अष्टाङ्गहृदयसंहिताAṣṭāṅgahṛdayasaṃhitā

AHS, 1, 7

7 of 120 · 156 verses

Select a line for its word-by-word analysis.

1.1१.१

राजा राजगृहासन्ने प्राणाचार्यं निवेशयेत् । (१।१)

rājā rājagṛhāsanne prāṇācāryaṃ niveśayet |

1.2१.२

सर्वदा स भवत्य् एवं सर्वत्र प्रतिजागृविः ॥ (१।२)

sarvadā sa bhavaty evaṃ sarvatra pratijāgṛviḥ ||

2.1२.१

अन्नपानं विषाद् रक्षेद् विशेषेण महीपतेः । (२।१)

annapānaṃ viṣād rakṣed viśeṣeṇa mahīpateḥ |

2.2२.२

योगक्षेमौ तदायत्तौ धर्माद्या यन्निबन्धनाः ॥ (२।२)

yogakṣemau tadāyattau dharmādyā yannibandhanāḥ ||

3.1३.१

ओदनो विषवान् सान्द्रो यात्य् अविस्राव्यताम् इव । (३।१)

odano viṣavān sāndro yāty avisrāvyatām iva |

3.2३.२

चिरेण पच्यते पक्वो भवेत् पर्युषितोपमः ॥ (३।२)

cireṇa pacyate pakvo bhavet paryuṣitopamaḥ ||

4.1४.१

मयूरकण्ठतुल्योष्मा मोहमूर्छाप्रसेककृत् । (४।१)

mayūrakaṇṭhatulyoṣmā mohamūrchāprasekakṛt |

4.2४.२

हीयते वर्णगन्धाद्यैः क्लिद्यते चन्द्रिकाचितः ॥ (४।२)

hīyate varṇagandhādyaiḥ klidyate candrikācitaḥ ||

5.1५.१

व्यञ्जनान्य् आशु शुष्यन्ति ध्यामक्वाथानि तत्र च । (५।१)

vyañjanāny āśu śuṣyanti dhyāmakvāthāni tatra ca |

5.2५.२

हीनातिरिक्ता विकृता छाया दृश्येत नैव वा ॥ (५।२)

hīnātiriktā vikṛtā chāyā dṛśyeta naiva vā ||

6.1६.१

फेनोर्ध्वराजिसीमन्ततन्तुबुद्बुदसम्भवः । (६।१)

phenordhvarājisīmantatantubudbudasambhavaḥ |

6.2६.२

विच्छिन्नविरसाः रागाः खाण्डवाः शाकम् आमिषम् ॥ (६।२)

vicchinnavirasāḥ rāgāḥ khāṇḍavāḥ śākam āmiṣam ||

7.1७.१

नीला राजी रसे ताम्रा क्षीरे दध्नि दृश्यते । (७।१)

nīlā rājī rase tāmrā kṣīre dadhni dṛśyate |

7.2७.२

श्यावा पीता सिता तक्रे घृते पानीयसंनिभा ॥ (७।२)

śyāvā pītā sitā takre ghṛte pānīyasaṃnibhā ||

8.1८.१

मस्तुनि स्यात् कपोताभा राजी कृष्णा तुषोदके । (८।१)

mastuni syāt kapotābhā rājī kṛṣṇā tuṣodake |

8.2८.२

काली मद्याम्भसोः क्षौद्रे हरित् तैले ऽरुणोपमा ॥ (८।२)

kālī madyāmbhasoḥ kṣaudre harit taile 'ruṇopamā ||

9.1९.१

पाकः फलानाम् आमानां पक्वानां परिकोथनम् । (९।१)

pākaḥ phalānām āmānāṃ pakvānāṃ parikothanam |

9.2९.२

द्रव्याणाम् आर्द्रशुष्काणां स्यातां म्लानिविवर्णते ॥ (९।२)

dravyāṇām ārdraśuṣkāṇāṃ syātāṃ mlānivivarṇate ||

10.1१०.१

मृदूनां कठिनानां च भवेत् स्पर्शविपर्ययः । (१०।१)

mṛdūnāṃ kaṭhinānāṃ ca bhavet sparśaviparyayaḥ |

10.2१०.२

माल्यस्य स्फुटिताग्रत्वं म्लानिर् गन्धान्तरोद्भवः ॥ (१०।२)

mālyasya sphuṭitāgratvaṃ mlānir gandhāntarodbhavaḥ ||

11.1११.१

ध्याममण्डलता वस्त्रे शदनं तन्तुपक्ष्मणाम् । (११।१)

dhyāmamaṇḍalatā vastre śadanaṃ tantupakṣmaṇām |

11.2११.२

धातुमौक्तिककाष्ठाश्मरत्नादिषु मलाक्तता ॥ (११।२)

dhātumauktikakāṣṭhāśmaratnādiṣu malāktatā ||

12.1१२.१

स्नेहस्पर्शप्रभाहानिः सप्रभत्वं तु मृन्मये । (१२।१)

snehasparśaprabhāhāniḥ saprabhatvaṃ tu mṛnmaye |

12.2१२.२

विषदः श्यावशुष्कास्यो विलक्षो वीक्षते दिशः ॥ (१२।२)

viṣadaḥ śyāvaśuṣkāsyo vilakṣo vīkṣate diśaḥ ||

13.1१३.१

स्वेदवेपथुमांस् त्रस्तो भीतः स्खलति जृम्भते । (१३।१)

svedavepathumāṃs trasto bhītaḥ skhalati jṛmbhate |

13.2१३.२

प्राप्यान्नं सविषं त्व् अग्निर् एकावर्तः स्फुटत्य् अति ॥ (१३।२)

prāpyānnaṃ saviṣaṃ tv agnir ekāvartaḥ sphuṭaty ati ||

14.1१४.१

शिखिकण्ठाभधूमार्चिर् अनर्चिर् वोग्रगन्धवान् । (१४।१)

śikhikaṇṭhābhadhūmārcir anarcir vogragandhavān |

14.2१४.२

म्रियन्ते मक्षिकाः प्राश्य काकः क्षामस्वरो भवेत् ॥ (१४।२)

mriyante makṣikāḥ prāśya kākaḥ kṣāmasvaro bhavet ||

15.1१५.१

उत्क्रोशन्ति च दृष्ट्वैतच् छुकदात्यूहसारिकाः । (१५।१)

utkrośanti ca dṛṣṭvaitac chukadātyūhasārikāḥ |

15.2१५.२

हंसः प्रस्खलति ग्लानिर् जीवंजीवस्य जायते ॥ (१५।२)

haṃsaḥ praskhalati glānir jīvaṃjīvasya jāyate ||

16.1१६.१

चकोरस्याक्षिवैराग्यं क्रौञ्चस्य स्यान् मदोदयः । (१६।१)

cakorasyākṣivairāgyaṃ krauñcasya syān madodayaḥ |

16.2१६.२

कपोतपरभृद्दक्षचक्रवाका जहत्य् असून् ॥ (१६।२)

kapotaparabhṛddakṣacakravākā jahaty asūn ||

17.1१७.१

उद्वेगं याति मार्जारः शकृन् मुञ्चति वानरः । (१७।१)

udvegaṃ yāti mārjāraḥ śakṛn muñcati vānaraḥ |

17.2१७.२

हृष्येन् मयूरस् तद्दृष्ट्या मन्दतेजो भवेद् विषम् ॥ (१७।२)

hṛṣyen mayūras taddṛṣṭyā mandatejo bhaved viṣam ||

18.1१८.१

इत्य् अन्नं विषवज् ज्ञात्वा त्यजेद् एवं प्रयत्नतः । (१८।१)

ity annaṃ viṣavaj jñātvā tyajed evaṃ prayatnataḥ |

18.2१८.२

यथा तेन विपद्येरन्न् अपि न क्षुद्रजन्तवः ॥ (१८।२)

yathā tena vipadyerann api na kṣudrajantavaḥ ||

19.1१९.१

स्पृष्टे तु कण्डूदाहोषाज्वरार्तिस्फोटसुप्तयः । (१९।१)

spṛṣṭe tu kaṇḍūdāhoṣājvarārtisphoṭasuptayaḥ |

19.2१९.२

नखरोमच्युतिः शोफः सेकाद्या विषनाशनाः ॥ (१९।२)

nakharomacyutiḥ śophaḥ sekādyā viṣanāśanāḥ ||

20.1२०.१

शस्तास् तत्र प्रलेपाश् च सेव्यचन्दनपद्मकैः । (२०।१)

śastās tatra pralepāś ca sevyacandanapadmakaiḥ |

20.2२०.२

ससोमवल्कतालीशपत्त्रकुष्ठामृतानतैः ॥ (२०।२)

sasomavalkatālīśapattrakuṣṭhāmṛtānataiḥ ||

21.1२१.१

लाला जिह्वौष्ठयोर् जाड्यम् ऊषा चिमिचिमायनम् । (२१।१)

lālā jihvauṣṭhayor jāḍyam ūṣā cimicimāyanam |

21.2२१.२

दन्तहर्षो रसाज्ञत्वं हनुस्तम्भश् च वक्त्रगे ॥ (२१।२)

dantaharṣo rasājñatvaṃ hanustambhaś ca vaktrage ||

22.1२२.१

सेव्याद्यैस् तत्र गण्डूषाः सर्वं च विषजिद्धितम् । (२२।१)

sevyādyais tatra gaṇḍūṣāḥ sarvaṃ ca viṣajiddhitam |

22.2२२.२

आमाशयगते स्वेदमूर्छाध्मानमदभ्रमाः ॥ (२२।२)

āmāśayagate svedamūrchādhmānamadabhramāḥ ||

23.1२३.१

रोमहर्षो वमिर् दाहश् चक्षुर्हृदयरोधनम् । (२३।१)

romaharṣo vamir dāhaś cakṣurhṛdayarodhanam |

23.2२३.२

बिन्दुभिश् चाचयो ऽङ्गानां पक्वाशयगते पुनः ॥ (२३।२)

bindubhiś cācayo 'ṅgānāṃ pakvāśayagate punaḥ ||

24.1२४.१

अनेकवर्णं वमति मूत्रयत्य् अतिसार्यते । (२४।१)

anekavarṇaṃ vamati mūtrayaty atisāryate |

24.2२४.२

तन्द्रा कृशत्वं पाण्डुत्वम् उदरं बलसंक्षयः ॥ (२४।२)

tandrā kṛśatvaṃ pāṇḍutvam udaraṃ balasaṃkṣayaḥ ||

25.1२५.१

तयोर् वान्तविरिक्तस्य हरिद्रे कटभीं गुडम् । (२५।१)

tayor vāntaviriktasya haridre kaṭabhīṃ guḍam |

25.2२५.२

सिन्धुवारितनिष्पावबाष्पिकाशतपर्विकाः ॥ (२५।२)

sindhuvāritaniṣpāvabāṣpikāśataparvikāḥ ||

26.1२६.१

तण्डुलीयकमूलानि कुक्कुटाण्डम् अवल्गुजम् । (२६।१)

taṇḍulīyakamūlāni kukkuṭāṇḍam avalgujam |

26.2२६.२

नावनाञ्जनपानेषु योजयेद् विषशान्तये ॥ (२६।२)

nāvanāñjanapāneṣu yojayed viṣaśāntaye ||

27.1२७.१

विषभुक्ताय दद्याच् च शुद्धायोर्ध्वम् अधस् तथा । (२७।१)

viṣabhuktāya dadyāc ca śuddhāyordhvam adhas tathā |

27.2२७.२

सूक्ष्मं ताम्ररजः काले सक्षौद्रं हृद्विशोधनम् ॥ (२७।२)

sūkṣmaṃ tāmrarajaḥ kāle sakṣaudraṃ hṛdviśodhanam ||

28.1२८.१

शुद्धे हृदि ततः शाणं हेमचूर्णस्य दापयेत् । (२८।१)

śuddhe hṛdi tataḥ śāṇaṃ hemacūrṇasya dāpayet |

28.2२८.२

न सज्जते हेमपाङ्गे पद्मपत्त्रे ऽम्बुवद् विषम् ॥ (२८।२)

na sajjate hemapāṅge padmapattre 'mbuvad viṣam ||

29.1२९.१

जायते विपुलं चायुर् गरे ऽप्य् एष विधिः स्मृतः । (२९।१)

jāyate vipulaṃ cāyur gare 'py eṣa vidhiḥ smṛtaḥ |

29.2२९.२

विरुद्धम् अपि चाहारं विद्याद् विषगरोपमम् ॥ (२९।२)

viruddham api cāhāraṃ vidyād viṣagaropamam ||

30.1३०.१

आनूपम् आमिषं माषक्षौद्रक्षीरविरूढकैः । (३०।१)

ānūpam āmiṣaṃ māṣakṣaudrakṣīravirūḍhakaiḥ |

30.2३०.२

विरुध्यते सह बिसैर् मूलकेन गुडेन वा ॥ (३०।२)

virudhyate saha bisair mūlakena guḍena vā ||

31.1३१.१

विशेषात् पयसा मत्स्या मत्स्येष्व् अपि चिलीचिमः । (३१।१)

viśeṣāt payasā matsyā matsyeṣv api cilīcimaḥ |

31.2३१.२

विरुद्धम् अम्लं पयसा सह सर्वं फलं तथा ॥ (३१।२)

viruddham amlaṃ payasā saha sarvaṃ phalaṃ tathā ||

32.1३२.१

तद्वत् कुलत्थचणककङ्गुवल्लमकुष्टकाः । (३२।१)

tadvat kulatthacaṇakakaṅguvallamakuṣṭakāḥ |

32.2३२.२

भक्षयित्वा हरितकं मूलकादि पयस् त्यजेत् ॥ (३२।२)

bhakṣayitvā haritakaṃ mūlakādi payas tyajet ||

33.1३३.१

वाराहं श्वाविधा नाद्याद् दध्ना पृषतकुक्कुटौ । (३३।१)

vārāhaṃ śvāvidhā nādyād dadhnā pṛṣatakukkuṭau |

33.2३३.२

आममांसानि पित्तेन माषसूपेन मूलकम् ॥ (३३।२)

āmamāṃsāni pittena māṣasūpena mūlakam ||

34.1३४.१

अविं कुसुम्भशाकेन बिसैः सह विरूढकम् । (३४।१)

aviṃ kusumbhaśākena bisaiḥ saha virūḍhakam |

34.2३४.२

माषसूपगुडक्षीरदध्याज्यैर् लाकुचं फलम् ॥ (३४।२)

māṣasūpaguḍakṣīradadhyājyair lākucaṃ phalam ||

35.1३५.१

फलं कदल्यास् तक्रेण दध्ना तालफलेन वा । (३५।१)

phalaṃ kadalyās takreṇa dadhnā tālaphalena vā |

35.2३५.२

कणोषणाभ्यां मधुना काकमाचीं गुडेन वा ॥ (३५।२)

kaṇoṣaṇābhyāṃ madhunā kākamācīṃ guḍena vā ||

36.1३६.१

सिद्धां वा मत्स्यपचने पचने नागरस्य वा । (३६।१)

siddhāṃ vā matsyapacane pacane nāgarasya vā |

36.2३६.२

सिद्धाम् अन्यत्र वा पात्रे कामात् ताम् उषितां निशाम् ॥ (३६।२)

siddhām anyatra vā pātre kāmāt tām uṣitāṃ niśām ||

37.1३७.१

मत्स्यनिस्तलनस्नेहे साधिताः पिप्पलीस् त्यजेत् । (३७।१)

matsyanistalanasnehe sādhitāḥ pippalīs tyajet |

37.2३७.२

कांस्ये दशाहम् उषितं सर्पिर् उष्णं त्व् अरुष्करे ॥ (३७।२)

kāṃsye daśāham uṣitaṃ sarpir uṣṇaṃ tv aruṣkare ||

38.1३८.१

भासो विरुध्यते शूल्यः कम्पिल्लस् तक्रसाधितः । (३८।१)

bhāso virudhyate śūlyaḥ kampillas takrasādhitaḥ |

38.2३८.२

ऐकध्यं पायससुराकृसराः परिवर्जयेत् ॥ (३८।२)

aikadhyaṃ pāyasasurākṛsarāḥ parivarjayet ||

39.1३९.१

मधुसर्पिर्वसातैलपानीयानि द्विशस् त्रिशः । (३९।१)

madhusarpirvasātailapānīyāni dviśas triśaḥ |

39.2३९.२

एकत्र वा समांशानि विरुध्यन्ते परस्परम् ॥ (३९।२)

ekatra vā samāṃśāni virudhyante parasparam ||

40.1४०.१

भिन्नांशे अपि मध्वाज्ये दिव्यवार्य् अनुपानतः । (४०।१)

bhinnāṃśe api madhvājye divyavāry anupānataḥ |

40.2४०.२

मधुपुष्करबीजं च मधुमैरेयशार्करम् ॥ (४०।२)

madhupuṣkarabījaṃ ca madhumaireyaśārkaram ||

41.1४१.१

मन्थानुपानः क्षैरेयो हारिद्रः कटुतैलवान् । (४१।१)

manthānupānaḥ kṣaireyo hāridraḥ kaṭutailavān |

41.2४१.२

उपोदकातिसाराय तिलकल्केन साधिता ॥ (४१।२)

upodakātisārāya tilakalkena sādhitā ||

42.1४२.१

बलाका वारुणीयुक्ता कुल्माषैश् च विरुध्यते । (४२।१)

balākā vāruṇīyuktā kulmāṣaiś ca virudhyate |

42.2४२.२

भृष्टा वराहवसया सैव सद्यो निहन्त्य् असून् ॥ (४२।२)

bhṛṣṭā varāhavasayā saiva sadyo nihanty asūn ||

43.1४३.१

तद्वत् तित्तिरिपत्त्राढ्यगोधालावकपिञ्जलाः । (४३।१)

tadvat tittiripattrāḍhyagodhālāvakapiñjalāḥ |

43.2४३.२

ऐरण्डेनाग्निना सिद्धास् तत्तैलेन विमूर्छिताः ॥ (४३।२)

airaṇḍenāgninā siddhās tattailena vimūrchitāḥ ||

44.1४४.१

हारीतमांसं हारिद्रशूलकप्रोतपाचितम् । (४४।१)

hārītamāṃsaṃ hāridraśūlakaprotapācitam |

44.2४४.२

हरिद्रावह्निना सद्यो व्यापादयति जीवितम् ॥ (४४।२)

haridrāvahninā sadyo vyāpādayati jīvitam ||

45.1४५.१

भस्मपांसुपरिध्वस्तं तद् एव च समाक्षिकम् । (४५।१)

bhasmapāṃsuparidhvastaṃ tad eva ca samākṣikam |

45.2४५.२

यत् किंचिद् दोषम् उत्क्लेश्य न हरेत् तत् समासतः ॥ (४५।२)

yat kiṃcid doṣam utkleśya na haret tat samāsataḥ ||

46.1४६.१

विरुद्धं शुद्धिर् अत्रेष्टा शमो वा तद्विरोधिभिः । (४६।१)

viruddhaṃ śuddhir atreṣṭā śamo vā tadvirodhibhiḥ |

46.2४६.२

द्रव्यैस् तैर् एव वा पूर्वं शरीरस्याभिसंस्कृतिः ॥ (४६।२)

dravyais tair eva vā pūrvaṃ śarīrasyābhisaṃskṛtiḥ ||

47.1४७.१

व्यायामस्निग्धदीप्ताग्निवयःस्थबलशालिनाम् । (४७।१)

vyāyāmasnigdhadīptāgnivayaḥsthabalaśālinām |

47.2४७.२

विरोध्य् अपि न पीडायै सात्म्यम् अल्पं च भोजनम् ॥ (४७।२)

virodhy api na pīḍāyai sātmyam alpaṃ ca bhojanam ||

48.1४८.१

पादेनापथ्यम् अभ्यस्तं पादपादेन वा त्यजेत् । (४८।१)

pādenāpathyam abhyastaṃ pādapādena vā tyajet |

48.2४८.२

निषेवेत हितं तद्वद् एकद्वित्र्यन्तरीकृतम् ॥ (४८।२)

niṣeveta hitaṃ tadvad ekadvitryantarīkṛtam ||

49.1४९.१

अपथ्यम् अपि हि त्यक्तं शीलितं पथ्यम् एव वा । (४९।१)

apathyam api hi tyaktaṃ śīlitaṃ pathyam eva vā |

49.2४९.२

सात्म्यासात्म्यविकाराय जायते सहसान्यथा ॥ (४९।२)

sātmyāsātmyavikārāya jāyate sahasānyathā ||

50.1५०.१

क्रमेणापचिता दोषाः क्रमेणोपचिता गुणाः । (५०।१)

krameṇāpacitā doṣāḥ krameṇopacitā guṇāḥ |

50.2५०.२

सन्तो यान्त्य् अपुनर्भावम् अप्रकम्प्या भवन्ति च ॥ (५०।२)

santo yānty apunarbhāvam aprakampyā bhavanti ca ||

51.1५१.१

अत्यन्तसंनिधानानां दोषाणां दूषणात्मनाम् । (५१।१)

atyantasaṃnidhānānāṃ doṣāṇāṃ dūṣaṇātmanām |

51.2५१.२

अहितैर् दूषणं भूयो न विद्वान् कर्तुम् अर्हति ॥ (५१।२)

ahitair dūṣaṇaṃ bhūyo na vidvān kartum arhati ||

52.1५२.१

आहारशयनब्रह्मचर्यैर् युक्त्या प्रयोजितैः । (५२।१)

āhāraśayanabrahmacaryair yuktyā prayojitaiḥ |

52.2५२.२

शरीरं धार्यते नित्यम् आगारम् इव धारणैः ॥ (५२।२)

śarīraṃ dhāryate nityam āgāram iva dhāraṇaiḥ ||

53.1५३.१

आहारो वर्णितस् तत्र तत्र तत्र च वक्ष्यते । (५३।१)

āhāro varṇitas tatra tatra tatra ca vakṣyate |

53.2५३.२

निद्रायत्तं सुखं दुःखं पुष्टिः कार्श्यं बलाबलम् ॥ (५३।२)

nidrāyattaṃ sukhaṃ duḥkhaṃ puṣṭiḥ kārśyaṃ balābalam ||

54.1५४.१

वृषता क्लीबता ज्ञानम् अज्ञानं जीवितं न च । (५४।१)

vṛṣatā klībatā jñānam ajñānaṃ jīvitaṃ na ca |

54.2५४.२

अकाले ऽतिप्रसङ्गाच् च न च निद्रा निषेविता ॥ (५४।२)

akāle 'tiprasaṅgāc ca na ca nidrā niṣevitā ||

55.1५५.१

सुखायुषी पराकुर्यात् कालरात्रिर् इवापरा । (५५।१)

sukhāyuṣī parākuryāt kālarātrir ivāparā |

55.2५५.२

रात्रौ जागरणं रूक्षं स्निग्धं प्रस्वपनं दिवा ॥ (५५।२)

rātrau jāgaraṇaṃ rūkṣaṃ snigdhaṃ prasvapanaṃ divā ||

56.1५६.१

अरूक्षम् अनभिष्यन्दि त्व् आसीनप्रचलायितम् । (५६।१)

arūkṣam anabhiṣyandi tv āsīnapracalāyitam |

56.2५६.२

ग्रीष्मे वायुचयादानरौक्ष्यरात्र्यल्पभावतः ॥ (५६।२)

grīṣme vāyucayādānaraukṣyarātryalpabhāvataḥ ||

57.1५७.१

दिवास्वप्नो हितो ऽन्यस्मिन् कफपित्तकरो हि सः । (५७।१)

divāsvapno hito 'nyasmin kaphapittakaro hi saḥ |

57.2५७.२

मुक्त्वा तु भाष्ययानाध्वमद्यस्त्रीभारकर्मभिः ॥ (५७।२)

muktvā tu bhāṣyayānādhvamadyastrībhārakarmabhiḥ ||

58.1५८.१

क्रोधशोकभयैः क्लान्तान् श्वासहिध्मातिसारिणः । (५८।१)

krodhaśokabhayaiḥ klāntān śvāsahidhmātisāriṇaḥ |

58.2५८.२

वृद्धबालाबलक्षीणक्षततृट्शूलपीडितान् ॥ (५८।२)

vṛddhabālābalakṣīṇakṣatatṛṭśūlapīḍitān ||

59.1५९.१

अजीर्ण्यभिहतोन्मत्तान् दिवास्वप्नोचितान् अपि । (५९।१)

ajīrṇyabhihatonmattān divāsvapnocitān api |

59.2५९.२

धातुसाम्यं तथा ह्य् एषां श्लेष्मा चाङ्गानि पुष्यति ॥ (५९।२)

dhātusāmyaṃ tathā hy eṣāṃ śleṣmā cāṅgāni puṣyati ||

60.1६०.१

बहुमेदःकफाः स्वप्युः स्नेहनित्याश् च नाहनि । (६०।१)

bahumedaḥkaphāḥ svapyuḥ snehanityāś ca nāhani |

60.2६०.२

विषार्तः कण्ठरोगी च नैव जातु निशास्व् अपि ॥ (६०।२)

viṣārtaḥ kaṇṭharogī ca naiva jātu niśāsv api ||

61.1६१.१

अकालशयनान् मोहज्वरस्तैमित्यपीनसाः । (६१।१)

akālaśayanān mohajvarastaimityapīnasāḥ |

61.2६१.२

शिरोरुक्शोफहृल्लासस्रोतोरोधाग्निमन्दताः ॥ (६१।२)

śirorukśophahṛllāsasrotorodhāgnimandatāḥ ||

62.1६२.१

तत्रोपवासवमनस्वेदनावनम् औषधम् । (६२।१)

tatropavāsavamanasvedanāvanam auṣadham |

62.2६२.२

योजयेद् अतिनिद्रायां तीक्ष्णं प्रच्छर्दनाञ्जनम् ॥ (६२।२)

yojayed atinidrāyāṃ tīkṣṇaṃ pracchardanāñjanam ||

63.1६३.१

नावनं लङ्घनं चिन्तां व्यवायं शोकभीक्रुधः । (६३।१)

nāvanaṃ laṅghanaṃ cintāṃ vyavāyaṃ śokabhīkrudhaḥ |

63.2६३.२

एभिर् एव च निद्राया नाशः श्लेष्मातिसंक्षयात् ॥ (६३।२)

ebhir eva ca nidrāyā nāśaḥ śleṣmātisaṃkṣayāt ||

64.1६४.१

निद्रानाशाद् अङ्गमर्दशिरोगौरवजृम्भिकाः । (६४।१)

nidrānāśād aṅgamardaśirogauravajṛmbhikāḥ |

64.2६४.२

जाड्यग्लानिभ्रमापक्तितन्द्रा रोगाश् च वातजाः ॥ (६४।२)

jāḍyaglānibhramāpaktitandrā rogāś ca vātajāḥ ||

65.1६५.१

कफो ऽल्पो वायुनोद्धूतो धमनीः संनिरुध्य तु । (६५।१)

kapho 'lpo vāyunoddhūto dhamanīḥ saṃnirudhya tu |

65.2६५.२

कुर्यात् संज्ञापहां तन्द्रां दारुणां मोहकारिणीम् ॥ (६५।२)

kuryāt saṃjñāpahāṃ tandrāṃ dāruṇāṃ mohakāriṇīm ||

66.1६६.१

उन्मीलितविनिर्भुग्ने परिवर्तिततारके । (६६।१)

unmīlitavinirbhugne parivartitatārake |

66.2६६.२

भवतस् तत्र नयने स्रुते लुलितपक्ष्मणी ॥ (६६।२)

bhavatas tatra nayane srute lulitapakṣmaṇī ||

67.1६७.१

यथाकालम् अतो निद्रां रात्रौ सेवेत सात्म्यतः । (६७।१)

yathākālam ato nidrāṃ rātrau seveta sātmyataḥ |

67.2६७.२

असात्म्याज् जागराद् अर्धं प्रातः स्वप्याद् अभुक्तवान् ॥ (६७।२)

asātmyāj jāgarād ardhaṃ prātaḥ svapyād abhuktavān ||

68.1६८.१

शीलयेन् मन्दनिद्रस् तु क्षीरमद्यरसान् दधि । (६८।१)

śīlayen mandanidras tu kṣīramadyarasān dadhi |

68.2६८.२

अभ्यङ्गोद्वर्तनस्नानमूर्धकर्णाक्षितर्पणम् ॥ (६८।२)

abhyaṅgodvartanasnānamūrdhakarṇākṣitarpaṇam ||

69.1६९.१

कान्ताबाहुलताश्लेषो निर्वृतिः कृतकृत्यता । (६९।१)

kāntābāhulatāśleṣo nirvṛtiḥ kṛtakṛtyatā |

69.2६९.२

मनोऽनुकूला विषयाः कामं निद्रासुखप्रदाः ॥ (६९।२)

mano'nukūlā viṣayāḥ kāmaṃ nidrāsukhapradāḥ ||

70.1७०.१

ब्रह्मचर्यरतेर् ग्राम्यसुखनिःस्पृहचेतसः । (७०।१)

brahmacaryarater grāmyasukhaniḥspṛhacetasaḥ |

70.2७०.२

निद्रा संतोषतृप्तस्य स्वं कालं नातिवर्तते ॥ (७०।२)

nidrā saṃtoṣatṛptasya svaṃ kālaṃ nātivartate ||

71.1७१.१

ग्राम्यधर्मे त्यजेन् नारीम् अनुत्तानां रजस्वलाम् । (७१।१)

grāmyadharme tyajen nārīm anuttānāṃ rajasvalām |

71.2७१.२

अप्रियाम् अप्रियाचारां दुष्टसंकीर्णमेहनाम् ॥ (७१।२)

apriyām apriyācārāṃ duṣṭasaṃkīrṇamehanām ||

72.1७२.१

अतिस्थूलकृशाम् सूतां गर्भिणीम् अन्ययोषितम् । (७२।१)

atisthūlakṛśām sūtāṃ garbhiṇīm anyayoṣitam |

72.2७२.२

वर्णिनीम् अन्ययोनिं च गुरुदेवनृपालयम् ॥ (७२।२)

varṇinīm anyayoniṃ ca gurudevanṛpālayam ||

73.2७३.२

पर्वाण्य् अनङ्गं दिवसं शिरोहृदयताडनम् ॥ (७३।२)

parvāṇy anaṅgaṃ divasaṃ śirohṛdayatāḍanam ||

74.1७४.१

अत्याशितो ऽधृतिः क्षुद्वान् दुःस्थिताङ्गः पिपासितः । (७४।१)

atyāśito 'dhṛtiḥ kṣudvān duḥsthitāṅgaḥ pipāsitaḥ |

74.2७४.२

बालो वृद्धो ऽन्यवेगार्तस् त्यजेद् रोगी च मैथुनम् ॥ (७४।२)

bālo vṛddho 'nyavegārtas tyajed rogī ca maithunam ||

75.1७५.१

सेवेत कामतः कामं तृप्तो वाजीकृताम् हिमे । (७५।१)

seveta kāmataḥ kāmaṃ tṛpto vājīkṛtām hime |

75.2७५.२

त्र्यहाद् वसन्तशरदोः पक्षाद् वर्षानिदाघयोः ॥ (७५।२)

tryahād vasantaśaradoḥ pakṣād varṣānidāghayoḥ ||

76.1७६.१

भ्रमक्लमोरुदौर्बल्यबलधात्विन्द्रियक्षयाः । (७६।१)

bhramaklamorudaurbalyabaladhātvindriyakṣayāḥ |

76.2७६.२

अपर्वमरणं च स्याद् अन्यथा गच्छतः स्त्रियम् ॥ (७६।२)

aparvamaraṇaṃ ca syād anyathā gacchataḥ striyam ||

77.1७७.१

स्मृतिमेधायुरारोग्यपुष्टीन्द्रिययशोबलैः । (७७।१)

smṛtimedhāyurārogyapuṣṭīndriyayaśobalaiḥ |

77.2७७.२

अधिका मन्दजरसो भवन्ति स्त्रीषु संयताः ॥ (७७।२)

adhikā mandajaraso bhavanti strīṣu saṃyatāḥ ||

78.2७८.२

सेवेत चानु शयनं विरतौ रतस्य तस्यैवम् आशु वपुषः पुनर् एति धाम ॥ (७८।२)

seveta cānu śayanaṃ viratau ratasya tasyaivam āśu vapuṣaḥ punar eti dhāma ||

79.1७९.१

श्रुतचरितसमृद्धे कर्मदक्षे दयालौ भिषजि निरनुबन्धं देहरक्षां निवेश्य । (७९।१)

śrutacaritasamṛddhe karmadakṣe dayālau bhiṣaji niranubandhaṃ deharakṣāṃ niveśya |

79.2७९.२

भवति विपुलतेजःस्वास्थ्यकीर्तिप्रभावः स्वकुशलफलभोगी भूमिपालश् चिरायुः ॥ (७९।२)

bhavati vipulatejaḥsvāsthyakīrtiprabhāvaḥ svakuśalaphalabhogī bhūmipālaś cirāyuḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

AHS, 1, 7

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit