अष्टाङ्गहृदयसंहिताAṣṭāṅgahṛdayasaṃhitā
AHS, 5, 3
Select a line for its word-by-word analysis.
अथातो वमनविरेचनव्यापत्सिद्धिं व्याख्यास्यामः । (१।१)
athāto vamanavirecanavyāpatsiddhiṃ vyākhyāsyāmaḥ |
पीतं प्रयात्यधस्तस्मिन्न् इष्टहानिर् मलोदयः । (२।१)
pītaṃ prayātyadhastasminn iṣṭahānir malodayaḥ |
वामयेत् तं पुनः स्निग्धं स्मरन् पूर्वम् अतिक्रमम् ॥ (२।२)
vāmayet taṃ punaḥ snigdhaṃ smaran pūrvam atikramam ||
अजीर्णिनः श्लेष्मवतो व्रजत्यूर्ध्वं विरेचनम् । (३।१)
ajīrṇinaḥ śleṣmavato vrajatyūrdhvaṃ virecanam |
तत्र पूर्वोदिता व्यापत् सिद्धिश्च न तथापि चेत् । (४।१)
tatra pūrvoditā vyāpat siddhiśca na tathāpi cet |
अन्यत्र सात्म्याद्धृद्याद् वा भेषजान्निरपायतः । (५।१)
anyatra sātmyāddhṛdyād vā bheṣajānnirapāyataḥ |
अस्निग्धस्विन्नदेहस्य पुराणं रूक्षम् औषधम् ॥ (५।२)
asnigdhasvinnadehasya purāṇaṃ rūkṣam auṣadham ||
दोषान् उत्क्लेश्य निर्हर्तुम् अशक्तं जनयेद् गदान् । (६।१)
doṣān utkleśya nirhartum aśaktaṃ janayed gadān |
विभ्रंशं श्वयथुं हिध्मां तमसो दर्शनं तृषम् ॥ (६।२)
vibhraṃśaṃ śvayathuṃ hidhmāṃ tamaso darśanaṃ tṛṣam ||
पिण्डिकोद्वेष्टनं कण्डूम् ऊर्वोः सादं विवर्णताम् । (७।१)
piṇḍikodveṣṭanaṃ kaṇḍūm ūrvoḥ sādaṃ vivarṇatām |
स्निग्धस्विन्नस्य वात्यल्पं दीप्ताग्नेर् जीर्णम् औषधम् ॥ (७।२)
snigdhasvinnasya vātyalpaṃ dīptāgner jīrṇam auṣadham ||
शीतैर् वा स्तब्धम् आमे वा समुत्क्लेश्याहरन्मलान् । (८।१)
śītair vā stabdham āme vā samutkleśyāharanmalān |
तं तैललवणाभ्यक्तं स्विन्नं प्रस्तरसंकरैः । (९।१)
taṃ tailalavaṇābhyaktaṃ svinnaṃ prastarasaṃkaraiḥ |
स्निग्धं वातहरैः स्नेहैः पुनस्तीक्ष्णेन शोधयेत् ॥ (१०।२)
snigdhaṃ vātaharaiḥ snehaiḥ punastīkṣṇena śodhayet ||
बहुदोषस्य रूक्षस्य मन्दाग्नेर् अल्पम् औषधम् । (११।१)
bahudoṣasya rūkṣasya mandāgner alpam auṣadham |
सोदावर्तस्य चोत्क्लेश्य दोषान्मार्गान्निरुध्य तैः ॥ (११।२)
sodāvartasya cotkleśya doṣānmārgānnirudhya taiḥ ||
भृशम् आध्मापयेन्नाभिं पृष्ठपार्श्वशिरोरुजम् । (१२।१)
bhṛśam ādhmāpayennābhiṃ pṛṣṭhapārśvaśirorujam |
श्वासं विण्मूत्रवातानां सङ्गं कुर्याच्च दारुणम् ॥ (१२।२)
śvāsaṃ viṇmūtravātānāṃ saṅgaṃ kuryācca dāruṇam ||
उदावर्तहरम् सर्वं कर्माध्मातस्य शस्यते ॥ (१३।२)
udāvartaharam sarvaṃ karmādhmātasya śasyate ||
ससैन्धवान् पिबेन्मद्यैः सर्पिषोष्णोदकेन वा ॥ (१५।२)
sasaindhavān pibenmadyaiḥ sarpiṣoṣṇodakena vā ||
कुपिता हृदयं गत्वा घोरं कुर्वन्ति हृद्ग्रहम् । (१७।१)
kupitā hṛdayaṃ gatvā ghoraṃ kurvanti hṛdgraham |
हिध्मापार्श्वरुजाकासदैन्यलालाक्षिविभ्रमैः ॥ (१७।२)
hidhmāpārśvarujākāsadainyalālākṣivibhramaiḥ ||
जिह्वां खादति निःसंज्ञो दन्तान् कटकटाययन् । (१८।१)
jihvāṃ khādati niḥsaṃjño dantān kaṭakaṭāyayan |
न गच्छेद् विभ्रमं तत्र वामयेद् आशु तं भिषक् ॥ (१८।२)
na gacched vibhramaṃ tatra vāmayed āśu taṃ bhiṣak ||
मधुरैः पित्तमूर्छार्तं कटुभिः कफमूर्छितम् । (१९।१)
madhuraiḥ pittamūrchārtaṃ kaṭubhiḥ kaphamūrchitam |
कायाग्निं च बलं चास्य क्रमेणाभिप्रवर्धयेत् । (२०।१)
kāyāgniṃ ca balaṃ cāsya krameṇābhipravardhayet |
तस्मै स्निग्धाम्ललवणान् दद्यात् पित्तकफे ऽन्यथा । (२१।१)
tasmai snigdhāmlalavaṇān dadyāt pittakaphe 'nyathā |
रुद्धो ऽति वा विशुद्धस्य गृह्णात्यङ्गानि मारुतः । (२२।१)
ruddho 'ti vā viśuddhasya gṛhṇātyaṅgāni mārutaḥ |
स्तम्भवेपथुनिस्तोदसादोद्वेष्टार्तिभेदनैः ॥ (२२।२)
stambhavepathunistodasādodveṣṭārtibhedanaiḥ ||
तत्र वातहरं सर्वं स्नेहस्वेदादि शस्यते । (२३।१)
tatra vātaharaṃ sarvaṃ snehasvedādi śasyate |
बहुतीक्ष्णं क्षुधार्तस्य मृदुकोष्ठस्य भेषजम् ॥ (२३।२)
bahutīkṣṇaṃ kṣudhārtasya mṛdukoṣṭhasya bheṣajam ||
हृत्वाशु विट्पित्तकफान् धातून् आस्रावयेद् द्रवान् । (२४।१)
hṛtvāśu viṭpittakaphān dhātūn āsrāvayed dravān |
तत्रातियोगे मधुरैः शेषम् औषधम् उल्लिखेत् ॥ (२४।२)
tatrātiyoge madhuraiḥ śeṣam auṣadham ullikhet ||
परिषेकावगाहाद्यैः सुशीतैः स्तम्भयेच्च तम् ॥ (२५।२)
pariṣekāvagāhādyaiḥ suśītaiḥ stambhayecca tam ||
लाजचूर्णैः पिबेन्मन्थम् अतियोगहरं परम् ॥ (२६।२)
lājacūrṇaiḥ pibenmantham atiyogaharaṃ param ||
पिबेत् फलरसैर् मन्थं सघृतक्षौद्रशर्करम् ॥ (२७।२)
pibet phalarasair manthaṃ saghṛtakṣaudraśarkaram ||
सोद्गारायां भृशं छर्द्यां मूर्वाया धान्यमुस्तयोः । (२८।१)
sodgārāyāṃ bhṛśaṃ chardyāṃ mūrvāyā dhānyamustayoḥ |
वमतो ऽन्तः प्रविष्टायां जिह्वायां कवडग्रहाः । (२९।१)
vamato 'ntaḥ praviṣṭāyāṃ jihvāyāṃ kavaḍagrahāḥ |
स्निग्धाम्ललवणा हृद्या यूषमांसरसा हिताः ॥ (२९।२)
snigdhāmlalavaṇā hṛdyā yūṣamāṃsarasā hitāḥ ||
फलान्यम्लानि खादेयुस्तस्य चान्ये ऽग्रतो नराः । (३०।१)
phalānyamlāni khādeyustasya cānye 'grato narāḥ |
निःसृतां तु तिलद्राक्षाकल्कलिप्तां प्रवेशयेत् ॥ (३०।२)
niḥsṛtāṃ tu tiladrākṣākalkaliptāṃ praveśayet ||
यवागूं तनुकां दद्यात् स्नेहस्वेदौ च कालवित् ॥ (३१।२)
yavāgūṃ tanukāṃ dadyāt snehasvedau ca kālavit ||
तज्जीवादानम् इत्युक्तम् आदत्ते जीवितं यतः ॥ (३२।२)
tajjīvādānam ityuktam ādatte jīvitaṃ yataḥ ||
शुने काकाय वा दद्यात् तेनान्नम् असृजा सह । (३३।१)
śune kākāya vā dadyāt tenānnam asṛjā saha |
भुक्ते ऽभुक्ते वदेज्जीवं पित्तं वा भेषजेरितम् ॥ (३३।२)
bhukte 'bhukte vadejjīvaṃ pittaṃ vā bheṣajeritam ||
शुक्लं वा भावितं वस्त्रम् आवानं कोष्णवारिणा । (३४।१)
śuklaṃ vā bhāvitaṃ vastram āvānaṃ koṣṇavāriṇā |
प्रक्षालितं विवर्णं स्यात् पित्ते शुद्धं तु शोणिते ॥ (३४।२)
prakṣālitaṃ vivarṇaṃ syāt pitte śuddhaṃ tu śoṇite ||
तृष्णामूर्छामदार्तस्य कुर्याद् आ मरणात् क्रियाम् । (३५।१)
tṛṣṇāmūrchāmadārtasya kuryād ā maraṇāt kriyām |
रक्तपित्तातिसारघ्नीं तस्याशु प्राणरक्षणीम् ॥ (३५।२)
raktapittātisāraghnīṃ tasyāśu prāṇarakṣaṇīm ||
पिबेज्जीवाभिसंधानं जीवं तद्ध्याशु गच्छति ॥ (३६।२)
pibejjīvābhisaṃdhānaṃ jīvaṃ taddhyāśu gacchati ||
तद् एव दर्भमृदितं रक्तं वस्तौ निषेचयेत् । (३७।१)
tad eva darbhamṛditaṃ raktaṃ vastau niṣecayet |
श्यामाकाश्मर्यमधुकदूर्वोशीरैः शृतं पयः ॥ (३७।२)
śyāmākāśmaryamadhukadūrvośīraiḥ śṛtaṃ payaḥ ||
घृतमण्डाञ्जनयुतं वस्तिं वा योजयेद्धिमम् । (३८।१)
ghṛtamaṇḍāñjanayutaṃ vastiṃ vā yojayeddhimam |
पिच्छावस्तिं सुशीतं वा घृतमण्डानुवासनम् ॥ (३८।२)
picchāvastiṃ suśītaṃ vā ghṛtamaṇḍānuvāsanam ||
गुदं भ्रष्टं कषायैश्च स्तम्भयित्वा प्रवेशयेत् । (३९।१)
gudaṃ bhraṣṭaṃ kaṣāyaiśca stambhayitvā praveśayet |
विसंज्ञं श्रावयेत् सामवेणुगीतादिनिस्वनम् ॥ (३९।२)
visaṃjñaṃ śrāvayet sāmaveṇugītādinisvanam ||
Data courtesy of The Digital Corpus of Sanskrit.