अष्टाङ्गहृदयसंहिताAṣṭāṅgahṛdayasaṃhitā
AHS, 3, 16
Select a line for its word-by-word analysis.
विदाह्यन्नं विरुद्धं च तत् तच्चासृक्प्रदूषणम् । (१।३)
vidāhyannaṃ viruddhaṃ ca tat taccāsṛkpradūṣaṇam |
वातलैः शीतलैर् वायुर् वृद्धः क्रुद्धो विमार्गगः । (३।१)
vātalaiḥ śītalair vāyur vṛddhaḥ kruddho vimārgagaḥ |
तादृशैवासृजा रुद्धः प्राक् तद् एव प्रदूषयेत् ॥ (३।२)
tādṛśaivāsṛjā ruddhaḥ prāk tad eva pradūṣayet ||
तद् आहुर् नामभिस् तच्च पूर्वं पादौ प्रधावति ॥ (४।२)
tad āhur nāmabhis tacca pūrvaṃ pādau pradhāvati ||
विशेषाद् यानयानाद् यैः प्रलम्बौ तस्य लक्षणम् । (५।१)
viśeṣād yānayānād yaiḥ pralambau tasya lakṣaṇam |
भविष्यतः कुष्ठसमं तथा सादः श्लथाङ्गता ॥ (५।२)
bhaviṣyataḥ kuṣṭhasamaṃ tathā sādaḥ ślathāṅgatā ||
भूत्वा भूत्वा प्रणश्यन्ति मुहुराविर्भवन्ति च । (७।१)
bhūtvā bhūtvā praṇaśyanti muhurāvirbhavanti ca |
आखोरिव विषं क्रुद्धं कृत्स्नं देहं विधावति । (८।१)
ākhoriva viṣaṃ kruddhaṃ kṛtsnaṃ dehaṃ vidhāvati |
त्वङ्मांसाश्रयम् उत्तानं तत् पूर्वं जायते ततः ॥ (८।२)
tvaṅmāṃsāśrayam uttānaṃ tat pūrvaṃ jāyate tataḥ ||
कालान्तरेण गम्भीरं सर्वान् धातून् अभिद्रवत् । (९।१)
kālāntareṇa gambhīraṃ sarvān dhātūn abhidravat |
कण्ड्वादिसंयुतोत्ताने त्वक् ताम्रा श्यावलोहिता ॥ (९।२)
kaṇḍvādisaṃyutottāne tvak tāmrā śyāvalohitā ||
श्वयथुर् ग्रथितः पाकी वायुः संध्यस्थिमज्जसु ॥ (१०।२)
śvayathur grathitaḥ pākī vāyuḥ saṃdhyasthimajjasu ||
छिन्दन्न् इव चरत्यन्तर् वक्रीकुर्वंश्च वेगवान् । (११।१)
chindann iva caratyantar vakrīkurvaṃśca vegavān |
करोति खञ्जं पङ्गुं वा शरीरे सर्वतश्चरन् ॥ (११।२)
karoti khañjaṃ paṅguṃ vā śarīre sarvataścaran ||
वाते ऽधिके ऽधिकं तत्र शूलस्फुरणतोदनम् । (१२।१)
vāte 'dhike 'dhikaṃ tatra śūlasphuraṇatodanam |
शोफस्य रौक्ष्यकृष्णत्वश्यावतावृद्धिहानयः ॥ (१२।२)
śophasya raukṣyakṛṣṇatvaśyāvatāvṛddhihānayaḥ ||
धमन्यङ्गुलिसंधीनां संकोचो ऽङ्गग्रहो ऽतिरुक् । (१३।१)
dhamanyaṅgulisaṃdhīnāṃ saṃkoco 'ṅgagraho 'tiruk |
रक्ते शोफो ऽतिरुक् तोदस् ताम्रश्चिमिचिमायते । (१४।१)
rakte śopho 'tiruk todas tāmraścimicimāyate |
स्निग्धरूक्षैः शमं नैति कण्डूक्लेदसमन्वितः ॥ (१४।२)
snigdharūkṣaiḥ śamaṃ naiti kaṇḍūkledasamanvitaḥ ||
पित्त~पित्ते विदाहः संमोहः स्वेदो मूर्छा मदः सतृट् । (१५।१)
pitta~pitte vidāhaḥ saṃmohaḥ svedo mūrchā madaḥ satṛṭ |
स्पर्शाक्षमत्वं रुग् रागः शोफः पाको भृशोष्मता ॥ (१५।२)
sparśākṣamatvaṃ rug rāgaḥ śophaḥ pāko bhṛśoṣmatā ||
कफ~कफे स्तैमित्यगुरुतासुप्तिस्निग्धत्वशीतताः । (१६।१)
kapha~kaphe staimityagurutāsuptisnigdhatvaśītatāḥ |
कण्डूर् मन्दा च रुग् द्वन्द्वसर्वलिङ्गं च संकरे ॥ (१६।२)
kaṇḍūr mandā ca rug dvandvasarvaliṅgaṃ ca saṃkare ||
प्रोग्नोसेएकदोषानुगं साध्यं नवं याप्यं द्विदोषजम् । (१७।१)
Prognoseekadoṣānugaṃ sādhyaṃ navaṃ yāpyaṃ dvidoṣajam |
त्रिदोषजं त्यजेत् स्रावि स्तब्धम् अर्बुदकारि च ॥ (१७।२)
tridoṣajaṃ tyajet srāvi stabdham arbudakāri ca ||
रक्तमार्गं निहत्याशु शाखासंधिषु मारुतः । (१८।१)
raktamārgaṃ nihatyāśu śākhāsaṃdhiṣu mārutaḥ |
निविश्यान्योन्यम् आवार्य वेदनाभिर् हरत्यसून् ॥ (१८।२)
niviśyānyonyam āvārya vedanābhir haratyasūn ||
वायौ पञ्चात्मके प्राणो रौक्ष्यव्यायामलङ्घनैः । (१९।१)
vāyau pañcātmake prāṇo raukṣyavyāyāmalaṅghanaiḥ |
पीनसार्दिततृट्कासश्वासादींश्चामयान् बहून् ॥ (२०।२)
pīnasārditatṛṭkāsaśvāsādīṃścāmayān bahūn ||
उदानः क्षवथूद्गारच्छर्दिनिद्राविधारणैः । (२१।१)
udānaḥ kṣavathūdgāracchardinidrāvidhāraṇaiḥ |
गुरुभारातिरुदितहास्याद्यैर् विकृतो गदान् ॥ (२१।२)
gurubhārātiruditahāsyādyair vikṛto gadān ||
कुर्याच्च गलगण्डादींस् तांस् ताञ् जत्रूर्ध्वसंश्रयान् ॥ (२२।२)
kuryācca galagaṇḍādīṃs tāṃs tāñ jatrūrdhvasaṃśrayān ||
पुंस्त्वोत्साहबलभ्रंशशोफचित्तोत्प्लवज्वरान् । (२४।१)
puṃstvotsāhabalabhraṃśaśophacittotplavajvarān |
कुष्ठं विसर्पम् अन्यांश्च कुर्यात् सर्वाङ्गगान् गदान् । (२५।१)
kuṣṭhaṃ visarpam anyāṃśca kuryāt sarvāṅgagān gadān |
शूलगुल्मग्रहण्यादीन् पक्वामाशयजान् गदान् ॥ (२६।२)
śūlagulmagrahaṇyādīn pakvāmāśayajān gadān ||
कुपितः कुरुते रोगान् कृच्छ्रान् पक्वाशयाश्रयान् । (२८।१)
kupitaḥ kurute rogān kṛcchrān pakvāśayāśrayān |
मूत्रशुक्रप्रदोषार्शोगुदभ्रंशादिकान् बहून् ॥ (२८।२)
mūtraśukrapradoṣārśogudabhraṃśādikān bahūn ||
सर्वं च मारुतं सामं तन्द्रास्तैमित्यगौरवैः । (२९।१)
sarvaṃ ca mārutaṃ sāmaṃ tandrāstaimityagauravaiḥ |
स्निग्धत्वारोचकालस्यशैत्यशोफाग्निहानिभिः ॥ (२९।२)
snigdhatvārocakālasyaśaityaśophāgnihānibhiḥ ||
युक्तं विद्यान् निरामं तु तन्द्रादीनां विपर्ययात् ॥ (३०।२)
yuktaṃ vidyān nirāmaṃ tu tandrādīnāṃ viparyayāt ||
वायोर् आवरणम्वायोरावरणं चातो बहुभेदं प्रवक्ष्यते । (३१।१)
vāyor āvaraṇamvāyorāvaraṇaṃ cāto bahubhedaṃ pravakṣyate |
लिङ्गं पित्तावृते दाहस् तृष्णा शूलं भ्रमस् तमः ॥ (३१।२)
liṅgaṃ pittāvṛte dāhas tṛṣṇā śūlaṃ bhramas tamaḥ ||
रक्तावृते सदाहार्तिस् त्वङ्मांसान्तरजा भृशम् ॥ (३३।२)
raktāvṛte sadāhārtis tvaṅmāṃsāntarajā bhṛśam ||
भवेच्च रागी श्वयथुर् जायन्ते मण्डलानि च । (३४।१)
bhavecca rāgī śvayathur jāyante maṇḍalāni ca |
मांसेन कठिनः शोफो विवर्णः पिटिकास् तथा ॥ (३४।२)
māṃsena kaṭhinaḥ śopho vivarṇaḥ piṭikās tathā ||
चलः स्निग्धो मृदुः शीतः शोफो गात्रेष्वरोचकः ॥ (३५।२)
calaḥ snigdho mṛduḥ śītaḥ śopho gātreṣvarocakaḥ ||
आढ्यवात इति ज्ञेयः स कृच्छ्रो मेदसावृते । (३६।१)
āḍhyavāta iti jñeyaḥ sa kṛcchro medasāvṛte |
स्पर्शम् अस्थ्यावृते ऽत्युष्णं पीडनं चाभिनन्दति ॥ (३६।२)
sparśam asthyāvṛte 'tyuṣṇaṃ pīḍanaṃ cābhinandati ||
सूच्येव तुद्यते ऽत्यर्थम् अङ्गं सीदति शूल्यते । (३७।१)
sūcyeva tudyate 'tyartham aṅgaṃ sīdati śūlyate |
शूलं च पीड्यमानेन पाणिभ्यां लभते सुखम् । (३८।१)
śūlaṃ ca pīḍyamānena pāṇibhyāṃ labhate sukham |
शुक्रावृते ऽतिवेगो वा न वा निष्फलतापि वा ॥ (३८।२)
śukrāvṛte 'tivego vā na vā niṣphalatāpi vā ||
भुक्ते कुक्षौ रुजा जीर्णे शाम्यत्यन्नावृते ऽनिले । (३९।१)
bhukte kukṣau rujā jīrṇe śāmyatyannāvṛte 'nile |
मूत्राप्रवृत्तिराध्मानं वस्तेर् मूत्रावृते भवेत् ॥ (३९।२)
mūtrāpravṛttirādhmānaṃ vaster mūtrāvṛte bhavet ||
विडावृते विबन्धो ऽधः स्वस्थाने परिकृन्तति । (४०।१)
viḍāvṛte vibandho 'dhaḥ svasthāne parikṛntati |
व्रजत्याशु जरां स्नेहो भुक्ते चानह्यते नरः ॥ (४०।२)
vrajatyāśu jarāṃ sneho bhukte cānahyate naraḥ ||
शकृत् पीडितम् अन्नेन दुःखं शुष्कं चिरात् सृजेत् । (४१।१)
śakṛt pīḍitam annena duḥkhaṃ śuṣkaṃ cirāt sṛjet |
सर्वधात्वावृते वायौ श्रोणिवङ्क्षणपृष्ठरुक् ॥ (४१।२)
sarvadhātvāvṛte vāyau śroṇivaṅkṣaṇapṛṣṭharuk ||
विलोमो मारुतो ऽस्वस्थं हृदयं पीड्यते ऽति च । (४२।१)
vilomo māruto 'svasthaṃ hṛdayaṃ pīḍyate 'ti ca |
भ्रमो मूर्छा रुजा दाहः पित्तेन प्राण आवृते ॥ (४२।२)
bhramo mūrchā rujā dāhaḥ pittena prāṇa āvṛte ||
विदग्धे ऽन्ने च वमनम् उदाने ऽपि भ्रमादयः । (४३।१)
vidagdhe 'nne ca vamanam udāne 'pi bhramādayaḥ |
दाहो ऽन्तरूर्जाभ्रंशश्च दाहो व्याने च सर्वगः ॥ (४३।२)
dāho 'ntarūrjābhraṃśaśca dāho vyāne ca sarvagaḥ ||
क्लमो ऽङ्गचेष्टासङ्गश्च ससंतापः सवेदनः । (४४।१)
klamo 'ṅgaceṣṭāsaṅgaśca sasaṃtāpaḥ savedanaḥ |
दाहश्च स्याद् अपाने तु मले हारिद्रवर्णता । (४५।१)
dāhaśca syād apāne tu male hāridravarṇatā |
श्लेष्मणा त्वावृते प्राणे सादस् तन्द्रारुचिर् वमिः । (४६।१)
śleṣmaṇā tvāvṛte prāṇe sādas tandrārucir vamiḥ |
ष्ठीवनं क्षवथूद्गारनिःश्वासोच्छ्वाससंग्रहः ॥ (४६।२)
ṣṭhīvanaṃ kṣavathūdgāraniḥśvāsocchvāsasaṃgrahaḥ ||
उदाने गुरुगात्रत्वम् अरुचिर् वाक्स्वरग्रहः । (४७।१)
udāne gurugātratvam arucir vāksvaragrahaḥ |
बलवर्णप्रणाशश्च व्याने पर्वास्थिवाग्ग्रहः ॥ (४७।२)
balavarṇapraṇāśaśca vyāne parvāsthivāggrahaḥ ||
गुरुताङ्गेषु सर्वेषु स्खलितं च गतौ भृशम् । (४८।१)
gurutāṅgeṣu sarveṣu skhalitaṃ ca gatau bhṛśam |
समाने ऽतिहिमाङ्गत्वम् अस्वेदो मन्दवह्निता ॥ (४८।२)
samāne 'tihimāṅgatvam asvedo mandavahnitā ||
अपाने सकफं मूत्रशकृतः स्यात् प्रवर्तनम् । (४९।१)
apāne sakaphaṃ mūtraśakṛtaḥ syāt pravartanam |
प्राणादयस् तथान्योन्यम् आवृण्वन्ति यथाक्रमम् । (५०।१)
prāṇādayas tathānyonyam āvṛṇvanti yathākramam |
सर्वे ऽपि विंशतिविधं विद्याद् आवरणं च तत् ॥ (५०।२)
sarve 'pi viṃśatividhaṃ vidyād āvaraṇaṃ ca tat ||
निःश्वासोच्छ्वाससंरोधः प्रतिश्यायः शिरोग्रहः । (५१।१)
niḥśvāsocchvāsasaṃrodhaḥ pratiśyāyaḥ śirograhaḥ |
स्थानान्यवेक्ष्य वातानां वृद्धिं हानिं च कर्मणाम् । (५३।१)
sthānānyavekṣya vātānāṃ vṛddhiṃ hāniṃ ca karmaṇām |
प्राणादीनां च पञ्चानां मिश्रम् आवरणं मिथः ॥ (५३।२)
prāṇādīnāṃ ca pañcānāṃ miśram āvaraṇaṃ mithaḥ ||
पित्तादिभिर् द्वादशभिर् मिश्राणां मिश्रितैश्च तैः । (५४।१)
pittādibhir dvādaśabhir miśrāṇāṃ miśritaiśca taiḥ |
मिश्रैः पित्तादिभिस् तद्वन् मिश्रणाभिरनेकधा ॥ (५४।२)
miśraiḥ pittādibhis tadvan miśraṇābhiranekadhā ||
तां लक्षयेद् अवहितो यथास्वं लक्षणोदयात् ॥ (५५।२)
tāṃ lakṣayed avahito yathāsvaṃ lakṣaṇodayāt ||
शनैः शनैश्चोपशयाद् गूढाम् अपि मुहुर् मुहुः । (५६।१)
śanaiḥ śanaiścopaśayād gūḍhām api muhur muhuḥ |
स्यात् तयोः पीडनाद्धानिरायुषश्च बलस्य च । (५७।१)
syāt tayoḥ pīḍanāddhānirāyuṣaśca balasya ca |
आवृता वायवो ऽज्ञाता ज्ञाता वा वत्सरं स्थिताः ॥ (५७।२)
āvṛtā vāyavo 'jñātā jñātā vā vatsaraṃ sthitāḥ ||
प्रयत्नेनापि दुःसाध्या भवेयुर् वानुपक्रमाः । (५८।१)
prayatnenāpi duḥsādhyā bhaveyur vānupakramāḥ |
भवन्त्युपद्रवास् तेषाम् आवृतानाम् उपेक्षणात् ॥ (५९।१)
bhavantyupadravās teṣām āvṛtānām upekṣaṇāt ||
Data courtesy of The Digital Corpus of Sanskrit.