अष्टाङ्गहृदयसंहिताAṣṭāṅgahṛdayasaṃhitā
AHS, 1, 10
Select a line for its word-by-word analysis.
क्ष्माम्भोऽग्निक्ष्माम्बुतेजःखवाय्वग्न्यनिलगोऽनिलैः । (१।१)
kṣmāmbho'gnikṣmāmbutejaḥkhavāyvagnyanilago'nilaiḥ |
द्वयोल्बणैः क्रमाद् भूतैर् मधुरादिरसोद्भवः ॥ (१।२)
dvayolbaṇaiḥ kramād bhūtair madhurādirasodbhavaḥ ||
तेषां विद्याद् रसं स्वादुं यो वक्त्रम् अनुलिम्पति । (२।१)
teṣāṃ vidyād rasaṃ svāduṃ yo vaktram anulimpati |
प्रियः पिपीलिकादीनाम् अम्लः क्षालयते मुखम् । (३।१)
priyaḥ pipīlikādīnām amlaḥ kṣālayate mukham |
तिक्तो विशदयत्य् आस्यं रसनं प्रतिहन्ति च ॥ (४।२)
tikto viśadayaty āsyaṃ rasanaṃ pratihanti ca ||
उद्वेजयति जिह्वाग्रं कुर्वंश् चिमिचिमां कटुः । (५।१)
udvejayati jihvāgraṃ kurvaṃś cimicimāṃ kaṭuḥ |
कषायो जडयेज् जिह्वां कण्ठस्रोतोविबन्धकृत् । (६।१)
kaṣāyo jaḍayej jihvāṃ kaṇṭhasrotovibandhakṛt |
आजन्मसात्म्यात् कुरुते धातूनां प्रबलं बलम् । (७।१)
ājanmasātmyāt kurute dhātūnāṃ prabalaṃ balam |
प्रशस्तो बृंहणः कण्ठ्यः स्तन्यसंधानकृद् गुरुः । (८।१)
praśasto bṛṃhaṇaḥ kaṇṭhyaḥ stanyasaṃdhānakṛd guruḥ |
कुरुते ऽत्युपयोगेन स मेदःश्लेष्मजान् गदान् । (९।१)
kurute 'tyupayogena sa medaḥśleṣmajān gadān |
स्थौल्याग्निसादसंन्यासमेहगण्डार्बुदादिकान् ॥ (९।२)
sthaulyāgnisādasaṃnyāsamehagaṇḍārbudādikān ||
अम्लो ऽग्निदीप्तिकृत् स्निग्धो हृद्यः पाचनरोचनः । (१०।१)
amlo 'gnidīptikṛt snigdho hṛdyaḥ pācanarocanaḥ |
उष्णवीर्यो हिमस्पर्शः प्रीणनः क्लेदनो लघुः ॥ (१०।२)
uṣṇavīryo himasparśaḥ prīṇanaḥ kledano laghuḥ ||
सो ऽत्यभ्यस्तस् तनोः कुर्याच् छैथिल्यं तिमिरं भ्रमम् ॥ (११।२)
so 'tyabhyastas tanoḥ kuryāc chaithilyaṃ timiraṃ bhramam ||
कण्डूपाण्डुत्ववीसर्पशोफविस्फोटतृड्ज्वरान् । (१२।१)
kaṇḍūpāṇḍutvavīsarpaśophavisphoṭatṛḍjvarān |
लवणः स्तम्भसंघातबन्धविध्मापनो ऽग्निकृत् ॥ (१२।२)
lavaṇaḥ stambhasaṃghātabandhavidhmāpano 'gnikṛt ||
स्नेहनः स्वेदनस् तीक्ष्णो रोचनश् छेदभेदकृत् । (१३।१)
snehanaḥ svedanas tīkṣṇo rocanaś chedabhedakṛt |
सो ऽतियुक्तो ऽस्रपवनं खलतिं पलितं वलीम् ॥ (१३।२)
so 'tiyukto 'srapavanaṃ khalatiṃ palitaṃ valīm ||
तृट्कुष्ठविषवीसर्पान् जनयेत् क्षपयेद् बलम् । (१४।१)
tṛṭkuṣṭhaviṣavīsarpān janayet kṣapayed balam |
तिक्तः स्वयम् अरोचिष्णुर् अरुचिं कृमितृड्विषम् ॥ (१४।२)
tiktaḥ svayam arociṣṇur aruciṃ kṛmitṛḍviṣam ||
कुष्ठमूर्छाज्वरोत्क्लेशदाहपित्तकफाञ् जयेत् । (१५।१)
kuṣṭhamūrchājvarotkleśadāhapittakaphāñ jayet |
लघुर् मेध्यो हिमो रूक्षः स्तन्यकण्ठविशोधनः । (१६।१)
laghur medhyo himo rūkṣaḥ stanyakaṇṭhaviśodhanaḥ |
धातुक्षयानिलव्याधीन् अतियोगात् करोति सः ॥ (१६।२)
dhātukṣayānilavyādhīn atiyogāt karoti saḥ ||
दीपनः पाचनो रुच्यः शोधनो ऽन्नस्य शोषणः । (१८।१)
dīpanaḥ pācano rucyaḥ śodhano 'nnasya śoṣaṇaḥ |
छिनत्ति बन्धान् स्रोतांसि विवृणोति कफापहः ॥ (१८।२)
chinatti bandhān srotāṃsi vivṛṇoti kaphāpahaḥ ||
कुरुते सो ऽतियोगेन तृष्णां शुक्रबलक्षयम् । (१९।१)
kurute so 'tiyogena tṛṣṇāṃ śukrabalakṣayam |
मूर्छाम् आकुञ्चनं कम्पं कटीपृष्ठादिषु व्यथाम् ॥ (१९।२)
mūrchām ākuñcanaṃ kampaṃ kaṭīpṛṣṭhādiṣu vyathām ||
आमसंस्तम्भनो ग्राही रूक्षो ऽति त्वक्प्रसादनः । (२१।१)
āmasaṃstambhano grāhī rūkṣo 'ti tvakprasādanaḥ |
करोति शीलितः सो ऽति विष्टम्भाध्मानहृद्रुजः ॥ (२१।२)
karoti śīlitaḥ so 'ti viṣṭambhādhmānahṛdrujaḥ ||
तृट्कार्श्यपौरुषभ्रंशस्रोतोरोधमलग्रहान् । (२२।१)
tṛṭkārśyapauruṣabhraṃśasrotorodhamalagrahān |
मेदे चतस्रः पर्णिन्यो जीवन्ती जीवकर्षभौ ॥ (२३।२)
mede catasraḥ parṇinyo jīvantī jīvakarṣabhau ||
मधूकं मधुकं बिम्बी विदारी श्रावणीयुगम् । (२४।१)
madhūkaṃ madhukaṃ bimbī vidārī śrāvaṇīyugam |
क्षीरशुक्ला तुगाक्षीरी क्षीरिण्यौ काश्मरी सहे ॥ (२४।२)
kṣīraśuklā tugākṣīrī kṣīriṇyau kāśmarī sahe ||
क्षीरेक्षुगोक्षुरक्षौद्रद्राक्षादिर् मधुरो गणः । (२५।१)
kṣīrekṣugokṣurakṣaudradrākṣādir madhuro gaṇaḥ |
अम्लो धात्रीफलाम्लीकामातुलुङ्गाम्लवेतसम् ॥ (२५।२)
amlo dhātrīphalāmlīkāmātuluṅgāmlavetasam ||
दाडिमं रजतं तक्रं चुक्रं पालेवतं दधि । (२६।१)
dāḍimaṃ rajataṃ takraṃ cukraṃ pālevataṃ dadhi |
आम्रम् आम्रातकं भव्यं कपित्थं करमर्दकम् ॥ (२६।२)
āmram āmrātakaṃ bhavyaṃ kapitthaṃ karamardakam ||
वरं सौवर्चलं कृष्णं विडं सामुद्रम् औद्भिदम् । (२७।१)
varaṃ sauvarcalaṃ kṛṣṇaṃ viḍaṃ sāmudram audbhidam |
रोमकं पांसुजं सीसं क्षारश् च लवणो गणः ॥ (२७।२)
romakaṃ pāṃsujaṃ sīsaṃ kṣāraś ca lavaṇo gaṇaḥ ||
पञ्चमूलं महद् व्याघ्र्यौ विशालातिविषा वचा । (३०।१)
pañcamūlaṃ mahad vyāghryau viśālātiviṣā vacā |
कुठेराद्या हरितकाः पित्तं मूत्रम् अरुष्करम् । (३१।१)
kuṭherādyā haritakāḥ pittaṃ mūtram aruṣkaram |
वर्गः कषायः पथ्याक्षं शिरीषः खदिरो मधु ॥ (३१।२)
vargaḥ kaṣāyaḥ pathyākṣaṃ śirīṣaḥ khadiro madhu ||
बालं कपित्थं खर्जूरं बिसपद्मोत्पलादि च ॥ (३२।२)
bālaṃ kapitthaṃ kharjūraṃ bisapadmotpalādi ca ||
मधुरं श्लेष्मलं प्रायो जीर्णाच् छालियवाद् ऋते । (३३।१)
madhuraṃ śleṣmalaṃ prāyo jīrṇāc chāliyavād ṛte |
मुद्गाद् गोधूमतः क्षौद्रात् सिताया जाङ्गलामिषात् ॥ (३३।२)
mudgād godhūmataḥ kṣaudrāt sitāyā jāṅgalāmiṣāt ||
प्रायो ऽम्लं पित्तजननं दाडिमामलकाद् ऋते । (३४।१)
prāyo 'mlaṃ pittajananaṃ dāḍimāmalakād ṛte |
अपथ्यं लवणं प्रायश् चक्षुषो ऽन्यत्र सैन्धवात् ॥ (३४।२)
apathyaṃ lavaṇaṃ prāyaś cakṣuṣo 'nyatra saindhavāt ||
तिक्तं कटु च भूयिष्ठम् अवृष्यं वातकोपनम् । (३५।१)
tiktaṃ kaṭu ca bhūyiṣṭham avṛṣyaṃ vātakopanam |
कषायं प्रायशः शीतं स्तम्भनं चाभयां विना । (३६।१)
kaṣāyaṃ prāyaśaḥ śītaṃ stambhanaṃ cābhayāṃ vinā |
रसाः कट्वम्ललवणा वीर्येणोष्णा यथोत्तरम् ॥ (३६।२)
rasāḥ kaṭvamlalavaṇā vīryeṇoṣṇā yathottaram ||
तिक्तः कषायो मधुरस् तद्वद् एव च शीतलाः । (३७।१)
tiktaḥ kaṣāyo madhuras tadvad eva ca śītalāḥ |
तिक्तः कटुः कषायश् च रूक्षा बद्धमलास् तथा ॥ (३७।२)
tiktaḥ kaṭuḥ kaṣāyaś ca rūkṣā baddhamalās tathā ||
पट्वम्लमधुराः स्निग्धाः सृष्टविण्मूत्रमारुताः । (३८।१)
paṭvamlamadhurāḥ snigdhāḥ sṛṣṭaviṇmūtramārutāḥ |
पटोः कषायस् तस्माच् च मधुरः परमं गुरुः ॥ (३८।२)
paṭoḥ kaṣāyas tasmāc ca madhuraḥ paramaṃ guruḥ ||
लघुर् अम्लः कटुस् तस्मात् तस्माद् अपि च तिक्तकः । (३९।१)
laghur amlaḥ kaṭus tasmāt tasmād api ca tiktakaḥ |
संयोगाः सप्तपञ्चाशत् कल्पना तु त्रिषष्टिधा ॥ (३९।२)
saṃyogāḥ saptapañcāśat kalpanā tu triṣaṣṭidhā ||
एकैकहीनास् तान् पञ्चदश यान्ति रसा द्विके ॥ (४०।२)
ekaikahīnās tān pañcadaśa yānti rasā dvike ||
त्रिके स्वादुर् दशाम्लः षट् त्रीन् पटुस् तिक्त एककम् । (४१।१)
trike svādur daśāmlaḥ ṣaṭ trīn paṭus tikta ekakam |
चतुष्केषु दश स्वादुश् चतुरो ऽम्लः पटुः सकृत् ॥ (४१।२)
catuṣkeṣu daśa svāduś caturo 'mlaḥ paṭuḥ sakṛt ||
पञ्चकेष्व् एकम् एवाम्लो मधुरः पञ्च सेवते । (४२।१)
pañcakeṣv ekam evāmlo madhuraḥ pañca sevate |
द्रव्यम् एकं षडास्वादम् असंयुक्ताश् च षड् रसाः ॥ (४२।२)
dravyam ekaṃ ṣaḍāsvādam asaṃyuktāś ca ṣaḍ rasāḥ ||
षट् पञ्चका षट् च पृथग् रसाः स्युश् चतुर्द्विकौ पञ्चदशप्रकारौ । (४३।१)
ṣaṭ pañcakā ṣaṭ ca pṛthag rasāḥ syuś caturdvikau pañcadaśaprakārau |
भेदास् त्रिका विंशतिर् एकम् एव द्रव्यं षडास्वादम् इति त्रिषष्टिः ॥ (४३।२)
bhedās trikā viṃśatir ekam eva dravyaṃ ṣaḍāsvādam iti triṣaṣṭiḥ ||
ते रसानुरसतो रसभेदास् तारतम्यपरिकल्पनया च । (४४।१)
te rasānurasato rasabhedās tāratamyaparikalpanayā ca |
सम्भवन्ति गणनां समतीता दोषभेषजवशाद् उपयोज्याः ॥ (४४।२)
sambhavanti gaṇanāṃ samatītā doṣabheṣajavaśād upayojyāḥ ||
Data courtesy of The Digital Corpus of Sanskrit.