अष्टाङ्गहृदयसंहिताAṣṭāṅgahṛdayasaṃhitā

AHS, 6, 24

104 of 120 · 120 verses

Select a line for its word-by-word analysis.

1.1१.१

अथातः शिरोरोगप्रतिषेधं व्याख्यास्यामः । (१।१)

athātaḥ śirorogapratiṣedhaṃ vyākhyāsyāmaḥ |

1.2१.२

इति ह स्माहुरात्रेयादयो महर्षयः । (१।२)

iti ha smāhurātreyādayo maharṣayaḥ |

1.3१.३

शिरोऽभितापे ऽनिलजे वातव्याधिविधिं चरेत् । (१।३)

śiro'bhitāpe 'nilaje vātavyādhividhiṃ caret |

1.4१.४

घृतम् अक्तशिरा रात्रौ पिबेद् उष्णपयोऽनुपः ॥ (१।४)

ghṛtam aktaśirā rātrau pibed uṣṇapayo'nupaḥ ||

2.1२.१

माषान् कुलत्थान् मुद्गान् वा तद्वत् खादेद् घृतान्वितान् । (२।१)

māṣān kulatthān mudgān vā tadvat khāded ghṛtānvitān |

2.2२.२

तैलं तिलानां कल्कं वा क्षीरेण सह पाययेत् ॥ (२।२)

tailaṃ tilānāṃ kalkaṃ vā kṣīreṇa saha pāyayet ||

3.1३.१

पिण्डोपनाहस्वेदाश्च मांसधान्यकृता हिताः । (३।१)

piṇḍopanāhasvedāśca māṃsadhānyakṛtā hitāḥ |

3.2३.२

वातघ्नदशमूलादिसिद्धक्षीरेण सेचनम् ॥ (३।२)

vātaghnadaśamūlādisiddhakṣīreṇa secanam ||

4.1४.१

स्निग्धं नस्यं तथा धूमः शिरःश्रवणतर्पणम् । (४।१)

snigdhaṃ nasyaṃ tathā dhūmaḥ śiraḥśravaṇatarpaṇam |

4.2४.२

वरणादौ गणे क्षुण्णे क्षीरम् अर्धोदकं पचेत् ॥ (४।२)

varaṇādau gaṇe kṣuṇṇe kṣīram ardhodakaṃ pacet ||

5.1५.१

क्षीरावशिष्टं तच्छीतं मथित्वा सारम् आहरेत् । (५।१)

kṣīrāvaśiṣṭaṃ tacchītaṃ mathitvā sāram āharet |

5.2५.२

ततो मधुरकैः सिद्धं नस्यं तत् पूजितं हविः ॥ (५।२)

tato madhurakaiḥ siddhaṃ nasyaṃ tat pūjitaṃ haviḥ ||

6.1६.१

वर्गे ऽत्र पक्वं क्षीरे च पेयं सर्पिः सशर्करम् । (६।१)

varge 'tra pakvaṃ kṣīre ca peyaṃ sarpiḥ saśarkaram |

6.2६.२

कार्पासमज्जा त्वङ् मुस्ता सुमनःकोरकाणि च ॥ (६।२)

kārpāsamajjā tvaṅ mustā sumanaḥkorakāṇi ca ||

7.1७.१

नस्यम् उष्णाम्बुपिष्टानि सर्वमूर्धरुजापहम् । (७।१)

nasyam uṣṇāmbupiṣṭāni sarvamūrdharujāpaham |

7.2७.२

शर्कराकुङ्कुमशृतं घृतं पित्तासृगन्वये ॥ (७।२)

śarkarākuṅkumaśṛtaṃ ghṛtaṃ pittāsṛganvaye ||

8.1८.१

प्रलेपैः सघृतैः कुष्ठकुटिलोत्पलचन्दनैः । (८।१)

pralepaiḥ saghṛtaiḥ kuṣṭhakuṭilotpalacandanaiḥ |

8.2८.२

वातोद्रेकभयाद् रक्तं न चास्मिन्न् अवसेचयेत् ॥ (८।२)

vātodrekabhayād raktaṃ na cāsminn avasecayet ||

9.1९.१

इत्यशान्तौ चले दाहः कफे चेष्टो यथोदितः । (९।१)

ityaśāntau cale dāhaḥ kaphe ceṣṭo yathoditaḥ |

9.2९.२

अर्धावभेदके ऽप्येषा तथा दोषान्वयात् क्रिया ॥ (९।२)

ardhāvabhedake 'pyeṣā tathā doṣānvayāt kriyā ||

10.1१०.१

शिरीषबीजापामार्गमूलं नस्यं विडान्वितम् । (१०।१)

śirīṣabījāpāmārgamūlaṃ nasyaṃ viḍānvitam |

10.2१०.२

स्थिरारसो वा लेपे तु प्रपुन्नाटो ऽम्लकल्कितः ॥ (१०।२)

sthirāraso vā lepe tu prapunnāṭo 'mlakalkitaḥ ||

11.1११.१

सूर्यावर्ते ऽपि तस्मिंस्तु सिरयापहरेद् असृक् । (११।१)

sūryāvarte 'pi tasmiṃstu sirayāpahared asṛk |

11.2११.२

शिरोऽभितापे पित्तोत्थे स्निग्धस्य व्यधयेत् सिराम् ॥ (११।२)

śiro'bhitāpe pittotthe snigdhasya vyadhayet sirām ||

12.1१२.१

शीताः शिरोमुखालेपसेकशोधनवस्तयः । (१२।१)

śītāḥ śiromukhālepasekaśodhanavastayaḥ |

12.2१२.२

जीवनीयशृते क्षीरसर्पिषी पाननस्ययोः ॥ (१२।२)

jīvanīyaśṛte kṣīrasarpiṣī pānanasyayoḥ ||

13.1१३.१

कर्तव्यं रक्तजे ऽप्येतत् प्रत्याख्याय च शङ्खके । (१३।१)

kartavyaṃ raktaje 'pyetat pratyākhyāya ca śaṅkhake |

13.2१३.२

श्लेष्माभितापे जीर्णाज्यस्नेहितैः कटुकैर् वमेत् ॥ (१३।२)

śleṣmābhitāpe jīrṇājyasnehitaiḥ kaṭukair vamet ||

14.1१४.१

स्वेदप्रलेपनस्याद्या रूक्षतीक्ष्णोष्णभेषजैः । (१४।१)

svedapralepanasyādyā rūkṣatīkṣṇoṣṇabheṣajaiḥ |

14.2१४.२

शस्यन्ते चोपवासो ऽत्र निचये मिश्रम् आचरेत् ॥ (१४।२)

śasyante copavāso 'tra nicaye miśram ācaret ||

15.1१५.१

कृमिजे शोणितं नस्यं तेन मूर्छन्ति जन्तवः । (१५।१)

kṛmije śoṇitaṃ nasyaṃ tena mūrchanti jantavaḥ |

15.2१५.२

मत्ताः शोणितगन्धेन निर्यान्ति घ्राणवक्त्रयोः ॥ (१५।२)

mattāḥ śoṇitagandhena niryānti ghrāṇavaktrayoḥ ||

16.1१६.१

सुतीक्ष्णनस्यधूमाभ्यां कुर्यान् निर्हरणं ततः । (१६।१)

sutīkṣṇanasyadhūmābhyāṃ kuryān nirharaṇaṃ tataḥ |

16.2१६.२

विडङ्गस्वर्जिकादन्तीहिङ्गुगोमूत्रसाधितम् ॥ (१६।२)

viḍaṅgasvarjikādantīhiṅgugomūtrasādhitam ||

17.1१७.१

कटुनिम्बेङ्गुदीपीलुतैलं नस्यं पृथक् पृथक् । (१७।१)

kaṭunimbeṅgudīpīlutailaṃ nasyaṃ pṛthak pṛthak |

17.2१७.२

अजामूत्रद्रुतं नस्यं कृमिजित् कृमिजित् परम् ॥ (१७।२)

ajāmūtradrutaṃ nasyaṃ kṛmijit kṛmijit param ||

18.1१८.१

पूतिमत्स्ययुतैः कुर्याद्धूमं नावनभेषजैः । (१८।१)

pūtimatsyayutaiḥ kuryāddhūmaṃ nāvanabheṣajaiḥ |

18.2१८.२

कृमिभिः पीतरक्तत्वाद् रक्तम् अत्र न निर्हरेत् ॥ (१८।२)

kṛmibhiḥ pītaraktatvād raktam atra na nirharet ||

19.1१९.१

वाताभितापविहितः कम्पे दाहाद् विना क्रमः । (१९।१)

vātābhitāpavihitaḥ kampe dāhād vinā kramaḥ |

19.2१९.२

नवे जन्मोत्तरं जाते योजयेद् उपशीर्षके ॥ (१९।२)

nave janmottaraṃ jāte yojayed upaśīrṣake ||

20.1२०.१

वातव्याधिक्रियां पक्वे कर्म विद्रधिचोदितम् । (२०।१)

vātavyādhikriyāṃ pakve karma vidradhicoditam |

20.2२०.२

आमपक्वे यथायोग्यं विद्रधिपिटिकार्बुदे ॥ (२०।२)

āmapakve yathāyogyaṃ vidradhipiṭikārbude ||

21.1२१.१

अरूंषिका जलौकोभिर् हृतास्रा निम्बवारिणा । (२१।१)

arūṃṣikā jalaukobhir hṛtāsrā nimbavāriṇā |

21.2२१.२

सिक्ता प्रभूतलवणैर् लिम्पेद् अश्वशकृद्रसैः ॥ (२१।२)

siktā prabhūtalavaṇair limped aśvaśakṛdrasaiḥ ||

22.1२२.१

पटोलनिम्बपत्त्रैर् वा सहरिद्रैः सुकल्कितैः । (२२।१)

paṭolanimbapattrair vā saharidraiḥ sukalkitaiḥ |

22.2२२.२

गोमूत्रजीर्णपिण्याककृकवाकुमलैरपि ॥ (२२।२)

gomūtrajīrṇapiṇyākakṛkavākumalairapi ||

23.1२३.१

कपालभृष्टं कुष्ठं वा चूर्णितं तैलसंयुतम् । (२३।१)

kapālabhṛṣṭaṃ kuṣṭhaṃ vā cūrṇitaṃ tailasaṃyutam |

23.2२३.२

रूंषिकालेपनं कण्डूक्लेददाहार्तिनाशनम् ॥ (२३।२)

rūṃṣikālepanaṃ kaṇḍūkledadāhārtināśanam ||

24.1२४.१

मालतीचित्रकाश्वघ्ननक्तमालप्रसाधितम् । (२४।१)

mālatīcitrakāśvaghnanaktamālaprasādhitam |

24.2२४.२

चाचारूंषिकयोस्तैलम् अभ्यङ्गः क्षुरघृष्टयोः ॥ (२४।२)

cācārūṃṣikayostailam abhyaṅgaḥ kṣuraghṛṣṭayoḥ ||

25.1२५.१

अशान्तौ शिरसः शुद्ध्यै यतेत वमनादिभिः । (२५।१)

aśāntau śirasaḥ śuddhyai yateta vamanādibhiḥ |

25.2२५.२

विध्येत् सिरां दारुणके लालाट्यां शीलयेन् मृजाम् ॥ (२५।२)

vidhyet sirāṃ dāruṇake lālāṭyāṃ śīlayen mṛjām ||

26.1२६.१

नावनं मूर्धवस्तिं च लेपयेच्च समाक्षिकैः । (२६।१)

nāvanaṃ mūrdhavastiṃ ca lepayecca samākṣikaiḥ |

26.2२६.२

प्रियालबीजमधुककुष्ठमाषैः ससर्षपैः ॥ (२६।२)

priyālabījamadhukakuṣṭhamāṣaiḥ sasarṣapaiḥ ||

27.1२७.१

लाक्षाशम्याकपत्त्रैडगजधात्रीफलैस्तथा । (२७।१)

lākṣāśamyākapattraiḍagajadhātrīphalaistathā |

27.2२७.२

कोरदूषतृणक्षारवारिप्रक्षालनं हितम् ॥ (२७।२)

koradūṣatṛṇakṣāravāriprakṣālanaṃ hitam ||

28.1२८.१

इन्द्रलुप्ते यथासन्नं सिरां विद्ध्वा प्रलेपयेत् । (२८।१)

indralupte yathāsannaṃ sirāṃ viddhvā pralepayet |

28.2२८.२

प्रच्छाय गाढं कासीसमनोह्वातुत्थकोषणैः ॥ (२८।२)

pracchāya gāḍhaṃ kāsīsamanohvātutthakoṣaṇaiḥ ||

29.1२९.१

वन्यामरतरुभ्यां वा गुञ्जामूलफलैस्तथा । (२९।१)

vanyāmaratarubhyāṃ vā guñjāmūlaphalaistathā |

29.2२९.२

तथा लाङ्गलिकामूलैः करवीररसेन वा ॥ (२९।२)

tathā lāṅgalikāmūlaiḥ karavīrarasena vā ||

30.1३०.१

सक्षौद्रक्षुद्रवार्ताकस्वरसेन रसेन वा । (३०।१)

sakṣaudrakṣudravārtākasvarasena rasena vā |

30.2३०.२

धत्तूरकस्य पत्त्राणां भल्लातकरसेन वा ॥ (३०।२)

dhattūrakasya pattrāṇāṃ bhallātakarasena vā ||

31.1३१.१

अथवा माक्षिकहविस्तिलपुष्पत्रिकण्टकैः । (३१।१)

athavā mākṣikahavistilapuṣpatrikaṇṭakaiḥ |

31.2३१.२

तैलाक्ता हस्तिदन्तस्य मषी चाचौषधं परम् ॥ (३१।२)

tailāktā hastidantasya maṣī cācauṣadhaṃ param ||

32.1३२.१

शुक्लरोमोद्गमे तद्वन् मषी मेषविषाणजा । (३२।१)

śuklaromodgame tadvan maṣī meṣaviṣāṇajā |

32.2३२.२

वर्जयेद् वारिणा सेकं यावद् रोमसमुद्भवः ॥ (३२।२)

varjayed vāriṇā sekaṃ yāvad romasamudbhavaḥ ||

33.1३३.१

खलतौ पलिते वल्यां हरिद्रोम्नि च शोधितम् । (३३।१)

khalatau palite valyāṃ haridromni ca śodhitam |

33.2३३.२

नस्यवक्त्रशिरोऽभ्यङ्गप्रदेहैः समुपाचरेत् ॥ (३३।२)

nasyavaktraśiro'bhyaṅgapradehaiḥ samupācaret ||

34.1३४.१

सिद्धं तैलं बृहत्याद्यैर् जीवनीयैश्च नावनम् । (३४।१)

siddhaṃ tailaṃ bṛhatyādyair jīvanīyaiśca nāvanam |

34.2३४.२

मासं वा निम्बजं तैलं क्षीरभुङ्नावयेद् यतिः ॥ (३४।२)

māsaṃ vā nimbajaṃ tailaṃ kṣīrabhuṅnāvayed yatiḥ ||

35.1३५.१

नीलीशिरीषकोरण्टभृङ्गस्वरसभावितम् । (३५।१)

nīlīśirīṣakoraṇṭabhṛṅgasvarasabhāvitam |

35.2३५.२

शेल्वक्षतिलरामाणां बीजं काकाण्डकीसमम् ॥ (३५।२)

śelvakṣatilarāmāṇāṃ bījaṃ kākāṇḍakīsamam ||

36.1३६.१

पिष्ट्वाजपयसा लोहाल्लिप्ताद् अर्कांशुतापितात् । (३६।१)

piṣṭvājapayasā lohālliptād arkāṃśutāpitāt |

36.2३६.२

तैलं स्रुतं क्षीरभुजो नावनात् पलितान्तकृत् ॥ (३६।२)

tailaṃ srutaṃ kṣīrabhujo nāvanāt palitāntakṛt ||

37.1३७.१

क्षीरात् साहचराद् भृङ्गरजसः सौरसाद् रसात् । (३७।१)

kṣīrāt sāhacarād bhṛṅgarajasaḥ saurasād rasāt |

37.2३७.२

प्रस्थैस्तैलस्य कुडवः सिद्धो यष्टीपलान्वितः ॥ (३७।२)

prasthaistailasya kuḍavaḥ siddho yaṣṭīpalānvitaḥ ||

38.1३८.१

नस्यं शैलासने भाण्डे शृङ्गे मेषस्य वा स्थितः । (३८।१)

nasyaṃ śailāsane bhāṇḍe śṛṅge meṣasya vā sthitaḥ |

38.2३८.२

क्षीरेण श्लक्ष्णपिष्टौ वा दुग्धिकाकरवीरकौ ॥ (३८।२)

kṣīreṇa ślakṣṇapiṣṭau vā dugdhikākaravīrakau ||

39.1३९.१

उत्पाट्य पलितं देयावाशये पलितापहौ । (३९।१)

utpāṭya palitaṃ deyāvāśaye palitāpahau |

39.2३९.२

क्षीरं प्रियालं यष्ट्याह्वं जीवनीयो गणस्तिलाः ॥ (३९।२)

kṣīraṃ priyālaṃ yaṣṭyāhvaṃ jīvanīyo gaṇastilāḥ ||

40.1४०.१

कृष्णाः प्रलेपो वक्त्रस्य हरिद्रोमवलीहितः । (४०।१)

kṛṣṇāḥ pralepo vaktrasya haridromavalīhitaḥ |

40.2४०.२

तिलाः सामलकाः पद्मकिञ्जल्को मधुकं मधु ॥ (४०।२)

tilāḥ sāmalakāḥ padmakiñjalko madhukaṃ madhu ||

41.1४१.१

बृंहयेद् रञ्जयेच्चैतत् केशान् मूर्धप्रलेपनात् । (४१।१)

bṛṃhayed rañjayeccaitat keśān mūrdhapralepanāt |

41.2४१.२

मांसी कुष्ठं तिलाः कृष्णाः शारिवा नीलम् उत्पलम् ॥ (४१।२)

māṃsī kuṣṭhaṃ tilāḥ kṛṣṇāḥ śārivā nīlam utpalam ||

42.1४२.१

क्षौद्रं च क्षीरपिष्टानि केशसंवर्धनम् परम् । (४२।१)

kṣaudraṃ ca kṣīrapiṣṭāni keśasaṃvardhanam param |

42.2४२.२

अयोरजो भृङ्गरजस्त्रिफला कृष्णमृत्तिका ॥ (४२।२)

ayorajo bhṛṅgarajastriphalā kṛṣṇamṛttikā ||

43.1४३.१

स्थितम् इक्षुरसे मासं समूलं पलितं रजेत् । (४३।१)

sthitam ikṣurase māsaṃ samūlaṃ palitaṃ rajet |

43.2४३.२

माषकोद्रवधान्याम्लैर् यवागूंस्त्रिदिनोषिता ॥ (४३।२)

māṣakodravadhānyāmlair yavāgūṃstridinoṣitā ||

44.1४४.१

लोहशुक्लोत्कटा पिष्टा बलाकाम् अपि रञ्जयेत् । (४४।१)

lohaśuklotkaṭā piṣṭā balākām api rañjayet |

44.2४४.२

प्रपौण्डरीकमधुकपिप्पलीचन्दनोत्पलैः ॥ (४४।२)

prapauṇḍarīkamadhukapippalīcandanotpalaiḥ ||

45.1४५.१

सिद्धं धात्रीरसे तैलं नस्येनाभ्यञ्जनेन च । (४५।१)

siddhaṃ dhātrīrase tailaṃ nasyenābhyañjanena ca |

45.2४५.२

सर्वान् मूर्धगदान् हन्ति पलितानि च शीलितम् ॥ (४५।२)

sarvān mūrdhagadān hanti palitāni ca śīlitam ||

46.1४६.१

वरीजीवन्तिनिर्यासपयोभिर् यमकं पचेत् । (४६।१)

varījīvantiniryāsapayobhir yamakaṃ pacet |

46.2४६.२

जीवनीयैश्च तन् नस्यं सर्वजत्रूर्ध्वरोगजित् ॥ (४६।२)

jīvanīyaiśca tan nasyaṃ sarvajatrūrdhvarogajit ||

47.1४७.१

मयूरं पक्षपित्तान्त्रपादविट्तुण्डवर्जितम् । (४७।१)

mayūraṃ pakṣapittāntrapādaviṭtuṇḍavarjitam |

47.2४७.२

दशमूलबलारास्नामधुकैस्त्रिपलैर् युतम् ॥ (४७।२)

daśamūlabalārāsnāmadhukaistripalair yutam ||

48.1४८.१

जले पक्त्वा घृतप्रस्थं तस्मिन् क्षीरसमं पचेत् । (४८।१)

jale paktvā ghṛtaprasthaṃ tasmin kṣīrasamaṃ pacet |

48.2४८.२

कल्कितैर् मधुरद्रव्यैः सर्वजत्रूर्ध्वरोगजित् ॥ (४८।२)

kalkitair madhuradravyaiḥ sarvajatrūrdhvarogajit ||

49.1४९.१

तद् अभ्यासीकृतं पानवस्त्यभ्यञ्जननावनैः । (४९।१)

tad abhyāsīkṛtaṃ pānavastyabhyañjananāvanaiḥ |

49.2४९.२

एतेनैव कषायेण घृतप्रस्थं विपाचयेत् ॥ (४९।२)

etenaiva kaṣāyeṇa ghṛtaprasthaṃ vipācayet ||

50.1५०.१

चतुर्गुणेन पयसा कल्कैरेभिश्च कार्षिकैः । (५०।१)

caturguṇena payasā kalkairebhiśca kārṣikaiḥ |

50.2५०.२

जीवन्तीत्रिफलामेदामृद्वीकर्द्धिपरूषकैः ॥ (५०।२)

jīvantītriphalāmedāmṛdvīkarddhiparūṣakaiḥ ||

51.1५१.१

समङ्गाचविकाभार्गीकाश्मरीकर्कटाह्वयैः । (५१।१)

samaṅgācavikābhārgīkāśmarīkarkaṭāhvayaiḥ |

51.2५१.२

आत्मगुप्तामहामेदातालखर्जूरमस्तकैः ॥ (५१।२)

ātmaguptāmahāmedātālakharjūramastakaiḥ ||

52.1५२.१

मृणालबिसखर्जूरयष्टीमधुकजीवकैः । (५२।१)

mṛṇālabisakharjūrayaṣṭīmadhukajīvakaiḥ |

52.2५२.२

शतावरीविदारीक्षुबृहतीशारिवायुगैः ॥ (५२।२)

śatāvarīvidārīkṣubṛhatīśārivāyugaiḥ ||

53.1५३.१

मूर्वाश्वदंष्ट्रर्षभकशृङ्गाटककसेरुकैः । (५३।१)

mūrvāśvadaṃṣṭrarṣabhakaśṛṅgāṭakakaserukaiḥ |

53.2५३.२

रास्नास्थिरातामलकीसूक्ष्मैलाशठिपौष्करैः ॥ (५३।२)

rāsnāsthirātāmalakīsūkṣmailāśaṭhipauṣkaraiḥ ||

54.1५४.१

पुनर्नवातवक्षीरीकाकोलीधन्वयासकैः । (५४।१)

punarnavātavakṣīrīkākolīdhanvayāsakaiḥ |

54.2५४.२

मधूकाक्षोटवाताममुञ्जाताभिषुकैरपि ॥ (५४।२)

madhūkākṣoṭavātāmamuñjātābhiṣukairapi ||

55.1५५.१

महामायूरम् इत्येतन् मायूराद् अधिकं गुणैः । (५५।१)

mahāmāyūram ityetan māyūrād adhikaṃ guṇaiḥ |

55.2५५.२

धात्विन्द्रियस्वरभ्रंशश्वासकासार्दितापहम् ॥ (५५।२)

dhātvindriyasvarabhraṃśaśvāsakāsārditāpaham ||

56.1५६.१

योन्यसृक्शुक्रदोषेषु शस्तं वन्ध्यासुतप्रदम् । (५६।१)

yonyasṛkśukradoṣeṣu śastaṃ vandhyāsutapradam |

56.2५६.२

आखुभिः कुक्कुटैर् हंसैः शशैश्चेति प्रकल्पयेत् ॥ (५६।२)

ākhubhiḥ kukkuṭair haṃsaiḥ śaśaiśceti prakalpayet ||

57.1५७.१

जत्रूर्ध्वजानां व्याधीनाम् एकत्रिंशच्छतद्वयम् । (५७।१)

jatrūrdhvajānāṃ vyādhīnām ekatriṃśacchatadvayam |

57.2५७.२

परस्परम् असंकीर्णं विस्तरेण प्रकाशितम् ॥ (५७।२)

parasparam asaṃkīrṇaṃ vistareṇa prakāśitam ||

58.1५८.१

ऊर्ध्वमूलम् अधःशाखम् ऋषयः पुरुषं विदुः । (५८।१)

ūrdhvamūlam adhaḥśākham ṛṣayaḥ puruṣaṃ viduḥ |

58.2५८.२

मूलप्रहारिणस्तस्माद् रोगाञ्छीघ्रतरं जयेत् ॥ (५८।२)

mūlaprahāriṇastasmād rogāñchīghrataraṃ jayet ||

59.1५९.१

सर्वेन्द्रियाणि येनास्मिन् प्राणा येन च संश्रिताः । (५९।१)

sarvendriyāṇi yenāsmin prāṇā yena ca saṃśritāḥ |

59.2५९.२

तेन तस्योत्तमाङ्गस्य रक्षायाम् आदृतो भवेत् ॥ (५९।२)

tena tasyottamāṅgasya rakṣāyām ādṛto bhavet ||

Data courtesy of The Digital Corpus of Sanskrit.

AHS, 6, 24

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit