अष्टाङ्गहृदयसंहिताAṣṭāṅgahṛdayasaṃhitā
AHS, 3, 1
Select a line for its word-by-word analysis.
दिसेअसे:: स्य्नोन्य्म्स्रोगः पाप्मा ज्वरो व्याधिर् विकारो दुःखम् आमयः । (१।३)
disease:: synonymsrogaḥ pāpmā jvaro vyādhir vikāro duḥkham āmayaḥ |
दिअग्नोसिस्निदानं पूर्वरूपाणि रूपाण्युपशयस् तथा । (२।१)
diagnosisnidānaṃ pūrvarūpāṇi rūpāṇyupaśayas tathā |
निदान:: स्य्नोन्य्म्स्संप्राप्तिश्चेति विज्ञानं रोगाणां पञ्चधा स्मृतम् ॥ (२।२)
nidāna:: synonymssaṃprāptiśceti vijñānaṃ rogāṇāṃ pañcadhā smṛtam ||
प्राग्रूपनिदानम् आहुः पर्यायैः प्राग्रूपं येन लक्ष्यते ॥ (३।२)
prāgrūpanidānam āhuḥ paryāyaiḥ prāgrūpaṃ yena lakṣyate ||
लिङ्गम् अव्यक्तम् अल्पत्वाद् व्याधीनां तद् यथायथम् ॥ (४।२)
liṅgam avyaktam alpatvād vyādhīnāṃ tad yathāyatham ||
रूपतद् एव व्यक्ततां यातं रूपम् इत्यभिधीयते । (५।१)
rūpatad eva vyaktatāṃ yātaṃ rūpam ityabhidhīyate |
संस्थानं व्यञ्जनं लिङ्गं लक्षणं चिह्नम् आकृतिः ॥ (५।२)
saṃsthānaṃ vyañjanaṃ liṅgaṃ lakṣaṇaṃ cihnam ākṛtiḥ ||
उपशयहेतुव्याधिविपर्यस्तविपर्यस्तार्थकारिणाम् । (६।१)
upaśayahetuvyādhiviparyastaviparyastārthakāriṇām |
विद्याद् उपशयं व्याधेः स हि सात्म्यम् इति स्मृतः । (७।१)
vidyād upaśayaṃ vyādheḥ sa hi sātmyam iti smṛtaḥ |
विपरीतो ऽनुपशयो व्याध्यसात्म्याभिसंज्ञितः ॥ (७।२)
viparīto 'nupaśayo vyādhyasātmyābhisaṃjñitaḥ ||
निर्वृत्तिरामयस्यासौ संप्राप्तिर् जातिरागतिः ॥ (८।२)
nirvṛttirāmayasyāsau saṃprāptir jātirāgatiḥ ||
सा भिद्यते यथात्रैव वक्ष्यन्ते ऽष्टौ ज्वरा इति ॥ (९।२)
sā bhidyate yathātraiva vakṣyante 'ṣṭau jvarā iti ||
स्वातन्त्र्यपारतन्त्र्याभ्यां व्याधेः प्राधान्यम् आदिशेत् ॥ (१०।२)
svātantryapāratantryābhyāṃ vyādheḥ prādhānyam ādiśet ||
हेत्वादिकार्त्स्न्यावयवैर् बलाबलविशेषणम् । (११।१)
hetvādikārtsnyāvayavair balābalaviśeṣaṇam |
नक्तंदिनर्तुभुक्तांशैर् व्याधिकालो यथामलम् ॥ (११।२)
naktaṃdinartubhuktāṃśair vyādhikālo yathāmalam ||
इति प्रोक्तो निदानार्थस् तं व्यासेनोपदेक्ष्यति । (१२।१)
iti prokto nidānārthas taṃ vyāsenopadekṣyati |
सर्वेषाम् एव रोगाणां निदानं कुपिता मलाः ॥ (१२।२)
sarveṣām eva rogāṇāṃ nidānaṃ kupitā malāḥ ||
तत्प्रकोपस्य तु प्रोक्तं विविधाहितसेवनम् । (१३।१)
tatprakopasya tu proktaṃ vividhāhitasevanam |
अहितं त्रिविधो योगस् त्रयाणां प्राग् उदाहृतः ॥ (१३।२)
ahitaṃ trividho yogas trayāṇāṃ prāg udāhṛtaḥ ||
ग्रीष्माहोरात्रिभुक्तान्ते प्रकुप्यति समीरणः ॥ (१५।२)
grīṣmāhorātribhuktānte prakupyati samīraṇaḥ ||
पित्तं कट्वम्लतीक्ष्णोष्णपटुक्रोधविदाहिभिः । (१६।१)
pittaṃ kaṭvamlatīkṣṇoṣṇapaṭukrodhavidāhibhiḥ |
स्वाद्वम्ललवणस्निग्धगुर्वभिष्यन्दिशीतलैः । (१७।१)
svādvamlalavaṇasnigdhagurvabhiṣyandiśītalaiḥ |
आस्यास्वप्नसुखाजीर्णदिवास्वप्नातिबृंहणैः ॥ (१७।२)
āsyāsvapnasukhājīrṇadivāsvapnātibṛṃhaṇaiḥ ||
प्रच्छर्दनाद्ययोगेन भुक्तमात्रवसन्तयोः । (१८।१)
pracchardanādyayogena bhuktamātravasantayoḥ |
पूर्वाह्णे पूर्वरात्रे च श्लेष्मा द्वन्द्वं तु संकरात् ॥ (१८।२)
pūrvāhṇe pūrvarātre ca śleṣmā dvandvaṃ tu saṃkarāt ||
मिश्रीभावात् समस्तानां संनिपातस् तथा पुनः । (१९।१)
miśrībhāvāt samastānāṃ saṃnipātas tathā punaḥ |
दोषत्रयकरैस् तैस् तैस् तथान्नपरिवर्तनात् । (२१।१)
doṣatrayakarais tais tais tathānnaparivartanāt |
ऋतोर् दुष्टात् पुरोवाताद् ग्रहावेशाद् विषाद् गरात् ॥ (२१।२)
ṛtor duṣṭāt purovātād grahāveśād viṣād garāt ||
दुष्टान्नात् पर्वताश्लेषाद् ग्रहैर् जन्मर्क्षपीडनात् । (२२।१)
duṣṭānnāt parvatāśleṣād grahair janmarkṣapīḍanāt |
मिथ्यायोगाच्च विविधात् पापानां च निषेवणात् ॥ (२२।२)
mithyāyogācca vividhāt pāpānāṃ ca niṣevaṇāt ||
स्त्रीणां प्रसववैषम्यात् तथा मिथ्योपचारतः । (२३।१)
strīṇāṃ prasavavaiṣamyāt tathā mithyopacārataḥ |
प्रतिरोगम् इति क्रुद्धा रोगाधिष्ठानगामिनीः ॥ (२३।२)
pratirogam iti kruddhā rogādhiṣṭhānagāminīḥ ||
Data courtesy of The Digital Corpus of Sanskrit.