अष्टाङ्गहृदयसंहिताAṣṭāṅgahṛdayasaṃhitā
AHS, 6, 30
Select a line for its word-by-word analysis.
अथातो ग्रन्थ्यर्बुदश्लीपदापचीनाडीप्रतिषेधं व्याख्यास्यामः । (१।१)
athāto granthyarbudaślīpadāpacīnāḍīpratiṣedhaṃ vyākhyāsyāmaḥ |
ग्रन्थिष्वामेषु कर्तव्या यथास्वं शोफवत् क्रिया । (१।३)
granthiṣvāmeṣu kartavyā yathāsvaṃ śophavat kriyā |
स्नेहयेच्छुद्धिकामं च तीक्ष्णैः शुद्धस्य लेपनम् । (२।१)
snehayecchuddhikāmaṃ ca tīkṣṇaiḥ śuddhasya lepanam |
संस्वेद्य बहुशो ग्रन्थिं विमृद्नीयात् पुनः पुनः ॥ (२।२)
saṃsvedya bahuśo granthiṃ vimṛdnīyāt punaḥ punaḥ ||
तथाप्यपक्वं छित्त्वैनं स्थिते रक्ते ऽग्निना दहेत् । (४।१)
tathāpyapakvaṃ chittvainaṃ sthite rakte 'gninā dahet |
मांसव्रणोद्भवौ ग्रन्थी यापयेद् एवम् एव च । (५।१)
māṃsavraṇodbhavau granthī yāpayed evam eva ca |
कार्यं मेदोभवे ऽप्येतत् तप्तैः फलादिभिश्च तम् ॥ (५।२)
kāryaṃ medobhave 'pyetat taptaiḥ phalādibhiśca tam ||
प्रमृद्यात् तिलदिग्धेन छन्नं द्विगुणवाससा । (६।१)
pramṛdyāt tiladigdhena channaṃ dviguṇavāsasā |
शस्त्रेण पाटयित्वा वा दहेन् मेदसि सूद्धृते ॥ (६।२)
śastreṇa pāṭayitvā vā dahen medasi sūddhṛte ||
अर्बुदे ग्रन्थिवत् कुर्यात् यथास्वं सुतरां हितम् । (८।१)
arbude granthivat kuryāt yathāsvaṃ sutarāṃ hitam |
श्लीपदे ऽनिलजे विध्येत् स्निग्धस्विन्नोपनाहिते ॥ (८।२)
ślīpade 'nilaje vidhyet snigdhasvinnopanāhite ||
सिराम् उपरि गुल्फस्य द्व्यङ्गुले पाययेच्च तम् । (९।१)
sirām upari gulphasya dvyaṅgule pāyayecca tam |
जीर्णे जीर्णान्नम् अश्नीयाच्छुण्ठीशृतपयोऽन्वितम् । (१०।१)
jīrṇe jīrṇānnam aśnīyācchuṇṭhīśṛtapayo'nvitam |
त्रैवृतं वा पिबेद् एवम् अशान्तावग्निना दहेत् ॥ (१०।२)
traivṛtaṃ vā pibed evam aśāntāvagninā dahet ||
गुल्फस्याधः सिरामोक्षः पैत्ते सर्वं च पित्तजित् । (११।१)
gulphasyādhaḥ sirāmokṣaḥ paitte sarvaṃ ca pittajit |
सिराम् अङ्गुष्ठके विद्ध्वा कफजे शीलयेद् यवान् ॥ (११।२)
sirām aṅguṣṭhake viddhvā kaphaje śīlayed yavān ||
लिम्पेत् सर्षपवार्ताकीमूलाभ्यां धन्वयाथवा ॥ (१२।२)
limpet sarṣapavārtākīmūlābhyāṃ dhanvayāthavā ||
ऊर्ध्वाधःशोधनं पेयम् अपच्यां साधितं घृतम् । (१३।१)
ūrdhvādhaḥśodhanaṃ peyam apacyāṃ sādhitaṃ ghṛtam |
सिरयापहरेद् रक्तं पिबेन् मूत्रेण तार्क्ष्यजम् ॥ (१४।२)
sirayāpahared raktaṃ piben mūtreṇa tārkṣyajam ||
ग्रन्थीन् अपक्वान् आलिम्पेन् नाकुलीपटुनागरैः । (१५।१)
granthīn apakvān ālimpen nākulīpaṭunāgaraiḥ |
स्विन्नान् लवणपोटल्या कठिनान् अनु मर्दयेत् ॥ (१५।२)
svinnān lavaṇapoṭalyā kaṭhinān anu mardayet ||
लेपः पिष्टो ऽम्लतक्रेण ग्रन्थिगण्डविलायनः ॥ (१६।२)
lepaḥ piṣṭo 'mlatakreṇa granthigaṇḍavilāyanaḥ ||
पाकोन्मुखान् स्रुतास्रस्य पित्तश्लेष्महरैर् जयेत् । (१७।१)
pākonmukhān srutāsrasya pittaśleṣmaharair jayet |
अपक्वान् एव वोद्धृत्य क्षाराग्निभ्याम् उपाचरेत् ॥ (१७।२)
apakvān eva voddhṛtya kṣārāgnibhyām upācaret ||
पाठान्वितैः पलार्धांशैर् विषकर्षयुतैः पचेत् । (१९।१)
pāṭhānvitaiḥ palārdhāṃśair viṣakarṣayutaiḥ pacet |
प्रस्थं करञ्जतैलस्य निर्गुण्डीस्वरसाढके ॥ (१९।२)
prasthaṃ karañjatailasya nirguṇḍīsvarasāḍhake ||
सिध्यत्यसाध्यकल्पापि पानाभ्यञ्जननावनैः ॥ (२०।२)
sidhyatyasādhyakalpāpi pānābhyañjananāvanaiḥ ||
निर्गुण्डीस्वरसे पक्वं नस्याद्यैरपचीप्रणुत् ॥ (२१।२)
nirguṇḍīsvarase pakvaṃ nasyādyairapacīpraṇut ||
भद्रश्रीदारुमरिचद्विहरिद्रात्रिवृद्घनैः । (२२।१)
bhadraśrīdārumaricadviharidrātrivṛdghanaiḥ |
गोमूत्रपिष्टैः पलिकैर् विषस्यार्धपलेन च । (२३।१)
gomūtrapiṣṭaiḥ palikair viṣasyārdhapalena ca |
प्रस्थं सर्षपतैलस्य सिद्धम् आशु व्यपोहति । (२४।१)
prasthaṃ sarṣapatailasya siddham āśu vyapohati |
पानाद्यैः शीलितं कुष्ठदुष्टनाडीव्रणापचीः ॥ (२४।२)
pānādyaiḥ śīlitaṃ kuṣṭhaduṣṭanāḍīvraṇāpacīḥ ||
तैलं प्रसाधितं पीतं समूलाम् अपचीं जयेत् ॥ (२५।२)
tailaṃ prasādhitaṃ pītaṃ samūlām apacīṃ jayet ||
शरपुङ्खोद्भवं मूलं पिष्टं तण्डुलवारिणा । (२६।१)
śarapuṅkhodbhavaṃ mūlaṃ piṣṭaṃ taṇḍulavāriṇā |
मूलैरुत्तमकारण्याः पीलुपर्ण्याः सहाचरात् । (२७।१)
mūlairuttamakāraṇyāḥ pīluparṇyāḥ sahācarāt |
सलोध्राभययष्ट्याह्वशताह्वाद्वीपिदारुभिः ॥ (२७।२)
salodhrābhayayaṣṭyāhvaśatāhvādvīpidārubhiḥ ||
तैलं क्षीरसमं सिद्धं नस्ये ऽभ्यङ्गे च पूजितम् । (२८।१)
tailaṃ kṣīrasamaṃ siddhaṃ nasye 'bhyaṅge ca pūjitam |
गोऽव्यजाश्वखुरा दग्धाः कटुतैलेन लेपनम् ॥ (२८।२)
go'vyajāśvakhurā dagdhāḥ kaṭutailena lepanam ||
ऐङ्गुदेन तु कृष्णाहिर् वायसो वा स्वयं मृतः । (२९।१)
aiṅgudena tu kṛṣṇāhir vāyaso vā svayaṃ mṛtaḥ |
इत्यशान्तौ गदस्यान्यपार्श्वजङ्घासमाश्रितम् ॥ (२९।२)
ityaśāntau gadasyānyapārśvajaṅghāsamāśritam ||
वस्तेरूर्ध्वम् अधस्ताद् वा मेदो हृत्वाग्निना दहेत् । (३०।१)
vasterūrdhvam adhastād vā medo hṛtvāgninā dahet |
स्थितस्योर्ध्वं पदं मित्वा तन्मानेन च पार्ष्णितः ॥ (३०।२)
sthitasyordhvaṃ padaṃ mitvā tanmānena ca pārṣṇitaḥ ||
तत ऊर्ध्वं हरेद् ग्रन्थीन् इत्याह भगवान् निमिः । (३१।१)
tata ūrdhvaṃ hared granthīn ityāha bhagavān nimiḥ |
पार्ष्णिं प्रति द्वादश चाङ्गुलानि मुक्त्वेन्द्रवस्तिं च गदान्यपार्श्वे । (३१।२)
pārṣṇiṃ prati dvādaśa cāṅgulāni muktvendravastiṃ ca gadānyapārśve |
विदार्य मत्स्याण्डनिभानि मध्याज्जालानि कर्षेद् इति सुश्रुतोक्तिः ॥ (३१।३)
vidārya matsyāṇḍanibhāni madhyājjālāni karṣed iti suśrutoktiḥ ||
आ गुल्फकर्णात् सुमितस्य जन्तोस्तस्याष्टभागं खुडकाद् विभज्य । (३२।१)
ā gulphakarṇāt sumitasya jantostasyāṣṭabhāgaṃ khuḍakād vibhajya |
घ्राणार्जवे ऽधः सुरराजवस्तेर् भित्त्वाक्षमात्रं त्वपरे वदन्ति ॥ (३२।२)
ghrāṇārjave 'dhaḥ surarājavaster bhittvākṣamātraṃ tvapare vadanti ||
उपनाह्यानिलान् नाडीं पाटितां साधु लेपयेत् । (३३।१)
upanāhyānilān nāḍīṃ pāṭitāṃ sādhu lepayet |
प्रत्यक्पुष्पीफलयुतैस्तैलैः पिष्टैः ससैन्धवैः ॥ (३३।२)
pratyakpuṣpīphalayutaistailaiḥ piṣṭaiḥ sasaindhavaiḥ ||
पैत्तीं तु तिलमञ्जिष्ठानागदन्तीनिशाद्वयैः । (३४।१)
paittīṃ tu tilamañjiṣṭhānāgadantīniśādvayaiḥ |
श्लैष्मिकीं तिलसौराष्ट्रीनिकुम्भारिष्टसैन्धवैः ॥ (३४।२)
ślaiṣmikīṃ tilasaurāṣṭrīnikumbhāriṣṭasaindhavaiḥ ||
शल्यजां तिलमध्वाज्यैर् लेपयेच्छिन्नशोधिताम् । (३५।१)
śalyajāṃ tilamadhvājyair lepayecchinnaśodhitām |
अशस्त्रकृत्याम् एषिण्या भित्त्वान्ते सम्यगेषिताम् ॥ (३५।२)
aśastrakṛtyām eṣiṇyā bhittvānte samyageṣitām ||
व्रणेषु दुष्टसूक्ष्मास्यगम्भीरादिषु साधनम् ॥ (३६।२)
vraṇeṣu duṣṭasūkṣmāsyagambhīrādiṣu sādhanam ||
या वर्त्यो यानि तैलानि तन् नाडीष्वपि शस्यते । (३७।१)
yā vartyo yāni tailāni tan nāḍīṣvapi śasyate |
पिष्टं चञ्चुफलं लेपान् नाडीव्रणहरं परम् ॥ (३७।२)
piṣṭaṃ cañcuphalaṃ lepān nāḍīvraṇaharaṃ param ||
घोण्टाफलत्वक् लवणं सलाक्षं बूकस्य पत्त्रं वनितापयश्च । (३८।१)
ghoṇṭāphalatvak lavaṇaṃ salākṣaṃ būkasya pattraṃ vanitāpayaśca |
स्नुगर्कदुग्धान्वित एष कल्को वर्तीकृतो हन्त्यचिरेण नाडीम् ॥ (३८।२)
snugarkadugdhānvita eṣa kalko vartīkṛto hantyacireṇa nāḍīm ||
सामुद्रसौवर्चलसिन्धुजन्मसुपक्वघोण्टाफलवेश्मधूमाः । (३९।१)
sāmudrasauvarcalasindhujanmasupakvaghoṇṭāphalaveśmadhūmāḥ |
आम्रातगायत्रिजपल्लवाश्च कटङ्कटेर्यावथ चेतकी च ॥ (३९।२)
āmrātagāyatrijapallavāśca kaṭaṅkaṭeryāvatha cetakī ca ||
कल्के ऽभ्यङ्गे चूर्णे वर्त्यां चैतेषु शील्यमानेषु । (४०।१)
kalke 'bhyaṅge cūrṇe vartyāṃ caiteṣu śīlyamāneṣu |
अगतिरिव नश्यति गतिश्चपला चपलेषु भूतिरिव ॥ (४०।२)
agatiriva naśyati gatiścapalā capaleṣu bhūtiriva ||
Data courtesy of The Digital Corpus of Sanskrit.