अष्टाङ्गहृदयसंहिताAṣṭāṅgahṛdayasaṃhitā

AHS, 1, 11

11 of 120 · 90 verses

Select a line for its word-by-word analysis.

1.1१.१

दोषधातुमला मूलं सदा देहस्य तं चलः । (१।१)

doṣadhātumalā mūlaṃ sadā dehasya taṃ calaḥ |

1.2१.२

उत्साहोच्छ्वासनिश्वासचेष्टावेगप्रवर्तनैः ॥ (१।२)

utsāhocchvāsaniśvāsaceṣṭāvegapravartanaiḥ ||

2.1२.१

सम्यग्गत्या च धातूनाम् अक्षाणां पाटवेन च । (२।१)

samyaggatyā ca dhātūnām akṣāṇāṃ pāṭavena ca |

2.2२.२

अनुगृह्णात्य् अविकृतः पित्तं पक्त्यूष्मदर्शनैः ॥ (२।२)

anugṛhṇāty avikṛtaḥ pittaṃ paktyūṣmadarśanaiḥ ||

3.1३.१

क्षुत्तृड्रुचिप्रभामेधाधीशौर्यतनुमार्दवैः । (३।१)

kṣuttṛḍruciprabhāmedhādhīśauryatanumārdavaiḥ |

3.2३.२

श्लेष्मा स्थिरत्वस्निग्धत्वसंधिबन्धक्षमादिभिः ॥ (३।२)

śleṣmā sthiratvasnigdhatvasaṃdhibandhakṣamādibhiḥ ||

4.1४.१

प्रीणनं जीवनं लेपः स्नेहो धारणपूरणे । (४।१)

prīṇanaṃ jīvanaṃ lepaḥ sneho dhāraṇapūraṇe |

4.2४.२

गर्भोत्पादश् च धातूनां श्रेष्ठं कर्म क्रमात् स्मृतम् ॥ (४।२)

garbhotpādaś ca dhātūnāṃ śreṣṭhaṃ karma kramāt smṛtam ||

5.1५.१

अवष्टम्भः पुरीषस्य मूत्रस्य क्लेदवाहनम् । (५।१)

avaṣṭambhaḥ purīṣasya mūtrasya kledavāhanam |

5.2५.२

स्वेदस्य क्लेदविधृतिर् वृद्धस् तु कुरुते ऽनिलः ॥ (५।२)

svedasya kledavidhṛtir vṛddhas tu kurute 'nilaḥ ||

6.1६.१

कार्श्यकार्ष्ण्योष्णकामत्वकम्पानाहशकृद्ग्रहान् । (६।१)

kārśyakārṣṇyoṣṇakāmatvakampānāhaśakṛdgrahān |

6.2६.२

बलनिद्रेन्द्रियभ्रंशप्रलापभ्रमदीनताः ॥ (६।२)

balanidrendriyabhraṃśapralāpabhramadīnatāḥ ||

7.1७.१

पीतविण्मूत्रनेत्रत्वक्क्षुत्तृड्दाहाल्पनिद्रताः । (७।१)

pītaviṇmūtranetratvakkṣuttṛḍdāhālpanidratāḥ |

7.2७.२

पित्तं श्लेष्माग्निसदनप्रसेकालस्यगौरवम् ॥ (७।२)

pittaṃ śleṣmāgnisadanaprasekālasyagauravam ||

8.1८.१

श्वैत्यशैत्यश्लथाङ्गत्वं श्वासकासातिनिद्रताः । (८।१)

śvaityaśaityaślathāṅgatvaṃ śvāsakāsātinidratāḥ |

8.2८.२

रसो ऽपि श्लेष्मवद् रक्तं विसर्पप्लीहविद्रधीन् ॥ (८।२)

raso 'pi śleṣmavad raktaṃ visarpaplīhavidradhīn ||

9.1९.१

कुष्ठवातास्रपित्तास्रगुल्मोपकुशकामलाः । (९।१)

kuṣṭhavātāsrapittāsragulmopakuśakāmalāḥ |

9.2९.२

व्यङ्गाग्निनाशसम्मोहरक्तत्वङ्नेत्रमूत्रताः ॥ (९।२)

vyaṅgāgnināśasammoharaktatvaṅnetramūtratāḥ ||

10.1१०.१

मांसं गण्डार्बुदग्रन्थिगण्डोरूदरवृद्धिताः । (१०।१)

māṃsaṃ gaṇḍārbudagranthigaṇḍorūdaravṛddhitāḥ |

10.2१०.२

कण्ठादिष्व् अधिमांसं च तद्वन् मेदस् तथा श्रमम् ॥ (१०।२)

kaṇṭhādiṣv adhimāṃsaṃ ca tadvan medas tathā śramam ||

11.1११.१

अल्पे ऽपि चेष्टिते श्वासं स्फिक्स्तनोदरलम्बनम् । (११।१)

alpe 'pi ceṣṭite śvāsaṃ sphikstanodaralambanam |

11.2११.२

अस्थ्य् अध्यस्थ्य् अधिदन्तांश् च मज्जा नेत्राङ्गगौरवम् ॥ (११।२)

asthy adhyasthy adhidantāṃś ca majjā netrāṅgagauravam ||

12.1१२.१

पर्वसु स्थूलमूलानि कुर्यात् कृच्छ्राण्य् अरूंषि च । (१२।१)

parvasu sthūlamūlāni kuryāt kṛcchrāṇy arūṃṣi ca |

12.2१२.२

अतिस्त्रीकामतां वृद्धं शुक्तं शुक्राश्मरीम् अपि ॥ (१२।२)

atistrīkāmatāṃ vṛddhaṃ śuktaṃ śukrāśmarīm api ||

13.1१३.१

कुक्षाव् आध्मानम् आटोपं गौरवं वेदनां शकृत् । (१३।१)

kukṣāv ādhmānam āṭopaṃ gauravaṃ vedanāṃ śakṛt |

13.2१३.२

मूत्रं तु वस्तिनिस्तोदं कृते ऽप्य् अकृतसंज्ञताम् ॥ (१३।२)

mūtraṃ tu vastinistodaṃ kṛte 'py akṛtasaṃjñatām ||

14.1१४.१

स्वेदो ऽतिस्वेददौर्गन्ध्यकण्डूर् एवं च लक्षयेत् । (१४।१)

svedo 'tisvedadaurgandhyakaṇḍūr evaṃ ca lakṣayet |

14.2१४.२

दूषिकादीन् अपि मलान् बाहुल्यगुरुतादिभिः ॥ (१४।२)

dūṣikādīn api malān bāhulyagurutādibhiḥ ||

15.1१५.१

लिङ्गं क्षीणे ऽनिले ऽङ्गस्य सादो ऽल्पं भाषितेहितम् । (१५।१)

liṅgaṃ kṣīṇe 'nile 'ṅgasya sādo 'lpaṃ bhāṣitehitam |

15.2१५.२

संज्ञामोहस् तथा श्लेष्मवृद्ध्युक्तामयसम्भवः ॥ (१५।२)

saṃjñāmohas tathā śleṣmavṛddhyuktāmayasambhavaḥ ||

16.1१६.१

पित्ते मन्दो ऽनलः शीतं प्रभाहानिः कफे भ्रमः । (१६।१)

pitte mando 'nalaḥ śītaṃ prabhāhāniḥ kaphe bhramaḥ |

16.2१६.२

श्लेष्माशयानां शून्यत्वं हृद्द्रवः श्लथसंधिता ॥ (१६।२)

śleṣmāśayānāṃ śūnyatvaṃ hṛddravaḥ ślathasaṃdhitā ||

17.1१७.१

रसे रौक्ष्यं श्रमः शोषो ग्लानिः शब्दासहिष्णुता । (१७।१)

rase raukṣyaṃ śramaḥ śoṣo glāniḥ śabdāsahiṣṇutā |

17.2१७.२

रक्ते ऽम्लशिशिरप्रीतिसिराशैथिल्यरूक्षताः ॥ (१७।२)

rakte 'mlaśiśiraprītisirāśaithilyarūkṣatāḥ ||

18.1१८.१

मांसे ऽक्षग्लानिगण्डस्फिक्शुष्कतासंधिवेदनाः । (१८।१)

māṃse 'kṣaglānigaṇḍasphikśuṣkatāsaṃdhivedanāḥ |

18.2१८.२

मेदसि स्वपनं कट्याः प्लीह्नो वृद्धिः कृशाङ्गता ॥ (१८।२)

medasi svapanaṃ kaṭyāḥ plīhno vṛddhiḥ kṛśāṅgatā ||

19.1१९.१

अस्थ्न्य् अस्थितोदः शदनं दन्तकेशनखादिषु । (१९।१)

asthny asthitodaḥ śadanaṃ dantakeśanakhādiṣu |

19.2१९.२

अस्थ्नां मज्जनि सौषिर्यं भ्रमस् तिमिरदर्शनम् ॥ (१९।२)

asthnāṃ majjani sauṣiryaṃ bhramas timiradarśanam ||

20.1२०.१

शुक्रे चिरात् प्रसिच्येत शुक्रं शोणितम् एव वा । (२०।१)

śukre cirāt prasicyeta śukraṃ śoṇitam eva vā |

20.2२०.२

तोदो ऽत्यर्थं वृषणयोर् मेढ्रं धूमायतीव च ॥ (२०।२)

todo 'tyarthaṃ vṛṣaṇayor meḍhraṃ dhūmāyatīva ca ||

21.1२१.१

पुरीषे वायुर् अन्त्राणि सशब्दो वेष्टयन्न् इव । (२१।१)

purīṣe vāyur antrāṇi saśabdo veṣṭayann iva |

21.2२१.२

कुक्षौ भ्रमति यात्य् ऊर्ध्वं हृत्पार्श्वे पीडयन् भृशम् ॥ (२१।२)

kukṣau bhramati yāty ūrdhvaṃ hṛtpārśve pīḍayan bhṛśam ||

22.1२२.१

मूत्रे ऽल्पं मूत्रयेत् कृच्छ्राद् विवर्णं सास्रम् एव वा । (२२।१)

mūtre 'lpaṃ mūtrayet kṛcchrād vivarṇaṃ sāsram eva vā |

22.2२२.२

स्वेदे रोमच्युतिः स्तब्धरोमता स्फुटनं त्वचः ॥ (२२।२)

svede romacyutiḥ stabdharomatā sphuṭanaṃ tvacaḥ ||

23.1२३.१

मलानाम् अतिसूक्ष्माणां दुर्लक्ष्यं लक्षयेत् क्षयम् । (२३।१)

malānām atisūkṣmāṇāṃ durlakṣyaṃ lakṣayet kṣayam |

23.2२३.२

स्वमलायनसंशोषतोदशून्यत्वलाघवैः ॥ (२३।२)

svamalāyanasaṃśoṣatodaśūnyatvalāghavaiḥ ||

24.1२४.१

दोषादीनां यथास्वं च विद्याद् वृद्धिक्षयौ भिषक् । (२४।१)

doṣādīnāṃ yathāsvaṃ ca vidyād vṛddhikṣayau bhiṣak |

24.2२४.२

क्षयेण विपरीतानां गुणानां वर्धनेन च ॥ (२४।२)

kṣayeṇa viparītānāṃ guṇānāṃ vardhanena ca ||

25.1२५.१

वृद्धिं मलानां सङ्गाच् च क्षयं चातिविसर्गतः । (२५।१)

vṛddhiṃ malānāṃ saṅgāc ca kṣayaṃ cātivisargataḥ |

25.2२५.२

मलोचितत्वाद् देहस्य क्षयो वृद्धेस् तु पीडनः ॥ (२५।२)

malocitatvād dehasya kṣayo vṛddhes tu pīḍanaḥ ||

26.1२६.१

तत्रास्थ्नि स्थितो वायुः पित्तं तु स्वेदरक्तयोः । (२६।१)

tatrāsthni sthito vāyuḥ pittaṃ tu svedaraktayoḥ |

26.2२६.२

श्लेष्मा शेषेषु तेनैषाम् आश्रयाश्रयिणां मिथः ॥ (२६।२)

śleṣmā śeṣeṣu tenaiṣām āśrayāśrayiṇāṃ mithaḥ ||

27.1२७.१

यद् एकस्य तद् अन्यस्य वर्धनक्षपणौषधम् । (२७।१)

yad ekasya tad anyasya vardhanakṣapaṇauṣadham |

27.2२७.२

अस्थिमारुतयोर् नैवं प्रायो वृद्धिर् हि तर्पणात् ॥ (२७।२)

asthimārutayor naivaṃ prāyo vṛddhir hi tarpaṇāt ||

28.1२८.१

श्लेष्मणानुगता तस्मात् संक्षयस् तद्विपर्ययात् । (२८।१)

śleṣmaṇānugatā tasmāt saṃkṣayas tadviparyayāt |

28.2२८.२

वायुनानुगतो ऽस्माच् च वृद्धिक्षयसमुद्भवान् ॥ (२८।२)

vāyunānugato 'smāc ca vṛddhikṣayasamudbhavān ||

29.1२९.१

विकारान् साधयेच् छीघ्रं क्रमाल् लङ्घनबृंहणैः । (२९।१)

vikārān sādhayec chīghraṃ kramāl laṅghanabṛṃhaṇaiḥ |

29.2२९.२

वायोर् अन्यत्र तज्जांस् तु तैर् एवोत्क्रमयोजितैः ॥ (२९।२)

vāyor anyatra tajjāṃs tu tair evotkramayojitaiḥ ||

30.1३०.१

विशेषाद् रक्तवृद्ध्युत्थान् रक्तस्रुतिविरेचनैः । (३०।१)

viśeṣād raktavṛddhyutthān raktasrutivirecanaiḥ |

30.2३०.२

मांसवृद्धिभवान् रोगान् शस्त्रक्षाराग्निकर्मभिः ॥ (३०।२)

māṃsavṛddhibhavān rogān śastrakṣārāgnikarmabhiḥ ||

31.1३१.१

स्थौल्यकार्श्योपचारेण मेदोजान् अस्थिसंक्षयात् । (३१।१)

sthaulyakārśyopacāreṇa medojān asthisaṃkṣayāt |

31.2३१.२

जातान् क्षीरघृतैस् तिक्तसंयुतैर् वस्तिभिस् तथा ॥ (३१।२)

jātān kṣīraghṛtais tiktasaṃyutair vastibhis tathā ||

32.1३२.१

विड्वृद्धिजान् अतीसारक्रियया विट्क्षयोद्भवान् । (३२।१)

viḍvṛddhijān atīsārakriyayā viṭkṣayodbhavān |

32.2३२.२

मेषाजमध्यकुल्माषयवमाषद्वयादिभिः ॥ (३२।२)

meṣājamadhyakulmāṣayavamāṣadvayādibhiḥ ||

33.1३३.१

मूत्रवृद्धिक्षयोत्थांश् च मेहकृच्छ्रचिकित्सया । (३३।१)

mūtravṛddhikṣayotthāṃś ca mehakṛcchracikitsayā |

33.2३३.२

व्यायामाभ्यञ्जनस्वेदमद्यैः स्वेदक्षयोद्भवान् ॥ (३३।२)

vyāyāmābhyañjanasvedamadyaiḥ svedakṣayodbhavān ||

34.1३४.१

स्वस्थानस्थस्य कायाग्नेर् अंशा धातुषु संश्रिताः । (३४।१)

svasthānasthasya kāyāgner aṃśā dhātuṣu saṃśritāḥ |

34.2३४.२

तेषां सादातिदीप्तिभ्यां धातुवृद्धिक्षयोद्भवः ॥ (३४।२)

teṣāṃ sādātidīptibhyāṃ dhātuvṛddhikṣayodbhavaḥ ||

35.1३५.१

पूर्वो धातुः परं कुर्याद् वृद्धः क्षीणश् च तद्विधम् । (३५।१)

pūrvo dhātuḥ paraṃ kuryād vṛddhaḥ kṣīṇaś ca tadvidham |

35.2३५.२

दोषा दुष्टा रसैर् धातून् दूषयन्त्य् उभये मलान् ॥ (३५।२)

doṣā duṣṭā rasair dhātūn dūṣayanty ubhaye malān ||

36.1३६.१

अधो द्वे सप्त शिरसि खानि स्वेदवहानि च । (३६।१)

adho dve sapta śirasi khāni svedavahāni ca |

36.2३६.२

मला मलायनानि स्युर् यथास्वं तेष्व् अतो गदाः ॥ (३६।२)

malā malāyanāni syur yathāsvaṃ teṣv ato gadāḥ ||

37.1३७.१

ओजस् तु तेजो धातूनां शुक्रान्तानां परं स्मृतम् । (३७।१)

ojas tu tejo dhātūnāṃ śukrāntānāṃ paraṃ smṛtam |

37.2३७.२

हृदयस्थम् अपि व्यापि देहस्थितिनिबन्धनम् ॥ (३७।२)

hṛdayastham api vyāpi dehasthitinibandhanam ||

38.1३८.१

स्निग्धं सोमात्मकं शुद्धम् ईषल्लोहितपीतकम् । (३८।१)

snigdhaṃ somātmakaṃ śuddham īṣallohitapītakam |

38.2३८.२

यन्नाशे नियतं नाशो यस्मिंस् तिष्ठति तिष्ठति ॥ (३८।२)

yannāśe niyataṃ nāśo yasmiṃs tiṣṭhati tiṣṭhati ||

39.1३९.१

निष्पद्यन्ते यतो भावा विविधा देहसंश्रयाः । (३९।१)

niṣpadyante yato bhāvā vividhā dehasaṃśrayāḥ |

39.2३९.२

ओजः क्षीयेत कोपक्षुद्ध्यानशोकश्रमादिभिः ॥ (३९।२)

ojaḥ kṣīyeta kopakṣuddhyānaśokaśramādibhiḥ ||

40.1४०.१

बिभेति दुर्बलो ऽभीक्ष्णं ध्यायति व्यथितेन्द्रियः । (४०।१)

bibheti durbalo 'bhīkṣṇaṃ dhyāyati vyathitendriyaḥ |

40.2४०.२

दुश्छायो दुर्मना रूक्षो भवेत् क्षामश् च तत्क्षये ॥ (४०।२)

duśchāyo durmanā rūkṣo bhavet kṣāmaś ca tatkṣaye ||

41.1४१.१

जीवनीयौषधक्षीररसाद्यास् तत्र भेषजम् । (४१।१)

jīvanīyauṣadhakṣīrarasādyās tatra bheṣajam |

41.2४१.२

ओजोवृद्धौ हि देहस्य तुष्टिपुष्टिबलोदयः ॥ (४१।२)

ojovṛddhau hi dehasya tuṣṭipuṣṭibalodayaḥ ||

42.1४२.१

यद् अन्नं द्वेष्टि यद् अपि प्रार्थयेताविरोधि तु । (४२।१)

yad annaṃ dveṣṭi yad api prārthayetāvirodhi tu |

42.2४२.२

तत् तत् त्यजन् समश्नंश् च तौ तौ वृद्धिक्षयौ जयेत् ॥ (४२।२)

tat tat tyajan samaśnaṃś ca tau tau vṛddhikṣayau jayet ||

43.1४३.१

कुर्वते हि रुचिं दोषा विपरीतसमानयोः । (४३।१)

kurvate hi ruciṃ doṣā viparītasamānayoḥ |

43.2४३.२

वृद्धाः क्षीणाश् च भूयिष्ठं लक्षयन्त्य् अबुधास् तु न ॥ (४३।२)

vṛddhāḥ kṣīṇāś ca bhūyiṣṭhaṃ lakṣayanty abudhās tu na ||

44.1४४.१

यथाबलं यथास्वं च दोषा वृद्धा वितन्वते । (४४।१)

yathābalaṃ yathāsvaṃ ca doṣā vṛddhā vitanvate |

44.2४४.२

रूपाणि जहति क्षीणाः समाः स्वं कर्म कुर्वते ॥ (४४।२)

rūpāṇi jahati kṣīṇāḥ samāḥ svaṃ karma kurvate ||

45.1४५.१

य एव देहस्य समा विवृद्ध्यै त एव दोषा विषमा वधाय । (४५।१)

ya eva dehasya samā vivṛddhyai ta eva doṣā viṣamā vadhāya |

45.2४५.२

यस्माद् अतस् ते हितचर्ययैव क्षयाद् विवृद्धेर् इव रक्षणीयाः ॥ (४५।२)

yasmād atas te hitacaryayaiva kṣayād vivṛddher iva rakṣaṇīyāḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

AHS, 1, 11

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit