अष्टाङ्गहृदयसंहिताAṣṭāṅgahṛdayasaṃhitā
AHS, 1, 25
Select a line for its word-by-word analysis.
आहर्तुम् अभ्युपायो यस्तद् यन्त्रं यच्च दर्शने ॥ (१।२)
āhartum abhyupāyo yastad yantraṃ yacca darśane ||
विकल्प्य कल्पयेत् बुद्ध्या यथास्थूलं तु वक्ष्यते । (४।१)
vikalpya kalpayet buddhyā yathāsthūlaṃ tu vakṣyate |
मुखैर् मुखानि यन्त्राणां कुर्यात् तत्संज्ञकानि च । (५।१)
mukhair mukhāni yantrāṇāṃ kuryāt tatsaṃjñakāni ca |
विद्यात् स्वस्तिकयन्त्राणि मूले ऽङ्कुशनतानि च ॥ (६।२)
vidyāt svastikayantrāṇi mūle 'ṅkuśanatāni ca ||
तैर् दृढैर् अस्थिसंलग्नशल्याहरणम् इष्यते । (७।१)
tair dṛḍhair asthisaṃlagnaśalyāharaṇam iṣyate |
षडङ्गुलो ऽन्यो हरणे सूक्ष्मशल्योपपक्ष्मणाम् ॥ (८।२)
ṣaḍaṅgulo 'nyo haraṇe sūkṣmaśalyopapakṣmaṇām ||
द्वे द्वादशाङ्गुले मत्स्यतालवत् द्व्येकतालके । (१०।१)
dve dvādaśāṅgule matsyatālavat dvyekatālake |
स्रोतोगतानां शल्यानाम् आमयानां च दर्शने ॥ (११।२)
srotogatānāṃ śalyānām āmayānāṃ ca darśane ||
तद्विस्तारपरीणाहदैर्घ्यं स्रोतोऽनुरोधतः ॥ (१२।२)
tadvistāraparīṇāhadairghyaṃ sroto'nurodhataḥ ||
नाडी पञ्चमुखच्छिद्रा चतुष्कर्णस्य संग्रहे ॥ (१३।२)
nāḍī pañcamukhacchidrā catuṣkarṇasya saṃgrahe ||
वारङ्गस्य द्विकर्णस्य त्रिच्छिद्रा तत्प्रमाणतः । (१४।१)
vāraṅgasya dvikarṇasya tricchidrā tatpramāṇataḥ |
नाडीर् एवंविधाश् चान्या द्रष्टुं शल्यानि कारयेत् । (१५।१)
nāḍīr evaṃvidhāś cānyā draṣṭuṃ śalyāni kārayet |
पद्मकर्णिकया मूर्ध्नि सदृशी द्वादशाङ्गुला ॥ (१५।२)
padmakarṇikayā mūrdhni sadṛśī dvādaśāṅgulā ||
अर्शसां गोस्तनाकारं यन्त्रकं चतुरङ्गुलम् ॥ (१६।२)
arśasāṃ gostanākāraṃ yantrakaṃ caturaṅgulam ||
नाहे पञ्चाङ्गुलं पुंसां प्रमदानां षडङ्गुलम् । (१७।१)
nāhe pañcāṅgulaṃ puṃsāṃ pramadānāṃ ṣaḍaṅgulam |
द्विच्छिद्रं दर्शने व्याधेर् एकच्छिद्रं तु कर्मणि ॥ (१७।२)
dvicchidraṃ darśane vyādher ekacchidraṃ tu karmaṇi ||
मध्ये ऽस्य त्र्यङ्गुलं छिद्रम् अङ्गुष्ठोदरविस्तृतम् । (१८।१)
madhye 'sya tryaṅgulaṃ chidram aṅguṣṭhodaravistṛtam |
अर्धाङ्गुलोच्छ्रितोद्वृत्तकर्णिकं च तदूर्ध्वतः ॥ (१८।२)
ardhāṅgulocchritodvṛttakarṇikaṃ ca tadūrdhvataḥ ||
शम्याख्यं तादृग् अच्छिद्रं यन्त्रम् अर्शःप्रपीडनम् । (१९।१)
śamyākhyaṃ tādṛg acchidraṃ yantram arśaḥprapīḍanam |
सर्वथापनयेद् ओष्ठं छिद्राद् ऊर्ध्वं भगन्दरे ॥ (१९।२)
sarvathāpanayed oṣṭhaṃ chidrād ūrdhvaṃ bhagandare ||
घ्राणार्बुदार्शसाम् एकच्छिद्रा नाड्यङ्गुलद्वया । (२०।१)
ghrāṇārbudārśasām ekacchidrā nāḍyaṅguladvayā |
प्रदेशिनीपरीणाहा स्याद् भगन्दरयन्त्रवत् ॥ (२०।२)
pradeśinīparīṇāhā syād bhagandarayantravat ||
अङ्गुलीत्राणकं दान्तं वार्क्षं वा चतुरङ्गुलम् । (२१।१)
aṅgulītrāṇakaṃ dāntaṃ vārkṣaṃ vā caturaṅgulam |
द्विच्छिद्रं गोस्तनाकारं तद्वक्त्रविवृतौ सुखम् ॥ (२१।२)
dvicchidraṃ gostanākāraṃ tadvaktravivṛtau sukham ||
योनिव्रणेक्षणं मध्ये सुषिरं षोडशाङ्गुलम् । (२२।१)
yonivraṇekṣaṇaṃ madhye suṣiraṃ ṣoḍaśāṅgulam |
मुद्राबद्धं चतुर्भित्तम् अम्भोजमुकुलाननम् ॥ (२२।२)
mudrābaddhaṃ caturbhittam ambhojamukulānanam ||
चतुःशलाकम् आक्रान्तं मूले तद् विकसेन् मुखे । (२३।१)
catuḥśalākam ākrāntaṃ mūle tad vikasen mukhe |
यन्त्रे नाडीव्रणाभ्यङ्गक्षालनाय षडङ्गुले ॥ (२३।२)
yantre nāḍīvraṇābhyaṅgakṣālanāya ṣaḍaṅgule ||
वस्तियन्त्राकृती मूले मुखे ऽङ्गुष्ठकलायखे । (२४।१)
vastiyantrākṛtī mūle mukhe 'ṅguṣṭhakalāyakhe |
धूमवस्त्यादियन्त्राणि निर्दिष्टानि यथायथम् ॥ (२५।२)
dhūmavastyādiyantrāṇi nirdiṣṭāni yathāyatham ||
त्र्यङ्गुलास्यं भवेच्छृङ्गं चूषणे ऽष्टादशाङ्गुलम् । (२६।१)
tryaṅgulāsyaṃ bhavecchṛṅgaṃ cūṣaṇe 'ṣṭādaśāṅgulam |
अग्रे सिद्धार्थकच्छिद्रं सुनद्धं चूचुकाकृति ॥ (२६।२)
agre siddhārthakacchidraṃ sunaddhaṃ cūcukākṛti ||
स्याद् द्वादशाङ्गुलो ऽलाबुर् नाहे त्वष्टादशाङ्गुलः । (२७।१)
syād dvādaśāṅgulo 'lābur nāhe tvaṣṭādaśāṅgulaḥ |
चतुस्त्र्यङ्गुलवृत्तास्यो दीप्तो ऽन्तः श्लेष्मरक्तहृत् ॥ (२७।२)
catustryaṅgulavṛttāsyo dīpto 'ntaḥ śleṣmaraktahṛt ||
मसूरदलवक्त्रे द्वे स्याताम् अष्टनवाङ्गुले । (३०।१)
masūradalavaktre dve syātām aṣṭanavāṅgule |
शङ्कवः षड् उभौ तेषां षोडशद्वादशाङ्गुलौ ॥ (३०।२)
śaṅkavaḥ ṣaḍ ubhau teṣāṃ ṣoḍaśadvādaśāṅgulau ||
व्यूहने ऽहिफणावक्त्रौ द्वौ दशद्वादशाङ्गुलौ । (३१।१)
vyūhane 'hiphaṇāvaktrau dvau daśadvādaśāṅgulau |
नतो ऽग्रे शङ्कुना तुल्यो गर्भशङ्कुर् इति स्मृतः । (३२।१)
nato 'gre śaṅkunā tulyo garbhaśaṅkur iti smṛtaḥ |
अष्टाङ्गुलायतस् तेन मूढगर्भं हरेत् स्त्रियाः ॥ (३२।२)
aṣṭāṅgulāyatas tena mūḍhagarbhaṃ haret striyāḥ ||
कार्पासविहितोष्णीषाः शलाकाः षट् प्रमार्जने । (३४।१)
kārpāsavihitoṣṇīṣāḥ śalākāḥ ṣaṭ pramārjane |
द्वे षट्सप्ताङ्गुले घ्राणे द्वे कर्णे ऽष्टनवाङ्गुले । (३५।१)
dve ṣaṭsaptāṅgule ghrāṇe dve karṇe 'ṣṭanavāṅgule |
कर्णशोधनम् अश्वत्थपत्त्रप्रान्तं स्रुवाननम् ॥ (३५।२)
karṇaśodhanam aśvatthapattraprāntaṃ sruvānanam ||
शलाकाजाम्बवौष्ठानां क्षारे ऽग्नौ च पृथक् त्रयम् । (३६।१)
śalākājāmbavauṣṭhānāṃ kṣāre 'gnau ca pṛthak trayam |
युञ्ज्यात् स्थूलाणुदीर्घाणां शलाकाम् अन्त्रवर्ध्मनि ॥ (३६।२)
yuñjyāt sthūlāṇudīrghāṇāṃ śalākām antravardhmani ||
मध्योर्ध्ववृत्तदण्डां च मूले चार्धेन्दुसंनिभाम् । (३७।१)
madhyordhvavṛttadaṇḍāṃ ca mūle cārdhendusaṃnibhām |
कोलास्थिदलतुल्यास्या नासार्शोऽर्बुददाहकृत् ॥ (३७।२)
kolāsthidalatulyāsyā nāsārśo'rbudadāhakṛt ||
अष्टाङ्गुला निम्नमुखास् तिस्रः क्षारौषधक्रमे । (३८।१)
aṣṭāṅgulā nimnamukhās tisraḥ kṣārauṣadhakrame |
स्वं स्वम् उक्तानि यन्त्राणि मेढ्रशुद्ध्यञ्जनादिषु । (३९।१)
svaṃ svam uktāni yantrāṇi meḍhraśuddhyañjanādiṣu |
अनुयन्त्राण्ययस्कान्तरज्जूवस्त्राश्ममुद्गराः ॥ (३९।२)
anuyantrāṇyayaskāntarajjūvastrāśmamudgarāḥ ||
वध्रान्त्रजिह्वावालाश्च शाखानखमुखद्विजाः । (४०।१)
vadhrāntrajihvāvālāśca śākhānakhamukhadvijāḥ |
कालः पाकः करः पादो भयं हर्षश् च तत्क्रियाः ॥ (४०।२)
kālaḥ pākaḥ karaḥ pādo bhayaṃ harṣaś ca tatkriyāḥ ||
निर्घातनोन्मथनपूरणमार्गशुद्धिसंव्यूहनाहरणबन्धनपीडनानि । (४२।१)
nirghātanonmathanapūraṇamārgaśuddhisaṃvyūhanāharaṇabandhanapīḍanāni |
आचूषणोन्नमननामनचालभङ्गव्यावर्तनर्जुकरणानि च यन्त्रकर्म ॥ (४२।२)
ācūṣaṇonnamananāmanacālabhaṅgavyāvartanarjukaraṇāni ca yantrakarma ||
विवर्तते साध्ववगाहते च ग्राह्यं गृहीत्वोद्धरते च यस्मात् । (४३।१)
vivartate sādhvavagāhate ca grāhyaṃ gṛhītvoddharate ca yasmāt |
यन्त्रेष्वतः कङ्कमुखं प्रधानं स्थानेषु सर्वेष्वधिकारि यच्च ॥ (४३।२)
yantreṣvataḥ kaṅkamukhaṃ pradhānaṃ sthāneṣu sarveṣvadhikāri yacca ||
Data courtesy of The Digital Corpus of Sanskrit.