अष्टाङ्गहृदयसंहिताAṣṭāṅgahṛdayasaṃhitā

AHS, 6, 32

112 of 120 · 70 verses

Select a line for its word-by-word analysis.

1.1१.१

अथातः क्षुद्ररोगप्रतिषेधं व्याख्यास्यामः । (१।१)

athātaḥ kṣudrarogapratiṣedhaṃ vyākhyāsyāmaḥ |

1.2१.२

इति ह स्माहुरात्रेयादयो महर्षयः । (१।२)

iti ha smāhurātreyādayo maharṣayaḥ |

1.3१.३

विस्रावयेज्जलौकोभिरपक्वाम् अजगल्लिकाम् । (१।३)

visrāvayejjalaukobhirapakvām ajagallikām |

1.4१.४

स्वेदयित्वा यवप्रख्यां विलयाय प्रलेपयेत् ॥ (१।४)

svedayitvā yavaprakhyāṃ vilayāya pralepayet ||

2.1२.१

दारुकुष्ठमनोह्वालैर् इत्य् आ पाषाणगर्दभात् । (२।१)

dārukuṣṭhamanohvālair ity ā pāṣāṇagardabhāt |

2.2२.२

विधिस्तांश्चाचरेत् पक्वान् व्रणवत् साजगल्लिकान् ॥ (२।२)

vidhistāṃścācaret pakvān vraṇavat sājagallikān ||

3.1३.१

लोध्रकुस्तुम्बुरुवचाः प्रलेपो मुखदूषिके । (३।१)

lodhrakustumburuvacāḥ pralepo mukhadūṣike |

3.2३.२

वटपल्लवयुक्ता वा नारिकेलोत्थशुक्तयः ॥ (३।२)

vaṭapallavayuktā vā nārikelotthaśuktayaḥ ||

4.1४.१

अशान्तौ वमनं नस्यं ललाटे च सिराव्यधः । (४।१)

aśāntau vamanaṃ nasyaṃ lalāṭe ca sirāvyadhaḥ |

4.2४.२

निम्बाम्बुवान्तो निम्बाम्बुसाधितं पद्मकण्टके ॥ (४।२)

nimbāmbuvānto nimbāmbusādhitaṃ padmakaṇṭake ||

5.1५.१

पिबेत् क्षौद्रान्वितं सर्पिर् निम्बारग्वधलेपनम् । (५।१)

pibet kṣaudrānvitaṃ sarpir nimbāragvadhalepanam |

5.2५.२

विवृतादींस्तु जालान्तांश्चिकित्सेत् सेरिवेल्लिकान् । (५।२)

vivṛtādīṃstu jālāntāṃścikitset serivellikān |

5.3५.३

पित्तविसर्पवत् तद्वत् प्रत्याख्यायाग्निरोहिणीम् ॥ (५।३)

pittavisarpavat tadvat pratyākhyāyāgnirohiṇīm ||

6.1६.१

विलङ्घनं रक्तविमोक्षणं च विरूक्षणं कायविशोधनं च । (६।१)

vilaṅghanaṃ raktavimokṣaṇaṃ ca virūkṣaṇaṃ kāyaviśodhanaṃ ca |

6.2६.२

धात्रीप्रयोगाञ्छिशिरप्रदेहान् कुर्यात् सदा जालकगर्दभस्य ॥ (६।२)

dhātrīprayogāñchiśirapradehān kuryāt sadā jālakagardabhasya ||

7.1७.१

विदारिकां हृते रक्ते श्लेष्मग्रन्थिवद् आचरेत् । (७।१)

vidārikāṃ hṛte rakte śleṣmagranthivad ācaret |

7.2७.२

मेदोऽर्बुदक्रियां कुर्यात् सुतरां शर्करार्बुदे ॥ (७।२)

medo'rbudakriyāṃ kuryāt sutarāṃ śarkarārbude ||

8.1८.१

प्रवृद्धं सुबहुच्छिद्रं सशोफं मर्मणि स्थितम् । (८।१)

pravṛddhaṃ subahucchidraṃ saśophaṃ marmaṇi sthitam |

8.2८.२

वल्मीकं हस्तपादे च वर्जयेद् इतरत् पुनः ॥ (८।२)

valmīkaṃ hastapāde ca varjayed itarat punaḥ ||

9.1९.१

शुद्धस्यास्रे हृते लिम्पेत् सपट्वारेवतामृतैः । (९।१)

śuddhasyāsre hṛte limpet sapaṭvārevatāmṛtaiḥ |

9.2९.२

श्यामाकुलत्थिकामूलदन्तीपललसक्तुभिः ॥ (९।२)

śyāmākulatthikāmūladantīpalalasaktubhiḥ ||

10.1१०.१

पक्वे तु दुष्टमांसानि गतीः सर्वाश्च शोधयेत् । (१०।१)

pakve tu duṣṭamāṃsāni gatīḥ sarvāśca śodhayet |

10.2१०.२

शस्त्रेण सम्यग् अनु च क्षारेण ज्वलनेन वा ॥ (१०।२)

śastreṇa samyag anu ca kṣāreṇa jvalanena vā ||

11.1११.१

शस्त्रेणोत्कृत्य निःशेषं स्नेहेन कदरं दहेत् । (११।१)

śastreṇotkṛtya niḥśeṣaṃ snehena kadaraṃ dahet |

11.2११.२

निरुद्धमणिवत् कार्यं रुद्धपायोश्चिकित्सितम् ॥ (११।२)

niruddhamaṇivat kāryaṃ ruddhapāyościkitsitam ||

12.1१२.१

चिप्यं शुद्ध्या जितोष्माणं साधयेच्छस्त्रकर्मणा । (१२।१)

cipyaṃ śuddhyā jitoṣmāṇaṃ sādhayecchastrakarmaṇā |

12.2१२.२

दुष्टं कुनखम् अप्येवं चरणावलसे पुनः ॥ (१२।२)

duṣṭaṃ kunakham apyevaṃ caraṇāvalase punaḥ ||

13.1१३.१

धान्याम्लसिक्तौ कासीसपटोलीरोचनातिलैः । (१३।१)

dhānyāmlasiktau kāsīsapaṭolīrocanātilaiḥ |

13.2१३.२

सनिम्बपत्त्रैरालिम्पेद् दहेत् तु तिलकालकान् ॥ (१३।२)

sanimbapattrairālimped dahet tu tilakālakān ||

14.1१४.१

मषांश्च सूर्यकान्तेन क्षारेण यदि वाग्निना । (१४।१)

maṣāṃśca sūryakāntena kṣāreṇa yadi vāgninā |

14.2१४.२

तद्वद् उत्कृत्य शस्त्रेण चर्मकीलजतूमणी ॥ (१४।२)

tadvad utkṛtya śastreṇa carmakīlajatūmaṇī ||

15.1१५.१

लाञ्छनादित्रये कुर्याद् यथासन्नं सिराव्यधम् । (१५।१)

lāñchanāditraye kuryād yathāsannaṃ sirāvyadham |

15.2१५.२

लेपयेत् क्षीरपिष्टैश्च क्षीरिवृक्षत्वगङ्कुरैः ॥ (१५।२)

lepayet kṣīrapiṣṭaiśca kṣīrivṛkṣatvagaṅkuraiḥ ||

16.1१६.१

व्यङ्गेषु चार्जुनत्वग् वा मञ्जिष्ठा वा समाक्षिका । (१६।१)

vyaṅgeṣu cārjunatvag vā mañjiṣṭhā vā samākṣikā |

16.2१६.२

लेपः सनवनीता वा श्वेताश्वखुरजा मषी ॥ (१६।२)

lepaḥ sanavanītā vā śvetāśvakhurajā maṣī ||

17.1१७.१

रक्तचन्दनमञ्जिष्ठाकुष्ठलोध्रप्रियङ्गवः । (१७।१)

raktacandanamañjiṣṭhākuṣṭhalodhrapriyaṅgavaḥ |

17.2१७.२

वटाङ्कुरा मसूराश्च व्यङ्गघ्ना मुखकान्तिदाः ॥ (१७।२)

vaṭāṅkurā masūrāśca vyaṅgaghnā mukhakāntidāḥ ||

18.1१८.१

द्वे जीरके कृष्णतिलाः सर्षपाः पयसा सह । (१८।१)

dve jīrake kṛṣṇatilāḥ sarṣapāḥ payasā saha |

18.2१८.२

पिष्टाः कुर्वन्ति वक्त्रेन्दुम् अपास्तव्यङ्गलाञ्छनम् ॥ (१८।२)

piṣṭāḥ kurvanti vaktrendum apāstavyaṅgalāñchanam ||

19.1१९.१

क्षीरपिष्टा घृतक्षौद्रयुक्ता वा भृष्टनिस्तुषाः । (१९।१)

kṣīrapiṣṭā ghṛtakṣaudrayuktā vā bhṛṣṭanistuṣāḥ |

19.2१९.२

मसूराः क्षीरपिष्टा वा तीक्ष्णाः शाल्मलिकण्टकाः ॥ (१९।२)

masūrāḥ kṣīrapiṣṭā vā tīkṣṇāḥ śālmalikaṇṭakāḥ ||

20.1२०.१

सगुडः कोलमज्जा वा शशासृक्क्षौद्रकल्कितः । (२०।१)

saguḍaḥ kolamajjā vā śaśāsṛkkṣaudrakalkitaḥ |

20.2२०.२

सप्ताहं मातुलुङ्गस्थं कुष्ठं वा मधुनान्वितम् ॥ (२०।२)

saptāhaṃ mātuluṅgasthaṃ kuṣṭhaṃ vā madhunānvitam ||

21.1२१.१

पिष्टा वा छागपयसा सक्षौद्रा मौसली जटा । (२१।१)

piṣṭā vā chāgapayasā sakṣaudrā mausalī jaṭā |

21.2२१.२

गोरस्थि मुसलीमूलयुक्तं वा साज्यमाक्षिकम् ॥ (२१।२)

gorasthi musalīmūlayuktaṃ vā sājyamākṣikam ||

22.1२२.१

जम्ब्वाम्रपल्लवा मस्तु हरिद्रे द्वे नवो गुडः । (२२।१)

jambvāmrapallavā mastu haridre dve navo guḍaḥ |

22.2२२.२

लेपः सवर्णकृत् पिष्टं स्वरसेन च तिन्दुकम् ॥ (२२।२)

lepaḥ savarṇakṛt piṣṭaṃ svarasena ca tindukam ||

23.1२३.१

उत्पलम् उत्पलकुष्ठं प्रियङ्गुकालीयकं बदरमज्जा । (२३।१)

utpalam utpalakuṣṭhaṃ priyaṅgukālīyakaṃ badaramajjā |

23.2२३.२

इदम् उद्वर्तनम् आस्यं करोति शतपत्त्रसंकाशम् ॥ (२३।२)

idam udvartanam āsyaṃ karoti śatapattrasaṃkāśam ||

24.1२४.१

एभिरेवौषधैः पिष्टैर् मुखाभ्यङ्गाय साधयेत् । (२४।१)

ebhirevauṣadhaiḥ piṣṭair mukhābhyaṅgāya sādhayet |

24.2२४.२

यथादोषर्तुकान् स्नेहान् मधुकक्वाथसंयुतैः ॥ (२४।२)

yathādoṣartukān snehān madhukakvāthasaṃyutaiḥ ||

25.1२५.१

यवान् सर्जरसं लोध्रम् उशीरं मदनं मधु । (२५।१)

yavān sarjarasaṃ lodhram uśīraṃ madanaṃ madhu |

25.2२५.२

घृतं गुडं च गोमूत्रे पचेद् आ दर्विलेपनात् ॥ (२५।२)

ghṛtaṃ guḍaṃ ca gomūtre paced ā darvilepanāt ||

26.1२६.१

तद् अभ्यङ्गान् निहन्त्याशु नीलिकाव्यङ्गदूषिकान् । (२६।१)

tad abhyaṅgān nihantyāśu nīlikāvyaṅgadūṣikān |

26.2२६.२

मुखं करोति पद्माभं पादौ पद्मदलोपमौ ॥ (२६।२)

mukhaṃ karoti padmābhaṃ pādau padmadalopamau ||

27.1२७.१

कुङ्कुमोशीरकालीयलाक्षायष्ट्याह्वचन्दनम् । (२७।१)

kuṅkumośīrakālīyalākṣāyaṣṭyāhvacandanam |

27.2२७.२

न्यग्रोधपादांस्तरुणान् पद्मकं पद्मकेसरम् ॥ (२७।२)

nyagrodhapādāṃstaruṇān padmakaṃ padmakesaram ||

28.1२८.१

सनीलोत्पलमञ्जिष्ठं पालिकं सलिलाढके । (२८।१)

sanīlotpalamañjiṣṭhaṃ pālikaṃ salilāḍhake |

28.2२८.२

पक्त्वा पादावशेषेण तेन पिष्टैश्च कार्षिकैः ॥ (२८।२)

paktvā pādāvaśeṣeṇa tena piṣṭaiśca kārṣikaiḥ ||

29.1२९.१

लाक्षापत्तङ्गमञ्जिष्ठायष्टीमधुककुङ्कुमैः । (२९।१)

lākṣāpattaṅgamañjiṣṭhāyaṣṭīmadhukakuṅkumaiḥ |

29.2२९.२

अजाक्षीरं द्विगुणितं तैलस्य कुडवं पचेत् ॥ (२९।२)

ajākṣīraṃ dviguṇitaṃ tailasya kuḍavaṃ pacet ||

30.1३०.१

नीलिकापलितव्यङ्गवलीतिलकदूषिकान् । (३०।१)

nīlikāpalitavyaṅgavalītilakadūṣikān |

30.2३०.२

हन्ति तन् नस्यम् अभ्यस्तं मुखोपचयवर्णकृत् ॥ (३०।२)

hanti tan nasyam abhyastaṃ mukhopacayavarṇakṛt ||

31.1३१.१

मञ्जिष्ठा शबरोद्भवस्तुबरिका लाक्षा हरिद्राद्वयं नेपाली हरितालकुङ्कुमगदा गोरोचना गैरिकम् । (३१।१)

mañjiṣṭhā śabarodbhavastubarikā lākṣā haridrādvayaṃ nepālī haritālakuṅkumagadā gorocanā gairikam |

31.2३१.२

पत्त्रं पाण्डु वटस्य चन्दनयुगं कालीयकं पारदं पत्तङ्गं कनकत्वचं कमलजं बीजं तथा केसरम् ॥ (३१।२)

pattraṃ pāṇḍu vaṭasya candanayugaṃ kālīyakaṃ pāradaṃ pattaṅgaṃ kanakatvacaṃ kamalajaṃ bījaṃ tathā kesaram ||

32.1३२.१

सिक्थं तुत्थं पद्मकाद्यो वसाज्यं मज्जा क्षीरं क्षीरिवृक्षाम्बु चाग्नौ । (३२।१)

sikthaṃ tutthaṃ padmakādyo vasājyaṃ majjā kṣīraṃ kṣīrivṛkṣāmbu cāgnau |

32.2३२.२

सिद्धं सिद्धं व्यङ्गनील्यादिनाशे वक्त्रे छायाम् ऐन्दवीं चाशु धत्ते ॥ (३२।२)

siddhaṃ siddhaṃ vyaṅganīlyādināśe vaktre chāyām aindavīṃ cāśu dhatte ||

33.1३३.१

मार्कवस्वरसक्षीरतोयानीष्टानि नावने । (३३।१)

mārkavasvarasakṣīratoyānīṣṭāni nāvane |

33.2३३.२

प्रसुप्तौ वातकुष्ठोक्तं कुर्याद् दाहं च वह्निना । (३३।२)

prasuptau vātakuṣṭhoktaṃ kuryād dāhaṃ ca vahninā |

33.3३३.३

उत्कोठे कफपित्तोक्तं कोठे सर्वं च कौष्ठिकम् ॥ (३३।३)

utkoṭhe kaphapittoktaṃ koṭhe sarvaṃ ca kauṣṭhikam ||

Data courtesy of The Digital Corpus of Sanskrit.

AHS, 6, 32

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit