अष्टाङ्गहृदयसंहिताAṣṭāṅgahṛdayasaṃhitā
AHS, 1, 28
Select a line for its word-by-word analysis.
अथातः शल्याहरणविधिम् अध्यायं व्याख्यास्यामः । (१।१)
athātaḥ śalyāharaṇavidhim adhyāyaṃ vyākhyāsyāmaḥ |
वक्रर्जुतिर्यगूर्ध्वाधः शल्यानां पञ्चधा गतिः । (१।३)
vakrarjutiryagūrdhvādhaḥ śalyānāṃ pañcadhā gatiḥ |
ध्यामं शोफरुजावन्तं स्रवन्तं शोणितं मुहुः ॥ (१।४)
dhyāmaṃ śopharujāvantaṃ sravantaṃ śoṇitaṃ muhuḥ ||
विशेषात् त्वग्गते शल्ये विवर्णः कठिनायतः । (३।१)
viśeṣāt tvaggate śalye vivarṇaḥ kaṭhināyataḥ |
शोफो भवति मांसस्थे चोषः शोफो विवर्धते ॥ (३।२)
śopho bhavati māṃsasthe coṣaḥ śopho vivardhate ||
पेश्यन्तरगते मांसप्राप्तवच्छ्वयथुं विना ॥ (४।२)
peśyantaragate māṃsaprāptavacchvayathuṃ vinā ||
स्नायुगे दुर्हरं चैतत् सिराध्मानं सिराश्रिते ॥ (५।२)
snāyuge durharaṃ caitat sirādhmānaṃ sirāśrite ||
स्वकर्मगुणहानिः स्यात् स्रोतसां स्रोतसि स्थिते । (६।१)
svakarmaguṇahāniḥ syāt srotasāṃ srotasi sthite |
धमनीस्थे ऽनिलो रक्तं फेनयुक्तम् उदीरयेत् ॥ (६।२)
dhamanīsthe 'nilo raktaṃ phenayuktam udīrayet ||
निर्याति शब्दवान् स्याच्च हृल्लासः साङ्गवेदनः । (७।१)
niryāti śabdavān syācca hṛllāsaḥ sāṅgavedanaḥ |
संघर्षो बलवान् अस्थिसंधिप्राप्ते ऽस्थिपूर्णता ॥ (७।२)
saṃgharṣo balavān asthisaṃdhiprāpte 'sthipūrṇatā ||
नैकरूपा रुजो ऽस्थिस्थे शोफस् तद्वच्च संधिगे । (८।१)
naikarūpā rujo 'sthisthe śophas tadvacca saṃdhige |
चेष्टानिवृत्तिश्च भवेद् आटोपः कोष्ठसंश्रिते ॥ (८।२)
ceṣṭānivṛttiśca bhaved āṭopaḥ koṣṭhasaṃśrite ||
विद्यान् मर्मगतं शल्यं मर्मविद्धोपलक्षणैः ॥ (९।२)
vidyān marmagataṃ śalyaṃ marmaviddhopalakṣaṇaiḥ ||
यथास्वं च परिस्रावैस् त्वगादिषु विभावयेत् । (१०।१)
yathāsvaṃ ca parisrāvais tvagādiṣu vibhāvayet |
रुह्यते शुद्धदेहानाम् अनुलोमस्थितं तु तत् ॥ (१०।२)
ruhyate śuddhadehānām anulomasthitaṃ tu tat ||
दोषकोपाभिघातादिक्षोभाद् भूयो ऽपि बाधते । (११।१)
doṣakopābhighātādikṣobhād bhūyo 'pi bādhate |
त्वङ्नष्टे यत्र तत्र स्युरभ्यङ्गस्वेदमर्दनैः ॥ (११।२)
tvaṅnaṣṭe yatra tatra syurabhyaṅgasvedamardanaiḥ ||
आशु शुष्यति लेपो वा तत्स्थानं शल्यवद् वदेत् ॥ (१२।२)
āśu śuṣyati lepo vā tatsthānaṃ śalyavad vadet ||
मांसप्रणष्टं संशुद्ध्या कर्शनाच्छ्लथतां गतम् । (१३।१)
māṃsapraṇaṣṭaṃ saṃśuddhyā karśanācchlathatāṃ gatam |
क्षोभाद् रागादिभिः शल्यं लक्षयेत् तद्वद् एव च ॥ (१३।२)
kṣobhād rāgādibhiḥ śalyaṃ lakṣayet tadvad eva ca ||
पेश्यस्थिसंधिकोष्ठेषु नष्टम् अस्थिषु लक्षयेत् । (१४।१)
peśyasthisaṃdhikoṣṭheṣu naṣṭam asthiṣu lakṣayet |
अस्थ्नाम् अभ्यञ्जनस्वेदबन्धपीडनमर्दनैः ॥ (१४।२)
asthnām abhyañjanasvedabandhapīḍanamardanaiḥ ||
प्रसारणाकुञ्चनतः संधिनष्टं तथास्थिवत् । (१५।१)
prasāraṇākuñcanataḥ saṃdhinaṣṭaṃ tathāsthivat |
अश्वयुक्तं रथं खण्डचक्रम् आरोप्य रोगिणम् । (१६।१)
aśvayuktaṃ rathaṃ khaṇḍacakram āropya rogiṇam |
शीघ्रं नयेत् ततस् तस्य संरम्भाच्छल्यम् आदिशेत् ॥ (१६।२)
śīghraṃ nayet tatas tasya saṃrambhācchalyam ādiśet ||
मर्मनष्टं पृथङ् नोक्तं तेषां मांसादिसंश्रयात् । (१७।१)
marmanaṣṭaṃ pṛthaṅ noktaṃ teṣāṃ māṃsādisaṃśrayāt |
सामान्येन सशल्यं तु क्षोभिण्या क्रियया सरुक् ॥ (१७।२)
sāmānyena saśalyaṃ tu kṣobhiṇyā kriyayā saruk ||
वृत्तं पृथु चतुष्कोणं त्रिपुटं च समासतः । (१८।१)
vṛttaṃ pṛthu catuṣkoṇaṃ tripuṭaṃ ca samāsataḥ |
अदृश्यशल्यसंस्थानं व्रणाकृत्या विभावयेत् ॥ (१८।२)
adṛśyaśalyasaṃsthānaṃ vraṇākṛtyā vibhāvayet ||
सुखाहार्यं यतश्छित्त्वा ततस् तिर्यग्गतं हरेत् । (२०।१)
sukhāhāryaṃ yataśchittvā tatas tiryaggataṃ haret |
शल्यं न निर्घात्यम् उरःकक्षावङ्क्षणपार्श्वगम् ॥ (२०।२)
śalyaṃ na nirghātyam uraḥkakṣāvaṅkṣaṇapārśvagam ||
प्रतिलोमम् अनुत्तुण्डं छेद्यं पृथुमुखं च यत् । (२१।१)
pratilomam anuttuṇḍaṃ chedyaṃ pṛthumukhaṃ ca yat |
नैवाहरेद् विशल्यघ्नं नष्टं वा निरुपद्रवम् ॥ (२१।२)
naivāhared viśalyaghnaṃ naṣṭaṃ vā nirupadravam ||
अदृश्यं व्रणसंस्थानाद् ग्रहीतुं शक्यते यतः । (२३।१)
adṛśyaṃ vraṇasaṃsthānād grahītuṃ śakyate yataḥ |
संदंशाभ्यां त्वगादिस्थं तालाभ्यां सुषिरं हरेत् । (२४।१)
saṃdaṃśābhyāṃ tvagādisthaṃ tālābhyāṃ suṣiraṃ haret |
सुषिरस्थं तु नलकैः शेषं शेषैर् यथायथम् ॥ (२४।२)
suṣirasthaṃ tu nalakaiḥ śeṣaṃ śeṣair yathāyatham ||
शस्त्रेण वा विशस्यादौ ततो निर्लोहितं व्रणम् । (२५।१)
śastreṇa vā viśasyādau tato nirlohitaṃ vraṇam |
कृत्वा घृतेन संस्वेद्य बद्धाचारिकम् आदिशेत् ॥ (२५।२)
kṛtvā ghṛtena saṃsvedya baddhācārikam ādiśet ||
हृदये संस्थितं शल्यं त्रासितस्य हिमाम्बुना ॥ (२६।२)
hṛdaye saṃsthitaṃ śalyaṃ trāsitasya himāmbunā ||
ततः स्थानान्तरं प्राप्तम् आहरेत् तद् यथायथम् । (२७।१)
tataḥ sthānāntaraṃ prāptam āharet tad yathāyatham |
यथामार्गं दुराकर्षम् अन्यतो ऽप्येवम् आहरेत् ॥ (२७।२)
yathāmārgaṃ durākarṣam anyato 'pyevam āharet ||
अस्थिदष्टे नरं पद्भ्यां पीडयित्वा विनिर्हरेत् । (२८।१)
asthidaṣṭe naraṃ padbhyāṃ pīḍayitvā vinirharet |
इत्यशक्ये सुबलिभिः सुगृहीतस्य किङ्करैः ॥ (२८।२)
ityaśakye subalibhiḥ sugṛhītasya kiṅkaraiḥ ||
तथाप्यशक्ये वारङ्गं वक्रीकृत्य धनुर्ज्यया । (२९।१)
tathāpyaśakye vāraṅgaṃ vakrīkṛtya dhanurjyayā |
सुबद्धं वक्त्रकटके बध्नीयात् सुसमाहितः ॥ (२९।२)
subaddhaṃ vaktrakaṭake badhnīyāt susamāhitaḥ ||
सुसंयतस्य पञ्चाङ्ग्या वाजिनः कशयाथ तम् । (३०।१)
susaṃyatasya pañcāṅgyā vājinaḥ kaśayātha tam |
ताडयेद् इति मूर्धानं वेगेनोन्नमयन् यथा ॥ (३०।२)
tāḍayed iti mūrdhānaṃ vegenonnamayan yathā ||
उद्धरेच्छल्यम् एवं वा शाखायां कल्पयेत् तरोः । (३१।१)
uddharecchalyam evaṃ vā śākhāyāṃ kalpayet taroḥ |
बद्ध्वा दुर्बलवारङ्गं कुशाभिः शल्यम् आहरेत् ॥ (३१।२)
baddhvā durbalavāraṅgaṃ kuśābhiḥ śalyam āharet ||
श्वयथुग्रस्तवारङ्गं शोफम् उत्पीड्य युक्तितः । (३२।१)
śvayathugrastavāraṅgaṃ śopham utpīḍya yuktitaḥ |
मुद्गराहतया नाड्या निर्घात्योत्तुण्डितं हरेत् ॥ (३२।२)
mudgarāhatayā nāḍyā nirghātyottuṇḍitaṃ haret ||
तैरेव चानयेन् मार्गम् अमार्गोत्तुण्डितं तु यत् । (३३।१)
taireva cānayen mārgam amārgottuṇḍitaṃ tu yat |
मृदित्वा कर्णिनां कर्णं नाड्यास्येन निगृह्य वा ॥ (३३।२)
mṛditvā karṇināṃ karṇaṃ nāḍyāsyena nigṛhya vā ||
अयस्कान्तेन निष्कर्णं विवृतास्यम् ऋजुस्थितम् । (३४।१)
ayaskāntena niṣkarṇaṃ vivṛtāsyam ṛjusthitam |
कण्ठस्रोतोगते शल्ये सूत्रं कण्ठे प्रवेशयेत् ॥ (३५।२)
kaṇṭhasrotogate śalye sūtraṃ kaṇṭhe praveśayet ||
बिसेनात्ते ततः शल्ये बिसं सूत्रं समं हरेत् । (३६।१)
bisenātte tataḥ śalye bisaṃ sūtraṃ samaṃ haret |
नाड्याग्नितापितां क्षिप्त्वा शलाकाम् अप्स्थिरीकृताम् ॥ (३६।२)
nāḍyāgnitāpitāṃ kṣiptvā śalākām apsthirīkṛtām ||
आनयेज्जातुषं कण्ठाज्जतुदिग्धाम् अजातुषम् । (३७।१)
ānayejjātuṣaṃ kaṇṭhājjatudigdhām ajātuṣam |
केशोन्दुकेन पीतेन द्रवैः कण्टकम् आक्षिपेत् ॥ (३७।२)
keśondukena pītena dravaiḥ kaṇṭakam ākṣipet ||
अशक्यं मुखनासाभ्याम् आहर्तुं परतो नुदेत् ॥ (३८।२)
aśakyaṃ mukhanāsābhyām āhartuṃ parato nudet ||
अप्पानस्कन्धघाताभ्यां ग्रासशल्यं प्रवेशयेत् । (३९।१)
appānaskandhaghātābhyāṃ grāsaśalyaṃ praveśayet |
सूक्ष्माक्षिव्रणशल्यानि क्षौमवालजलैर् हरेत् ॥ (३९।२)
sūkṣmākṣivraṇaśalyāni kṣaumavālajalair haret ||
अपां पूर्णं विधुनुयाद् अवाक्शिरसम् आयतम् । (४०।१)
apāṃ pūrṇaṃ vidhunuyād avākśirasam āyatam |
वामयेच्चामुखं भस्मराशौ वा निखनेन् नरम् ॥ (४०।२)
vāmayeccāmukhaṃ bhasmarāśau vā nikhanen naram ||
कर्णे ऽम्बुपूर्णे हस्तेन मथित्वा तैलवारिणी । (४१।१)
karṇe 'mbupūrṇe hastena mathitvā tailavāriṇī |
क्षिपेद् अधोमुखं कर्णं हन्याद् वा चूषयेत वा ॥ (४१।२)
kṣiped adhomukhaṃ karṇaṃ hanyād vā cūṣayeta vā ||
शुक्तेन वा सुखोष्णेन मृते क्लेदहरो विधिः ॥ (४२।२)
śuktena vā sukhoṣṇena mṛte kledaharo vidhiḥ ||
प्रायो निर्भुज्यते तद्धि पचत्याशु पलासृजी । (४५।१)
prāyo nirbhujyate taddhi pacatyāśu palāsṛjī |
शल्ये मांसावगाढे चेत् स देशो न विदह्यते ॥ (४५।२)
śalye māṃsāvagāḍhe cet sa deśo na vidahyate ||
शल्यप्रदेशयन्त्राणाम् अवेक्ष्य बहुरूपताम् । (४७।२)
śalyapradeśayantrāṇām avekṣya bahurūpatām |
तैस् तैरुपायैर् मतिमान् शल्यं विद्यात् तथाहरेत् ॥ (४७।३)
tais tairupāyair matimān śalyaṃ vidyāt tathāharet ||
Data courtesy of The Digital Corpus of Sanskrit.