अष्टाङ्गहृदयसंहिताAṣṭāṅgahṛdayasaṃhitā
AHS, 3, 5
Select a line for its word-by-word analysis.
राजयक्ष्मा क्षयः शोषो रोगराड् इति च स्मृतः ॥ (१।४)
rājayakṣmā kṣayaḥ śoṣo rogarāḍ iti ca smṛtaḥ ||
नक्षत्राणां द्विजानां च राज्ञो ऽभूद् यद् अयं पुरा । (२।१)
nakṣatrāṇāṃ dvijānāṃ ca rājño 'bhūd yad ayaṃ purā |
यच्च राजा च यक्ष्मा च राजयक्ष्मा ततो मतः ॥ (२।२)
yacca rājā ca yakṣmā ca rājayakṣmā tato mataḥ ||
तैरुदीर्णो ऽनिलः पित्तं कफं चोदीर्य सर्वतः । (५।१)
tairudīrṇo 'nilaḥ pittaṃ kaphaṃ codīrya sarvataḥ |
शरीरसंधीन् आविश्य तान् सिराश्च प्रपीडयन् ॥ (५।२)
śarīrasaṃdhīn āviśya tān sirāśca prapīḍayan ||
मुखानि स्रोतसां रुद्ध्वा तथैवातिविवृत्य वा । (६।१)
mukhāni srotasāṃ ruddhvā tathaivātivivṛtya vā |
सर्पन्न् ऊर्ध्वम् अधस् तिर्यग् यथास्वं जनयेद् गदान् ॥ (६।२)
sarpann ūrdhvam adhas tiryag yathāsvaṃ janayed gadān ||
रूपं भविष्यतस् तस्य प्रतिश्यायो भृशं क्षवः । (७।१)
rūpaṃ bhaviṣyatas tasya pratiśyāyo bhṛśaṃ kṣavaḥ |
पाण्योरवेक्षा पादास्यशोफो ऽक्ष्णोर् अतिशुक्लता ॥ (९।२)
pāṇyoravekṣā pādāsyaśopho 'kṣṇor atiśuklatā ||
बाह्वोः प्रमाणजिज्ञासा काये बैभत्स्यदर्शनम् । (१०।१)
bāhvoḥ pramāṇajijñāsā kāye baibhatsyadarśanam |
स्त्रीमद्यमांसप्रियता घृणित्वं मूर्धगुण्ठनम् ॥ (१०।२)
strīmadyamāṃsapriyatā ghṛṇitvaṃ mūrdhaguṇṭhanam ||
नखकेशातिवृद्धिश्च स्वप्ने चाभिभवो भवेत् । (११।१)
nakhakeśātivṛddhiśca svapne cābhibhavo bhavet |
शून्यानां ग्रामदेशानां दर्शनं शुष्यतो ऽम्भसः ॥ (१२।२)
śūnyānāṃ grāmadeśānāṃ darśanaṃ śuṣyato 'mbhasaḥ ||
ज्योतिर् गिरीणां पततां ज्वलतां च महीरुहाम् । (१३।१)
jyotir girīṇāṃ patatāṃ jvalatāṃ ca mahīruhām |
ऊर्ध्वं विड्भ्रंशसंशोषावधश्छर्दिश्च कोष्ठगे । (१४।१)
ūrdhvaṃ viḍbhraṃśasaṃśoṣāvadhaśchardiśca koṣṭhage |
तिर्यक्स्थे पार्श्वरुग्दोषे संधिगे भवति ज्वरः ॥ (१४।२)
tiryaksthe pārśvarugdoṣe saṃdhige bhavati jvaraḥ ||
तेषाम् उपद्रवान् विद्यात् कण्ठोद्ध्वंसम् उरोरुजम् ॥ (१५।२)
teṣām upadravān vidyāt kaṇṭhoddhvaṃsam urorujam ||
तत्र वाताच्छिरःपार्श्वशूलम् अंसाङ्गमर्दनम् ॥ (१६।२)
tatra vātācchiraḥpārśvaśūlam aṃsāṅgamardanam ||
कण्ठोद्ध्वंसः स्वरभ्रंशः पित्तात् पादांसपाणिषु । (१७।१)
kaṇṭhoddhvaṃsaḥ svarabhraṃśaḥ pittāt pādāṃsapāṇiṣu |
दाहो ऽतीसारो ऽसृक्छर्दिर् मुखगन्धो ज्वरो मदः ॥ (१७।२)
dāho 'tīsāro 'sṛkchardir mukhagandho jvaro madaḥ ||
कफाद् अरोचकश्छर्दिः कासो मूर्धाङ्गगौरवम् । (१८।१)
kaphād arocakaśchardiḥ kāso mūrdhāṅgagauravam |
प्रसेकः पीनसः श्वासः स्वरसादो ऽल्पवह्निता ॥ (१८।२)
prasekaḥ pīnasaḥ śvāsaḥ svarasādo 'lpavahnitā ||
दोषैर् मन्दानलत्वेन सोपलेपैः कफोल्बणैः । (१९।१)
doṣair mandānalatvena sopalepaiḥ kapholbaṇaiḥ |
स्रोतोमुखेषु रुद्धेषु धातूष्मस्वल्पकेषु च ॥ (१९।२)
srotomukheṣu ruddheṣu dhātūṣmasvalpakeṣu ca ||
विदह्यमानः स्वस्थाने रसस् तांस् तान् उपद्रवान् । (२०।१)
vidahyamānaḥ svasthāne rasas tāṃs tān upadravān |
कुर्याद् अगच्छन् मांसादीन् असृक् चोर्ध्वं प्रधावति ॥ (२०।२)
kuryād agacchan māṃsādīn asṛk cordhvaṃ pradhāvati ||
पच्यते कोष्ठ एवान्नम् अन्नपक्त्रैव चास्य यत् । (२१।१)
pacyate koṣṭha evānnam annapaktraiva cāsya yat |
प्रायो ऽस्मान् मलतां यातं नैवालं धातुपुष्टये ॥ (२१।२)
prāyo 'smān malatāṃ yātaṃ naivālaṃ dhātupuṣṭaye ||
लिङ्गेष्वल्पेष्वपि क्षीणं व्याध्यौषधबलाक्षमम् । (२३।१)
liṅgeṣvalpeṣvapi kṣīṇaṃ vyādhyauṣadhabalākṣamam |
वर्जयेत् साधयेद् एव सर्वेष्वपि ततो ऽन्यथा ॥ (२३।२)
varjayet sādhayed eva sarveṣvapi tato 'nyathā ||
स्वरभेददोषैर् व्यस्तैः समस्तैश्च क्षयात् षष्ठश्च मेदसा । (२४।१)
svarabhedadoṣair vyastaiḥ samastaiśca kṣayāt ṣaṣṭhaśca medasā |
स्वरभेदो भवेत् तत्र क्षामो रूक्षश्चलः स्वरः ॥ (२४।२)
svarabhedo bhavet tatra kṣāmo rūkṣaścalaḥ svaraḥ ||
शूकपूर्णाभकण्ठत्वं स्निग्धोष्णोपशयो ऽनिलात् । (२५।१)
śūkapūrṇābhakaṇṭhatvaṃ snigdhoṣṇopaśayo 'nilāt |
लिम्पन्न् इव कफात् कण्ठं मन्दः खुरखुरायते । (२६।१)
limpann iva kaphāt kaṇṭhaṃ mandaḥ khurakhurāyate |
स्वरो विबद्धः सर्वैस् तु सर्वलिङ्गः क्षयात् कषेत् ॥ (२६।२)
svaro vibaddhaḥ sarvais tu sarvaliṅgaḥ kṣayāt kaṣet ||
धूमायतीव चात्यर्थं मेदसा श्लेष्मलक्षणः । (२७।१)
dhūmāyatīva cātyarthaṃ medasā śleṣmalakṣaṇaḥ |
कृच्छ्रलक्ष्याक्षरश्चात्र सर्वैरन्त्यं च वर्जयेत् ॥ (२७।२)
kṛcchralakṣyākṣaraścātra sarvairantyaṃ ca varjayet ||
अरोचकअरोचको भवेद् दोषैर् जिह्वाहृदयसंश्रयैः । (२८।१)
arocakaarocako bhaved doṣair jihvāhṛdayasaṃśrayaiḥ |
सर्वोत्थे विरसं शोकक्रोधादिषु यथामलम् ॥ (२९।२)
sarvotthe virasaṃ śokakrodhādiṣu yathāmalam ||
छर्दिर् दोषैः पृथक् सर्वैर् द्विष्टैरर्थैश्च पञ्चमी । (३०।१)
chardir doṣaiḥ pṛthak sarvair dviṣṭairarthaiśca pañcamī |
उदानो विकृतो दोषान् सर्वास्वप्यूर्ध्वम् अस्यति ॥ (३०।२)
udāno vikṛto doṣān sarvāsvapyūrdhvam asyati ||
तासूत्क्लेशास्यलावण्यप्रसेकारुचयो ऽग्रगाः । (३१।१)
tāsūtkleśāsyalāvaṇyaprasekārucayo 'gragāḥ |
नाभिपृष्ठं रुजन् वायुः पार्श्वे चाहारम् उत्क्षिपेत् ॥ (३१।२)
nābhipṛṣṭhaṃ rujan vāyuḥ pārśve cāhāram utkṣipet ||
ततो विच्छिन्नम् अल्पाल्पं कषायं फेनिलं वमेत् । (३२।१)
tato vicchinnam alpālpaṃ kaṣāyaṃ phenilaṃ vamet |
शब्दोद्गारयुतं कृष्णम् अच्छं कृच्छ्रेण वेगवत् ॥ (३२।२)
śabdodgārayutaṃ kṛṣṇam acchaṃ kṛcchreṇa vegavat ||
पित्तात् क्षारोदकनिभं धूम्रं हरितपीतकम् ॥ (३३।२)
pittāt kṣārodakanibhaṃ dhūmraṃ haritapītakam ||
सासृग् अम्लं कटूष्णं च तृण्मूर्छातापदाहवत् । (३४।१)
sāsṛg amlaṃ kaṭūṣṇaṃ ca tṛṇmūrchātāpadāhavat |
कफात् स्निग्धं घनं शीतं श्लेष्मतन्तुगवाक्षितम् ॥ (३४।२)
kaphāt snigdhaṃ ghanaṃ śītaṃ śleṣmatantugavākṣitam ||
सर्वलिङ्गा मलैः सर्वै रिष्टोक्ता या च तां त्यजेत् । (३६।१)
sarvaliṅgā malaiḥ sarvai riṣṭoktā yā ca tāṃ tyajet |
तप्ते चित्ते हृदि क्लिष्टे छर्दिर् द्विष्टार्थयोगजा । (३७।१)
tapte citte hṛdi kliṣṭe chardir dviṣṭārthayogajā |
शूलवेपथुहृल्लासैर् विशेषात् कृमिजां वदेत् । (३८।१)
śūlavepathuhṛllāsair viśeṣāt kṛmijāṃ vadet |
हृद्रोगकृमिहृद्रोगलिङ्गैश्च स्मृताः पञ्च तु हृद्गदाः ॥ (३८।२)
hṛdrogakṛmihṛdrogaliṅgaiśca smṛtāḥ pañca tu hṛdgadāḥ ||
तेषां गुल्मनिदानोक्तैः समुत्थानैश्च संभवः । (३९।१)
teṣāṃ gulmanidānoktaiḥ samutthānaiśca saṃbhavaḥ |
वातेन शूल्यते ऽत्यर्थं तुद्यते स्फुटतीव च ॥ (३९।२)
vātena śūlyate 'tyarthaṃ tudyate sphuṭatīva ca ||
भिद्यते शुष्यति स्तब्धं हृदयं शून्यता द्रवः । (४०।१)
bhidyate śuṣyati stabdhaṃ hṛdayaṃ śūnyatā dravaḥ |
वेपथुर् वेष्टनं मोहः श्वासरोधो ऽल्पनिद्रता । (४१।१)
vepathur veṣṭanaṃ mohaḥ śvāsarodho 'lpanidratā |
पित्तात् तृष्णा भ्रमो मूर्छा दाहः स्वेदो ऽम्लकः क्लमः ॥ (४१।२)
pittāt tṛṣṇā bhramo mūrchā dāhaḥ svedo 'mlakaḥ klamaḥ ||
छर्दनं चाम्लपित्तस्य धूमकः पीतता ज्वरः । (४२।१)
chardanaṃ cāmlapittasya dhūmakaḥ pītatā jvaraḥ |
श्लेष्मणा हृदयं स्तब्धं भारिकं साश्मगर्भवत् ॥ (४२।२)
śleṣmaṇā hṛdayaṃ stabdhaṃ bhārikaṃ sāśmagarbhavat ||
सर्वलिङ्गस् त्रिभिर् दोषैः कृमिभिः श्यावनेत्रता ॥ (४३।२)
sarvaliṅgas tribhir doṣaiḥ kṛmibhiḥ śyāvanetratā ||
तमःप्रवेशो हृल्लासः शोषः कण्डूः कफस्रुतिः । (४४।१)
tamaḥpraveśo hṛllāsaḥ śoṣaḥ kaṇḍūḥ kaphasrutiḥ |
चिकित्सेद् आमयं घोरं तं शीघ्रं शीघ्रकारिणम् । (४५।१)
cikitsed āmayaṃ ghoraṃ taṃ śīghraṃ śīghrakāriṇam |
तृष्णावातात् पित्तात् कफात् तृष्णा संनिपाताद् रसक्षयात् ॥ (४५।२)
tṛṣṇāvātāt pittāt kaphāt tṛṣṇā saṃnipātād rasakṣayāt ||
षष्ठी स्याद् उपसर्गाच्च वातपित्ते तु कारणम् । (४६।१)
ṣaṣṭhī syād upasargācca vātapitte tu kāraṇam |
सर्वासु तत्प्रकोपो हि सौम्यधातुप्रशोषणात् ॥ (४६।२)
sarvāsu tatprakopo hi saumyadhātupraśoṣaṇāt ||
संशोष्य तृष्णा जायन्ते तासां सामान्यलक्षणम् । (४८।१)
saṃśoṣya tṛṣṇā jāyante tāsāṃ sāmānyalakṣaṇam |
मुखशोषो जलातृप्तिर् अन्नद्वेषः स्वरक्षयः ॥ (४८।२)
mukhaśoṣo jalātṛptir annadveṣaḥ svarakṣayaḥ ||
कण्ठौष्ठजिह्वाकार्कश्यं जिह्वानिष्क्रमणं क्लमः । (४९।१)
kaṇṭhauṣṭhajihvākārkaśyaṃ jihvāniṣkramaṇaṃ klamaḥ |
प्रलापश्चित्तविभ्रंशस् तृड्ग्रहोक्तास् तथामयाः ॥ (४९।२)
pralāpaścittavibhraṃśas tṛḍgrahoktās tathāmayāḥ ||
मारुतात् क्षामता दैन्यं शङ्खतोदः शिरोभ्रमः । (५०।१)
mārutāt kṣāmatā dainyaṃ śaṅkhatodaḥ śirobhramaḥ |
गन्धाज्ञानास्यवैरस्यश्रुतिनिद्राबलक्षयाः ॥ (५०।२)
gandhājñānāsyavairasyaśrutinidrābalakṣayāḥ ||
शीताम्बुपानाद् वृद्धिश्च पित्तान् मूर्छास्यतिक्तता । (५१।१)
śītāmbupānād vṛddhiśca pittān mūrchāsyatiktatā |
रक्तेक्षणत्वं प्रततं शोषो दाहो ऽतिधूमकः ॥ (५१।२)
raktekṣaṇatvaṃ pratataṃ śoṣo dāho 'tidhūmakaḥ ||
स्रोतःसु स कफस् तेन पङ्कवच्छोष्यते ततः ॥ (५२।२)
srotaḥsu sa kaphas tena paṅkavacchoṣyate tataḥ ||
शूकैरिवाचितः कण्ठो निद्रा मधुरवक्त्रता । (५३।१)
śūkairivācitaḥ kaṇṭho nidrā madhuravaktratā |
आध्मानं शिरसो जाड्यं स्तैमित्यच्छर्द्यरोचकाः ॥ (५३।२)
ādhmānaṃ śiraso jāḍyaṃ staimityacchardyarocakāḥ ||
आलस्यम् अविपाकश्च सर्वैः स्यात् सर्वलक्षणा । (५४।१)
ālasyam avipākaśca sarvaiḥ syāt sarvalakṣaṇā |
आमोद्भवा च भक्तस्य संरोधाद् वातपित्तजा ॥ (५४।२)
āmodbhavā ca bhaktasya saṃrodhād vātapittajā ||
उष्णक्लान्तस्य सहसा शीताम्भो भजतस् तृषम् । (५५।१)
uṣṇaklāntasya sahasā śītāmbho bhajatas tṛṣam |
ऊष्मा रुद्धो गतः कोष्ठं यां कुर्यात् पित्तजैव सा ॥ (५५।२)
ūṣmā ruddho gataḥ koṣṭhaṃ yāṃ kuryāt pittajaiva sā ||
या च पानातिपानोत्था तीक्ष्णाग्नेः स्नेहजा च या । (५६।१)
yā ca pānātipānotthā tīkṣṇāgneḥ snehajā ca yā |
या तृष्णा जायते तीव्रा सोपसर्गात्मिका स्मृता ॥ (५८।१)
yā tṛṣṇā jāyate tīvrā sopasargātmikā smṛtā ||
Data courtesy of The Digital Corpus of Sanskrit.