अष्टाङ्गहृदयसंहिताAṣṭāṅgahṛdayasaṃhitā

AHS, 6, 33

113 of 120 · 107 verses

Select a line for its word-by-word analysis.

1.1१.१

अथातो गुह्यरोगविज्ञानीयं व्याख्यास्यामः । (१।१)

athāto guhyarogavijñānīyaṃ vyākhyāsyāmaḥ |

1.2१.२

इति ह स्माहुरात्रेयादयो महर्षयः । (१।२)

iti ha smāhurātreyādayo maharṣayaḥ |

1.3१.३

स्त्रीव्यवायनिवृत्तस्य सहसा भजतो ऽथवा । (१।३)

strīvyavāyanivṛttasya sahasā bhajato 'thavā |

1.4१.४

दोषाध्युषितसंकीर्णमलिनाणुरजःपथाम् ॥ (१।४)

doṣādhyuṣitasaṃkīrṇamalināṇurajaḥpathām ||

2.1२.१

अन्ययोनिम् अनिच्छन्तीम् अगम्यां नवसूतिकाम् । (२।१)

anyayonim anicchantīm agamyāṃ navasūtikām |

2.2२.२

दूषितं स्पृशतस्तोयं रतान्तेष्वपि नैव वा ॥ (२।२)

dūṣitaṃ spṛśatastoyaṃ ratānteṣvapi naiva vā ||

3.1३.१

विवर्धयिषया तीक्ष्णान् प्रलेपादीन् प्रयच्छतः । (३।१)

vivardhayiṣayā tīkṣṇān pralepādīn prayacchataḥ |

3.2३.२

मुष्टिदन्तनखोत्पीडाविषवच्छूकपातनैः ॥ (३।२)

muṣṭidantanakhotpīḍāviṣavacchūkapātanaiḥ ||

4.1४.१

वेगनिग्रहदीर्घातिखरस्पर्शविघट्टनैः । (४।१)

veganigrahadīrghātikharasparśavighaṭṭanaiḥ |

4.2४.२

दोषा दुष्टा गता गुह्यं त्रयोविंशतिम् आमयान् ॥ (४।२)

doṣā duṣṭā gatā guhyaṃ trayoviṃśatim āmayān ||

5.1५.१

जनयन्त्युपदंशादीन् उपदंशो ऽत्र पञ्चधा । (५।१)

janayantyupadaṃśādīn upadaṃśo 'tra pañcadhā |

5.2५.२

पृथग् दोषैः सरुधिरैः समस्तैश्चात्र मारुतात् ॥ (५।२)

pṛthag doṣaiḥ sarudhiraiḥ samastaiścātra mārutāt ||

6.1६.१

मेढ्रे शोफो रुजश्चित्राः स्तम्भस्त्वक्परिपोटनम् । (६।१)

meḍhre śopho rujaścitrāḥ stambhastvakparipoṭanam |

6.2६.२

पक्वोदुम्बरसंकाशः पित्तेन श्वयथुर् ज्वरः ॥ (६।२)

pakvodumbarasaṃkāśaḥ pittena śvayathur jvaraḥ ||

7.1७.१

श्लेष्मणा कठिनः स्निग्धः कण्डूमाञ्छीतलो गुरुः । (७।१)

śleṣmaṇā kaṭhinaḥ snigdhaḥ kaṇḍūmāñchītalo guruḥ |

7.2७.२

शोणितेनासितस्फोटसंभवो ऽस्रस्रुतिर् ज्वरः ॥ (७।२)

śoṇitenāsitasphoṭasaṃbhavo 'srasrutir jvaraḥ ||

8.1८.१

सर्वजे सर्वलिङ्गत्वं श्वयथुर् मुष्कयोरपि । (८।१)

sarvaje sarvaliṅgatvaṃ śvayathur muṣkayorapi |

8.2८.२

तीव्रा रुग् आशुपचनं दरणं कृमिसंभवः ॥ (८।२)

tīvrā rug āśupacanaṃ daraṇaṃ kṛmisaṃbhavaḥ ||

9.1९.१

याप्यो रक्तोद्भवस्तेषां मृत्यवे संनिपातजः । (९।१)

yāpyo raktodbhavasteṣāṃ mṛtyave saṃnipātajaḥ |

9.2९.२

जायन्ते कुपितैर् दोषैर् गुह्यासृक्पिशिताश्रयैः ॥ (९।२)

jāyante kupitair doṣair guhyāsṛkpiśitāśrayaiḥ ||

10.1१०.१

अन्तर् बहिर् वा मेढ्रस्य कण्डूला मांसकीलकाः । (१०।१)

antar bahir vā meḍhrasya kaṇḍūlā māṃsakīlakāḥ |

10.2१०.२

पिच्छिलास्रस्रवा योनौ तद्वच्च छत्त्रसंनिभाः ॥ (१०।२)

picchilāsrasravā yonau tadvacca chattrasaṃnibhāḥ ||

11.1११.१

ते ऽर्शांस्युपेक्षया घ्नन्ति मेढ्रपुंस्त्वं भगार्तवं । (११।१)

te 'rśāṃsyupekṣayā ghnanti meḍhrapuṃstvaṃ bhagārtavaṃ |

11.2११.२

गुह्यस्य बहिरन्तर् वा पिटिकाः कफरक्तजाः ॥ (११।२)

guhyasya bahirantar vā piṭikāḥ kapharaktajāḥ ||

12.1१२.१

सर्षपामानसंस्थाना घनाः सर्षपिकाः स्मृताः । (१२।१)

sarṣapāmānasaṃsthānā ghanāḥ sarṣapikāḥ smṛtāḥ |

12.2१२.२

पिटिका बहवो दीर्घा दीर्यन्ते मध्यतश्च याः ॥ (१२।२)

piṭikā bahavo dīrghā dīryante madhyataśca yāḥ ||

13.1१३.१

सो ऽवमन्थः कफासृग्भ्यां वेदनारोमहर्षवान् । (१३।१)

so 'vamanthaḥ kaphāsṛgbhyāṃ vedanāromaharṣavān |

13.2१३.२

कुम्भीका रक्तपित्तोत्था जाम्बवास्थिनिभाशुजा ॥ (१३।२)

kumbhīkā raktapittotthā jāmbavāsthinibhāśujā ||

14.1१४.१

अलजीं मेहवद् विद्याद् उत्तमां पित्तरक्तजाम् । (१४।१)

alajīṃ mehavad vidyād uttamāṃ pittaraktajām |

14.2१४.२

पिटिकां माषमुद्गाभां पिटिका पिटिकाचिता ॥ (१४।२)

piṭikāṃ māṣamudgābhāṃ piṭikā piṭikācitā ||

15.1१५.१

कर्णिका पुष्करस्येव ज्ञेया पुष्करिकेति सा । (१५।१)

karṇikā puṣkarasyeva jñeyā puṣkariketi sā |

15.2१५.२

पाणिभ्यां भृशसंव्यूढे संव्यूढपिटिका भवेत् ॥ (१५।२)

pāṇibhyāṃ bhṛśasaṃvyūḍhe saṃvyūḍhapiṭikā bhavet ||

16.1१६.१

मृदितं मृदितं वस्त्रसंरब्धं वातकोपतः । (१६।१)

mṛditaṃ mṛditaṃ vastrasaṃrabdhaṃ vātakopataḥ |

16.2१६.२

विषमा कठिना भुग्ना वायुनाष्ठीलिका स्मृता ॥ (१६।२)

viṣamā kaṭhinā bhugnā vāyunāṣṭhīlikā smṛtā ||

17.1१७.१

विमर्दनादिदुष्टेन वायुना चर्म मेढ्रजम् । (१७।१)

vimardanādiduṣṭena vāyunā carma meḍhrajam |

17.2१७.२

निवर्तते सरुग्दाहं क्वचित् पाकं च गच्छति ॥ (१७।२)

nivartate sarugdāhaṃ kvacit pākaṃ ca gacchati ||

18.1१८.१

पिण्डितं ग्रन्थितं चर्म तत् प्रलम्बम् अधो मणेः । (१८।१)

piṇḍitaṃ granthitaṃ carma tat pralambam adho maṇeḥ |

18.2१८.२

निवृत्तसंज्ञं सकफं कण्डूकाठिन्यवत् तु तत् ॥ (१८।२)

nivṛttasaṃjñaṃ sakaphaṃ kaṇḍūkāṭhinyavat tu tat ||

19.1१९.१

दुरूढं स्फुटितं चर्म निर्दिष्टम् अवपाटिका । (१९।१)

durūḍhaṃ sphuṭitaṃ carma nirdiṣṭam avapāṭikā |

19.2१९.२

वातेन दूषितं चर्म मणौ सक्तं रुणद्धि चेत् ॥ (१९।२)

vātena dūṣitaṃ carma maṇau saktaṃ ruṇaddhi cet ||

20.1२०.१

स्रोतो मूत्रं ततो ऽभ्येति मन्दधारम् अवेदनम् । (२०।१)

sroto mūtraṃ tato 'bhyeti mandadhāram avedanam |

20.2२०.२

मणेर् विकाशरोधश्च स निरुद्धमणिर् गदः ॥ (२०।२)

maṇer vikāśarodhaśca sa niruddhamaṇir gadaḥ ||

21.1२१.१

लिङ्गं शूकैरिवापूर्णं ग्रथिताख्यं कफोद्भवम् । (२१।१)

liṅgaṃ śūkairivāpūrṇaṃ grathitākhyaṃ kaphodbhavam |

21.2२१.२

शूकदूषितरक्तोत्था स्पर्शहानिस्तदाह्वया ॥ (२१।२)

śūkadūṣitaraktotthā sparśahānistadāhvayā ||

22.1२२.१

छिद्रैरणुमुखैर् यत् तु मेहनं सर्वतश्चितम् । (२२।१)

chidrairaṇumukhair yat tu mehanaṃ sarvataścitam |

22.2२२.२

वातशोणितकोपेन तं विद्याच्छतपोनकम् ॥ (२२।२)

vātaśoṇitakopena taṃ vidyācchataponakam ||

23.1२३.१

पित्तासृग्भ्यां त्वचः पाकस्त्वक्पाको ज्वरदाहवान् । (२३।१)

pittāsṛgbhyāṃ tvacaḥ pākastvakpāko jvaradāhavān |

23.2२३.२

मांस्पाकः सर्वजः सर्ववेदनो मांसशातनः ॥ (२३।२)

māṃspākaḥ sarvajaḥ sarvavedano māṃsaśātanaḥ ||

24.1२४.१

सरागैरसितैः स्फोटैः पिटिकाभिश्च पीडितम् । (२४।१)

sarāgairasitaiḥ sphoṭaiḥ piṭikābhiśca pīḍitam |

24.2२४.२

मेहनं वेदना चोग्रा तं विद्याद् असृगर्बुदम् ॥ (२४।२)

mehanaṃ vedanā cogrā taṃ vidyād asṛgarbudam ||

25.1२५.१

मांसार्बुदं प्राग् उदितं विद्रधिश्च त्रिदोषजः । (२५।१)

māṃsārbudaṃ prāg uditaṃ vidradhiśca tridoṣajaḥ |

25.2२५.२

कृष्णानि भूत्वा मांसानि विशीर्यन्ते समन्ततः ॥ (२५।२)

kṛṣṇāni bhūtvā māṃsāni viśīryante samantataḥ ||

26.1२६.१

पक्वानि संनिपातेन तान् विद्यात् तिलकालकान् । (२६।१)

pakvāni saṃnipātena tān vidyāt tilakālakān |

26.2२६.२

मांसोत्थम् अर्बुदं पाकं विद्रधिं तिलकालकान् ॥ (२६।२)

māṃsottham arbudaṃ pākaṃ vidradhiṃ tilakālakān ||

27.1२७.१

चतुरो वर्जयेद् एषां शेषाञ्छीघ्रम् उपाचरेत् । (२७।१)

caturo varjayed eṣāṃ śeṣāñchīghram upācaret |

27.2२७.२

विंशतिर् व्यापदो योनेर् जायन्ते दुष्टभोजनात् ॥ (२७।२)

viṃśatir vyāpado yoner jāyante duṣṭabhojanāt ||

28.1२८.१

विषमस्थाङ्गशयनभृशमैथुनसेवनैः । (२८।१)

viṣamasthāṅgaśayanabhṛśamaithunasevanaiḥ |

28.2२८.२

दुष्टार्तवाद् अपद्रवैर् बीजदोषेण दैवतः ॥ (२८।२)

duṣṭārtavād apadravair bījadoṣeṇa daivataḥ ||

29.1२९.१

योनौ क्रुद्धो ऽनिलः कुर्याद् रुक्तोदायामसुप्तताः । (२९।१)

yonau kruddho 'nilaḥ kuryād ruktodāyāmasuptatāḥ |

29.2२९.२

पिपीलिकासृप्तिम् इव स्तम्भं कर्कशतां स्वनम् ॥ (२९।२)

pipīlikāsṛptim iva stambhaṃ karkaśatāṃ svanam ||

30.1३०.१

फेनिलारुणकृष्णाल्पतनुरूक्षार्तवस्रुतिम् । (३०।१)

phenilāruṇakṛṣṇālpatanurūkṣārtavasrutim |

30.2३०.२

स्रंसं वङ्क्षणपार्श्वादौ व्यथां गुल्मं क्रमेण च ॥ (३०।२)

sraṃsaṃ vaṅkṣaṇapārśvādau vyathāṃ gulmaṃ krameṇa ca ||

31.1३१.१

तांस्तांश्च स्वान् गदान् व्यापद् वातिकी नाम सा स्मृता । (३१।१)

tāṃstāṃśca svān gadān vyāpad vātikī nāma sā smṛtā |

31.2३१.२

सैवातिचरणा शोफसंयुक्तातिव्यवायतः ॥ (३१।२)

saivāticaraṇā śophasaṃyuktātivyavāyataḥ ||

32.1३२.१

मैथुनाद् अतिबालायाः पृष्ठजङ्घोरुवङ्क्षणम् । (३२।१)

maithunād atibālāyāḥ pṛṣṭhajaṅghoruvaṅkṣaṇam |

32.2३२.२

रुजन् संदूषयेद् योनिं वायुः प्राक्चरणेति सा ॥ (३२।२)

rujan saṃdūṣayed yoniṃ vāyuḥ prākcaraṇeti sā ||

33.1३३.१

वेगोदावर्तनाद् योनिं प्रपीडयति मारुतः । (३३।१)

vegodāvartanād yoniṃ prapīḍayati mārutaḥ |

33.2३३.२

सा फेनिलं रजः कृच्छ्राद् उदावृत्तं विमुञ्चति ॥ (३३।२)

sā phenilaṃ rajaḥ kṛcchrād udāvṛttaṃ vimuñcati ||

34.1३४.१

इयं व्यापद् उदावृत्ता जातघ्नी तु यदानिलः । (३४।१)

iyaṃ vyāpad udāvṛttā jātaghnī tu yadānilaḥ |

34.2३४.२

जातं जातं सुतं हन्ति रौक्ष्याद् दुष्टार्तवोद्भवम् ॥ (३४।२)

jātaṃ jātaṃ sutaṃ hanti raukṣyād duṣṭārtavodbhavam ||

35.1३५.१

अत्याशिताया विषमं स्थितायाः सुरते मरुत् । (३५।१)

atyāśitāyā viṣamaṃ sthitāyāḥ surate marut |

35.2३५.२

अन्नेनोत्पीडितो योनेः स्थितः स्रोतसि वक्रयेत् ॥ (३५।२)

annenotpīḍito yoneḥ sthitaḥ srotasi vakrayet ||

36.1३६.१

सास्थिमांसं मुखं तीव्ररुजम् अन्तर्मुखीति सा । (३६।१)

sāsthimāṃsaṃ mukhaṃ tīvrarujam antarmukhīti sā |

36.2३६.२

वातलाहारसेविन्यां जनन्यां कुपितो ऽनिलः ॥ (३६।२)

vātalāhārasevinyāṃ jananyāṃ kupito 'nilaḥ ||

37.1३७.१

स्त्रियो योनिम् अणुद्वारां कुर्यात् सूचीमुखीति सा । (३७।१)

striyo yonim aṇudvārāṃ kuryāt sūcīmukhīti sā |

37.2३७.२

वेगरोधाद् ऋतौ वायुर् दुष्टो विण्मूत्रसंग्रहम् ॥ (३७।२)

vegarodhād ṛtau vāyur duṣṭo viṇmūtrasaṃgraham ||

38.1३८.१

करोति योनेः शोषं च शुष्काख्या सातिवेदना । (३८।१)

karoti yoneḥ śoṣaṃ ca śuṣkākhyā sātivedanā |

38.2३८.२

षडहात् सप्तरात्राद् वा शुक्रं गर्भाशयान् मरुत् ॥ (३८।२)

ṣaḍahāt saptarātrād vā śukraṃ garbhāśayān marut ||

39.1३९.१

वमेत् सरुङ् नीरुजो वा यस्याः सा वामिनी मता । (३९।१)

vamet saruṅ nīrujo vā yasyāḥ sā vāminī matā |

39.2३९.२

योनौ वातोपतप्तायां स्त्रीगर्भे बीजदोषतः ॥ (३९।२)

yonau vātopataptāyāṃ strīgarbhe bījadoṣataḥ ||

40.1४०.१

नृद्वेषिण्यस्तनी च स्यात् षण्ढसंज्ञानुपक्रमा । (४०।१)

nṛdveṣiṇyastanī ca syāt ṣaṇḍhasaṃjñānupakramā |

40.2४०.२

दुष्टो विष्टभ्य योन्यास्यं गर्भकोष्ठं च मारुतः ॥ (४०।२)

duṣṭo viṣṭabhya yonyāsyaṃ garbhakoṣṭhaṃ ca mārutaḥ ||

41.1४१.१

कुरुते विवृतां स्रस्तां वातिकीम् इव दुःखिताम् । (४१।१)

kurute vivṛtāṃ srastāṃ vātikīm iva duḥkhitām |

41.2४१.२

उत्सन्नमांसां ताम् आहुर् महायोनिं महारुजाम् ॥ (४१।२)

utsannamāṃsāṃ tām āhur mahāyoniṃ mahārujām ||

42.1४२.१

यथास्वैर् दूषणैर् दुष्टं पित्तं योनिम् उपाश्रितम् । (४२।१)

yathāsvair dūṣaṇair duṣṭaṃ pittaṃ yonim upāśritam |

42.2४२.२

करोति दाहपाकोषापूतिगन्धिज्वरान्विताम् ॥ (४२।२)

karoti dāhapākoṣāpūtigandhijvarānvitām ||

43.1४३.१

भृशोष्णभूरिकुणपनीलपीतासितार्तवाम् । (४३।१)

bhṛśoṣṇabhūrikuṇapanīlapītāsitārtavām |

43.2४३.२

सा व्यापत् पैत्तिकी रक्तयोन्याख्यासृगतिस्रुतेः ॥ (४३।२)

sā vyāpat paittikī raktayonyākhyāsṛgatisruteḥ ||

44.1४४.१

कफो ऽभिष्यन्दिभिः क्रुद्धः कुर्याद् योनिम् अवेदनाम् । (४४।१)

kapho 'bhiṣyandibhiḥ kruddhaḥ kuryād yonim avedanām |

44.2४४.२

शीतलां कण्डुलां पाण्डुपिच्छिलां तद्विधस्रुतिम् ॥ (४४।२)

śītalāṃ kaṇḍulāṃ pāṇḍupicchilāṃ tadvidhasrutim ||

45.1४५.१

सा व्यापच्छ्लैष्मिकी वातपित्ताभ्यां क्षीयते रजः । (४५।१)

sā vyāpacchlaiṣmikī vātapittābhyāṃ kṣīyate rajaḥ |

45.2४५.२

सदाहकार्श्यवैवर्ण्यं यस्याः सा लोहितक्षया ॥ (४५।२)

sadāhakārśyavaivarṇyaṃ yasyāḥ sā lohitakṣayā ||

46.1४६.१

पित्तलाया नृसंवासे क्षवथूद्गारधारणात् । (४६।१)

pittalāyā nṛsaṃvāse kṣavathūdgāradhāraṇāt |

46.2४६.२

पित्तयुक्तेन मरुता योनिर् भवति दूषिता ॥ (४६।२)

pittayuktena marutā yonir bhavati dūṣitā ||

47.1४७.१

शूना स्पर्शासहा सार्तिर् नीलपीतास्रवाहिनी । (४७।१)

śūnā sparśāsahā sārtir nīlapītāsravāhinī |

47.2४७.२

वस्तिकुक्षिगुरुत्वातीसारारोचककारिणी ॥ (४७।२)

vastikukṣigurutvātīsārārocakakāriṇī ||

48.1४८.१

श्रोणिवङ्क्षणरुक्तोदज्वरकृत् सा परिप्लुता । (४८।१)

śroṇivaṅkṣaṇaruktodajvarakṛt sā pariplutā |

48.2४८.२

वातश्लेष्मामयव्याप्ता श्वेतपिच्छिलवाहिनी ॥ (४८।२)

vātaśleṣmāmayavyāptā śvetapicchilavāhinī ||

49.1४९.१

उपप्लुता स्मृता योनिर् विप्लुताख्या त्वधावनात् । (४९।१)

upaplutā smṛtā yonir viplutākhyā tvadhāvanāt |

49.2४९.२

संजातजन्तुः कण्डूला कण्ड्वा चातिरतिप्रिया ॥ (४९।२)

saṃjātajantuḥ kaṇḍūlā kaṇḍvā cātiratipriyā ||

50.1५०.१

अकालवाहनाद् वायुः श्लेष्मरक्तविमूर्छितः । (५०।१)

akālavāhanād vāyuḥ śleṣmaraktavimūrchitaḥ |

50.2५०.२

कर्णिकां जनयेद् योनौ रजोमार्गनिरोधिनीम् ॥ (५०।२)

karṇikāṃ janayed yonau rajomārganirodhinīm ||

51.1५१.१

सा कर्णिनी त्रिभिर् दोषैर् योनिगर्भाशयाश्रितैः । (५१।१)

sā karṇinī tribhir doṣair yonigarbhāśayāśritaiḥ |

51.2५१.२

यथास्वोपद्रवकरैर् व्यापत् सा सांनिपातिकी ॥ (५१।२)

yathāsvopadravakarair vyāpat sā sāṃnipātikī ||

52.1५२.१

इति योनिगदा नारी यैः शुक्रं न प्रतीच्छति । (५२।१)

iti yonigadā nārī yaiḥ śukraṃ na pratīcchati |

52.2५२.२

ततो गर्भं न गृह्णाति रोगांश्चाप्नोति दारुणान् । (५२।२)

tato garbhaṃ na gṛhṇāti rogāṃścāpnoti dāruṇān |

52.3५२.३

असृग्दरार्शोगुल्मादीन् आबाधांश्चानिलादिभिः ॥ (५२।३)

asṛgdarārśogulmādīn ābādhāṃścānilādibhiḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

AHS, 6, 33

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit