अष्टाङ्गहृदयसंहिताAṣṭāṅgahṛdayasaṃhitā

AHS, 6, 7

87 of 120 · 76 verses

Select a line for its word-by-word analysis.

1.1१.१

अथातो ऽपस्मारप्रतिषेधं व्याख्यास्यामः । (१।१)

athāto 'pasmārapratiṣedhaṃ vyākhyāsyāmaḥ |

1.2१.२

इति ह स्माहुर् आत्रेयादयो महर्षयः । (१।२)

iti ha smāhur ātreyādayo maharṣayaḥ |

1.3१.३

एन्त्स्तेहुन्ग्स्मृत्यपायो ह्यपस्मारः स धीसत्त्वाभिसम्प्लवात् । (१।३)

Entstehungsmṛtyapāyo hyapasmāraḥ sa dhīsattvābhisamplavāt |

1.4१.४

जायते ऽभिहते चित्ते चिन्ताशोकभयादिभिः ॥ (१।४)

jāyate 'bhihate citte cintāśokabhayādibhiḥ ||

2.1२.१

उन्मादवत् प्रकुपितैश्चित्तदेहगतैर् मलैः । (२।१)

unmādavat prakupitaiścittadehagatair malaiḥ |

2.2२.२

हते सत्त्वे हृदि व्याप्ते संज्ञावाहिषु खेषु च ॥ (२।२)

hate sattve hṛdi vyāpte saṃjñāvāhiṣu kheṣu ca ||

3.1३.१

स्य्म्प्तोमे एइनेस् अन्ड़ल्ल्स्तमो विशन् मूढमतिर् बीभत्साः कुरुते क्रियाः । (३।१)

Symptome eines Anfallstamo viśan mūḍhamatir bībhatsāḥ kurute kriyāḥ |

3.2३.२

दन्तान् खादन् वमन् फेनं हस्तौ पादौ च विक्षिपन् ॥ (३।२)

dantān khādan vaman phenaṃ hastau pādau ca vikṣipan ||

4.1४.१

पश्यन्न् असन्ति रूपाणि प्रस्खलन् पतति क्षितौ । (४।१)

paśyann asanti rūpāṇi praskhalan patati kṣitau |

4.2४.२

विजिह्माक्षिभ्रुवो दोषवेगे ऽतीते विबुध्यते ॥ (४।२)

vijihmākṣibhruvo doṣavege 'tīte vibudhyate ||

5.1५.१

कालान्तरेण स पुनश्चैवम् एव विचेष्टते । (५।१)

kālāntareṇa sa punaścaivam eva viceṣṭate |

5.2५.२

उन्तेरर्तेनपस्मारश्चतुर्भेदो वाताद्यैर् निचयेन च ॥ (५।२)

Unterartenapasmāraścaturbhedo vātādyair nicayena ca ||

6.1६.१

रूपम् उत्पत्स्यमाने ऽस्मिन् हृत्कम्पः शून्यता भ्रमः । (६।१)

rūpam utpatsyamāne 'smin hṛtkampaḥ śūnyatā bhramaḥ |

6.2६.२

तमसो दर्शनं ध्यानं भ्रूव्युदासो ऽक्षिवैकृतम् ॥ (६।२)

tamaso darśanaṃ dhyānaṃ bhrūvyudāso 'kṣivaikṛtam ||

7.1७.१

अशब्दश्रवणं स्वेदो लालासिङ्घाणकस्रुतिः । (७।१)

aśabdaśravaṇaṃ svedo lālāsiṅghāṇakasrutiḥ |

7.2७.२

अविपाको ऽरुचिर् मूर्छा कुक्ष्याटोपो बलक्षयः ॥ (७।२)

avipāko 'rucir mūrchā kukṣyāṭopo balakṣayaḥ ||

8.1८.१

निद्रानाशो ऽङ्गमर्दस् तृट् स्वप्ने गानं सनर्तनम् । (८।१)

nidrānāśo 'ṅgamardas tṛṭ svapne gānaṃ sanartanam |

8.2८.२

पानं तैलस्य मद्यस्य तयोरेव च मेहनम् ॥ (८।२)

pānaṃ tailasya madyasya tayoreva ca mehanam ||

9.1९.१

तत्र वातात् स्फुरत्सक्थिः प्रपतंश्च मुहुर् मुहुः । (९।१)

tatra vātāt sphuratsakthiḥ prapataṃśca muhur muhuḥ |

9.2९.२

अपस्मरति संज्ञां च लभते विस्वरं रुदन् ॥ (९।२)

apasmarati saṃjñāṃ ca labhate visvaraṃ rudan ||

10.1१०.१

उत्पिण्डिताक्षः श्वसिति फेनं वमति कम्पते । (१०।१)

utpiṇḍitākṣaḥ śvasiti phenaṃ vamati kampate |

10.2१०.२

आविध्यति शिरो दन्तान् दशत्याध्मातकन्धरः ॥ (१०।२)

āvidhyati śiro dantān daśatyādhmātakandharaḥ ||

11.1११.१

परितो विक्षिपत्यङ्गं विषमं विनताङ्गुलिः । (११।१)

parito vikṣipatyaṅgaṃ viṣamaṃ vinatāṅguliḥ |

11.2११.२

रूक्षश्यावारुणाक्षित्वङ्नखास्यः कृष्णम् ईक्षते ॥ (११।२)

rūkṣaśyāvāruṇākṣitvaṅnakhāsyaḥ kṛṣṇam īkṣate ||

12.1१२.१

चपलं परुषं रूपं विरूपं विकृताननम् । (१२।१)

capalaṃ paruṣaṃ rūpaṃ virūpaṃ vikṛtānanam |

12.2१२.२

स्य्म्प्तोमे पित्तापस्मारअपस्मरति पित्तेन मुहुः संज्ञां च विन्दति ॥ (१२।२)

Symptome pittāpasmāraapasmarati pittena muhuḥ saṃjñāṃ ca vindati ||

13.1१३.१

पीतफेनाक्षिवक्त्रत्वग् आस्फालयति मेदिनीम् । (१३।१)

pītaphenākṣivaktratvag āsphālayati medinīm |

13.2१३.२

भैरवादीप्तरुषितरूपदर्शी तृषान्वितः ॥ (१३।२)

bhairavādīptaruṣitarūpadarśī tṛṣānvitaḥ ||

14.1१४.१

कफापस्मारकफाच्चिरेण ग्रहणं चिरेणैव विबोधनम् । (१४।१)

kaphāpasmārakaphāccireṇa grahaṇaṃ cireṇaiva vibodhanam |

14.2१४.२

चेष्टाल्पा भूयसी लाला शुक्लनेत्रनखास्यता ॥ (१४।२)

ceṣṭālpā bhūyasī lālā śuklanetranakhāsyatā ||

15.1१५.१

शुक्लाभरूपदर्शित्वं सर्वलिङ्गं तु वर्जयेत् । (१५।१)

śuklābharūpadarśitvaṃ sarvaliṅgaṃ tu varjayet |

15.2१५.२

अथावृतानां धीचित्तहृत्खानां प्राक्प्रबोधनम् ॥ (१५।२)

athāvṛtānāṃ dhīcittahṛtkhānāṃ prākprabodhanam ||

16.1१६.१

तीक्ष्णैः कुर्याद् अपस्मारे कर्मभिर् वमनादिभिः । (१६।१)

tīkṣṇaiḥ kuryād apasmāre karmabhir vamanādibhiḥ |

16.2१६.२

वातिकं वस्तिभूयिष्ठैः पैत्तं प्रायो विरेचनैः ॥ (१६।२)

vātikaṃ vastibhūyiṣṭhaiḥ paittaṃ prāyo virecanaiḥ ||

17.1१७.१

श्लैष्मिकं वमनप्रायैरपस्मारम् उपाचरेत् । (१७।१)

ślaiṣmikaṃ vamanaprāyairapasmāram upācaret |

17.2१७.२

सर्वतः सुविशुद्धस्य सम्यग् आश्वासितस्य च ॥ (१७।२)

sarvataḥ suviśuddhasya samyag āśvāsitasya ca ||

18.1१८.१

अपस्मारविमोक्षार्थं योगान् संशमनाञ्छृणु । (१८।१)

apasmāravimokṣārthaṃ yogān saṃśamanāñchṛṇu |

18.2१८.२

गोमयस्वरसक्षीरदधिमूत्रैः शृतं हविः ॥ (१८।२)

gomayasvarasakṣīradadhimūtraiḥ śṛtaṃ haviḥ ||

19.1१९.१

अपस्मारज्वरोन्मादकामलान्तकरं पिबेत् । (१९।१)

apasmārajvaronmādakāmalāntakaraṃ pibet |

19.2१९.२

द्विपञ्चमूलत्रिफलाद्विनिशाकुटजत्वचः ॥ (१९।२)

dvipañcamūlatriphalādviniśākuṭajatvacaḥ ||

20.1२०.१

सप्तपर्णम् अपामार्गं नीलिनीं कटुरोहिणीम् । (२०।१)

saptaparṇam apāmārgaṃ nīlinīṃ kaṭurohiṇīm |

20.2२०.२

शम्याकपुष्करजटाफल्गुमूलदुरालभाः ॥ (२०।२)

śamyākapuṣkarajaṭāphalgumūladurālabhāḥ ||

21.1२१.१

द्विपलाः सलिलद्रोणे पक्त्वा पादावशेषिते । (२१।१)

dvipalāḥ saliladroṇe paktvā pādāvaśeṣite |

21.2२१.२

भार्गीपाठाढकीकुम्भनिकुम्भव्योषरोहिषैः ॥ (२१।२)

bhārgīpāṭhāḍhakīkumbhanikumbhavyoṣarohiṣaiḥ ||

22.1२२.१

मूर्वाभूतिकभूनिम्बश्रेयसीशारिवाद्वयैः । (२२।१)

mūrvābhūtikabhūnimbaśreyasīśārivādvayaiḥ |

22.2२२.२

मदयन्त्यग्निनिचुलैरक्षांशैः सर्पिषः पचेत् ॥ (२२।२)

madayantyagniniculairakṣāṃśaiḥ sarpiṣaḥ pacet ||

23.1२३.१

प्रस्थं तद्वद् द्रवैः पूर्वैः पञ्चगव्यम् इदं महत् । (२३।१)

prasthaṃ tadvad dravaiḥ pūrvaiḥ pañcagavyam idaṃ mahat |

23.2२३.२

ज्वरापस्मारजठरभगन्दरहरं परम् ॥ (२३।२)

jvarāpasmārajaṭharabhagandaraharaṃ param ||

24.1२४.१

शोफार्शःकामलापाण्डुगुल्मकासग्रहापहम् । (२४।१)

śophārśaḥkāmalāpāṇḍugulmakāsagrahāpaham |

24.2२४.२

ब्राह्मीरसवचाकुष्ठशङ्खपुष्पीशृतं घृतम् ॥ (२४।२)

brāhmīrasavacākuṣṭhaśaṅkhapuṣpīśṛtaṃ ghṛtam ||

25.1२५.१

पुराणं मेध्यम् उन्मादालक्ष्म्यपस्मारपाप्मजित् । (२५।१)

purāṇaṃ medhyam unmādālakṣmyapasmārapāpmajit |

25.2२५.२

तैलप्रस्थं घृतप्रस्थं जीवनीयैः पलोन्मितैः ॥ (२५।२)

tailaprasthaṃ ghṛtaprasthaṃ jīvanīyaiḥ palonmitaiḥ ||

26.1२६.१

क्षीरद्रोणे पचेत् सिद्धम् अपस्मारविमोक्षणम् । (२६।१)

kṣīradroṇe pacet siddham apasmāravimokṣaṇam |

26.2२६.२

कंसे क्षीरेक्षुरसयोः काश्मर्ये ऽष्टगुणे रसे ॥ (२६।२)

kaṃse kṣīrekṣurasayoḥ kāśmarye 'ṣṭaguṇe rase ||

27.1२७.१

कार्षिकैर् जीवनीयैश्च सर्पिःप्रस्थं विपाचयेत् । (२७।१)

kārṣikair jīvanīyaiśca sarpiḥprasthaṃ vipācayet |

27.2२७.२

वातपित्तोद्भवं क्षिप्रम् अपस्मारं निहन्ति तत् ॥ (२७।२)

vātapittodbhavaṃ kṣipram apasmāraṃ nihanti tat ||

28.1२८.१

तद्वत् काशविदारीक्षुकुशक्वाथशृतं पयः । (२८।१)

tadvat kāśavidārīkṣukuśakvāthaśṛtaṃ payaḥ |

28.2२८.२

कूष्माण्डस्वरसे सर्पिर् अष्टादशगुणे शृतम् ॥ (२८।२)

kūṣmāṇḍasvarase sarpir aṣṭādaśaguṇe śṛtam ||

29.1२९.१

यष्टीकल्कम् अपस्मारहरं धीवाक्स्वरप्रदम् । (२९।१)

yaṣṭīkalkam apasmāraharaṃ dhīvāksvarapradam |

29.2२९.२

कपिलानां गवां पित्तं नावने परमं हितम् ॥ (२९।२)

kapilānāṃ gavāṃ pittaṃ nāvane paramaṃ hitam ||

30.1३०.१

श्वशृगालबिडालानां सिंहादीनां च पूजितम् । (३०।१)

śvaśṛgālabiḍālānāṃ siṃhādīnāṃ ca pūjitam |

30.2३०.२

गोधानकुलनागानां पृषतर्क्षगवाम् अपि ॥ (३०।२)

godhānakulanāgānāṃ pṛṣatarkṣagavām api ||

31.1३१.१

पित्तेषु साधितं तैलं नस्ये ऽभ्यङ्गे च शस्यते । (३१।१)

pitteṣu sādhitaṃ tailaṃ nasye 'bhyaṅge ca śasyate |

31.2३१.२

त्रिफलाव्योषपीतद्रुयवक्षारफणिज्जकैः ॥ (३१।२)

triphalāvyoṣapītadruyavakṣāraphaṇijjakaiḥ ||

32.1३२.१

श्र्याह्वापामार्गकारञ्जबीजैस् तैलं विपाचितम् । (३२।१)

śryāhvāpāmārgakārañjabījais tailaṃ vipācitam |

32.2३२.२

बस्तमूत्रे हितं नस्यं चूर्णं वा ध्मापयेद् भिषक् ॥ (३२।२)

bastamūtre hitaṃ nasyaṃ cūrṇaṃ vā dhmāpayed bhiṣak ||

33.1३३.१

नकुलोलूकमार्जारगृध्रकीटाहिकाकजैः । (३३।१)

nakulolūkamārjāragṛdhrakīṭāhikākajaiḥ |

33.2३३.२

तुण्डैः पक्षैः पुरीषैश्च धूपम् अस्य प्रयोजयेत् ॥ (३३।२)

tuṇḍaiḥ pakṣaiḥ purīṣaiśca dhūpam asya prayojayet ||

34.1३४.१

शीलयेत् तैललशुनं पयसा वा शतावरीम् । (३४।१)

śīlayet tailalaśunaṃ payasā vā śatāvarīm |

34.2३४.२

ब्राह्मीरसं कुष्ठरसं वचां वा मधुसंयुताम् ॥ (३४।२)

brāhmīrasaṃ kuṣṭharasaṃ vacāṃ vā madhusaṃyutām ||

35.1३५.१

समं क्रुद्धैरपस्मारो दोषैः शारीरमानसैः । (३५।१)

samaṃ kruddhairapasmāro doṣaiḥ śārīramānasaiḥ |

35.2३५.२

यज्जायते यतश्चैष महामर्मसमाश्रयः ॥ (३५।२)

yajjāyate yataścaiṣa mahāmarmasamāśrayaḥ ||

36.1३६.१

तस्माद् रसायनैरेनं दुश्चिकित्स्यम् उपाचरेत् । (३६।१)

tasmād rasāyanairenaṃ duścikitsyam upācaret |

36.2३६.२

नछ्बेहन्द्लुन्ग्तदार्तं चाग्नितोयादेर् विषमात् पालयेत् सदा ॥ (३६।२)

Nachbehandlungtadārtaṃ cāgnitoyāder viṣamāt pālayet sadā ||

37.1३७.१

मुक्तं मनोविकारेण त्वम् इत्थं कृतवान् इति । (३७।१)

muktaṃ manovikāreṇa tvam itthaṃ kṛtavān iti |

37.2३७.२

न ब्रूयाद् विषयैरिष्टैः क्लिष्टं चेतो ऽस्य बृंहयेत् ॥ (३७।२)

na brūyād viṣayairiṣṭaiḥ kliṣṭaṃ ceto 'sya bṛṃhayet ||

Data courtesy of The Digital Corpus of Sanskrit.

AHS, 6, 7

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit