अष्टाङ्गहृदयसंहिताAṣṭāṅgahṛdayasaṃhitā
AHS, 6, 31
Select a line for its word-by-word analysis.
स्निग्धा सवर्णा ग्रथिता नीरुजा मुद्गसंनिभा । (१।३)
snigdhā savarṇā grathitā nīrujā mudgasaṃnibhā |
यवप्रख्या यवप्रख्या ताभ्यां मांसाश्रिता घना । (२।१)
yavaprakhyā yavaprakhyā tābhyāṃ māṃsāśritā ghanā |
ग्रन्थयः पञ्च वा षड् वा कच्छपी कच्छपोन्नताः । (३।१)
granthayaḥ pañca vā ṣaḍ vā kacchapī kacchaponnatāḥ |
कर्णस्योर्ध्वं समन्ताद् वा पिटिका कठिनोग्ररुक् ॥ (३।२)
karṇasyordhvaṃ samantād vā piṭikā kaṭhinograruk ||
मेदोगर्भा मुखे यूनां ताभ्यां च मुखदूषिकाः ॥ (५।२)
medogarbhā mukhe yūnāṃ tābhyāṃ ca mukhadūṣikāḥ ||
ते पद्मकण्टका ज्ञेया यैः पद्मम् इव कण्टकैः । (६।१)
te padmakaṇṭakā jñeyā yaiḥ padmam iva kaṇṭakaiḥ |
गात्रेष्वन्तश्च वक्त्रस्य दाहज्वररुजान्विताः । (८।१)
gātreṣvantaśca vaktrasya dāhajvararujānvitāḥ |
मसूरमात्रास् तद्वर्णास् तत्संज्ञाः पिटिका घनाः ॥ (८।२)
masūramātrās tadvarṇās tatsaṃjñāḥ piṭikā ghanāḥ ||
ततः कष्टतराः स्फोटा विस्फोटाख्या महारुजाः । (९।१)
tataḥ kaṣṭatarāḥ sphoṭā visphoṭākhyā mahārujāḥ |
सा विद्धा वातपित्ताभ्यां ताभ्याम् एव च गर्दभी । (१०।१)
sā viddhā vātapittābhyāṃ tābhyām eva ca gardabhī |
कक्षेति कक्षासन्नेषु प्रायो देशेषु सानिलात् । (११।१)
kakṣeti kakṣāsanneṣu prāyo deśeṣu sānilāt |
पित्ताद् भवन्ति पिटिकाः सूक्ष्मा लाजोपमा घनाः ॥ (११।२)
pittād bhavanti piṭikāḥ sūkṣmā lājopamā ghanāḥ ||
घर्मस्वेदपरीते ऽङ्गे पिटिकाः सरुजो घनाः ॥ (१२।२)
gharmasvedaparīte 'ṅge piṭikāḥ sarujo ghanāḥ ||
दोषैः पित्तोल्बणैर् मन्दैर् विसर्पति विसर्पवत् ॥ (१३।२)
doṣaiḥ pittolbaṇair mandair visarpati visarpavat ||
शोफो ऽपाकस्तनुस्ताम्रो ज्वरकृज् जालगर्दभः । (१४।१)
śopho 'pākastanustāmro jvarakṛj jālagardabhaḥ |
मलैः पित्तोल्बणैः स्फोटा ज्वरिणो मांसदारणाः ॥ (१४।२)
malaiḥ pittolbaṇaiḥ sphoṭā jvariṇo māṃsadāraṇāḥ ||
कक्षाभागेषु जायन्ते ये ऽग्न्याभाः साग्निरोहिणी । (१५।१)
kakṣābhāgeṣu jāyante ye 'gnyābhāḥ sāgnirohiṇī |
पञ्चाहात् सप्तरात्राद् वा पक्षाद् वा हन्ति जीवितम् ॥ (१५।२)
pañcāhāt saptarātrād vā pakṣād vā hanti jīvitam ||
त्रिलिङ्गा पिटिका वृत्ता जत्रूर्ध्वम् इरिवेल्लिका । (१६।१)
triliṅgā piṭikā vṛttā jatrūrdhvam irivellikā |
मेदोऽनिलकफैर् ग्रन्थिः स्नायुमांससिराश्रयैः । (१७।१)
medo'nilakaphair granthiḥ snāyumāṃsasirāśrayaiḥ |
भिन्नो वसाज्यमध्वाभं स्रवेत् तत्रोल्बणो ऽनिलः ॥ (१७।२)
bhinno vasājyamadhvābhaṃ sravet tatrolbaṇo 'nilaḥ ||
मांसं विशोष्य ग्रथितां शर्करां उपपादयेत् । (१८।१)
māṃsaṃ viśoṣya grathitāṃ śarkarāṃ upapādayet |
दुर्गन्धं रुधिरं क्लिन्नं नानावर्णं ततो मलाः ॥ (१८।२)
durgandhaṃ rudhiraṃ klinnaṃ nānāvarṇaṃ tato malāḥ ||
तां स्रावयन्ति निचितां विद्यात् तच्छर्करार्बुदम् । (१९।१)
tāṃ srāvayanti nicitāṃ vidyāt taccharkarārbudam |
वल्मीकवच्छनैर् ग्रन्थिस्तद्वद् बह्वणुभिर् मुखैः । (२०।१)
valmīkavacchanair granthistadvad bahvaṇubhir mukhaiḥ |
रुग्दाहकण्डूक्लेदाढ्यैर् वल्मीको ऽसौ समस्तजः ॥ (२०।२)
rugdāhakaṇḍūkledāḍhyair valmīko 'sau samastajaḥ ||
शर्करोन्मथिते पादे क्षते वा कण्टकादिभिः । (२१।१)
śarkaronmathite pāde kṣate vā kaṇṭakādibhiḥ |
ग्रन्थिः कीलवद् उत्सन्नो जायते कदरं तु तत् ॥ (२१।२)
granthiḥ kīlavad utsanno jāyate kadaraṃ tu tat ||
अणूकरोति बाह्यान्तर्मार्गम् अस्य ततः शकृत् ॥ (२२।२)
aṇūkaroti bāhyāntarmārgam asya tataḥ śakṛt ||
कृच्छ्रान् निर्गच्छति व्याधिरयं रुद्धगुदो मतः । (२३।१)
kṛcchrān nirgacchati vyādhirayaṃ ruddhagudo mataḥ |
कुर्यात् पित्तानिलं पाकं नखमांसे सरुग्ज्वरम् ॥ (२३।२)
kuryāt pittānilaṃ pākaṃ nakhamāṃse sarugjvaram ||
चिप्यम् अक्षतरोगं च विद्याद् उपनखं च तम् । (२४।१)
cipyam akṣatarogaṃ ca vidyād upanakhaṃ ca tam |
कृष्णो ऽभिघाताद् रूक्षश्च खरश्च कुनखो नखः ॥ (२४।२)
kṛṣṇo 'bhighātād rūkṣaśca kharaśca kunakho nakhaḥ ||
दुष्टकर्दमसंस्पर्शात् कण्डूक्लेदान्वितान्तराः । (२५।१)
duṣṭakardamasaṃsparśāt kaṇḍūkledānvitāntarāḥ |
अङ्गुल्यो ऽलसम् इत्याहुस्तिलाभांस्तिलकालकान् ॥ (२५।२)
aṅgulyo 'lasam ityāhustilābhāṃstilakālakān ||
कृष्णान् अवेदनांस्त्वक्स्थान् माषांस्तान् एव चोन्नतान् । (२६।१)
kṛṣṇān avedanāṃstvaksthān māṣāṃstān eva connatān |
मषेभ्यस्तून्नततरांश्चर्मकीलान् सितासितान् ॥ (२६।२)
maṣebhyastūnnatatarāṃścarmakīlān sitāsitān ||
कृष्णं सितं वा सहजं मण्डलं लाञ्छनं समम् ॥ (२७।२)
kṛṣṇaṃ sitaṃ vā sahajaṃ maṇḍalaṃ lāñchanaṃ samam ||
शोकक्रोधादिकुपिताद् वातपित्तान् मुखे तनु । (२८।१)
śokakrodhādikupitād vātapittān mukhe tanu |
श्यामलं मण्डलं व्यङ्गं वक्त्राद् अन्यत्र नीलिका ॥ (२८।२)
śyāmalaṃ maṇḍalaṃ vyaṅgaṃ vaktrād anyatra nīlikā ||
परुषं परुषस्पर्शं व्यङ्गं श्यावं च मारुतात् । (२९।१)
paruṣaṃ paruṣasparśaṃ vyaṅgaṃ śyāvaṃ ca mārutāt |
पित्तात् ताम्रान्तम् आनीलं श्वेतान्तं कण्डुमत् कफात् ॥ (२९।२)
pittāt tāmrāntam ānīlaṃ śvetāntaṃ kaṇḍumat kaphāt ||
रक्ताद् रक्तान्तम् आताम्रं सौषं चिमिचिमायते । (३०।१)
raktād raktāntam ātāmraṃ sauṣaṃ cimicimāyate |
वायुनोदीरितः श्लेष्मा त्वचं प्राप्य विशुष्यति ॥ (३०।२)
vāyunodīritaḥ śleṣmā tvacaṃ prāpya viśuṣyati ||
ततस्त्वग् जायते पाण्डुः क्रमेण च विचेतना । (३१।१)
tatastvag jāyate pāṇḍuḥ krameṇa ca vicetanā |
अल्पकण्डूर् अविक्लेदा सा प्रसुप्तिः प्रसुप्तितः ॥ (३१।२)
alpakaṇḍūr avikledā sā prasuptiḥ prasuptitaḥ ||
असम्यग्वमनोदीर्णपित्तश्लेष्मान्ननिग्रहैः । (३२।१)
asamyagvamanodīrṇapittaśleṣmānnanigrahaiḥ |
उत्कोठः सो ऽनुबद्धस्तु कोठ इत्यभिधीयते । (३३।१)
utkoṭhaḥ so 'nubaddhastu koṭha ityabhidhīyate |
प्रोक्ताः षट्त्रिंशद् इत्येते क्षुद्ररोगा विभागशः ॥ (३३।२)
proktāḥ ṣaṭtriṃśad ityete kṣudrarogā vibhāgaśaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.