अष्टाङ्गहृदयसंहिताAṣṭāṅgahṛdayasaṃhitā
AHS, 1, 23
Select a line for its word-by-word analysis.
सर्वेषाम् अक्षिरोगाणाम् आदावाश्च्योतनं हितम् । (१।१)
sarveṣām akṣirogāṇām ādāvāścyotanaṃ hitam |
उष्णं वाते कफे कोष्णं तच्छीतं रक्तपित्तयोः । (२।१)
uṣṇaṃ vāte kaphe koṣṇaṃ tacchītaṃ raktapittayoḥ |
दश द्वादश वा बिन्दून् द्व्यङ्गुलाद् अवसेचयेत् ॥ (३।२)
daśa dvādaśa vā bindūn dvyaṅgulād avasecayet ||
अत्युष्णतीक्ष्णं रुग्रागदृङ्नाशायाक्षिसेचनम् । (५।१)
atyuṣṇatīkṣṇaṃ rugrāgadṛṅnāśāyākṣisecanam |
कषायवर्त्मतां घर्षं कृच्छ्राद् उन्मेषणं बहु । (६।१)
kaṣāyavartmatāṃ gharṣaṃ kṛcchrād unmeṣaṇaṃ bahu |
विकारवृद्धिम् अत्यल्पं संरम्भम् अपरिस्रुतम् ॥ (६।२)
vikāravṛddhim atyalpaṃ saṃrambham aparisrutam ||
ऊर्ध्वगान् नयने न्यस्तम् अपवर्तयते मलान् ॥ (७।२)
ūrdhvagān nayane nyastam apavartayate malān ||
पक्वलिङ्गे ऽल्पशोफातिकण्डूपैच्छिल्यलक्षिते ॥ (८।२)
pakvaliṅge 'lpaśophātikaṇḍūpaicchilyalakṣite ||
मन्दघर्षाश्रुरागे ऽक्ष्णि प्रयोज्यं घनदूषिके । (९।१)
mandagharṣāśrurāge 'kṣṇi prayojyaṃ ghanadūṣike |
लेखनं रोपणं दृष्टिप्रसादनम् इति त्रिधा । (१०।१)
lekhanaṃ ropaṇaṃ dṛṣṭiprasādanam iti tridhā |
रोपणं तिक्तकैर् द्रव्यैः स्वादुशीतैः प्रसादनम् । (११।१)
ropaṇaṃ tiktakair dravyaiḥ svāduśītaiḥ prasādanam |
तीक्ष्णाञ्जनाभिसंतप्ते नयने तत् प्रसादनम् ॥ (११।२)
tīkṣṇāñjanābhisaṃtapte nayane tat prasādanam ||
अङ्गुली च सुवर्णोत्था रूप्यजा च प्रसादने ॥ (१३।२)
aṅgulī ca suvarṇotthā rūpyajā ca prasādane ||
पिण्डो रसक्रिया चूर्णस् त्रिधैवाञ्जनकल्पना । (१४।१)
piṇḍo rasakriyā cūrṇas tridhaivāñjanakalpanā |
गुरौ मध्ये लघौ दोषे तां क्रमेण प्रयोजयेत् ॥ (१४।२)
gurau madhye laghau doṣe tāṃ krameṇa prayojayet ||
हरेणुमात्रा पिण्डस्य वेल्लमात्रा रसक्रिया । (१५।१)
hareṇumātrā piṇḍasya vellamātrā rasakriyā |
तीक्ष्णस्य द्विगुणं तस्य मृदुनश् चूर्णितस्य च ॥ (१५।२)
tīkṣṇasya dviguṇaṃ tasya mṛdunaś cūrṇitasya ca ||
द्वे शलाके तु तीक्ष्णस्य तिस्रस् तदितरस्य च । (१६।१)
dve śalāke tu tīkṣṇasya tisras taditarasya ca |
निशि स्वप्ने न मध्याह्ने म्लाने नोष्णगभस्तिभिः ॥ (१६।२)
niśi svapne na madhyāhne mlāne noṣṇagabhastibhiḥ ||
अक्षिरोगाय दोषाः स्युर् वर्धितोत्पीडितद्रुताः । (१७।१)
akṣirogāya doṣāḥ syur vardhitotpīḍitadrutāḥ |
प्रातः सायं च तच्छान्त्यै व्यभ्रे ऽर्के ऽतो ऽञ्जयेत् सदा ॥ (१७।२)
prātaḥ sāyaṃ ca tacchāntyai vyabhre 'rke 'to 'ñjayet sadā ||
वदन्त्यन्ये तु न दिवा प्रयोज्यं तीक्ष्णम् अञ्जनम् । (१८।१)
vadantyanye tu na divā prayojyaṃ tīkṣṇam añjanam |
विरेकदुर्बलं चक्षुर् आदित्यं प्राप्य सीदति ॥ (१८।२)
virekadurbalaṃ cakṣur ādityaṃ prāpya sīdati ||
स्वप्नेन रात्रौ कालस्य सौम्यत्वेन च तर्पिता । (१९।१)
svapnena rātrau kālasya saumyatvena ca tarpitā |
शीतसात्म्या दृग् आग्नेयी स्थिरतां लभते पुनः ॥ (१९।२)
śītasātmyā dṛg āgneyī sthiratāṃ labhate punaḥ ||
अत्युद्रिक्ते बलासे तु लेखनीये ऽथवा गदे । (२०।१)
atyudrikte balāse tu lekhanīye 'thavā gade |
कामम् अह्न्यपि नात्युष्णे तीक्ष्णम् अक्ष्णि प्रयोजयेत् ॥ (२०।२)
kāmam ahnyapi nātyuṣṇe tīkṣṇam akṣṇi prayojayet ||
न रात्रावपि शीते ऽति नेत्रे तीक्ष्णाञ्जनं हितम् । (२२।१)
na rātrāvapi śīte 'ti netre tīkṣṇāñjanaṃ hitam |
दोषम् अस्रावयेत् स्तब्धं कण्डूजाड्यादिकारि तत् ॥ (२२।२)
doṣam asrāvayet stabdhaṃ kaṇḍūjāḍyādikāri tat ||
अदृष्टे ऽर्के शिरःस्नाते पीतयोर् धूममद्ययोः । (२४।१)
adṛṣṭe 'rke śiraḥsnāte pītayor dhūmamadyayoḥ |
अजीर्णे ऽग्न्यर्कसंतप्ते दिवासुप्ते पिपासिते ॥ (२४।२)
ajīrṇe 'gnyarkasaṃtapte divāsupte pipāsite ||
अथानुमीलयन् दृष्टिम् अन्तः संचारयेच्छनैः । (२६।१)
athānumīlayan dṛṣṭim antaḥ saṃcārayecchanaiḥ |
अञ्जिते वर्त्मनी किंचिच् चालयेच्चैवम् अञ्जनम् ॥ (२६।२)
añjite vartmanī kiṃcic cālayeccaivam añjanam ||
तीक्ष्णं व्याप्नोति सहसा न चोन्मेषनिमेषणम् । (२७।१)
tīkṣṇaṃ vyāpnoti sahasā na conmeṣanimeṣaṇam |
निष्पीडनं च वर्त्मभ्यां क्षालनं वा समाचरेत् ॥ (२७।२)
niṣpīḍanaṃ ca vartmabhyāṃ kṣālanaṃ vā samācaret ||
व्याधिदोषर्तुयोग्याभिर् अद्भिः प्रक्षालयेत् तदा ॥ (२८।२)
vyādhidoṣartuyogyābhir adbhiḥ prakṣālayet tadā ||
ऊर्ध्ववर्त्मनि संगृह्य शोध्यं वामेन चेतरत् ॥ (२९।२)
ūrdhvavartmani saṃgṛhya śodhyaṃ vāmena cetarat ||
वर्त्मप्राप्तो ऽञ्जनाद् दोषो रोगान् कुर्याद् अतो ऽन्यथा । (३०।१)
vartmaprāpto 'ñjanād doṣo rogān kuryād ato 'nyathā |
कण्डूजाड्ये ऽञ्जनं तीक्ष्णं धूमं वा योजयेत् पुनः ॥ (३०।२)
kaṇḍūjāḍye 'ñjanaṃ tīkṣṇaṃ dhūmaṃ vā yojayet punaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.