अष्टाङ्गहृदयसंहिताAṣṭāṅgahṛdayasaṃhitā
AHS, 6, 26
Select a line for its word-by-word analysis.
अनन्तैरपि तैरङ्गम् उच्यते जुष्टम् अष्टधा ॥ (१।४)
anantairapi tairaṅgam ucyate juṣṭam aṣṭadhā ||
विद्धं भिन्नं विदलितं तत्र घृष्टं लसीकया ॥ (२।२)
viddhaṃ bhinnaṃ vidalitaṃ tatra ghṛṣṭaṃ lasīkayā ||
रक्तलेशेन वा युक्तं सप्लोषं छेदनात् स्रवेत् । (३।१)
raktaleśena vā yuktaṃ saploṣaṃ chedanāt sravet |
अवगाढं ततः कृत्तं विच्छिन्नं स्यात् ततो ऽपि च ॥ (३।२)
avagāḍhaṃ tataḥ kṛttaṃ vicchinnaṃ syāt tato 'pi ca ||
प्रविलम्बि सशेषे ऽस्थ्नि पतितं पातितं तनोः । (४।१)
pravilambi saśeṣe 'sthni patitaṃ pātitaṃ tanoḥ |
सूक्ष्मास्यशल्यविद्धं तु विद्धं कोष्ठविवर्जितम् ॥ (४।२)
sūkṣmāsyaśalyaviddhaṃ tu viddhaṃ koṣṭhavivarjitam ||
भिन्नम् अन्यद् विदलितं मज्जरक्तपरिप्लुतम् । (५।१)
bhinnam anyad vidalitaṃ majjaraktapariplutam |
प्रहारपीडनोत्पेषात् सहास्थ्ना पृथुतां गतम् ॥ (५।२)
prahārapīḍanotpeṣāt sahāsthnā pṛthutāṃ gatam ||
सद्यः सद्योव्रणं सिञ्चेद् अथ यष्ट्याह्वसर्पिषा । (६।१)
sadyaḥ sadyovraṇaṃ siñced atha yaṣṭyāhvasarpiṣā |
क्षतोष्मणो निग्रहार्थं तत्कालं विसृतस्य च । (७।१)
kṣatoṣmaṇo nigrahārthaṃ tatkālaṃ visṛtasya ca |
मधुसर्पिश्च युञ्जीत पित्तघ्नीश्च हिमाः क्रियाः ॥ (८।२)
madhusarpiśca yuñjīta pittaghnīśca himāḥ kriyāḥ ||
ससंरम्भेषु कर्तव्यम् ऊर्ध्वं चाधश्च शोधनम् । (९।१)
sasaṃrambheṣu kartavyam ūrdhvaṃ cādhaśca śodhanam |
घृष्टे विदलिते चैष सुतराम् इष्यते विधिः । (१०।१)
ghṛṣṭe vidalite caiṣa sutarām iṣyate vidhiḥ |
तयोर् ह्यल्पं स्रवत्यस्रं पाकस्तेनाशु जायते ॥ (१०।२)
tayor hyalpaṃ sravatyasraṃ pākastenāśu jāyate ||
अत्यर्थम् अस्रं स्रवति प्रायशो ऽन्यत्र विक्षते । (११।१)
atyartham asraṃ sravati prāyaśo 'nyatra vikṣate |
स्नेहवस्तिं च कुर्वीत वातघ्नौषधसाधितम् ॥ (१२।२)
snehavastiṃ ca kurvīta vātaghnauṣadhasādhitam ||
इति साप्ताहिकः प्रोक्तः सद्योव्रणहितो विधिः । (१३।१)
iti sāptāhikaḥ proktaḥ sadyovraṇahito vidhiḥ |
सप्ताहाद् गतवेगे तु पूर्वोक्तं विधिम् आचरेत् ॥ (१३।२)
saptāhād gatavege tu pūrvoktaṃ vidhim ācaret ||
प्रायः सामान्यकर्मेदं वक्ष्यते तु पृथक् पृथक् । (१४।१)
prāyaḥ sāmānyakarmedaṃ vakṣyate tu pṛthak pṛthak |
घृष्टे रुजं निगृह्याशु व्रणे चूर्णानि योजयेत् ॥ (१४।२)
ghṛṣṭe rujaṃ nigṛhyāśu vraṇe cūrṇāni yojayet ||
कल्कादीन्यवकृत्ते तु विच्छिन्नप्रविलम्बिनोः । (१५।१)
kalkādīnyavakṛtte tu vicchinnapravilambinoḥ |
असाध्यं स्फुटितं नेत्रम् अदीर्णं लम्बते तु यत् । (१६।१)
asādhyaṃ sphuṭitaṃ netram adīrṇaṃ lambate tu yat |
संनिवेश्य यथास्थानम् अव्याविद्धसिरं भिषक् ॥ (१६।२)
saṃniveśya yathāsthānam avyāviddhasiraṃ bhiṣak ||
ततो ऽस्य सेचने नस्ये तर्पणे च हितं हविः ॥ (१७।२)
tato 'sya secane nasye tarpaṇe ca hitaṃ haviḥ ||
विपक्वम् आजं यष्ट्याह्वजीवकर्षभकोत्पलैः । (१८।१)
vipakvam ājaṃ yaṣṭyāhvajīvakarṣabhakotpalaiḥ |
सपयस्कैः परं तद्धि सर्वनेत्राभिघातजित् ॥ (१८।२)
sapayaskaiḥ paraṃ taddhi sarvanetrābhighātajit ||
प्राणायामो ऽथवा कार्यः क्रिया च क्षतनेत्रवत् ॥ (१९।२)
prāṇāyāmo 'thavā kāryaḥ kriyā ca kṣatanetravat ||
कर्णे स्थानाच्च्युते स्यूते श्रोतस्तैलेन पूरयेत् । (२०।१)
karṇe sthānāccyute syūte śrotastailena pūrayet |
कृकाटिकायां छिन्नायां निर्गच्छत्यपि मारुते ॥ (२०।२)
kṛkāṭikāyāṃ chinnāyāṃ nirgacchatyapi mārute ||
समं निवेश्य बध्नीयात् स्यूत्वा शीघ्रं निरन्तरम् । (२१।१)
samaṃ niveśya badhnīyāt syūtvā śīghraṃ nirantaram |
उत्तानो ऽन्नानि भुञ्जीत शयीत च सुयन्त्रितः । (२२।१)
uttāno 'nnāni bhuñjīta śayīta ca suyantritaḥ |
घातं शाखासु तिर्यक्स्थं गात्रे सम्यङ्निवेशिते ॥ (२२।२)
ghātaṃ śākhāsu tiryaksthaṃ gātre samyaṅniveśite ||
स्यूत्वा वेल्लितबन्धेन बध्नीयाद् घनवाससा । (२३।१)
syūtvā vellitabandhena badhnīyād ghanavāsasā |
चर्मणा गोष्फणाबन्धः कार्यश्चासंगते व्रणे ॥ (२३।२)
carmaṇā goṣphaṇābandhaḥ kāryaścāsaṃgate vraṇe ||
पादौ विलम्बिमुष्कस्य प्रोक्ष्य नेत्रे च वारिणा । (२४।१)
pādau vilambimuṣkasya prokṣya netre ca vāriṇā |
प्रवेश्य वृषणौ सीव्येत् सेवन्या तुन्नसंज्ञया ॥ (२४।२)
praveśya vṛṣaṇau sīvyet sevanyā tunnasaṃjñayā ||
कार्यश्च गोष्फणाबन्धः कट्याम् आवेश्य पट्टकम् । (२५।१)
kāryaśca goṣphaṇābandhaḥ kaṭyām āveśya paṭṭakam |
स्नेहसेकं न कुर्वीत तत्र क्लिद्यति हि व्रणः ॥ (२५।२)
snehasekaṃ na kurvīta tatra klidyati hi vraṇaḥ ||
शिलादार्व्यमृतातुत्थैः सिद्धं तैलं च रोपणम् ॥ (२६।२)
śilādārvyamṛtātutthaiḥ siddhaṃ tailaṃ ca ropaṇam ||
छिन्नां निःशेषतः शाखां दग्ध्वा तैलेन युक्तितः । (२७।१)
chinnāṃ niḥśeṣataḥ śākhāṃ dagdhvā tailena yuktitaḥ |
बध्नीयात् कोशबन्धेन ततो व्रणवद् आचरेत् ॥ (२७।२)
badhnīyāt kośabandhena tato vraṇavad ācaret ||
कार्या शल्याहृते विद्धे भङ्गाद् विदलिते क्रिया । (२८।१)
kāryā śalyāhṛte viddhe bhaṅgād vidalite kriyā |
शिरसो ऽपहृते शल्ये वालवर्तिं प्रवेशयेत् ॥ (२८।२)
śiraso 'pahṛte śalye vālavartiṃ praveśayet ||
मस्तुलुङ्गस्रुतेः क्रुद्धो हन्याद् एनं चलो ऽन्यथा । (२९।१)
mastuluṅgasruteḥ kruddho hanyād enaṃ calo 'nyathā |
मस्तुलुङ्गस्रुतौ खादेन् मस्तिष्कान् अन्यजीवजान् । (३०।१)
mastuluṅgasrutau khāden mastiṣkān anyajīvajān |
शल्ये हृते ऽङ्गाद् अन्यस्मात् स्नेहवर्तिं निधापयेत् ॥ (३०।२)
śalye hṛte 'ṅgād anyasmāt snehavartiṃ nidhāpayet ||
दूरावगाढाः सूक्ष्मास्या ये व्रणाः स्रुतशोणिताः । (३१।१)
dūrāvagāḍhāḥ sūkṣmāsyā ye vraṇāḥ srutaśoṇitāḥ |
सेचयेच्चक्रतैलेन सूक्ष्मनेत्रार्पितेन तान् ॥ (३१।२)
secayeccakratailena sūkṣmanetrārpitena tān ||
भिन्ने कोष्ठे ऽसृजा पूर्णे मूर्छाहृत्पार्श्ववेदनाः । (३२।१)
bhinne koṣṭhe 'sṛjā pūrṇe mūrchāhṛtpārśvavedanāḥ |
ज्वरो दाहस्तृड् आध्मानं भक्तस्यानभिनन्दनम् ॥ (३२।२)
jvaro dāhastṛḍ ādhmānaṃ bhaktasyānabhinandanam ||
सङ्गो विण्मूत्रमरुतां श्वासः स्वेदो ऽक्षिरक्तता । (३३।१)
saṅgo viṇmūtramarutāṃ śvāsaḥ svedo 'kṣiraktatā |
लोहगन्धित्वम् आस्यस्य स्याद् गात्रे च विगन्धता ॥ (३३।२)
lohagandhitvam āsyasya syād gātre ca vigandhatā ||
पक्वाशयस्थे रुधिरे सशूलं गौरवं भवेत् । (३५।१)
pakvāśayasthe rudhire saśūlaṃ gauravaṃ bhavet |
नाभेरधस्ताच्छीतत्वं खेभ्यो रक्तस्य चागमः ॥ (३५।२)
nābheradhastācchītatvaṃ khebhyo raktasya cāgamaḥ ||
अभिन्नो ऽप्याशयः सूक्ष्मैः स्रोतोभिरभिपूर्यते । (३६।१)
abhinno 'pyāśayaḥ sūkṣmaiḥ srotobhirabhipūryate |
असृजा स्यन्दमानेन पार्श्वे मूत्रेण वस्तिवत् ॥ (३६।२)
asṛjā syandamānena pārśve mūtreṇa vastivat ||
रक्ताक्षं पाण्डुवदनम् आनद्धं च विवर्जयेत् ॥ (३७।२)
raktākṣaṃ pāṇḍuvadanam ānaddhaṃ ca vivarjayet ||
विरेचनं निरूहं च निःस्नेहोष्णैर् विशोधनैः ॥ (३८।२)
virecanaṃ nirūhaṃ ca niḥsnehoṣṇair viśodhanaiḥ ||
भुञ्जीतान्नं यवागूं वा पिबेत् सैन्धवसंयुताम् ॥ (३९।२)
bhuñjītānnaṃ yavāgūṃ vā pibet saindhavasaṃyutām ||
अतिनिःस्रुतरक्तस्तु भिन्नकोष्ठः पिबेद् असृक् । (४०।१)
atiniḥsrutaraktastu bhinnakoṣṭhaḥ pibed asṛk |
क्लिष्टच्छिन्नान्त्रभेदेन कोष्ठभेदो द्विधा स्मृतः ॥ (४०।२)
kliṣṭacchinnāntrabhedena koṣṭhabhedo dvidhā smṛtaḥ ||
मूर्छादयो ऽल्पाः प्रथमे द्वितीये त्वतिबाधकाः । (४१।१)
mūrchādayo 'lpāḥ prathame dvitīye tvatibādhakāḥ |
क्लिष्टान्त्रः संशयी देही छिन्नान्त्रो नैव जीवति ॥ (४१।२)
kliṣṭāntraḥ saṃśayī dehī chinnāntro naiva jīvati ||
यथास्वं मार्गम् आपन्ना यस्य विण्मूत्रमारुताः । (४२।१)
yathāsvaṃ mārgam āpannā yasya viṇmūtramārutāḥ |
व्युपद्रवः स भिन्ने ऽपि कोष्ठे जीवत्यसंशयम् ॥ (४२।२)
vyupadravaḥ sa bhinne 'pi koṣṭhe jīvatyasaṃśayam ||
अभिन्नम् अन्त्रं निष्क्रान्तं प्रवेश्यं न त्वतो ऽन्यथा । (४३।१)
abhinnam antraṃ niṣkrāntaṃ praveśyaṃ na tvato 'nyathā |
उत्पङ्गिलशिरोग्रस्तं तद् अप्येके वदन्ति तु ॥ (४३।२)
utpaṅgilaśirograstaṃ tad apyeke vadanti tu ||
प्रक्षाल्य पयसा दिग्धं तृणशोणितपांसुभिः । (४४।१)
prakṣālya payasā digdhaṃ tṛṇaśoṇitapāṃsubhiḥ |
प्रवेशयेत् कॢप्तनखो घृतेनाक्तं शनैः शनैः ॥ (४४।२)
praveśayet kḷptanakho ghṛtenāktaṃ śanaiḥ śanaiḥ ||
क्षीरेणार्द्रीकृतं शुष्कं भूरिसर्पिःपरिप्लुतम् । (४५।१)
kṣīreṇārdrīkṛtaṃ śuṣkaṃ bhūrisarpiḥpariplutam |
अङ्गुल्या प्रमृशेत् कण्ठं जलेनोद्वेजयेद् अपि ॥ (४५।२)
aṅgulyā pramṛśet kaṇṭhaṃ jalenodvejayed api ||
तथान्त्राणि विशन्त्यन्तस्तत्कालं पीडयन्ति च । (४६।१)
tathāntrāṇi viśantyantastatkālaṃ pīḍayanti ca |
व्रणसौक्ष्म्याद् बहुत्वाद् वा कोष्ठम् अन्त्रम् अनाविशत् ॥ (४६।२)
vraṇasaukṣmyād bahutvād vā koṣṭham antram anāviśat ||
यथास्थानं स्थिते सम्यक् अन्त्रे सीव्येद् अनु व्रणम् ॥ (४७।२)
yathāsthānaṃ sthite samyak antre sīvyed anu vraṇam ||
स्थानाद् अपेतम् आदत्ते जीवितं कुपितं च तत् । (४८।१)
sthānād apetam ādatte jīvitaṃ kupitaṃ ca tat |
मृदुक्रियार्थं शकृतो वायोश्चाधःप्रवृत्तये ॥ (४९।२)
mṛdukriyārthaṃ śakṛto vāyoścādhaḥpravṛttaye ||
अनुवर्तेत वर्षं च यथोक्तं व्रणयन्त्रणाम् । (५०।१)
anuvarteta varṣaṃ ca yathoktaṃ vraṇayantraṇām |
उदरान् मेदसो वर्तिं निर्गतां भस्मना मृदा ॥ (५०।२)
udarān medaso vartiṃ nirgatāṃ bhasmanā mṛdā ||
अवकीर्य कषायैर् वा श्लक्ष्णैर् मूलैस्ततः समम् । (५१।१)
avakīrya kaṣāyair vā ślakṣṇair mūlaistataḥ samam |
दृढं बद्ध्वा च सूत्रेण वर्धयेत् कुशलो भिषक् ॥ (५१।२)
dṛḍhaṃ baddhvā ca sūtreṇa vardhayet kuśalo bhiṣak ||
तीक्ष्णेनाग्निप्रतप्तेन शस्त्रेण सकृद् एव तु । (५२।१)
tīkṣṇenāgniprataptena śastreṇa sakṛd eva tu |
स्याद् अन्यथा रुग् आटोपो मृत्युर् वा छिद्यमानया ॥ (५२।२)
syād anyathā rug āṭopo mṛtyur vā chidyamānayā ||
सक्षौद्रे च व्रणे बद्धे सुजीर्णे ऽन्ने घृतं पिबेत् । (५३।१)
sakṣaudre ca vraṇe baddhe sujīrṇe 'nne ghṛtaṃ pibet |
क्षीरं वा शर्कराचित्रालाक्षागोक्षुरकैः शृतम् ॥ (५३।२)
kṣīraṃ vā śarkarācitrālākṣāgokṣurakaiḥ śṛtam ||
रुग्दाहजित् सयष्ट्याह्वैः परं पूर्वोदितो विधिः । (५४।१)
rugdāhajit sayaṣṭyāhvaiḥ paraṃ pūrvodito vidhiḥ |
मेदोग्रन्थ्युदितं तत्र तैलम् अभ्यञ्जने हितम् ॥ (५४।२)
medogranthyuditaṃ tatra tailam abhyañjane hitam ||
हरिद्रे पद्मबीजानि सोशीरं मधुकं च तैः ॥ (५५।२)
haridre padmabījāni sośīraṃ madhukaṃ ca taiḥ ||
पक्वं सद्योव्रणेषूक्तं तैलं रोपणम् उत्तमम् । (५६।१)
pakvaṃ sadyovraṇeṣūktaṃ tailaṃ ropaṇam uttamam |
कार्यं वातास्रजित् तृप्तिमर्दनाभ्यञ्जनादिकम् । (५७।१)
kāryaṃ vātāsrajit tṛptimardanābhyañjanādikam |
विश्लिष्टदेहं मथितं क्षीणं मर्माहतं हतम् । (५७।२)
viśliṣṭadehaṃ mathitaṃ kṣīṇaṃ marmāhataṃ hatam |
वासयेत् तैलपूर्णायां द्रोण्यां मांसरसाशिनम् ॥ (५७।३)
vāsayet tailapūrṇāyāṃ droṇyāṃ māṃsarasāśinam ||
Data courtesy of The Digital Corpus of Sanskrit.