अष्टाङ्गहृदयसंहिताAṣṭāṅgahṛdayasaṃhitā
AHS, 6, 2
Select a line for its word-by-word analysis.
स्वास्थ्यं ताभ्याम् अदुष्टाभ्यां दुष्टाभ्यां रोगसंभवः ॥ (१।४)
svāsthyaṃ tābhyām aduṣṭābhyāṃ duṣṭābhyāṃ rogasaṃbhavaḥ ||
यद् अद्भिरेकतां याति न च दोषैरधिष्ठितम् । (२।१)
yad adbhirekatāṃ yāti na ca doṣairadhiṣṭhitam |
तद् विशुद्धं पयो वाताद् दुष्टं तु प्लवते ऽम्भसि ॥ (२।२)
tad viśuddhaṃ payo vātād duṣṭaṃ tu plavate 'mbhasi ||
कषायं फेनिलं रूक्षं वर्चोमूत्रविबन्धकृत् । (३।१)
kaṣāyaṃ phenilaṃ rūkṣaṃ varcomūtravibandhakṛt |
पित्ताद् उष्णाम्लकटुकं पीतराज्यप्सु दाहकृत् ॥ (३।२)
pittād uṣṇāmlakaṭukaṃ pītarājyapsu dāhakṛt ||
कफात् सलवणं सान्द्रं जले मज्जति पिच्छिलम् । (४।१)
kaphāt salavaṇaṃ sāndraṃ jale majjati picchilam |
संसृष्टलिङ्गं संसर्गात् त्रिलिङ्गं सांनिपातिकम् ॥ (४।२)
saṃsṛṣṭaliṅgaṃ saṃsargāt triliṅgaṃ sāṃnipātikam ||
यथास्वलिङ्गांस्तद् व्याधीन् जनयत्युपयोजितम् । (५।१)
yathāsvaliṅgāṃstad vyādhīn janayatyupayojitam |
शिशोस् तीक्ष्णम् अभीक्ष्णं च रोदनाल्लक्षयेद् रुजम् ॥ (५।२)
śiśos tīkṣṇam abhīkṣṇaṃ ca rodanāllakṣayed rujam ||
स यं स्पृशेद् भृशं देशं यत्र च स्पर्शनाक्षमः । (६।१)
sa yaṃ spṛśed bhṛśaṃ deśaṃ yatra ca sparśanākṣamaḥ |
तत्र विद्याद् रुजं मूर्ध्नि रुजं चाक्षिनिमीलनात् ॥ (६।२)
tatra vidyād rujaṃ mūrdhni rujaṃ cākṣinimīlanāt ||
वस्तौ गुह्ये च विण्मूत्रसङ्गोत्त्रासदिगीक्षणैः ॥ (८।२)
vastau guhye ca viṇmūtrasaṅgottrāsadigīkṣaṇaiḥ ||
अथ धात्र्याः क्रियां कुर्याद् यथादोषं यथामयम् । (९।१)
atha dhātryāḥ kriyāṃ kuryād yathādoṣaṃ yathāmayam |
तत्र वातात्मके स्तन्ये दशमूलं त्र्यहं पिबेत् ॥ (९।२)
tatra vātātmake stanye daśamūlaṃ tryahaṃ pibet ||
ततः पिबेद् अन्यतमं वातव्याधिहरं घृतम् । (११।१)
tataḥ pibed anyatamaṃ vātavyādhiharaṃ ghṛtam |
अनु चाच्छसुराम् एवं स्निग्धां मृदु विरेचयेत् ॥ (११।२)
anu cācchasurām evaṃ snigdhāṃ mṛdu virecayet ||
वस्तिकर्म ततः कुर्यात् स्वेदादींश्चानिलापहान् । (१२।१)
vastikarma tataḥ kuryāt svedādīṃścānilāpahān |
बालो लिह्याद् घृतं तैर् वा विपक्वं ससितोपलम् । (१३।१)
bālo lihyād ghṛtaṃ tair vā vipakvaṃ sasitopalam |
धात्री कुमारश्च पिबेत् क्वाथयित्वा सशारिवम् । (१४।१)
dhātrī kumāraśca pibet kvāthayitvā saśārivam |
घृतान्येभिश्च सिद्धानि पित्तघ्नं च विरेचनम् ॥ (१५।२)
ghṛtānyebhiśca siddhāni pittaghnaṃ ca virecanam ||
शीतांश्चाभ्यङ्गलेपादीन् युञ्ज्याच्छ्लेष्मात्मके पुनः । (१६।१)
śītāṃścābhyaṅgalepādīn yuñjyācchleṣmātmake punaḥ |
यष्ट्याह्वसैन्धवयुतं कुमारं पाययेद् घृतम् ॥ (१६।२)
yaṣṭyāhvasaindhavayutaṃ kumāraṃ pāyayed ghṛtam ||
सिन्धूत्थपिप्पलीमद् वा पिष्टैः क्षौद्रयुतैरथ । (१७।१)
sindhūtthapippalīmad vā piṣṭaiḥ kṣaudrayutairatha |
राठपुष्पैः स्तनौ लिम्पेच्छिशोश्च दशनच्छदौ ॥ (१७।२)
rāṭhapuṣpaiḥ stanau limpecchiśośca daśanacchadau ||
सुखम् एवं वमेद् बालः तीक्ष्णैर् धात्रीं तु वामयेत् । (१८।१)
sukham evaṃ vamed bālaḥ tīkṣṇair dhātrīṃ tu vāmayet |
अथाचरितसंसर्गी मुस्तादिं क्वथितं पिबेत् ॥ (१८।२)
athācaritasaṃsargī mustādiṃ kvathitaṃ pibet ||
स्तन्ये त्रिदोषमलिने दुर्गन्ध्यामं जलोपमम् । (२०।१)
stanye tridoṣamaline durgandhyāmaṃ jalopamam |
विबद्धम् अच्छं विच्छिन्नं फेनिलं चोपवेश्यते ॥ (२०।२)
vibaddham acchaṃ vicchinnaṃ phenilaṃ copaveśyate ||
शकृन् नानाव्यथावर्णं मूत्रं पीतं सितं घनम् । (२१।१)
śakṛn nānāvyathāvarṇaṃ mūtraṃ pītaṃ sitaṃ ghanam |
ज्वरारोचकतृट्छर्दिशुष्कोद्गारविजृम्भिकाः ॥ (२१।२)
jvarārocakatṛṭchardiśuṣkodgāravijṛmbhikāḥ ||
अङ्गभङ्गो ऽङ्गविक्षेपः कूजनं वेपथुर् भ्रमः । (२२।१)
aṅgabhaṅgo 'ṅgavikṣepaḥ kūjanaṃ vepathur bhramaḥ |
घ्राणाक्षिमुखपाकाद्या जायन्ते ऽन्ये ऽपि तं गदम् ॥ (२२।२)
ghrāṇākṣimukhapākādyā jāyante 'nye 'pi taṃ gadam ||
विहितायां च संसर्ग्यां वचादिं योजयेद् गणम् । (२४।१)
vihitāyāṃ ca saṃsargyāṃ vacādiṃ yojayed gaṇam |
समुस्तमूर्वेन्द्रयवाः स्तन्यदोषहराः परम् ॥ (२५।२)
samustamūrvendrayavāḥ stanyadoṣaharāḥ param ||
अनुबन्धे यथाव्याधि प्रतिकुर्वीत कालवित् । (२६।१)
anubandhe yathāvyādhi pratikurvīta kālavit |
दन्तोद्भेदश्च रोगाणां सर्वेषाम् अपि कारणम् ॥ (२६।२)
dantodbhedaśca rogāṇāṃ sarveṣām api kāraṇam ||
अभिष्यन्दस्य पोथक्या विसर्पस्य च जायते ॥ (२७।२)
abhiṣyandasya pothakyā visarpasya ca jāyate ||
पृष्ठभङ्गे बिडालानां बर्हिणां च शिखोद्भवे । (२८।१)
pṛṣṭhabhaṅge biḍālānāṃ barhiṇāṃ ca śikhodbhave |
दन्तोद्भेदे च बालानां न हि किंचिन्न दूयते ॥ (२८।२)
dantodbhede ca bālānāṃ na hi kiṃcinna dūyate ||
विभज्य देशकालादींस् तत्र योज्यं भिषग्जितम् ॥ (२९।२)
vibhajya deśakālādīṃs tatra yojyaṃ bhiṣagjitam ||
त एव दोषा दूष्याश्च ज्वराद्या व्याधयश्च यत् । (३०।१)
ta eva doṣā dūṣyāśca jvarādyā vyādhayaśca yat |
अतस् तद् एव भैषज्यं मात्रा त्वस्य कनीयसी ॥ (३०।२)
atas tad eva bhaiṣajyaṃ mātrā tvasya kanīyasī ||
सौकुमार्याल्पकायत्वात् सर्वान्नानुपसेवनात् । (३१।१)
saukumāryālpakāyatvāt sarvānnānupasevanāt |
सद्यस् तान् वमनं तस्मात् पाययेन् मतिमान् मृदु । (३२।१)
sadyas tān vamanaṃ tasmāt pāyayen matimān mṛdu |
स्तन्यस्य तृप्तं वमयेत् क्षीरक्षीरान्नसेविनम् ॥ (३२।२)
stanyasya tṛptaṃ vamayet kṣīrakṣīrānnasevinam ||
पीतवन्तं तनुं पेयाम् अन्नादं घृतसंयुताम् । (३३।१)
pītavantaṃ tanuṃ peyām annādaṃ ghṛtasaṃyutām |
वस्तिं साध्ये विरेकेण मर्शेन प्रतिमर्शनम् ॥ (३३।२)
vastiṃ sādhye virekeṇa marśena pratimarśanam ||
युञ्ज्याद् विरेचनादींस् तु धात्र्या एव यथोदितान् । (३४।१)
yuñjyād virecanādīṃs tu dhātryā eva yathoditān |
द्रुतं करोति बालानां दन्तकेसरवन् मुखम् । (३७।१)
drutaṃ karoti bālānāṃ dantakesaravan mukham |
मधुरैश्च घृतं सिद्धं सिद्धं दशनजन्मनि । (३८।१)
madhuraiśca ghṛtaṃ siddhaṃ siddhaṃ daśanajanmani |
पृश्निपर्णी शताह्वा च लीढं माक्षिकसर्पिषा । (३९।१)
pṛśniparṇī śatāhvā ca līḍhaṃ mākṣikasarpiṣā |
ग्रहणीदीपनं श्रेष्ठं मारुतस्यानुलोमनम् ॥ (३९।२)
grahaṇīdīpanaṃ śreṣṭhaṃ mārutasyānulomanam ||
सकार्पासीफलैस् तोये साधितैः साधितं घृतम् । (४२।१)
sakārpāsīphalais toye sādhitaiḥ sādhitaṃ ghṛtam |
क्षीरमस्तुयुतं हन्ति शीघ्रं दन्तोद्भवोद्भवान् ॥ (४२।२)
kṣīramastuyutaṃ hanti śīghraṃ dantodbhavodbhavān ||
विविधान् आमयान् एतद् वृद्धकाश्यपनिर्मितम् । (४३।१)
vividhān āmayān etad vṛddhakāśyapanirmitam |
दन्तोद्भवेषु रोगेषु न बालम् अतियन्त्रयेत् ॥ (४३।२)
dantodbhaveṣu rogeṣu na bālam atiyantrayet ||
स्वयम् अप्युपशाम्यन्ति जातदन्तस्य यद्गदाः । (४४।१)
svayam apyupaśāmyanti jātadantasya yadgadāḥ |
अत्यहःस्वप्नशीताम्बुश्लैष्मिकस्तन्यसेविनः ॥ (४४।२)
atyahaḥsvapnaśītāmbuślaiṣmikastanyasevinaḥ ||
कुमारः शुष्यति ततः स्निग्धशुक्लमुखेक्षणः । (४६।१)
kumāraḥ śuṣyati tataḥ snigdhaśuklamukhekṣaṇaḥ |
सैन्धवव्योषशार्ङ्गेष्टापाठागिरिकदम्बकान् ॥ (४६।२)
saindhavavyoṣaśārṅgeṣṭāpāṭhāgirikadambakān ||
शुष्यतो मधुसर्पिर्भ्याम् अरुच्यादिषु योजयेत् । (४७।१)
śuṣyato madhusarpirbhyām arucyādiṣu yojayet |
बदरीधातकीधात्रीचूर्णं वा सर्पिषा द्रुतम् । (४८।१)
badarīdhātakīdhātrīcūrṇaṃ vā sarpiṣā drutam |
निचुलोत्पलवर्षाभूभार्गीमुस्तैश्च कार्षिकैः । (४९।१)
niculotpalavarṣābhūbhārgīmustaiśca kārṣikaiḥ |
सिद्धं प्रस्थार्धम् आज्यस्य स्रोतसां शोधनं परम् ॥ (४९।२)
siddhaṃ prasthārdham ājyasya srotasāṃ śodhanaṃ param ||
सिंह्यश्वगन्धासुरसाकणागर्भं च तद्गुणम् । (५०।१)
siṃhyaśvagandhāsurasākaṇāgarbhaṃ ca tadguṇam |
यष्ट्याह्वपिप्पलीलोध्रपद्मकोत्पलचन्दनैः ॥ (५०।२)
yaṣṭyāhvapippalīlodhrapadmakotpalacandanaiḥ ||
तालीशशारिवाभ्यां च साधितं शोषजिद् घृतम् । (५१।१)
tālīśaśārivābhyāṃ ca sādhitaṃ śoṣajid ghṛtam |
शूर्पपर्णीविडङ्गैश्च कल्कितैः साधितं घृतम् ॥ (५२।२)
śūrpaparṇīviḍaṅgaiśca kalkitaiḥ sādhitaṃ ghṛtam ||
शशोत्तमाङ्गनिर्यूहे शुष्यतः पुष्टिकृत् परम् । (५३।१)
śaśottamāṅganiryūhe śuṣyataḥ puṣṭikṛt param |
बस्तमूत्रसुराभ्यां च तैलम् अभ्यञ्जने हितम् । (५४।१)
bastamūtrasurābhyāṃ ca tailam abhyañjane hitam |
लाक्षारससमं तैलप्रस्थं मस्तु चतुर्गुणम् ॥ (५४।२)
lākṣārasasamaṃ tailaprasthaṃ mastu caturguṇam ||
अश्वगन्धानिशादारुकौन्तीकुष्ठाब्दचन्दनैः । (५५।१)
aśvagandhāniśādārukauntīkuṣṭhābdacandanaiḥ |
सिद्धं लाक्षादिकं नाम तैलम् अभ्यञ्जनाद् इदम् । (५६।१)
siddhaṃ lākṣādikaṃ nāma tailam abhyañjanād idam |
बल्यं ज्वरक्षयोन्मादश्वासापस्मारवातनुत् ॥ (५६।२)
balyaṃ jvarakṣayonmādaśvāsāpasmāravātanut ||
यक्षराक्षसभूतघ्नं गर्भिणीनां च शस्यते । (५७।१)
yakṣarākṣasabhūtaghnaṃ garbhiṇīnāṃ ca śasyate |
मधुनातिविषाशृङ्गीपिप्पलीर् लेहयेच्छिशुम् ॥ (५७।२)
madhunātiviṣāśṛṅgīpippalīr lehayecchiśum ||
पीतं पीतं वमति यः स्तन्यं तं मधुसर्पिषा ॥ (५८।२)
pītaṃ pītaṃ vamati yaḥ stanyaṃ taṃ madhusarpiṣā ||
तद्वल्लिह्यात् तथा व्योषं मषीं वा रोमचर्मणाम् । (६०।१)
tadvallihyāt tathā vyoṣaṃ maṣīṃ vā romacarmaṇām |
लाभतः शल्यकश्वाविद्गोधर्क्षशिखिजन्मनाम् ॥ (६०।२)
lābhataḥ śalyakaśvāvidgodharkṣaśikhijanmanām ||
सक्षीरं साधितं सर्पिर् वमथुं विनियच्छति ॥ (६१।२)
sakṣīraṃ sādhitaṃ sarpir vamathuṃ viniyacchati ||
सदन्तो जायते यस् तु दन्ताः प्राग् यस्य चोत्तराः । (६२।१)
sadanto jāyate yas tu dantāḥ prāg yasya cottarāḥ |
कुर्वीत तस्मिन्न् उत्पाते शान्तिं तं च द्विजातये ॥ (६२।२)
kurvīta tasminn utpāte śāntiṃ taṃ ca dvijātaye ||
दद्यात् सदक्षिणं बालं नैगमेषं च पूजयेत् । (६३।१)
dadyāt sadakṣiṇaṃ bālaṃ naigameṣaṃ ca pūjayet |
तालुमांसे कफः क्रुद्धः कुरुते तालुकण्टकम् ॥ (६३।२)
tālumāṃse kaphaḥ kruddhaḥ kurute tālukaṇṭakam ||
तेन तालुप्रदेशस्य निम्नता मूर्ध्नि जायते । (६४।१)
tena tālupradeśasya nimnatā mūrdhni jāyate |
तालुपातः स्तनद्वेषः कृच्छ्रात् पानं शकृद्द्रवम् ॥ (६४।२)
tālupātaḥ stanadveṣaḥ kṛcchrāt pānaṃ śakṛddravam ||
तृडास्यकण्ड्वक्षिरुजा ग्रीवादुर्धरता वमिः । (६५।१)
tṛḍāsyakaṇḍvakṣirujā grīvādurdharatā vamiḥ |
तत्रोत्क्षिप्य यवक्षारक्षौद्राभ्यां प्रतिसारयेत् ॥ (६५।२)
tatrotkṣipya yavakṣārakṣaudrābhyāṃ pratisārayet ||
तालु तद्वत् कणाशुण्ठीगोशकृद्रससैन्धवैः । (६६।१)
tālu tadvat kaṇāśuṇṭhīgośakṛdrasasaindhavaiḥ |
बद्ध्वा गोशकृता लिप्तम् कुकूले स्वेदयेत् ततः । (६७।१)
baddhvā gośakṛtā liptam kukūle svedayet tataḥ |
रसेन लिम्पेत् ताल्वास्यं नेत्रे च परिषेचयेत् ॥ (६७।२)
rasena limpet tālvāsyaṃ netre ca pariṣecayet ||
पीत्वा कुमारः स्तन्येन मुच्यते तालुकण्टकात् ॥ (६८।२)
pītvā kumāraḥ stanyena mucyate tālukaṇṭakāt ||
मलोपलेपात् स्वेदाद् वा गुदे रक्तकफोद्भवः । (६९।१)
malopalepāt svedād vā gude raktakaphodbhavaḥ |
ताम्रो व्रणो ऽन्तः कण्डूमान् जायते भूर्युपद्रवः ॥ (६९।२)
tāmro vraṇo 'ntaḥ kaṇḍūmān jāyate bhūryupadravaḥ ||
केचित् तं मातृकादोषं वदन्त्यन्ये ऽहिपूतनम् । (७०।१)
kecit taṃ mātṛkādoṣaṃ vadantyanye 'hipūtanam |
पृष्ठारुर् गुदकुट्टं च केचिच्च तम् अनामिकम् ॥ (७०।२)
pṛṣṭhārur gudakuṭṭaṃ ca kecicca tam anāmikam ||
तत्र धात्र्याः पयः शोध्यं पित्तश्लेष्महरौषधैः । (७१।१)
tatra dhātryāḥ payaḥ śodhyaṃ pittaśleṣmaharauṣadhaiḥ |
सक्षौद्रतार्क्ष्यशैलेन व्रणं तेन च लेपयेत् । (७२।१)
sakṣaudratārkṣyaśailena vraṇaṃ tena ca lepayet |
लेपयेद् अम्लपिष्टैर् वा चूर्णितैर् वावचूर्णयेत् ॥ (७३।२)
lepayed amlapiṣṭair vā cūrṇitair vāvacūrṇayet ||
सुश्लक्ष्णैरथवा यष्टीशङ्खसौवीरकाञ्जनैः । (७४।१)
suślakṣṇairathavā yaṣṭīśaṅkhasauvīrakāñjanaiḥ |
रागकण्डूत्कटे कुर्याद् रक्तस्रावं जलौकसा । (७५।१)
rāgakaṇḍūtkaṭe kuryād raktasrāvaṃ jalaukasā |
सर्वं च पित्तव्रणजिच्छस्यते गुदकुट्टके ॥ (७५।२)
sarvaṃ ca pittavraṇajicchasyate gudakuṭṭake ||
सबिल्वत्र्यूषणैः सर्पिः वृश्चिकालीयुतैः शृतम् ॥ (७६।२)
sabilvatryūṣaṇaiḥ sarpiḥ vṛścikālīyutaiḥ śṛtam ||
लिहानो मात्रया रोगैर् मुच्यते मृत्तिकोद्भवैः । (७७।१)
lihāno mātrayā rogair mucyate mṛttikodbhavaiḥ |
व्याधेर् यद्यस्य भैषज्यं स्तनस् तेन प्रलेपितः । (७७।२)
vyādher yadyasya bhaiṣajyaṃ stanas tena pralepitaḥ |
स्थितो मुहूर्तं धौतो ऽनु पीतस् तं तं जयेद् गदम् ॥ (७७।३)
sthito muhūrtaṃ dhauto 'nu pītas taṃ taṃ jayed gadam ||
Data courtesy of The Digital Corpus of Sanskrit.