अष्टाङ्गहृदयसंहिताAṣṭāṅgahṛdayasaṃhitā

AHS, 6, 20

100 of 120 · 52 verses

Select a line for its word-by-word analysis.

1.1१.१

अथातो नासारोगप्रतिषेधं व्याख्यास्यामः । (१।१)

athāto nāsārogapratiṣedhaṃ vyākhyāsyāmaḥ |

1.2१.२

इति ह स्माहुर् आत्रेयादयो महर्षयः । (१।२)

iti ha smāhur ātreyādayo maharṣayaḥ |

1.3१.३

सर्वेषु पीनसेष्वादौ निवातागारगो भजेत् । (१।३)

sarveṣu pīnaseṣvādau nivātāgārago bhajet |

1.4१.४

स्नेहनस्वेदवमनधूमगण्डूषधारणम् ॥ (१।४)

snehanasvedavamanadhūmagaṇḍūṣadhāraṇam ||

2.1२.१

वासो गुरूष्णं शिरसः सुघनं परिवेष्टनम् । (२।१)

vāso gurūṣṇaṃ śirasaḥ sughanaṃ pariveṣṭanam |

2.2२.२

लघ्वम्ललवणं स्निग्धम् उष्णं भोजनम् अद्रवम् ॥ (२।२)

laghvamlalavaṇaṃ snigdham uṣṇaṃ bhojanam adravam ||

3.1३.१

धन्वमांसगुडक्षीरचणकत्रिकटूत्कटम् । (३।१)

dhanvamāṃsaguḍakṣīracaṇakatrikaṭūtkaṭam |

3.2३.२

यवगोधूमभूयिष्ठं दधिदाडिमसारिकम् ॥ (३।२)

yavagodhūmabhūyiṣṭhaṃ dadhidāḍimasārikam ||

4.1४.१

बालमूलकजो यूषः कुलत्थोत्थश्च पूजितः । (४।१)

bālamūlakajo yūṣaḥ kulatthotthaśca pūjitaḥ |

4.2४.२

कवोष्णं दशमूलाम्बु जीर्णां वा वारुणीं पिबेत् ॥ (४।२)

kavoṣṇaṃ daśamūlāmbu jīrṇāṃ vā vāruṇīṃ pibet ||

5.1५.१

जिघ्रेच्चोरकतर्कारीवचाजाज्युपकुञ्चिकाः । (५।१)

jighreccorakatarkārīvacājājyupakuñcikāḥ |

5.2५.२

व्योषतालीशचविकातिन्तिडीकाम्लवेतसम् ॥ (५।२)

vyoṣatālīśacavikātintiḍīkāmlavetasam ||

6.1६.१

साग्न्यजाजि द्विपलिकं त्वगेलापत्त्रपादिकम् । (६।१)

sāgnyajāji dvipalikaṃ tvagelāpattrapādikam |

6.2६.२

जीर्णाद् गुडात् तुलार्धेन पक्वेन वटकीकृतम् ॥ (६।२)

jīrṇād guḍāt tulārdhena pakvena vaṭakīkṛtam ||

7.1७.१

पीनसश्वासकासघ्नं रुचिस्वरकरं परम् । (७।१)

pīnasaśvāsakāsaghnaṃ rucisvarakaraṃ param |

7.2७.२

शताह्वात्वग्बला मूलं श्योणाकैरण्डबिल्वजम् ॥ (७।२)

śatāhvātvagbalā mūlaṃ śyoṇākairaṇḍabilvajam ||

8.1८.१

सारग्वधं पिबेद्धूमं वसाज्यमदनान्वितम् । (८।१)

sāragvadhaṃ pibeddhūmaṃ vasājyamadanānvitam |

8.2८.२

अथवा सघृतान् सक्तून् कृत्वा मल्लकसंपुटे ॥ (८।२)

athavā saghṛtān saktūn kṛtvā mallakasaṃpuṭe ||

9.1९.१

त्यजेत् स्नानं शुचं क्रोधं भृशं शय्यां हिमं जलम् । (९।१)

tyajet snānaṃ śucaṃ krodhaṃ bhṛśaṃ śayyāṃ himaṃ jalam |

9.2९.२

पिबेद् वातप्रतिश्याये सर्पिर् वातघ्नसाधितम् ॥ (९।२)

pibed vātapratiśyāye sarpir vātaghnasādhitam ||

10.1१०.१

पटुपञ्चकसिद्धं वा विदार्यादिगणेन वा । (१०।१)

paṭupañcakasiddhaṃ vā vidāryādigaṇena vā |

10.2१०.२

स्वेदनस्यादिकां कुर्यात् चिकित्साम् अर्दितोदिताम् ॥ (१०।२)

svedanasyādikāṃ kuryāt cikitsām arditoditām ||

11.1११.१

पित्तरक्तोत्थयोः पेयं सर्पिर् मधुरकैः शृतम् । (११।१)

pittaraktotthayoḥ peyaṃ sarpir madhurakaiḥ śṛtam |

11.2११.२

परिषेकान् प्रदेहांश्च शीतैः कुर्वीत शीतलान् ॥ (११।२)

pariṣekān pradehāṃśca śītaiḥ kurvīta śītalān ||

12.1१२.१

धवत्वक्त्रिफलाश्यामाश्रीपर्णीयष्टितिल्वकैः । (१२।१)

dhavatvaktriphalāśyāmāśrīparṇīyaṣṭitilvakaiḥ |

12.2१२.२

क्षीरे दशगुणे तैलं नावनं सनिशैः पचेत् ॥ (१२।२)

kṣīre daśaguṇe tailaṃ nāvanaṃ saniśaiḥ pacet ||

13.1१३.१

कफजे लङ्घनं लेपः शिरसो गौरसर्षपैः । (१३।१)

kaphaje laṅghanaṃ lepaḥ śiraso gaurasarṣapaiḥ |

13.2१३.२

सक्षारं वा घृतम् पीत्वा वमेत् पिष्टैस्तु नावनम् ॥ (१३।२)

sakṣāraṃ vā ghṛtam pītvā vamet piṣṭaistu nāvanam ||

14.1१४.१

बस्ताम्बुना पटुव्योषवेल्लवत्सकजीरकैः । (१४।१)

bastāmbunā paṭuvyoṣavellavatsakajīrakaiḥ |

14.2१४.२

कटुतीक्ष्णैर् घृतैर् नस्यैः कवडैः सर्वजं जयेत् ॥ (१४।२)

kaṭutīkṣṇair ghṛtair nasyaiḥ kavaḍaiḥ sarvajaṃ jayet ||

15.1१५.१

यक्ष्मकृमिक्रमं कुर्वन् यापयेद् दुष्टपीनसम् । (१५।१)

yakṣmakṛmikramaṃ kurvan yāpayed duṣṭapīnasam |

15.2१५.२

व्योषोरुबूककृमिजिद्दारुमाद्रीगदेङ्गुदम् ॥ (१५।२)

vyoṣorubūkakṛmijiddārumādrīgadeṅgudam ||

16.1१६.१

वार्ताकबीजं त्रिवृता सिद्धार्थः पूतिमत्स्यकः । (१६।१)

vārtākabījaṃ trivṛtā siddhārthaḥ pūtimatsyakaḥ |

16.2१६.२

अग्निमन्थस्य पुष्पाणि पीलुशिग्रुफलानि च ॥ (१६।२)

agnimanthasya puṣpāṇi pīluśigruphalāni ca ||

17.1१७.१

अश्वविड्रसमूत्राभ्यां हस्तिमूत्रेण चैकतः । (१७।१)

aśvaviḍrasamūtrābhyāṃ hastimūtreṇa caikataḥ |

17.2१७.२

क्षौमगर्भां कृतां वर्तिं धूमं घ्राणास्यतः पिबेत् ॥ (१७।२)

kṣaumagarbhāṃ kṛtāṃ vartiṃ dhūmaṃ ghrāṇāsyataḥ pibet ||

18.1१८.१

क्षवथौ पुटकाख्ये च तीक्ष्णैः प्रधमनं हितम् । (१८।१)

kṣavathau puṭakākhye ca tīkṣṇaiḥ pradhamanaṃ hitam |

18.2१८.२

शुण्ठीकुष्ठकणावेल्लद्राक्षाकल्ककषायवत् ॥ (१८।२)

śuṇṭhīkuṣṭhakaṇāvelladrākṣākalkakaṣāyavat ||

19.1१९.१

साधितं तैलम् आज्यं वा नस्यं क्षवपुटप्रणुत् । (१९।१)

sādhitaṃ tailam ājyaṃ vā nasyaṃ kṣavapuṭapraṇut |

19.2१९.२

नासाशोषे बलातैलं पानादौ भोजनं रसैः ॥ (१९।२)

nāsāśoṣe balātailaṃ pānādau bhojanaṃ rasaiḥ ||

20.1२०.१

स्निग्धो धूमस्तथा स्वेदो नासानाहे ऽप्ययं विधिः । (२०।१)

snigdho dhūmastathā svedo nāsānāhe 'pyayaṃ vidhiḥ |

20.2२०.२

पाके दीप्तौ च पित्तघ्नं तीक्ष्णं नस्यादि संस्रुतौ ॥ (२०।२)

pāke dīptau ca pittaghnaṃ tīkṣṇaṃ nasyādi saṃsrutau ||

21.1२१.१

कफपीनसवत् पूतिनासापीनसयोः क्रिया । (२१।१)

kaphapīnasavat pūtināsāpīnasayoḥ kriyā |

21.2२१.२

लाक्षाकरञ्जमरिचवेल्लहिङ्गुकणागुडैः ॥ (२१।२)

lākṣākarañjamaricavellahiṅgukaṇāguḍaiḥ ||

22.1२२.१

अविमूत्रद्रुतैर् नस्यं कारयेद् वमने कृते । (२२।१)

avimūtradrutair nasyaṃ kārayed vamane kṛte |

22.2२२.२

शिग्रुसिंहीनिकुम्भानां बीजैः सव्योषसैन्धवैः ॥ (२२।२)

śigrusiṃhīnikumbhānāṃ bījaiḥ savyoṣasaindhavaiḥ ||

23.1२३.१

सवेल्लसुरसैस्तैलं नावनं परमं हितम् । (२३।१)

savellasurasaistailaṃ nāvanaṃ paramaṃ hitam |

23.2२३.२

पूयरक्ते नवे कुर्याद् रक्तपीनसवत् क्रमम् ॥ (२३।२)

pūyarakte nave kuryād raktapīnasavat kramam ||

24.1२४.१

अतिप्रवृद्धे नाडीवद् दग्धेष्वर्शोऽर्बुदेषु च । (२४।१)

atipravṛddhe nāḍīvad dagdheṣvarśo'rbudeṣu ca |

24.2२४.२

निकुम्भकुम्भसिन्धूत्थमनोह्वालकणाग्निकैः ॥ (२४।२)

nikumbhakumbhasindhūtthamanohvālakaṇāgnikaiḥ ||

25.1२५.१

कल्कितैर् घृतमध्वक्तां घ्राणे वर्तिं प्रवेशयेत् । (२५।१)

kalkitair ghṛtamadhvaktāṃ ghrāṇe vartiṃ praveśayet |

25.2२५.२

शिग्र्वादिनावनं चात्र पूतिनासोदितं भजेत् ॥ (२५।२)

śigrvādināvanaṃ cātra pūtināsoditaṃ bhajet ||

Data courtesy of The Digital Corpus of Sanskrit.

AHS, 6, 20

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit