अष्टाङ्गहृदयसंहिताAṣṭāṅgahṛdayasaṃhitā

AHS, 6, 5

85 of 120 · 112 verses

Select a line for its word-by-word analysis.

1.1१.१

अथातो भूतप्रतिषेधं व्याख्यास्यामः । (१।१)

athāto bhūtapratiṣedhaṃ vyākhyāsyāmaḥ |

1.2१.२

इति ह स्माहुर् आत्रेयादयो महर्षयः । (१।२)

iti ha smāhur ātreyādayo maharṣayaḥ |

1.3१.३

भूतं जयेद् अहिंसेच्छं जपहोमबलिव्रतैः । (१।३)

bhūtaṃ jayed ahiṃsecchaṃ japahomabalivrataiḥ |

1.4१.४

तपःशीलसमाधानदानज्ञानदयादिभिः ॥ (१।४)

tapaḥśīlasamādhānadānajñānadayādibhiḥ ||

2.1२.१

हिङ्गुव्योषालनेपालीलशुनार्कजटाजटाः । (२।१)

hiṅguvyoṣālanepālīlaśunārkajaṭājaṭāḥ |

2.2२.२

अजलोमी सगोलोमी भूतकेशी वचा लता ॥ (२।२)

ajalomī sagolomī bhūtakeśī vacā latā ||

3.1३.१

कुक्कुटी सर्पगन्धाख्या तिलाः काणविकाणिके । (३।१)

kukkuṭī sarpagandhākhyā tilāḥ kāṇavikāṇike |

3.2३.२

वज्रप्रोक्ता वयःस्था च शृङ्गी मोहनवल्ल्यपि ॥ (३।२)

vajraproktā vayaḥsthā ca śṛṅgī mohanavallyapi ||

4.1४.१

स्रोतोजाञ्जनरक्षोघ्नं रक्षोघ्नं चान्यद् औषधम् । (४।१)

srotojāñjanarakṣoghnaṃ rakṣoghnaṃ cānyad auṣadham |

4.2४.२

खराश्वश्वाविदुष्ट्रर्क्षगोधानकुलशल्यकात् ॥ (४।२)

kharāśvaśvāviduṣṭrarkṣagodhānakulaśalyakāt ||

5.1५.१

द्वीपिमार्जारगोसिंहव्याघ्रसामुद्रसत्त्वतः । (५।१)

dvīpimārjāragosiṃhavyāghrasāmudrasattvataḥ |

5.2५.२

चर्मपित्तद्विजनखा वर्गे ऽस्मिन् साधयेद् घृतम् ॥ (५।२)

carmapittadvijanakhā varge 'smin sādhayed ghṛtam ||

6.1६.१

पुराणम् अथवा तैलं नवं तत् पाननस्ययोः । (६।१)

purāṇam athavā tailaṃ navaṃ tat pānanasyayoḥ |

6.2६.२

अभ्यङ्गे च प्रयोक्तव्यम् एषां चूर्णं च धूपने ॥ (६।२)

abhyaṅge ca prayoktavyam eṣāṃ cūrṇaṃ ca dhūpane ||

7.1७.१

एभिश्च गुटिकां युञ्ज्याद् अञ्जने सावपीडने । (७।१)

ebhiśca guṭikāṃ yuñjyād añjane sāvapīḍane |

7.2७.२

प्रलेपे कल्कम् एतेषां क्वाथं च परिषेचने ॥ (७।२)

pralepe kalkam eteṣāṃ kvāthaṃ ca pariṣecane ||

8.1८.१

प्रयोगो ऽयं ग्रहोन्मादान् सापस्माराञ्छमं नयेत् । (८।१)

prayogo 'yaṃ grahonmādān sāpasmārāñchamaṃ nayet |

8.2८.२

गजाह्वापिप्पलीमूलव्योषामलकसर्षपान् ॥ (८।२)

gajāhvāpippalīmūlavyoṣāmalakasarṣapān ||

9.1९.१

गोधानकुलमार्जारझषपित्तप्रपेषितान् । (९।१)

godhānakulamārjārajhaṣapittaprapeṣitān |

9.2९.२

नावनाभ्यङ्गसेकेषु विदधीत ग्रहापहान् ॥ (९।२)

nāvanābhyaṅgasekeṣu vidadhīta grahāpahān ||

10.1१०.१

सिद्धार्थकवचाहिङ्गुप्रियङ्गुरजनीद्वयम् । (१०।१)

siddhārthakavacāhiṅgupriyaṅgurajanīdvayam |

10.2१०.२

मञ्जिष्ठा श्वेतकटभी वरा श्वेताद्रिकर्णिका ॥ (१०।२)

mañjiṣṭhā śvetakaṭabhī varā śvetādrikarṇikā ||

11.1११.१

निम्बस्य पत्त्रं बीजं तु नक्तमालशिरीषयोः । (११।१)

nimbasya pattraṃ bījaṃ tu naktamālaśirīṣayoḥ |

11.2११.२

सुराह्वं त्र्यूषणं सर्पिर् गोमूत्रे तैश्चतुर्गुणे ॥ (११।२)

surāhvaṃ tryūṣaṇaṃ sarpir gomūtre taiścaturguṇe ||

12.1१२.१

सिद्धं सिद्धार्थकं नाम पाने नस्ये च योजितम् । (१२।१)

siddhaṃ siddhārthakaṃ nāma pāne nasye ca yojitam |

12.2१२.२

ग्रहान् सर्वान् निहन्त्याशु विशेषाद् आसुरान् ग्रहान् ॥ (१२।२)

grahān sarvān nihantyāśu viśeṣād āsurān grahān ||

13.1१३.१

कृत्यालक्ष्मीविषोन्मादज्वरापस्मारपाप्म च । (१३।१)

kṛtyālakṣmīviṣonmādajvarāpasmārapāpma ca |

13.2१३.२

एभिरेवौषधैर् बस्तवारिणा कल्पितो ऽगदः ॥ (१३।२)

ebhirevauṣadhair bastavāriṇā kalpito 'gadaḥ ||

14.1१४.१

पाननस्याञ्जनालेपस्नानोद्घर्षणयोजितः । (१४।१)

pānanasyāñjanālepasnānodgharṣaṇayojitaḥ |

14.2१४.२

गुणैः पूर्ववद् उद्दिष्टो राजद्वारे च सिद्धिकृत् ॥ (१४।२)

guṇaiḥ pūrvavad uddiṣṭo rājadvāre ca siddhikṛt ||

15.1१५.१

सिद्धार्थकव्योषवचाश्वगन्धा निशाद्वयं हिङ्गुपलाण्डुकन्दः । (१५।१)

siddhārthakavyoṣavacāśvagandhā niśādvayaṃ hiṅgupalāṇḍukandaḥ |

15.2१५.२

बीजं करञ्जात् कुसुमं शिरीषात् फलं च वल्कं च कपित्थवृक्षात् ॥ (१५।२)

bījaṃ karañjāt kusumaṃ śirīṣāt phalaṃ ca valkaṃ ca kapitthavṛkṣāt ||

16.1१६.१

समाणिमन्थं सनतं सकुष्ठं श्योणाकमूलं किणिही सिता च । (१६।१)

samāṇimanthaṃ sanataṃ sakuṣṭhaṃ śyoṇākamūlaṃ kiṇihī sitā ca |

16.2१६.२

बस्तस्य मूत्रेण सुभावितं तत् पित्तेन गव्येन गुडान् विदध्यात् ॥ (१६।२)

bastasya mūtreṇa subhāvitaṃ tat pittena gavyena guḍān vidadhyāt ||

17.1१७.१

दुष्टव्रणोन्मादतमोनिशान्धान् उद्बन्धकान् वारिनिमग्नदेहान् । (१७।१)

duṣṭavraṇonmādatamoniśāndhān udbandhakān vārinimagnadehān |

17.2१७.२

दिग्धाहतान् दर्पितसर्पदष्टांस् ते साधयन्त्यञ्जननस्यलेपैः ॥ (१७।२)

digdhāhatān darpitasarpadaṣṭāṃs te sādhayantyañjananasyalepaiḥ ||

18.1१८.१

कार्पासास्थिमयूरपत्त्रबृहतीनिर्माल्यपिण्डीतकत्वङ्मांसीवृषदंशविट्तुषवचाकेशाहिनिर्मोककैः । (१८।१)

kārpāsāsthimayūrapattrabṛhatīnirmālyapiṇḍītakatvaṅmāṃsīvṛṣadaṃśaviṭtuṣavacākeśāhinirmokakaiḥ |

18.2१८.२

नागेन्द्रद्विजशृङ्गहिङ्गुमरिचैस् तुल्यैः कृतं धूपनं । (१८।२)

nāgendradvijaśṛṅgahiṅgumaricais tulyaiḥ kṛtaṃ dhūpanaṃ |

18.3१८.३

स्कन्दोन्मादपिशाचराक्षससुरावेशज्वरघ्नं परम् ॥ (१८।३)

skandonmādapiśācarākṣasasurāveśajvaraghnaṃ param ||

19.1१९.१

त्रिकटुकदलकुङ्कुमग्रन्थिकक्षारसिंहीनिशादारुसिद्धार्थयुग्माम्बुशक्राह्वयैः । (१९।१)

trikaṭukadalakuṅkumagranthikakṣārasiṃhīniśādārusiddhārthayugmāmbuśakrāhvayaiḥ |

19.2१९.२

सितलशुनफलत्रयोशीरतिक्तावचातुत्थयष्टीबलालोहितैलाशिलापद्मकैः । (१९।२)

sitalaśunaphalatrayośīratiktāvacātutthayaṣṭībalālohitailāśilāpadmakaiḥ |

19.3१९.३

दधितगरमधूकसारप्रियाह्वाविषाख्याविषातार्क्ष्यशैलैः सचव्यामयैः कल्कितैः । (१९।३)

dadhitagaramadhūkasārapriyāhvāviṣākhyāviṣātārkṣyaśailaiḥ sacavyāmayaiḥ kalkitaiḥ |

19.4१९.४

घृतम् अनवम् अशेषमूत्रांशसिद्धं मतं भूतरावाह्वयं पानतस् तद् ग्रहघ्नं परम् ॥ (१९।४)

ghṛtam anavam aśeṣamūtrāṃśasiddhaṃ mataṃ bhūtarāvāhvayaṃ pānatas tad grahaghnaṃ param ||

20.1२०.१

नतमधुककरञ्जलाक्षापटोलीसमङ्गावचापाटलीहिङ्गुसिद्धार्थसिंहीनिशायुग्लतारोहिणी । (२०।१)

natamadhukakarañjalākṣāpaṭolīsamaṅgāvacāpāṭalīhiṅgusiddhārthasiṃhīniśāyuglatārohiṇī |

20.3२०.३

गदशुकतरुपुष्पबीजोग्रयष्ट्यद्रिकर्णीनिकुम्भाग्निबिल्वैः समैः कल्कितैर् मूत्रवर्गेण सिद्धं घृतं । (२०।३)

gadaśukatarupuṣpabījograyaṣṭyadrikarṇīnikumbhāgnibilvaiḥ samaiḥ kalkitair mūtravargeṇa siddhaṃ ghṛtaṃ |

20.4२०.४

विधिविनिहितम् आशु सर्वैः क्रमैर् योजितं हन्ति सर्वग्रहोन्मादकुष्ठज्वरांस् तन् महाभूतरावं स्मृतम् ॥ (२०।४)

vidhivinihitam āśu sarvaiḥ kramair yojitaṃ hanti sarvagrahonmādakuṣṭhajvarāṃs tan mahābhūtarāvaṃ smṛtam ||

21.1२१.१

ग्रहा गृह्णन्ति ये येषु तेषां तेषु विशेषतः । (२१।१)

grahā gṛhṇanti ye yeṣu teṣāṃ teṣu viśeṣataḥ |

21.2२१.२

दिनेषु बलिहोमादीन् प्रयुञ्जीत चिकित्सकः ॥ (२१।२)

dineṣu balihomādīn prayuñjīta cikitsakaḥ ||

22.1२२.१

स्नानवस्त्रवसामांसमद्यक्षीरगुडादि च । (२२।१)

snānavastravasāmāṃsamadyakṣīraguḍādi ca |

22.2२२.२

रोचते यद् यदा येभ्यस् तत् तेषाम् आहरेत् तदा ॥ (२२।२)

rocate yad yadā yebhyas tat teṣām āharet tadā ||

23.1२३.१

रत्नानि गन्धमाल्यानि बीजानि मधुसर्पिषी । (२३।१)

ratnāni gandhamālyāni bījāni madhusarpiṣī |

23.2२३.२

भक्ष्याश्च सर्वे सर्वेषां सामान्यो विधिरित्ययम् ॥ (२३।२)

bhakṣyāśca sarve sarveṣāṃ sāmānyo vidhirityayam ||

24.1२४.१

सुरर्षिगुरुवृद्धेभ्यः सिद्धेभ्यश्च सुरालये । (२४।१)

surarṣiguruvṛddhebhyaḥ siddhebhyaśca surālaye |

24.2२४.२

दिश्युत्तरस्यां तत्रापि देवायोपहरेद् बलिम् ॥ (२४।२)

diśyuttarasyāṃ tatrāpi devāyopahared balim ||

25.1२५.१

पश्चिमायां यथाकालं दैत्यभूताय चत्वरे । (२५।१)

paścimāyāṃ yathākālaṃ daityabhūtāya catvare |

25.2२५.२

गन्धर्वाय गवां मार्गे सवस्त्राभरणं बलिम् ॥ (२५।२)

gandharvāya gavāṃ mārge savastrābharaṇaṃ balim ||

26.1२६.१

पितृनागग्रहे नद्यां नागेभ्यः पूर्वदक्षिणे । (२६।१)

pitṛnāgagrahe nadyāṃ nāgebhyaḥ pūrvadakṣiṇe |

26.2२६.२

यक्षाय यक्षायतने सरितोर् वा समागमे ॥ (२६।२)

yakṣāya yakṣāyatane saritor vā samāgame ||

27.1२७.१

चतुष्पथे राक्षसाय भीमेषु गहनेषु च । (२७।१)

catuṣpathe rākṣasāya bhīmeṣu gahaneṣu ca |

27.2२७.२

रक्षसां दक्षिणस्यां तु पूर्वस्यां ब्रह्मरक्षसाम् ॥ (२७।२)

rakṣasāṃ dakṣiṇasyāṃ tu pūrvasyāṃ brahmarakṣasām ||

28.1२८.१

शून्यालये पिशाचाय पश्चिमां दिशम् आस्थिते । (२८।१)

śūnyālaye piśācāya paścimāṃ diśam āsthite |

28.2२८.२

शुचिशुक्लानि माल्यानि गन्धाः क्षैरेयम् ओदनम् ॥ (२८।२)

śuciśuklāni mālyāni gandhāḥ kṣaireyam odanam ||

29.1२९.१

दधि छत्त्रं च धवलं देवानां बलिरिष्यते । (२९।१)

dadhi chattraṃ ca dhavalaṃ devānāṃ baliriṣyate |

29.2२९.२

हिङ्गुसर्षपषड्ग्रन्थाव्योषैरर्धपलोन्मितैः ॥ (२९।२)

hiṅgusarṣapaṣaḍgranthāvyoṣairardhapalonmitaiḥ ||

30.1३०.१

चतुर्गुणे गवां मूत्रे घृतप्रस्थं विपाचयेत् । (३०।१)

caturguṇe gavāṃ mūtre ghṛtaprasthaṃ vipācayet |

30.2३०.२

तत्पाननावनाभ्यङ्गैर् देवग्रहविमोक्षणम् ॥ (३०।२)

tatpānanāvanābhyaṅgair devagrahavimokṣaṇam ||

31.1३१.१

नस्याञ्जनं वचाहिङ्गुलशुनं बस्तवारिणा । (३१।१)

nasyāñjanaṃ vacāhiṅgulaśunaṃ bastavāriṇā |

31.2३१.२

दैत्ये बलिर् बहुफलः सोशीरकमलोत्पलः ॥ (३१।२)

daitye balir bahuphalaḥ sośīrakamalotpalaḥ ||

32.1३२.१

नागानां सुमनोलाजगुडापूपगुडौदनैः । (३२।१)

nāgānāṃ sumanolājaguḍāpūpaguḍaudanaiḥ |

32.2३२.२

परमान्नमधुक्षीरकृष्णमृन्नागकेसरैः ॥ (३२।२)

paramānnamadhukṣīrakṛṣṇamṛnnāgakesaraiḥ ||

33.1३३.१

वचापद्मपुरोशीररक्तोत्पलदलैर् बलिः । (३३।१)

vacāpadmapurośīraraktotpaladalair baliḥ |

33.2३३.२

श्वेतपत्त्रं च लोध्रं च तगरं नागसर्षपाः ॥ (३३।२)

śvetapattraṃ ca lodhraṃ ca tagaraṃ nāgasarṣapāḥ ||

34.1३४.१

शीतेन वारिणा पिष्टं नावनाञ्जनयोर् हितम् । (३४।१)

śītena vāriṇā piṣṭaṃ nāvanāñjanayor hitam |

34.2३४.२

यक्षाणां क्षीरदध्याज्यमिश्रकौदनगुग्गुलु ॥ (३४।२)

yakṣāṇāṃ kṣīradadhyājyamiśrakaudanaguggulu ||

35.1३५.१

देवदारूत्पलं पद्मं उशीरं वस्त्रकाञ्चनम् । (३५।१)

devadārūtpalaṃ padmaṃ uśīraṃ vastrakāñcanam |

35.2३५.२

हिरण्यं च बलिर् योज्यो मूत्राज्यक्षीरम् एकतः ॥ (३५।२)

hiraṇyaṃ ca balir yojyo mūtrājyakṣīram ekataḥ ||

36.1३६.१

सिद्धं समोन्मितं पाननावनाभ्यञ्जने हितम् । (३६।१)

siddhaṃ samonmitaṃ pānanāvanābhyañjane hitam |

36.2३६.२

हरीतकी हरिद्रे द्वे लशुनो मरिचं वचा ॥ (३६।२)

harītakī haridre dve laśuno maricaṃ vacā ||

37.1३७.१

निम्बपत्त्रं च बस्ताम्बुकल्कितं नावनाञ्जनम् । (३७।१)

nimbapattraṃ ca bastāmbukalkitaṃ nāvanāñjanam |

37.2३७.२

ब्रह्मरक्षोबलिः सिद्धं यवानां पूर्णम् आढकम् ॥ (३७।२)

brahmarakṣobaliḥ siddhaṃ yavānāṃ pūrṇam āḍhakam ||

38.1३८.१

तोयस्य कुम्भः पललं छत्त्रं वस्त्रम् विलेपनम् । (३८।१)

toyasya kumbhaḥ palalaṃ chattraṃ vastram vilepanam |

38.2३८.२

गायत्रीविंशतिपलक्वाथे ऽर्धपलिकैः पचेत् ॥ (३८।२)

gāyatrīviṃśatipalakvāthe 'rdhapalikaiḥ pacet ||

39.1३९.१

त्र्यूषणत्रिफलाहिङ्गुषड्ग्रन्थामिशिसर्षपैः । (३९।१)

tryūṣaṇatriphalāhiṅguṣaḍgranthāmiśisarṣapaiḥ |

39.2३९.२

सनिम्बपत्त्रलशुनैः कुडवान् सप्त सर्पिषः ॥ (३९।२)

sanimbapattralaśunaiḥ kuḍavān sapta sarpiṣaḥ ||

40.1४०.१

गोमूत्रे त्रिगुणे पाननस्याभ्यङ्गेषु तद्धितम् । (४०।१)

gomūtre triguṇe pānanasyābhyaṅgeṣu taddhitam |

40.2४०.२

रक्षसां पललं शुक्लं कुसुमं मिश्रकौदनम् ॥ (४०।२)

rakṣasāṃ palalaṃ śuklaṃ kusumaṃ miśrakaudanam ||

41.1४१.१

बलिः पक्वाममांसानि निष्पावा रुधिरोक्षिताः । (४१।१)

baliḥ pakvāmamāṃsāni niṣpāvā rudhirokṣitāḥ |

41.2४१.२

नक्तमालशिरीषत्वङ्मूलपुष्पफलानि च ॥ (४१।२)

naktamālaśirīṣatvaṅmūlapuṣpaphalāni ca ||

42.1४२.१

तद्वच्च कृष्णपाटल्या बिल्वमूलं कटुत्रिकम् । (४२।१)

tadvacca kṛṣṇapāṭalyā bilvamūlaṃ kaṭutrikam |

42.2४२.२

हिङ्ग्विन्द्रयवसिद्धार्थलशुनामलकीफलम् ॥ (४२।२)

hiṅgvindrayavasiddhārthalaśunāmalakīphalam ||

43.1४३.१

नावनाञ्जनयोर् योज्यो बस्तमूत्रयुतो ऽगदः । (४३।१)

nāvanāñjanayor yojyo bastamūtrayuto 'gadaḥ |

43.2४३.२

एभिरेव घृतं सिद्धं गवां मूत्रे चतुर्गुणे ॥ (४३।२)

ebhireva ghṛtaṃ siddhaṃ gavāṃ mūtre caturguṇe ||

44.1४४.१

रक्षोग्रहान् वारयते पानाभ्यञ्जननावनैः । (४४।१)

rakṣograhān vārayate pānābhyañjananāvanaiḥ |

44.2४४.२

पिशाचानां बलिः सीधुः पिण्याकः पललं दधि ॥ (४४।२)

piśācānāṃ baliḥ sīdhuḥ piṇyākaḥ palalaṃ dadhi ||

45.1४५.१

मूलकं लवणं सर्पिः सभूतौदनयावकम् । (४५।१)

mūlakaṃ lavaṇaṃ sarpiḥ sabhūtaudanayāvakam |

45.2४५.२

हरिद्राद्वयमञ्जिष्ठामिशिसैन्धवनागरम् ॥ (४५।२)

haridrādvayamañjiṣṭhāmiśisaindhavanāgaram ||

46.1४६.१

हिङ्गुप्रियङ्गुत्रिकटुलशुनत्रिफला वचा । (४६।१)

hiṅgupriyaṅgutrikaṭulaśunatriphalā vacā |

46.2४६.२

पाटलीश्वेतकटभीशिरीषकुसुमैर् घृतम् ॥ (४६।२)

pāṭalīśvetakaṭabhīśirīṣakusumair ghṛtam ||

47.1४७.१

गोमूत्रपादिकं सिद्धं पानाभ्यञ्जनयोर् हितम् । (४७।१)

gomūtrapādikaṃ siddhaṃ pānābhyañjanayor hitam |

47.2४७.२

बस्ताम्बुपिष्टैस् तैरेव योज्यम् अञ्जननावनम् ॥ (४७।२)

bastāmbupiṣṭais taireva yojyam añjananāvanam ||

48.1४८.१

देवर्षिपितृगन्धर्वे तीक्ष्णं नस्यादि वर्जयेत् । (४८।१)

devarṣipitṛgandharve tīkṣṇaṃ nasyādi varjayet |

48.2४८.२

सर्पिःपानादि मृद्वस्मिन् भैषज्यम् अवचारयेत् ॥ (४८।२)

sarpiḥpānādi mṛdvasmin bhaiṣajyam avacārayet ||

49.1४९.१

ऋते पिशाचात् सर्वेषु प्रतिकूलं च नाचरेत् । (४९।१)

ṛte piśācāt sarveṣu pratikūlaṃ ca nācaret |

49.2४९.२

सवैद्यम् आतुरं घ्नन्ति क्रुद्धास् ते हि महौजसः ॥ (४९।२)

savaidyam āturaṃ ghnanti kruddhās te hi mahaujasaḥ ||

50.1५०.१

ईश्वरं द्वादशभुजं नाथम् आर्यावलोकितम् । (५०।१)

īśvaraṃ dvādaśabhujaṃ nātham āryāvalokitam |

50.2५०.२

सर्वव्याधिचिकित्सां च जपन् सर्वग्रहान् जयेत् ॥ (५०।२)

sarvavyādhicikitsāṃ ca japan sarvagrahān jayet ||

51.1५१.१

तथोन्मादान् अपस्मारान् अन्यं वा चित्तविप्लवम् । (५१।१)

tathonmādān apasmārān anyaṃ vā cittaviplavam |

51.2५१.२

महाविद्यां च मायूरीं शुचिं तं श्रावयेत् सदा ॥ (५१।२)

mahāvidyāṃ ca māyūrīṃ śuciṃ taṃ śrāvayet sadā ||

52.1५२.१

भूतेशं पूजयेत् स्थाणुं प्रमथाख्यांश्च तद्गणान् । (५२।१)

bhūteśaṃ pūjayet sthāṇuṃ pramathākhyāṃśca tadgaṇān |

52.2५२.२

जपन् सिद्धांश्च तन्मन्त्रान् ग्रहान् सर्वान् अपोहति ॥ (५२।२)

japan siddhāṃśca tanmantrān grahān sarvān apohati ||

53.1५३.१

यच्चानन्तरयोः किंचिद् वक्ष्यते ऽध्याययोर् हितम् । (५३।१)

yaccānantarayoḥ kiṃcid vakṣyate 'dhyāyayor hitam |

53.2५३.२

यच्चोक्तम् इह तत् सर्वं प्रयुञ्जीत परस्परम् ॥ (५३।२)

yaccoktam iha tat sarvaṃ prayuñjīta parasparam ||

Data courtesy of The Digital Corpus of Sanskrit.

AHS, 6, 5

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit