अष्टाङ्गहृदयसंहिताAṣṭāṅgahṛdayasaṃhitā

AHS, 6, 38

118 of 120 · 82 verses

Select a line for its word-by-word analysis.

1.1१.१

अथातो मूषिकालर्कविषप्रतिषेधं व्याख्यास्यामः । (१।१)

athāto mūṣikālarkaviṣapratiṣedhaṃ vyākhyāsyāmaḥ |

1.2१.२

इति ह स्माहुर् आत्रेयादयो महर्षयः । (१।२)

iti ha smāhur ātreyādayo maharṣayaḥ |

1.3१.३

लालनश्चपलः पुत्रो हसिरश्चिक्किरो ऽजिरः । (१।३)

lālanaścapalaḥ putro hasiraścikkiro 'jiraḥ |

1.4१.४

कषायदन्तः कुलकः कोकिलः कपिलो ऽसितः ॥ (१।४)

kaṣāyadantaḥ kulakaḥ kokilaḥ kapilo 'sitaḥ ||

2.1२.१

अरुणः शबरः श्वेतः कपोतः पलितोन्दुरः । (२।१)

aruṇaḥ śabaraḥ śvetaḥ kapotaḥ palitonduraḥ |

2.2२.२

छुच्छुन्दरो रसालाख्यो दशाष्टौ चेति मूषिकाः ॥ (२।२)

chucchundaro rasālākhyo daśāṣṭau ceti mūṣikāḥ ||

3.1३.१

शुक्रं पतति यत्रैषां शुक्रदिग्धैः स्पृशन्ति वा । (३।१)

śukraṃ patati yatraiṣāṃ śukradigdhaiḥ spṛśanti vā |

3.2३.२

यद् अङ्गम् अङ्गैस्तत्रास्रे दूषिते पाण्डुतां गते ॥ (३।२)

yad aṅgam aṅgaistatrāsre dūṣite pāṇḍutāṃ gate ||

4.1४.१

ग्रन्थयः श्वयथुः कोठो मण्डलानि भ्रमो ऽरुचिः । (४।१)

granthayaḥ śvayathuḥ koṭho maṇḍalāni bhramo 'ruciḥ |

4.2४.२

शीतज्वरो ऽतिरुक् सादो वेपथुः पर्वभेदनम् ॥ (४।२)

śītajvaro 'tiruk sādo vepathuḥ parvabhedanam ||

5.1५.१

रोमहर्षः स्रुतिर् मूर्छा दीर्घकालानुबन्धनम् । (५।१)

romaharṣaḥ srutir mūrchā dīrghakālānubandhanam |

5.2५.२

श्लेष्मानुबद्धबह्वाखुपोतकच्छर्दनं सतृट् ॥ (५।२)

śleṣmānubaddhabahvākhupotakacchardanaṃ satṛṭ ||

6.1६.१

व्यवाय्याखुविषं कृच्छ्रं भूयो भूयश्च कुप्यति । (६।१)

vyavāyyākhuviṣaṃ kṛcchraṃ bhūyo bhūyaśca kupyati |

6.2६.२

मूर्छाङ्गशोफवैवर्ण्यक्लेदशब्दाश्रुतिज्वराः ॥ (६।२)

mūrchāṅgaśophavaivarṇyakledaśabdāśrutijvarāḥ ||

7.1७.१

शिरोगुरुत्वं लालासृक्छर्दिश्चासाध्यलक्षणम् । (७।१)

śirogurutvaṃ lālāsṛkchardiścāsādhyalakṣaṇam |

7.2७.२

शूनवस्तिं विवर्णौष्ठम् आख्वाभैर् ग्रन्थिभिश्चितम् ॥ (७।२)

śūnavastiṃ vivarṇauṣṭham ākhvābhair granthibhiścitam ||

8.1८.१

छुच्छुन्दरसगन्धं च वर्जयेद् आखुदूषितम् । (८।१)

chucchundarasagandhaṃ ca varjayed ākhudūṣitam |

8.2८.२

शुनः श्लेष्मोल्बणा दोषाः संज्ञां संज्ञावहाश्रिताः ॥ (८।२)

śunaḥ śleṣmolbaṇā doṣāḥ saṃjñāṃ saṃjñāvahāśritāḥ ||

9.1९.१

मुष्णन्तः कुर्वते क्षोभं धातूनाम् अतिदारुणम् । (९।१)

muṣṇantaḥ kurvate kṣobhaṃ dhātūnām atidāruṇam |

9.2९.२

लालावान् अन्धबधिरः सर्वतः सो ऽभिधावति ॥ (९।२)

lālāvān andhabadhiraḥ sarvataḥ so 'bhidhāvati ||

10.1१०.१

स्रस्तपुच्छहनुस्कन्धः शिरोदुःखी नताननः । (१०।१)

srastapucchahanuskandhaḥ śiroduḥkhī natānanaḥ |

10.2१०.२

दंशस्तेन विदष्टस्य सुप्तं कृष्णं क्षरत्यसृक् ॥ (१०।२)

daṃśastena vidaṣṭasya suptaṃ kṛṣṇaṃ kṣaratyasṛk ||

11.1११.१

हृच्छिरोरुग्ज्वरस्तम्भतृष्णामूर्छोद्भवो ऽनु च । (११।१)

hṛcchirorugjvarastambhatṛṣṇāmūrchodbhavo 'nu ca |

11.2११.२

अनेनान्ये ऽपि बोद्धव्या व्याला दंष्ट्राप्रहारिणः ॥ (११।२)

anenānye 'pi boddhavyā vyālā daṃṣṭrāprahāriṇaḥ ||

12.1१२.१

शृगालाश्वतराश्वर्क्षद्वीपिव्याघ्रवृकादयः । (१२।१)

śṛgālāśvatarāśvarkṣadvīpivyāghravṛkādayaḥ |

12.2१२.२

कण्डूनिस्तोदवैवर्ण्यसुप्तिक्लेदज्वरभ्रमाः ॥ (१२।२)

kaṇḍūnistodavaivarṇyasuptikledajvarabhramāḥ ||

13.1१३.१

विदाहरागरुक्पाकशोफग्रन्थिविकुञ्चनम् । (१३।१)

vidāharāgarukpākaśophagranthivikuñcanam |

13.2१३.२

दंशावदरणं स्फोटाः कर्णिका मण्डलानि च ॥ (१३।२)

daṃśāvadaraṇaṃ sphoṭāḥ karṇikā maṇḍalāni ca ||

14.1१४.१

सर्वत्र सविषे लिङ्गं विपरीतं तु निर्विषे । (१४।१)

sarvatra saviṣe liṅgaṃ viparītaṃ tu nirviṣe |

14.2१४.२

दष्टो येन तु तच्चेष्टारुतं कुर्वन् विनश्यति ॥ (१४।२)

daṣṭo yena tu tacceṣṭārutaṃ kurvan vinaśyati ||

15.1१५.१

पश्यंस्तम् एव चाकस्माद् आदर्शसलिलादिषु । (१५।१)

paśyaṃstam eva cākasmād ādarśasalilādiṣu |

15.2१५.२

यो ऽद्भ्यस् त्रस्येद् अदष्टो ऽपि शब्दसंस्पर्शदर्शनैः ॥ (१५।२)

yo 'dbhyas trasyed adaṣṭo 'pi śabdasaṃsparśadarśanaiḥ ||

16.1१६.१

जलसंत्रासनामानं दष्टं तम् अपि वर्जयेत् । (१६।१)

jalasaṃtrāsanāmānaṃ daṣṭaṃ tam api varjayet |

16.2१६.२

आखुना दष्टमात्रस्य दंशं काण्डेन दाहयेत् ॥ (१६।२)

ākhunā daṣṭamātrasya daṃśaṃ kāṇḍena dāhayet ||

17.1१७.१

दर्पणेनाथवा तीव्ररुजा स्यात् कर्णिकान्यथा । (१७।१)

darpaṇenāthavā tīvrarujā syāt karṇikānyathā |

17.2१७.२

दग्धं विस्रावयेद् दंशं प्रच्छितं च प्रलेपयेत् ॥ (१७।२)

dagdhaṃ visrāvayed daṃśaṃ pracchitaṃ ca pralepayet ||

18.1१८.१

शिरीषरजनीवक्रकुङ्कुमामृतवल्लिभिः । (१८।१)

śirīṣarajanīvakrakuṅkumāmṛtavallibhiḥ |

18.2१८.२

अगारधूममञ्जिष्ठारजनीलवणोत्तमैः ॥ (१८।२)

agāradhūmamañjiṣṭhārajanīlavaṇottamaiḥ ||

19.1१९.१

लेपो जयत्याखुविषं कर्णिकायाश्च पातनः । (१९।१)

lepo jayatyākhuviṣaṃ karṇikāyāśca pātanaḥ |

19.2१९.२

ततो ऽम्लैः क्षालयित्वानु तोयैरनु च लेपयेत् ॥ (१९।२)

tato 'mlaiḥ kṣālayitvānu toyairanu ca lepayet ||

20.1२०.१

पालिन्दीश्वेतकटभीबिल्वमूलगुडूचिभिः । (२०।१)

pālindīśvetakaṭabhībilvamūlaguḍūcibhiḥ |

20.2२०.२

अन्यैश्च विषशोफघ्नैः सिरां वा मोक्षयेद् द्रुतम् ॥ (२०।२)

anyaiśca viṣaśophaghnaiḥ sirāṃ vā mokṣayed drutam ||

21.1२१.१

छर्दनं नीलिनीक्वाथैः शुकाख्याङ्कोल्लयोरपि । (२१।१)

chardanaṃ nīlinīkvāthaiḥ śukākhyāṅkollayorapi |

21.2२१.२

कोशातक्याः शुकाख्यायाः फलं जीमूतकस्य च ॥ (२१।२)

kośātakyāḥ śukākhyāyāḥ phalaṃ jīmūtakasya ca ||

22.1२२.१

मदनस्य च संचूर्ण्य दध्ना पीत्वा विषं वमेत् । (२२।१)

madanasya ca saṃcūrṇya dadhnā pītvā viṣaṃ vamet |

22.2२२.२

वचामदनजीमूतकुष्ठं वा मूत्रपेषितम् ॥ (२२।२)

vacāmadanajīmūtakuṣṭhaṃ vā mūtrapeṣitam ||

23.1२३.१

पूर्वकल्पेन पातव्यं सर्वोन्दुरविषापहम् । (२३।१)

pūrvakalpena pātavyaṃ sarvonduraviṣāpaham |

23.2२३.२

विरेचनं त्रिवृन्नीलीत्रिफलाकल्क इष्यते ॥ (२३।२)

virecanaṃ trivṛnnīlītriphalākalka iṣyate ||

24.1२४.१

शिरोविरेचने सारः शिरीषस्य फलानि च । (२४।१)

śirovirecane sāraḥ śirīṣasya phalāni ca |

24.2२४.२

अञ्जनं गोमयरसो व्योषसूक्ष्मरजोऽन्वितः ॥ (२४।२)

añjanaṃ gomayaraso vyoṣasūkṣmarajo'nvitaḥ ||

25.1२५.१

कपित्थगोमयरसो मधुमान् अवलेहनम् । (२५।१)

kapitthagomayaraso madhumān avalehanam |

25.2२५.२

तण्डुलीयकमूलेन सिद्धं पाने हितं घृतम् ॥ (२५।२)

taṇḍulīyakamūlena siddhaṃ pāne hitaṃ ghṛtam ||

26.1२६.१

द्विनिशाकटभीरक्तायष्ट्याह्वैर् वामृतान्वितैः । (२६।१)

dviniśākaṭabhīraktāyaṣṭyāhvair vāmṛtānvitaiḥ |

26.2२६.२

आस्फोतमूलसिद्धं वा पञ्चकापित्थम् एव वा ॥ (२६।२)

āsphotamūlasiddhaṃ vā pañcakāpittham eva vā ||

27.1२७.१

सिन्धुवारं नतं शिग्रुबिल्वमूलं पुनर्नवा । (२७।१)

sindhuvāraṃ nataṃ śigrubilvamūlaṃ punarnavā |

27.2२७.२

वचाश्वदंष्ट्राजीमूतम् एषां क्वाथं समाक्षिकम् ॥ (२७।२)

vacāśvadaṃṣṭrājīmūtam eṣāṃ kvāthaṃ samākṣikam ||

28.1२८.१

पिबेच्छाल्योदनं दध्ना भुञ्जानो मूषिकार्दितः । (२८।१)

pibecchālyodanaṃ dadhnā bhuñjāno mūṣikārditaḥ |

28.2२८.२

तक्रेण शरपुङ्खाया बीजं संचूर्ण्य वा पिबेत् ॥ (२८।२)

takreṇa śarapuṅkhāyā bījaṃ saṃcūrṇya vā pibet ||

29.1२९.१

अङ्कोल्लमूलकल्को वा बस्तमूत्रेण कल्कितः । (२९।१)

aṅkollamūlakalko vā bastamūtreṇa kalkitaḥ |

29.2२९.२

पानालेपनयोर् युक्तः सर्वाखुविषनाशनः ॥ (२९।२)

pānālepanayor yuktaḥ sarvākhuviṣanāśanaḥ ||

30.1३०.१

कपित्थमध्यतिलकतिलाङ्कोल्लजटाः पिबेत् । (३०।१)

kapitthamadhyatilakatilāṅkollajaṭāḥ pibet |

30.2३०.२

गवां मूत्रेण पयसा मञ्जरीं तिलकस्य वा ॥ (३०।२)

gavāṃ mūtreṇa payasā mañjarīṃ tilakasya vā ||

31.1३१.१

अथवा सैर्यकान् मूलं सक्षौद्रं तण्डुलाम्बुना । (३१।१)

athavā sairyakān mūlaṃ sakṣaudraṃ taṇḍulāmbunā |

31.2३१.२

कटुकालाबुविन्यस्तं पीतं वाम्बु निशोषितम् ॥ (३१।२)

kaṭukālābuvinyastaṃ pītaṃ vāmbu niśoṣitam ||

32.1३२.१

सिन्धुवारस्य मूलानि बिडालास्थि विषं नतम् । (३२।१)

sindhuvārasya mūlāni biḍālāsthi viṣaṃ natam |

32.2३२.२

जलपिष्टो ऽगदो हन्ति नस्याद्यैराखुजं विषम् ॥ (३२।२)

jalapiṣṭo 'gado hanti nasyādyairākhujaṃ viṣam ||

33.1३३.१

सशेषं मूषिकविषं प्रकुप्यत्यभ्रदर्शने । (३३।१)

saśeṣaṃ mūṣikaviṣaṃ prakupyatyabhradarśane |

33.2३३.२

यथायथं वा कालेषु दोषाणां वृद्धिहेतुषु ॥ (३३।२)

yathāyathaṃ vā kāleṣu doṣāṇāṃ vṛddhihetuṣu ||

34.1३४.१

तत्र सर्वे यथावस्थं प्रयोज्याः स्युरुपक्रमाः । (३४।१)

tatra sarve yathāvasthaṃ prayojyāḥ syurupakramāḥ |

34.2३४.२

यथास्वं ये च निर्दिष्टास्तथा दूषीविषापहाः ॥ (३४।२)

yathāsvaṃ ye ca nirdiṣṭāstathā dūṣīviṣāpahāḥ ||

35.1३५.१

दंशं त्वलर्कदष्टस्य दग्धम् उष्णेन सर्पिषा । (३५।१)

daṃśaṃ tvalarkadaṣṭasya dagdham uṣṇena sarpiṣā |

35.2३५.२

प्रदिह्याद् अगदैस्तैस्तैः पुराणं च घृतं पिबेत् ॥ (३५।२)

pradihyād agadaistaistaiḥ purāṇaṃ ca ghṛtaṃ pibet ||

36.1३६.१

अर्कक्षीरयुतं चास्य योज्यम् आशु विरेचनम् । (३६।१)

arkakṣīrayutaṃ cāsya yojyam āśu virecanam |

36.2३६.२

अङ्कोल्लोत्तरमूलाम्बु त्रिपलं सहविःपलम् ॥ (३६।२)

aṅkollottaramūlāmbu tripalaṃ sahaviḥpalam ||

37.1३७.१

पिबेत् सधत्तूरफलां श्वेतां वापि पुनर्नवाम् । (३७।१)

pibet sadhattūraphalāṃ śvetāṃ vāpi punarnavām |

37.2३७.२

ऐकध्यं पललं तैलं रूपिकायाः पयो गुडः ॥ (३७।२)

aikadhyaṃ palalaṃ tailaṃ rūpikāyāḥ payo guḍaḥ ||

38.1३८.१

भिनत्ति विषम् आलर्कं घनवृन्दम् इवानिलः । (३८।१)

bhinatti viṣam ālarkaṃ ghanavṛndam ivānilaḥ |

38.2३८.२

समन्त्रं सौषधीरत्नं स्नपनं च प्रयोजयेत् ॥ (३८।२)

samantraṃ sauṣadhīratnaṃ snapanaṃ ca prayojayet ||

39.1३९.१

चतुष्पाद्भिर् द्विपाद्भिर् वा नखदन्तपरिक्षतम् । (३९।१)

catuṣpādbhir dvipādbhir vā nakhadantaparikṣatam |

39.2३९.२

शूयते पच्यते रागज्वरस्रावरुजान्वितम् ॥ (३९।२)

śūyate pacyate rāgajvarasrāvarujānvitam ||

40.1४०.१

सोमवल्को ऽश्वकर्णश्च गोजिह्वा हंसपादिका । (४०।१)

somavalko 'śvakarṇaśca gojihvā haṃsapādikā |

40.2४०.२

रजन्यौ गैरिकं लेपो नखदन्तविषापहः ॥ (४०।२)

rajanyau gairikaṃ lepo nakhadantaviṣāpahaḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

AHS, 6, 38

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit