अष्टाङ्गहृदयसंहिताAṣṭāṅgahṛdayasaṃhitā
AHS, 1, 18
Select a line for its word-by-word analysis.
अवाम्या गर्भिणी रूक्षः क्षुधितो नित्यदुःखितः ॥ (३।२)
avāmyā garbhiṇī rūkṣaḥ kṣudhito nityaduḥkhitaḥ ||
मूत्राघात्य् उदरी गुल्मी दुर्वमो ऽत्यग्निर् अर्शसः ॥ (५।२)
mūtrāghāty udarī gulmī durvamo 'tyagnir arśasaḥ ||
प्रसक्तवमथोः पूर्वे प्रायेणामज्वरो ऽपि च । (७।१)
prasaktavamathoḥ pūrve prāyeṇāmajvaro 'pi ca |
धूमान्तैः कर्मभिर् वर्ज्याः सर्वैर् एव त्व् अजीर्णिनः ॥ (७।२)
dhūmāntaiḥ karmabhir varjyāḥ sarvair eva tv ajīrṇinaḥ ||
विद्रधिस् तिमिरं काचः स्यन्दः पक्वाशयव्यथा । (९।१)
vidradhis timiraṃ kācaḥ syandaḥ pakvāśayavyathā |
योनिशुक्राश्रया रोगाः कोष्ठगाः कृमयो व्रणाः ॥ (९।२)
yoniśukrāśrayā rogāḥ koṣṭhagāḥ kṛmayo vraṇāḥ ||
वातास्रम् ऊर्ध्वगं रक्तं मूत्राघातः शकृद्ग्रहः । (१०।१)
vātāsram ūrdhvagaṃ raktaṃ mūtrāghātaḥ śakṛdgrahaḥ |
वाम्यश् च कुष्ठमेहाद्या न तु रेच्या नवज्वरी ॥ (१०।२)
vāmyaś ca kuṣṭhamehādyā na tu recyā navajvarī ||
सशल्यास्थापितक्रूरकोष्ठातिस्निग्धशोषिणः ॥ (११।२)
saśalyāsthāpitakrūrakoṣṭhātisnigdhaśoṣiṇaḥ ||
अथ साधारणे काले स्निग्धस्विन्नं यथाविधि । (१२।१)
atha sādhāraṇe kāle snigdhasvinnaṃ yathāvidhi |
श्वोवम्यम् उत्क्लिष्टकफं मत्स्यमाषतिलादिभिः ॥ (१२।२)
śvovamyam utkliṣṭakaphaṃ matsyamāṣatilādibhiḥ ||
निशां सुप्तं सुजीर्णान्नं पूर्वाह्णे कृतमङ्गलम् । (१३।१)
niśāṃ suptaṃ sujīrṇānnaṃ pūrvāhṇe kṛtamaṅgalam |
निरन्नम् ईषत्स्निग्धं वा पेयया पीतसर्पिषम् ॥ (१३।२)
nirannam īṣatsnigdhaṃ vā peyayā pītasarpiṣam ||
आकण्ठं पायितान् मद्यं क्षीरम् इक्षुरसं रसम् ॥ (१४।२)
ākaṇṭhaṃ pāyitān madyaṃ kṣīram ikṣurasaṃ rasam ||
कोष्ठं विभज्य भैषज्यमात्रां मन्त्राभिमन्त्रिताम् ॥ (१५।२)
koṣṭhaṃ vibhajya bhaiṣajyamātrāṃ mantrābhimantritām ||
ऋषयः सौषधिग्रामा भूतसंघाश् च पान्तु वः ॥ (१६।२)
ṛṣayaḥ sauṣadhigrāmā bhūtasaṃghāś ca pāntu vaḥ ||
सुधेवोत्तमनागानां भैषज्यम् इदम् अस्तु ते ॥ (१७।२)
sudhevottamanāgānāṃ bhaiṣajyam idam astu te ||
प्राङ्मुखं पाययेत् पीतो मुहूर्तम् अनुपालयेत् । (१८।१)
prāṅmukhaṃ pāyayet pīto muhūrtam anupālayet |
तन्मना जातहृल्लासप्रसेकश् छर्दयेत् ततः ॥ (१८।२)
tanmanā jātahṛllāsaprasekaś chardayet tataḥ ||
गलताल्व् अरुजन् वेगान् अप्रवृत्तान् प्रवर्तयन् ॥ (१९।२)
galatālv arujan vegān apravṛttān pravartayan ||
प्रवर्तयन् प्रवृत्तांश् च जानुतुल्यासने स्थितः । (२०।१)
pravartayan pravṛttāṃś ca jānutulyāsane sthitaḥ |
उभे पार्श्वे ललाटं च वमतश् चास्य धारयेत् ॥ (२०।२)
ubhe pārśve lalāṭaṃ ca vamataś cāsya dhārayet ||
प्रपीडयेत् तथा नाभिं पृष्ठं च प्रतिलोमतः । (२१।१)
prapīḍayet tathā nābhiṃ pṛṣṭhaṃ ca pratilomataḥ |
कफे तीक्ष्णोष्णकटुकैः पित्ते स्वादुहिमैर् इति ॥ (२१।२)
kaphe tīkṣṇoṣṇakaṭukaiḥ pitte svāduhimair iti ||
वमेत् स्निग्धाम्ललवणैः संसृष्टे मरुता कफे । (२२।१)
vamet snigdhāmlalavaṇaiḥ saṃsṛṣṭe marutā kaphe |
पित्तस्य दर्शनं यावच् छेदो वा श्लेष्मणो भवेत् ॥ (२२।२)
pittasya darśanaṃ yāvac chedo vā śleṣmaṇo bhavet ||
वमेत् पुनः पुनस् तत्र वेगानाम् अप्रवर्तनम् ॥ (२३।२)
vamet punaḥ punas tatra vegānām apravartanam ||
प्रवृत्तिः सविबन्धा वा केवलस्यौषधस्य वा । (२४।१)
pravṛttiḥ savibandhā vā kevalasyauṣadhasya vā |
निर्विबन्धं प्रवर्तन्ते कफपित्तानिलाः क्रमात् । (२५।१)
nirvibandhaṃ pravartante kaphapittānilāḥ kramāt |
सम्यग्योगे ऽतियोगे तु फेनचन्द्रकरक्तवत् ॥ (२५।२)
samyagyoge 'tiyoge tu phenacandrakaraktavat ||
वमितं क्षामता दाहः कण्ठशोषस् तमो भ्रमः । (२६।१)
vamitaṃ kṣāmatā dāhaḥ kaṇṭhaśoṣas tamo bhramaḥ |
घोरा वाय्वामया मृत्युर् जीवशोणितनिर्गमात् ॥ (२६।२)
ghorā vāyvāmayā mṛtyur jīvaśoṇitanirgamāt ||
सम्यग्योगेन वमितं क्षणम् आश्वास्य पाययेत् । (२७।१)
samyagyogena vamitaṃ kṣaṇam āśvāsya pāyayet |
धूमत्रयस्यान्यतमं स्नेहाचारम् अथादिशेत् ॥ (२७।२)
dhūmatrayasyānyatamaṃ snehācāram athādiśet ||
ततः सायं प्रभाते वा क्षुद्वान् स्नातः सुखाम्बुना । (२८।१)
tataḥ sāyaṃ prabhāte vā kṣudvān snātaḥ sukhāmbunā |
भुञ्जानो रक्तशाल्यन्नं भजेत् पेयादिकं क्रमम् ॥ (२८।२)
bhuñjāno raktaśālyannaṃ bhajet peyādikaṃ kramam ||
पेयां विलेपीम् अकृतं कृतं च यूषं रसं त्रीन् उभयं तथैकम् । (२९।१)
peyāṃ vilepīm akṛtaṃ kṛtaṃ ca yūṣaṃ rasaṃ trīn ubhayaṃ tathaikam |
क्रमेण सेवेत नरो ऽन्नकालान् प्रधानमध्यावरशुद्धिशुद्धः ॥ (२९।२)
krameṇa seveta naro 'nnakālān pradhānamadhyāvaraśuddhiśuddhaḥ ||
यथाणुर् अग्निस् तृणगोमयाद्यैः संधुक्ष्यमाणो भवति क्रमेण । (३०।१)
yathāṇur agnis tṛṇagomayādyaiḥ saṃdhukṣyamāṇo bhavati krameṇa |
महान् स्थिरः सर्वपचस् तथैव शुद्धस्य पेयादिभिर् अन्तराग्निः ॥ (३०।२)
mahān sthiraḥ sarvapacas tathaiva śuddhasya peyādibhir antarāgniḥ ||
जघन्यमध्यप्रवरे तु वेगाश् चत्वार इष्टा वमने षड् अष्टौ । (३१।१)
jaghanyamadhyapravare tu vegāś catvāra iṣṭā vamane ṣaḍ aṣṭau |
दशैव ते द्वित्रिगुणा विरेके प्रस्थस् तथा स्याद् द्विचतुर्गुणश् च ॥ (३१।२)
daśaiva te dvitriguṇā vireke prasthas tathā syād dvicaturguṇaś ca ||
पित्तावसानं वमनं विरेकाद् अर्धं कफान्तं च विरेकम् आहुः । (३२।१)
pittāvasānaṃ vamanaṃ virekād ardhaṃ kaphāntaṃ ca virekam āhuḥ |
द्वित्रान् सविट्कान् अपनीय वेगान् मेयं विरेके वमने तु पीतम् ॥ (३२।२)
dvitrān saviṭkān apanīya vegān meyaṃ vireke vamane tu pītam ||
श्लेष्मकाले गते ज्ञात्वा कोष्ठं सम्यग् विरेचयेत् ॥ (३३।२)
śleṣmakāle gate jñātvā koṣṭhaṃ samyag virecayet ||
बहुपित्तो मृदुः कोष्ठः क्षीरेणापि विरिच्यते । (३४।१)
bahupitto mṛduḥ koṣṭhaḥ kṣīreṇāpi viricyate |
प्रभूतमारुतः क्रूरः कृच्छ्राच् छ्यामादिकैर् अपि ॥ (३४।२)
prabhūtamārutaḥ krūraḥ kṛcchrāc chyāmādikair api ||
स्निग्धोष्णलवणैर् वायाव् अप्रवृत्तौ तु पाययेत् ॥ (३५।२)
snigdhoṣṇalavaṇair vāyāv apravṛttau tu pāyayet ||
उष्णाम्बु स्वेदयेद् अस्य पाणितापेन चोदरम् । (३६।१)
uṣṇāmbu svedayed asya pāṇitāpena codaram |
उत्थाने ऽल्पे दिने तस्मिन् भुक्त्वान्येद्युः पुनः पिबेत् ॥ (३६।२)
utthāne 'lpe dine tasmin bhuktvānyedyuḥ punaḥ pibet ||
अदृढस्नेहकोष्ठस् तु पिबेद् ऊर्ध्वं दशाहतः । (३७।१)
adṛḍhasnehakoṣṭhas tu pibed ūrdhvaṃ daśāhataḥ |
भूयो ऽप्य् उपस्कृततनुः स्नेहस्वेदैर् विरेचनम् ॥ (३७।२)
bhūyo 'py upaskṛtatanuḥ snehasvedair virecanam ||
यौगिकं सम्यग् आलोच्य स्मरन् पूर्वम् अतिक्रमम् । (३८।१)
yaugikaṃ samyag ālocya smaran pūrvam atikramam |
हृत्कुक्ष्यशुद्धिर् अरुचिर् उत्क्लेशः श्लेष्मपित्तयोः ॥ (३८।२)
hṛtkukṣyaśuddhir arucir utkleśaḥ śleṣmapittayoḥ ||
विट्पित्तकफवातेषु निःसृतेषु क्रमात् स्रवेत् । (४०।१)
viṭpittakaphavāteṣu niḥsṛteṣu kramāt sravet |
निःश्लेष्मपित्तम् उदकं श्वेतं कृष्णं सलोहितम् ॥ (४०।२)
niḥśleṣmapittam udakaṃ śvetaṃ kṛṣṇaṃ salohitam ||
गुदनिःसरणं तृष्णा भ्रमो नेत्रप्रवेशनम् ॥ (४१।२)
gudaniḥsaraṇaṃ tṛṣṇā bhramo netrapraveśanam ||
सम्यग्विरिक्तम् एनं च वमनोक्तेन योजयेत् ॥ (४२।२)
samyagviriktam enaṃ ca vamanoktena yojayet ||
क्रमेणान्नानि भुञ्जानो भजेत् प्रकृतिभोजनम् ॥ (४३।२)
krameṇānnāni bhuñjāno bhajet prakṛtibhojanam ||
मन्दवह्निम् असंशुद्धम् अक्षामं दोषदुर्बलम् । (४४।१)
mandavahnim asaṃśuddham akṣāmaṃ doṣadurbalam |
अदृष्टजीर्णलिङ्गं च लङ्घयेत् पीतभेषजम् ॥ (४४।२)
adṛṣṭajīrṇaliṅgaṃ ca laṅghayet pītabheṣajam ||
स्नेहस्वेदौषधोत्क्लेशसङ्गैर् इति न बाध्यते । (४५।१)
snehasvedauṣadhotkleśasaṅgair iti na bādhyate |
यात्य् अग्निर् मन्दतां तस्मात् क्रमं पेयादिम् आचरेत् । (४६।१)
yāty agnir mandatāṃ tasmāt kramaṃ peyādim ācaret |
स्रुताल्पपित्तश्लेष्माणं मद्यपं वातपैत्तिकम् ॥ (४६।२)
srutālpapittaśleṣmāṇaṃ madyapaṃ vātapaittikam ||
पेयां न पाययेत् तेषां तर्पणादिक्रमो हितः । (४७।१)
peyāṃ na pāyayet teṣāṃ tarpaṇādikramo hitaḥ |
निर्हरेद् वमनस्यातः पाकं न प्रतिपालयेत् । (४८।१)
nirhared vamanasyātaḥ pākaṃ na pratipālayet |
विरिच्यते भेदनीयैर् भोज्यैस् तम् उपपादयेत् । (४९।१)
viricyate bhedanīyair bhojyais tam upapādayet |
दुर्बलः शोधितः पूर्वम् अल्पदोषः कृशो नरः ॥ (४९।२)
durbalaḥ śodhitaḥ pūrvam alpadoṣaḥ kṛśo naraḥ ||
अपरिज्ञातकोष्ठश् च पिबेन् मृद्व् अल्पम् औषधम् । (५०।१)
aparijñātakoṣṭhaś ca piben mṛdv alpam auṣadham |
हरेद् बहूंश् चलान् दोषान् अल्पान् अल्पान् पुनः पुनः । (५१।१)
hared bahūṃś calān doṣān alpān alpān punaḥ punaḥ |
दुर्बलस्य मृदुद्रव्यैर् अल्पान् संशमयेत् तु तान् ॥ (५१।२)
durbalasya mṛdudravyair alpān saṃśamayet tu tān ||
क्लेशयन्ति चिरं ते हि हन्युर् वैनम् अनिर्हृताः । (५२।१)
kleśayanti ciraṃ te hi hanyur vainam anirhṛtāḥ |
मन्दाग्निं क्रूरकोष्ठं च सक्षारलवणैर् घृतैः ॥ (५२।२)
mandāgniṃ krūrakoṣṭhaṃ ca sakṣāralavaṇair ghṛtaiḥ ||
संधुक्षिताग्निं विजितकफवातं च शोधयेत् । (५३।१)
saṃdhukṣitāgniṃ vijitakaphavātaṃ ca śodhayet |
दीप्ताग्नीनां च भैषज्यम् अविरेच्यैव जीर्यति । (५४।१)
dīptāgnīnāṃ ca bhaiṣajyam avirecyaiva jīryati |
तेभ्यो वस्तिं पुरा दद्यात् ततः स्निग्धं विरेचनम् ॥ (५४।२)
tebhyo vastiṃ purā dadyāt tataḥ snigdhaṃ virecanam ||
शकृन् निर्हृत्य वा किंचित् तीक्ष्णाभिः फलवर्तिभिः । (५५।१)
śakṛn nirhṛtya vā kiṃcit tīkṣṇābhiḥ phalavartibhiḥ |
प्रवृत्तं हि मलं स्निग्धो विरेको निर्हरेत् सुखम् ॥ (५५।२)
pravṛttaṃ hi malaṃ snigdho vireko nirharet sukham ||
कामलापाण्डुमेहार्तान् नातिस्निग्धान् विशोधयेत् ॥ (५६।२)
kāmalāpāṇḍumehārtān nātisnigdhān viśodhayet ||
सर्वान् स्नेहविरेकैश् च रूक्षैस् तु स्नेहभावितान् । (५७।१)
sarvān snehavirekaiś ca rūkṣais tu snehabhāvitān |
कर्मणां वमनादीनां पुनर् अप्य् अन्तरे ऽन्तरे ॥ (५७।२)
karmaṇāṃ vamanādīnāṃ punar apy antare 'ntare ||
स्नेहस्वेदौ प्रयुञ्जीत स्नेहम् अन्ते बलाय च । (५८।१)
snehasvedau prayuñjīta sneham ante balāya ca |
मलो हि देहाद् उत्क्लेश्य ह्रियते वाससो यथा ॥ (५८।२)
malo hi dehād utkleśya hriyate vāsaso yathā ||
स्नेहस्वेदैस् तथोत्क्लिष्टः शोध्यते शोधनैर् मलः । (५९।१)
snehasvedais tathotkliṣṭaḥ śodhyate śodhanair malaḥ |
स्नेहस्वेदाव् अनभ्यस्य कुर्यात् संशोधनं तु यः ॥ (५९।२)
snehasvedāv anabhyasya kuryāt saṃśodhanaṃ tu yaḥ ||
बुद्धिप्रसादं बलम् इन्द्रियाणां धातुस्थिरत्वं ज्वलनस्य दीप्तिम् । (६०।१)
buddhiprasādaṃ balam indriyāṇāṃ dhātusthiratvaṃ jvalanasya dīptim |
चिराच् च पाकं वयसः करोति संशोधनं सम्यगुपास्यमानम् ॥ (६०।२)
cirāc ca pākaṃ vayasaḥ karoti saṃśodhanaṃ samyagupāsyamānam ||
Data courtesy of The Digital Corpus of Sanskrit.