṣīrī phalatrayam |
द्वौ क्षारौ पौष्करं मूलं कुष्ठं लवणपञ्चकम् ॥ (१५।२)
dvau kṣārau pauṣkaraṃ mūlaṃ kuṣṭhaṃ lavaṇapañcakam ||
विडङ्गं च समांशानि दन्त्या भागत्रयं तथा । (१६।१)
viḍaṅgaṃ ca samāṃśāni dantyā bhāgatrayaṃ tathā |
त्रिवृद्विशाले द्विगुणे सातला च चतुर्गुणा ॥ (१६।२)
trivṛdviśāle dviguṇe sātalā ca caturguṇā ||
नैनं प्राप्याभिवर्धन्ते रोगा विष्णुम् इवासुराः ॥ (१७।२)
nainaṃ prāpyābhivardhante rogā viṣṇum ivāsurāḥ ||
तक्रेणोदरिभिः पेयो गुल्मिभिर् बदराम्बुना । (१८।१)
takreṇodaribhiḥ peyo gulmibhir badarāmbunā |
दधिमण्डेन विट्सङ्गे दाडिमाम्भोभिरर्शसैः । (१९।१)
dadhimaṇḍena viṭsaṅge dāḍimāmbhobhirarśasaiḥ |
परिकर्ते सवृक्षाम्लैरुष्णाम्बुभिरजीर्णके ॥ (१९।२)
parikarte savṛkṣāmlairuṣṇāmbubhirajīrṇake ||
हृद्रोगे ग्रहणीदोषे कुष्ठे मन्दे ऽनले ज्वरे ॥ (२०।२)
hṛdroge grahaṇīdoṣe kuṣṭhe mande 'nale jvare ||
यथार्हं स्निग्धकोष्ठेन पेयम् एतद् विरेचनम् ॥ (२१।२)
yathārhaṃ snigdhakoṣṭhena peyam etad virecanam ||
हपुषां काञ्चनक्षीरीं त्रिफलां नीलिनीफलम् । (२२।१)
hapuṣāṃ kāñcanakṣīrīṃ triphalāṃ nīlinīphalam |
त्रायन्तीं रोहिणीं तिक्तां सातलां त्रिवृतां वचाम् ॥ (२२।२)
trāyantīṃ rohiṇīṃ tiktāṃ sātalāṃ trivṛtāṃ vacām ||
सैन्धवं काललवणं पिप्पलीं चेति चूर्णयेत् । (२३।१)
saindhavaṃ kālalavaṇaṃ pippalīṃ ceti cūrṇayet |
पेयो ऽयं सर्वगुल्मेषु प्लीह्नि सर्वोदरेषु च । (२४।१)
peyo 'yaṃ sarvagulmeṣu plīhni sarvodareṣu ca |
श्वित्रे कुष्ठेष्वजरके सदने विषमे ऽनले ॥ (२४।२)
śvitre kuṣṭheṣvajarake sadane viṣame 'nale ||
नीलिनीं निचुलं व्योषं क्षारौ लवणपञ्चकम् । (२६।१)
nīlinīṃ niculaṃ vyoṣaṃ kṣārau lavaṇapañcakam |
चित्रकं च पिबेच्चूर्णं सर्पिषोदरगुल्मनुत् ॥ (२६।२)
citrakaṃ ca pibeccūrṇaṃ sarpiṣodaragulmanut ||
पूर्ववच्च पिबेद् दुग्धं क्षामः शुद्धो ऽन्तरान्तरा । (२७।१)
pūrvavacca pibed dugdhaṃ kṣāmaḥ śuddho 'ntarāntarā |
कारभं गव्यम् आजं वा दद्याद् आत्ययिके गदे ॥ (२७।२)
kārabhaṃ gavyam ājaṃ vā dadyād ātyayike gade ||
स्नेहान् एव विरेकार्थे दुर्बलेभ्यो विशेषतः । (२८।१)
snehān eva virekārthe durbalebhyo viśeṣataḥ |
हरीतकीसूक्ष्मरजःप्रस्थयुक्तं घृताढकम् ॥ (२८।२)
harītakīsūkṣmarajaḥprasthayuktaṃ ghṛtāḍhakam ||
निधापयेत् ततो मासाद् उद्धृतं गालितं पचेत् ॥ (२९।२)
nidhāpayet tato māsād uddhṛtaṃ gālitaṃ pacet ||
हरीतकीनां क्वाथेन दध्ना चाम्लेन संयुतम् । (३०।१)
harītakīnāṃ kvāthena dadhnā cāmlena saṃyutam |
हन्त्येतत् कुष्ठम् उन्मादम् अपस्मारं च पानतः । (३१।१)
hantyetat kuṣṭham unmādam apasmāraṃ ca pānataḥ |
स्नुक्क्षीरयुक्ताद् गोक्षीराच्छृतशीतात् खजाहतात् ॥ (३१।२)
snukkṣīrayuktād gokṣīrācchṛtaśītāt khajāhatāt ||
यज्जातम् आज्यं स्नुक्क्षीरसिद्धं तच्च तथागुणम् । (३२।१)
yajjātam ājyaṃ snukkṣīrasiddhaṃ tacca tathāguṇam |
क्षीरद्रोणं सुधाक्षीरप्रस्थार्धसहितं दधि ॥ (३२।२)
kṣīradroṇaṃ sudhākṣīraprasthārdhasahitaṃ dadhi ||
जातं मथित्वा तत्सर्पिस् त्रिवृत्सिद्धं च तद्गुणम् । (३३।१)
jātaṃ mathitvā tatsarpis trivṛtsiddhaṃ ca tadguṇam |
तथा सिद्धं घृतप्रस्थं पयस्यष्टगुणे पिबेत् ॥ (३३।२)
tathā siddhaṃ ghṛtaprasthaṃ payasyaṣṭaguṇe pibet ||
एषां चानु पिबेत् पेयां रसं स्वादु पयो ऽथवा ॥ (३४।२)
eṣāṃ cānu pibet peyāṃ rasaṃ svādu payo 'thavā ||
घृते जीर्णे विरिक्तश्च कोष्णं नागरसाधितम् । (३५।१)
ghṛte jīrṇe viriktaśca koṣṇaṃ nāgarasādhitam |
पिबेद् अम्बु ततः पेयां ततो यूषं कुलत्थजम् ॥ (३५।२)
pibed ambu tataḥ peyāṃ tato yūṣaṃ kulatthajam ||
पिबेद् रूक्षस् त्र्यहं त्वेवं भूयो वा प्रतिभोजितः । (३६।१)
pibed rūkṣas tryahaṃ tvevaṃ bhūyo vā pratibhojitaḥ |
पुनः पुनः पिबेत् सर्पिरानुपूर्व्यानयैव च ॥ (३६।२)
punaḥ punaḥ pibet sarpirānupūrvyānayaiva ca ||
घृतान्येतानि सिद्धानि विदध्यात् कुशलो भिषक् । (३७।१)
ghṛtānyetāni siddhāni vidadhyāt kuśalo bhiṣak |
तैल्वकं नीलिनीसर्पिः स्नेहं वा मिश्रकं पिबेत् ॥ (३८।२)
tailvakaṃ nīlinīsarpiḥ snehaṃ vā miśrakaṃ pibet ||
हृतदोषः क्रमाद् अश्नन् लघुशाल्योदनप्रति । (३९।१)
hṛtadoṣaḥ kramād aśnan laghuśālyodanaprati |
सहस्रं पिप्पलीनां वा स्नुक्क्षीरेण सुभावितम् ॥ (४०।२)
sahasraṃ pippalīnāṃ vā snukkṣīreṇa subhāvitam ||
तद्वद् वा गुग्गुलुं क्षीरं तुल्यार्द्रकरसं तथा ॥ (४१।२)
tadvad vā gugguluṃ kṣīraṃ tulyārdrakarasaṃ tathā ||
चित्रकामरदारुभ्यां कल्कं क्षीरेण वा पिबेत् । (४२।१)
citrakāmaradārubhyāṃ kalkaṃ kṣīreṇa vā pibet |
मासं युक्तस् तथा हस्तिपिप्पलीविश्वभेषजम् ॥ (४२।२)
māsaṃ yuktas tathā hastipippalīviśvabheṣajam ||
विडङ्गं चित्रको दन्ती चव्यं व्योषं च तैः पयः । (४३।१)
viḍaṅgaṃ citrako dantī cavyaṃ vyoṣaṃ ca taiḥ payaḥ |
कल्कैः कोलसमैः पीत्वा प्रवृद्धम् उदरं जयेत् ॥ (४३।२)
kalkaiḥ kolasamaiḥ pītvā pravṛddham udaraṃ jayet ||
भोज्यं भुञ्जीत वा मासं स्नुहीक्षीरघृतान्वितम् । (४४।१)
bhojyaṃ bhuñjīta vā māsaṃ snuhīkṣīraghṛtānvitam |
उत्कारिकां वा स्नुक्क्षीरपीतपथ्याकणाकृताम् ॥ (४४।२)
utkārikāṃ vā snukkṣīrapītapathyākaṇākṛtām ||
पार्श्वशूलम् उपस्तम्भं हृद्ग्रहं च समीरणः । (४५।१)
pārśvaśūlam upastambhaṃ hṛdgrahaṃ ca samīraṇaḥ |
यदि कुर्यात् ततस् तैलं बिल्वक्षारान्वितम् पिबेत् ॥ (४५।२)
yadi kuryāt tatas tailaṃ bilvakṣārānvitam pibet ||
क्षारैः कदल्यपामार्गतर्कारीजैः पृथक्कृतैः ॥ (४६।२)
kṣāraiḥ kadalyapāmārgatarkārījaiḥ pṛthakkṛtaiḥ ||
कफे वातेन पित्ते वा ताभ्यां वाप्यावृते ऽनिले । (४७।१)
kaphe vātena pitte vā tābhyāṃ vāpyāvṛte 'nile |
बलिनः स्वौषधयुतं तैलम् एरण्डजं हितम् ॥ (४७।२)
balinaḥ svauṣadhayutaṃ tailam eraṇḍajaṃ hitam ||
साश्वकर्णैः सगोमूत्रैः प्रदिह्याद् उदरं बहिः ॥ (४८।२)
sāśvakarṇaiḥ sagomūtraiḥ pradihyād udaraṃ bahiḥ ||
वर्षाभूधान्यकुष्ठाच्च क्वाथैर् मूत्रैश्च सेचयेत् ॥ (४९।२)
varṣābhūdhānyakuṣṭhācca kvāthair mūtraiśca secayet ||
विरिक्तम्लानम् उदरं स्वेदितं शाल्वणादिभिः । (५०।१)
viriktamlānam udaraṃ sveditaṃ śālvaṇādibhiḥ |
वाससा वेष्टयेद् एवं वायुर् नाध्मापयेत् पुनः ॥ (५०।२)
vāsasā veṣṭayed evaṃ vāyur nādhmāpayet punaḥ ||
सुविरिक्तस्य यस्य स्याद् आध्मानं पुनरेव तम् । (५१।१)
suviriktasya yasya syād ādhmānaṃ punareva tam |
सुस्निग्धैरम्ललवणैर् निरूहैः समुपाचरेत् ॥ (५१।२)
susnigdhairamlalavaṇair nirūhaiḥ samupācaret ||
सोपस्तम्भो ऽपि वा वायुराध्मापयति यं नरम् । (५२।१)
sopastambho 'pi vā vāyurādhmāpayati yaṃ naram |
तीक्ष्णाः सक्षारगोमूत्राः शस्यन्ते तस्य वस्तयः ॥ (५२।२)
tīkṣṇāḥ sakṣāragomūtrāḥ śasyante tasya vastayaḥ ||
इति सामान्यतः प्रोक्ताः सिद्धा जठरिणां क्रियाः । (५३।१)
iti sāmānyataḥ proktāḥ siddhā jaṭhariṇāṃ kriyāḥ |
वातोदरे ऽथ बलिनं विदार्यादिशृतं घृतम् ॥ (५३।२)
vātodare 'tha balinaṃ vidāryādiśṛtaṃ ghṛtam ||
पाययेत ततः स्निग्धं स्वेदिताङ्गं विरेचयेत् । (५४।१)
pāyayeta tataḥ snigdhaṃ sveditāṅgaṃ virecayet |
बहुशस् तैल्वकेनैनं सर्पिषा मिश्रकेण वा ॥ (५४।२)
bahuśas tailvakenainaṃ sarpiṣā miśrakeṇa vā ||
कृते संसर्जने क्षीरं बलार्थम् अवचारयेत् । (५५।१)
kṛte saṃsarjane kṣīraṃ balārtham avacārayet |
प्राग् उत्क्लेशान् निवर्त्यं च बले लब्धे क्रमात् पयः ॥ (५५।२)
prāg utkleśān nivartyaṃ ca bale labdhe kramāt payaḥ ||
सोदावर्तं पुनः स्निग्धस्विन्नम् आस्थापयेत् ततः ॥ (५६।२)
sodāvartaṃ punaḥ snigdhasvinnam āsthāpayet tataḥ ||
स्फुरणाक्षेपसंध्यस्थिपार्श्वपृष्ठत्रिकार्तिषु । (५८।१)
sphuraṇākṣepasaṃdhyasthipārśvapṛṣṭhatrikārtiṣu |
रूक्षं बद्धशकृद्वातं दीप्ताग्निम् अनुवासयेत् ॥ (५८।२)
rūkṣaṃ baddhaśakṛdvātaṃ dīptāgnim anuvāsayet ||
बलिनं स्वादुसिद्धेन पैत्ते संस्नेह्य सर्पिषा ॥ (५९।२)
balinaṃ svādusiddhena paitte saṃsnehya sarpiṣā ||
श्यामात्रिभण्डीत्रिफलाविपक्वेन विरेचयेत् । (६०।१)
śyāmātribhaṇḍītriphalāvipakvena virecayet |
सितामधुघृताढ्येन निरूहो ऽस्य ततो हितः ॥ (६०।२)
sitāmadhughṛtāḍhyena nirūho 'sya tato hitaḥ ||
न्यग्रोधादिकषायेण स्नेहवस्तिश्च तच्छृतः । (६१।१)
nyagrodhādikaṣāyeṇa snehavastiśca tacchṛtaḥ |
दुर्बलं त्वनुवास्यादौ शोधयेत् क्षीरवस्तिभिः ॥ (६१।२)
durbalaṃ tvanuvāsyādau śodhayet kṣīravastibhiḥ ||
जाते चाग्निबले स्निग्धं भूयो भूयो विरेचयेत् । (६२।१)
jāte cāgnibale snigdhaṃ bhūyo bhūyo virecayet |
पुनः क्षीरं पुनर् वस्तिं पुनरेव विरेचनम् । (६५।१)
punaḥ kṣīraṃ punar vastiṃ punareva virecanam |
क्रमेण ध्रुवम् आतिष्ठन् यत्तः पित्तोदरं जयेत् ॥ (६५।२)
krameṇa dhruvam ātiṣṭhan yattaḥ pittodaraṃ jayet ||
स्विन्नं स्नुक्क्षीरसिद्धेन बलवन्तं विरेचितम् ॥ (६६।२)
svinnaṃ snukkṣīrasiddhena balavantaṃ virecitam ||
संसर्जयेत् कटुक्षारयुक्तैरन्नैः कफापहैः । (६७।१)
saṃsarjayet kaṭukṣārayuktairannaiḥ kaphāpahaiḥ |
मूत्रत्र्यूषणतैलाढ्यो निरूहो ऽस्य ततो हितः ॥ (६७।२)
mūtratryūṣaṇatailāḍhyo nirūho 'sya tato hitaḥ ||
स्तैमित्यारुचिहृल्लासे मन्दे ऽग्नौ मद्यपाय च । (६९।१)
staimityārucihṛllāse mande 'gnau madyapāya ca |
दद्याद् अरिष्टान् क्षारांश्च कफस्त्यानस्थिरोदरे ॥ (६९।२)
dadyād ariṣṭān kṣārāṃśca kaphastyānasthirodare ||
हिङ्गूपकुल्ये त्रिफलां देवदारु निशाद्वयम् । (७०।१)
hiṅgūpakulye triphalāṃ devadāru niśādvayam |
भल्लातकं शिग्रुफलं कटुकां तिक्तकं वचां ॥ (७०।२)
bhallātakaṃ śigruphalaṃ kaṭukāṃ tiktakaṃ vacāṃ ||
शुण्ठीं माद्रीं घनं कुष्ठं सरलं पटुपञ्चकम् । (७१।१)
śuṇṭhīṃ mādrīṃ ghanaṃ kuṣṭhaṃ saralaṃ paṭupañcakam |
अन्तर्धूमं ततः क्षाराद् बिडालपदकं पिबेत् । (७२।१)
antardhūmaṃ tataḥ kṣārād biḍālapadakaṃ pibet |
उदरं गुल्मम् अष्ठीलां तूण्यौ शोफं विषूचिकाम् । (७३।१)
udaraṃ gulmam aṣṭhīlāṃ tūṇyau śophaṃ viṣūcikām |
उपनाह्यं ससिद्धार्थकिण्वैर् बीजैश्च मूलकात् । (७५।१)
upanāhyaṃ sasiddhārthakiṇvair bījaiśca mūlakāt |
कल्कितैरुदरं स्वेदम् अभीक्ष्णं चात्र योजयेत् ॥ (७५।२)
kalkitairudaraṃ svedam abhīkṣṇaṃ cātra yojayet ||
दोषोद्रेकानुरोधेन प्रत्याख्याय क्रियाम् इमाम् ॥ (७६।२)
doṣodrekānurodhena pratyākhyāya kriyām imām ||
क्रियानिवृत्ते जठरे त्रिदोषे तु विशेषतः ॥ (७७।२)
kriyānivṛtte jaṭhare tridoṣe tu viśeṣataḥ ||
दद्याद् आपृच्छ्य तज्ज्ञातीन् पातुं मद्येन कल्कितम् । (७८।१)
dadyād āpṛcchya tajjñātīn pātuṃ madyena kalkitam |
पानभोजनसंयुक्तं दद्याद् वा स्थावरं विषम् । (७९।१)
pānabhojanasaṃyuktaṃ dadyād vā sthāvaraṃ viṣam |
यस्मिन् वा कुपितः सर्पो विमुञ्चति फले विषम् ॥ (७९।२)
yasmin vā kupitaḥ sarpo vimuñcati phale viṣam ||
तेनास्य दोषसंघातः स्थिरो लीनो विमार्गगः । (८०।१)
tenāsya doṣasaṃghātaḥ sthiro līno vimārgagaḥ |
बहिः प्रवर्तते भिन्नो विषेणाशु प्रमाथिना ॥ (८०।२)
bahiḥ pravartate bhinno viṣeṇāśu pramāthinā ||
हृतदोषं तु शीताम्बुस्नातं तं पाययेत् पयः ॥ (८१।२)
hṛtadoṣaṃ tu śītāmbusnātaṃ taṃ pāyayet payaḥ ||
पेयां वा त्रिवृतः शाकं माण्डूक्या वास्तुकस्य वा । (८२।१)
peyāṃ vā trivṛtaḥ śākaṃ māṇḍūkyā vāstukasya vā |
कालशाकं यवाख्यं वा खादेत् स्वरससाधितम् ॥ (८२।२)
kālaśākaṃ yavākhyaṃ vā khādet svarasasādhitam ||
निरम्ललवणस्नेहं स्विन्नास्विन्नम् अनन्नभुक् । (८३।१)
niramlalavaṇasnehaṃ svinnāsvinnam anannabhuk |
मासम् एकं ततश्चैव तृषितः स्वरसं पिबेत् ॥ (८३।२)
māsam ekaṃ tataścaiva tṛṣitaḥ svarasaṃ pibet ||
एवं विनिर्हृते शाकैर् दोषे मासात् परं ततः । (८४।१)
evaṃ vinirhṛte śākair doṣe māsāt paraṃ tataḥ |
दुर्बलाय प्रयुञ्जीत प्राणभृत् कारभं पयः ॥ (८४।२)
durbalāya prayuñjīta prāṇabhṛt kārabhaṃ payaḥ ||
प्लीहोदरे यथादोषं स्निग्धस्य स्वेदितस्य च । (८५।१)
plīhodare yathādoṣaṃ snigdhasya sveditasya ca |
सिरां भुक्तवतो दध्ना वामबाहौ विमोक्षयेत् ॥ (८५।२)
sirāṃ bhuktavato dadhnā vāmabāhau vimokṣayet ||
लब्धे बले च भूयो ऽपि स्नेहपीतं विशोधितम् । (८६।१)
labdhe bale ca bhūyo 'pi snehapītaṃ viśodhitam |
समुद्रशुक्तिजं क्षारं पयसा पाययेत् तथा ॥ (८६।२)
samudraśuktijaṃ kṣāraṃ payasā pāyayet tathā ||
शौभाञ्जनस्य वा क्वाथं सैन्धवाग्निकणान्वितम् ॥ (८७।२)
śaubhāñjanasya vā kvāthaṃ saindhavāgnikaṇānvitam ||
हिङ्ग्वादिचूर्णं क्षाराज्यं युञ्जीत च यथाबलम् । (८८।१)
hiṅgvādicūrṇaṃ kṣārājyaṃ yuñjīta ca yathābalam |
विडार्धांशयुतं चूर्णम् इदम् उष्णाम्बुना पिबेत् । (८९।१)
viḍārdhāṃśayutaṃ cūrṇam idam uṣṇāmbunā pibet |
विडङ्गं चित्रकं सक्तून् सघृतान् सैन्धवं वचाम् ॥ (८९।२)
viḍaṅgaṃ citrakaṃ saktūn saghṛtān saindhavaṃ vacām ||
दग्ध्वा कपाले पयसा गुल्मप्लीहापहं पिबेत् । (९०।१)
dagdhvā kapāle payasā gulmaplīhāpahaṃ pibet |
तैलोन्मिश्रैर् बदरकपत्त्रैः संमर्दितैः समुपनद्धः ॥ (९०।२)
tailonmiśrair badarakapattraiḥ saṃmarditaiḥ samupanaddhaḥ ||
मुसलेन पीडितो ऽनु च याति प्लीहा पयोभुजो नाशम् । (९१।१)
musalena pīḍito 'nu ca yāti plīhā payobhujo nāśam |
मूत्रे वासुनुयात् तच्च सप्तरात्रस्थितं पिबेत् । (९२।१)
mūtre vāsunuyāt tacca saptarātrasthitaṃ pibet |
कोलद्विप्रस्थसंयुक्तं कषायम् उपकल्पयेत् ॥ (९३।२)
koladviprasthasaṃyuktaṃ kaṣāyam upakalpayet ||
पालिकैः पञ्चकोलैस् तु तैः समस्तैश्च तुल्यया । (९४।१)
pālikaiḥ pañcakolais tu taiḥ samastaiśca tulyayā |
रोहीतकत्वचा पिष्टैर् घृतप्रस्थं विपाचयेत् ॥ (९४।२)
rohītakatvacā piṣṭair ghṛtaprasthaṃ vipācayet ||
प्लीहाभिवृद्धिं शमयत्येतद् आशु प्रयोजितम् । (९५।१)
plīhābhivṛddhiṃ śamayatyetad āśu prayojitam |
कदल्यास् तिलनालानां क्षारेण क्षुरकस्य च ॥ (९५।२)
kadalyās tilanālānāṃ kṣāreṇa kṣurakasya ca ||
तैलं पक्वं जयेत् पानात् प्लीहानं कफवातजम् । (९६।१)
tailaṃ pakvaṃ jayet pānāt plīhānaṃ kaphavātajam |
अशान्तौ गुल्मविधिना योजयेद् अग्निकर्म च ॥ (९६।२)
aśāntau gulmavidhinā yojayed agnikarma ca ||
अप्राप्तपिच्छासलिले प्लीह्नि वातकफोल्बणे । (९७।१)
aprāptapicchāsalile plīhni vātakapholbaṇe |
पैत्तिके जीवनीयानि सर्पींषि क्षीरवस्तयः ॥ (९७।२)
paittike jīvanīyāni sarpīṃṣi kṣīravastayaḥ ||
रक्तावसेकः संशुद्धिः क्षीरपानं च शस्यते । (९८।१)
raktāvasekaḥ saṃśuddhiḥ kṣīrapānaṃ ca śasyate |
यकृति प्लीहवत् कर्म दक्षिणे तु भुजे सिराम् ॥ (९८।२)
yakṛti plīhavat karma dakṣiṇe tu bhuje sirām ||
स्विन्नाय बद्धोदरिणे मूत्रतीक्ष्णौषधान्वितम् । (९९।१)
svinnāya baddhodariṇe mūtratīkṣṇauṣadhānvitam |
परिस्रंसीनि चान्नानि तीक्ष्णं चास्मै विरेचनम् । (१००।१)
parisraṃsīni cānnāni tīkṣṇaṃ cāsmai virecanam |
उदावर्तहरं कर्म कार्यं यच्चानिलापहम् ॥ (१००।२)
udāvartaharaṃ karma kāryaṃ yaccānilāpaham ||
छिद्रोदरम् ऋते स्वेदाच्छ्लेष्मोदरवद् आचरेत् । (१०१।१)
chidrodaram ṛte svedācchleṣmodaravad ācaret |
जातं जातं जलं स्राव्यम् एवं तद् यापयेद् भिषक् ॥ (१०१।२)
jātaṃ jātaṃ jalaṃ srāvyam evaṃ tad yāpayed bhiṣak ||
मूत्रयुक्तानि तीक्ष्णानि विविधक्षारवन्ति च ॥ (१०२।२)
mūtrayuktāni tīkṣṇāni vividhakṣāravanti ca ||
दीपनीयैः कफघ्नैश्च तम् आहारैरुपाचरेत् । (१०३।१)
dīpanīyaiḥ kaphaghnaiśca tam āhārairupācaret |
क्षारं छागकरीषाणां स्रुतं मूत्रे ऽग्निना पचेत् ॥ (१०३।२)
kṣāraṃ chāgakarīṣāṇāṃ srutaṃ mūtre 'gninā pacet ||
घनीभवति तस्मिंश्च कर्षांशं चूर्णितं क्षिपेत् । (१०४।१)
ghanībhavati tasmiṃśca karṣāṃśaṃ cūrṇitaṃ kṣipet |
पिप्पली पिप्पलीमूलं शुण्ठी लवणपञ्चकम् ॥ (१०४।२)
pippalī pippalīmūlaṃ śuṇṭhī lavaṇapañcakam ||
निकुम्भकुम्भत्रिफलास्वर्णक्षीरीविषाणिकाः । (१०५।१)
nikumbhakumbhatriphalāsvarṇakṣīrīviṣāṇikāḥ |
स्वर्जिकाक्षारषड्ग्रन्थासातलायवशूकजम् ॥ (१०५।२)
svarjikākṣāraṣaḍgranthāsātalāyavaśūkajam ||
कोलाभा गुटिकाः कृत्वा ततः सौवीरकाप्लुताः । (१०६।१)
kolābhā guṭikāḥ kṛtvā tataḥ sauvīrakāplutāḥ |
इत्यौषधैर् अप्रशमे त्रिषु बद्धोदरादिषु । (१०७।१)
ityauṣadhair apraśame triṣu baddhodarādiṣu |
प्रयुञ्जीत भिषक् शस्त्रम् आर्तबन्धुनृपार्थितः ॥ (१०७।२)
prayuñjīta bhiṣak śastram ārtabandhunṛpārthitaḥ ||
स्निग्धस्विन्नतनोर् नाभेरधो बद्धक्षतान्त्रयोः । (१०८।१)
snigdhasvinnatanor nābheradho baddhakṣatāntrayoḥ |
पाटयेद् उदरं मुक्त्वा वामतश्चतुरङ्गुलात् ॥ (१०८।२)
pāṭayed udaraṃ muktvā vāmataścaturaṅgulāt ||
चतुरङ्गुलमानं तु निष्कास्यान्त्राणि तेन च । (१०९।१)
caturaṅgulamānaṃ tu niṣkāsyāntrāṇi tena ca |
छिद्रे तु शल्यम् उद्धृत्य विशोध्यान्त्रपरिस्रवम् । (११०।१)
chidre tu śalyam uddhṛtya viśodhyāntraparisravam |
मर्कोटैर् दंशयेच्छिद्रं तेषु लग्नेषु चाहरेत् ॥ (११०।२)
markoṭair daṃśayecchidraṃ teṣu lagneṣu cāharet ||
कायं मूर्ध्नो ऽनु चान्त्राणि यथास्थानं निवेशयेत् । (१११।१)
kāyaṃ mūrdhno 'nu cāntrāṇi yathāsthānaṃ niveśayet |
अक्तानि मधुसर्पिर्भ्याम् अथ सीव्येद् बहिर् व्रणम् ॥ (१११।२)
aktāni madhusarpirbhyām atha sīvyed bahir vraṇam ||
ततः कृष्णमृदालिप्य बध्नीयाद् यष्टिमिश्रया । (११२।१)
tataḥ kṛṣṇamṛdālipya badhnīyād yaṣṭimiśrayā |
निवातस्थः पयोवृत्तिः स्नेहद्रोण्यां वसेत् ततः ॥ (११२।२)
nivātasthaḥ payovṛttiḥ snehadroṇyāṃ vaset tataḥ ||
स्विन्नस्योष्णाम्बुनाकक्षम् उदरे पट्टवेष्टिते ॥ (११३।२)
svinnasyoṣṇāmbunākakṣam udare paṭṭaveṣṭite ||
बद्धच्छिद्रोदितस्थाने विध्येद् अङ्गुलमात्रकम् । (११४।१)
baddhacchidroditasthāne vidhyed aṅgulamātrakam |
निधाय तस्मिन् नाडीं च स्रावयेद् अर्धम् अम्भसः ॥ (११४।२)
nidhāya tasmin nāḍīṃ ca srāvayed ardham ambhasaḥ ||
व्रणम् अभ्यज्य बद्ध्वा च वेष्टयेद् वाससोदरम् ॥ (११५।२)
vraṇam abhyajya baddhvā ca veṣṭayed vāsasodaram ||
तृतीये ऽह्नि चतुर्थे वा यावद् आ षोडशं दिनम् । (११६।१)
tṛtīye 'hni caturthe vā yāvad ā ṣoḍaśaṃ dinam |
तस्य विश्रम्य विश्रम्य स्रावयेद् अल्पशो जलम् ॥ (११६।२)
tasya viśramya viśramya srāvayed alpaśo jalam ||
विवेष्टयेद् गाढतरं जठरं वाससा श्लथम् । (११७।१)
viveṣṭayed gāḍhataraṃ jaṭharaṃ vāsasā ślatham |
निःस्रुते लङ्घितः पेयाम् अस्नेहलवणां पिबेत् ॥ (११७।२)
niḥsrute laṅghitaḥ peyām asnehalavaṇāṃ pibet ||
स्यात् क्षीरवृत्तिः षण्मासांस्त्रीन् पेयां पयसा पिबेत् । (११८।१)
syāt kṣīravṛttiḥ ṣaṇmāsāṃstrīn peyāṃ payasā pibet |
त्रींश्चान्यान् पयसैवाद्यात् फलाम्लेन रसेन वा ॥ (११८।२)
trīṃścānyān payasaivādyāt phalāmlena rasena vā ||
अल्पशो ऽस्नेहलवणं जीर्णं श्यामाककोद्रवम् । (११९।१)
alpaśo 'snehalavaṇaṃ jīrṇaṃ śyāmākakodravam |
वर्ज्येषु यन्त्रितो दिष्टे नात्यदिष्टे जितेन्द्रियः । (१२०।१)
varjyeṣu yantrito diṣṭe nātyadiṣṭe jitendriyaḥ |
सर्वम् एवोदरं प्रायो दोषसंघातजं यतः ॥ (१२०।२)
sarvam evodaraṃ prāyo doṣasaṃghātajaṃ yataḥ ||
वह्निर् मन्दत्वम् आयाति दोषैः कुक्षौ प्रपूरिते ॥ (१२१।२)
vahnir mandatvam āyāti doṣaiḥ kukṣau prapūrite ||
तस्माद् भोज्यानि भोज्यानि दीपनानि लघूनि च । (१२२।१)
tasmād bhojyāni bhojyāni dīpanāni laghūni ca |
भावितानां गवां मूत्रे षष्टिकानां च तण्डुलैः । (१२३।१)
bhāvitānāṃ gavāṃ mūtre ṣaṣṭikānāṃ ca taṇḍulaiḥ |
यवागूं पयसा सिद्धां प्रकामं भोजयेन् नरम् ॥ (१२३।२)
yavāgūṃ payasā siddhāṃ prakāmaṃ bhojayen naram ||
पिबेद् इक्षुरसं चानु जठराणां निवृत्तये । (१२४।१)
pibed ikṣurasaṃ cānu jaṭharāṇāṃ nivṛttaye |
स्वं स्वं स्थानं व्रजन्त्येषां वातपित्तकफास् तथा ॥ (१२४।२)
svaṃ svaṃ sthānaṃ vrajantyeṣāṃ vātapittakaphās tathā ||
अत्यर्थोष्णाम्ललवणं रूक्षं ग्राहि हिमं गुरु । (१२५।१)
atyarthoṣṇāmlalavaṇaṃ rūkṣaṃ grāhi himaṃ guru |
नात्यच्छसान्द्रमधुरं तक्रं पाने प्रशस्यते ॥ (१२६।२)
nātyacchasāndramadhuraṃ takraṃ pāne praśasyate ||
मधुतैलवचाशुण्ठीशताह्वाकुष्ठसैन्धवैः ॥ (१२८।२)
madhutailavacāśuṇṭhīśatāhvākuṣṭhasaindhavaiḥ ||
प्लीह्नि बद्धे तु हपुषायवानीपट्वजाजिभिः । (१२९।१)
plīhni baddhe tu hapuṣāyavānīpaṭvajājibhiḥ |
सकृष्णामाक्षिकं छिद्रे व्योषवत् सलिलोदरे ॥ (१२९।२)
sakṛṣṇāmākṣikaṃ chidre vyoṣavat salilodare ||
तक्रं वातकफार्तानाम् अमृतत्वाय कल्पते ॥ (१३०।२)
takraṃ vātakaphārtānām amṛtatvāya kalpate ||
प्रयोगाणां च सर्वेषाम् अनु क्षीरं प्रयोजयेत् । (१३१।१)
prayogāṇāṃ ca sarveṣām anu kṣīraṃ prayojayet |
स्थैर्यकृत् सर्वधातूनां बल्यं दोषानुबन्धहृत् । (१३१।२)
sthairyakṛt sarvadhātūnāṃ balyaṃ doṣānubandhahṛt |
Data courtesy of The Digital Corpus of Sanskrit.