अष्टाङ्गहृदयसंहिताAṣṭāṅgahṛdayasaṃhitā

AHS, 1, 26

26 of 120 · 113 verses

Select a line for its word-by-word analysis.

1.1१.१

षड्विंशतिः सुकर्मारैर् घटितानि यथाविधि । (१।१)

ṣaḍviṃśatiḥ sukarmārair ghaṭitāni yathāvidhi |

1.2१.२

शस्त्राणि रोमवाहीनि बाहुल्येनाङ्गुलानि षट् ॥ (१।२)

śastrāṇi romavāhīni bāhulyenāṅgulāni ṣaṭ ||

2.1२.१

सुरूपाणि सुधाराणि सुग्रहाणि च कारयेत् । (२।१)

surūpāṇi sudhārāṇi sugrahāṇi ca kārayet |

2.2२.२

अकरालानि सुध्मातसुतीक्ष्णावर्तिते ऽयसि ॥ (२।२)

akarālāni sudhmātasutīkṣṇāvartite 'yasi ||

3.1३.१

समाहितमुखाग्राणि नीलाम्भोजच्छवीनि च । (३।१)

samāhitamukhāgrāṇi nīlāmbhojacchavīni ca |

3.2३.२

नामानुगतरूपाणि सदा संनिहितानि च ॥ (३।२)

nāmānugatarūpāṇi sadā saṃnihitāni ca ||

4.1४.१

स्वोन्मानार्धचतुर्थांशफलान्येकैकशो ऽपि च । (४।१)

svonmānārdhacaturthāṃśaphalānyekaikaśo 'pi ca |

4.2४.२

प्रायो द्वित्राणि युञ्जीत तानि स्थानविशेषतः ॥ (४।२)

prāyo dvitrāṇi yuñjīta tāni sthānaviśeṣataḥ ||

5.1५.१

मण्डलाग्रं फले तेषां तर्जन्यन्तर्नखाकृति । (५।१)

maṇḍalāgraṃ phale teṣāṃ tarjanyantarnakhākṛti |

5.2५.२

लेखने छेदने योज्यं पोथकीशुण्डिकादिषु ॥ (५।२)

lekhane chedane yojyaṃ pothakīśuṇḍikādiṣu ||

6.1६.१

वृद्धिपत्त्रं क्षुराकारं छेदभेदनपाटने । (६।१)

vṛddhipattraṃ kṣurākāraṃ chedabhedanapāṭane |

6.2६.२

ऋज्वग्रम् उन्नते शोफे गम्भीरे च तद् अन्यथा ॥ (६।२)

ṛjvagram unnate śophe gambhīre ca tad anyathā ||

7.1७.१

नताग्रं पृष्ठतो दीर्घह्रस्ववक्त्रं यथाश्रयम् । (७।१)

natāgraṃ pṛṣṭhato dīrghahrasvavaktraṃ yathāśrayam |

7.2७.२

उत्पलाध्यर्धधाराख्ये भेदने छेदने तथा ॥ (७।२)

utpalādhyardhadhārākhye bhedane chedane tathā ||

8.1८.१

सर्पास्यं घ्राणकर्णार्शश्छेदने ऽर्धाङ्गुलं फले । (८।१)

sarpāsyaṃ ghrāṇakarṇārśaśchedane 'rdhāṅgulaṃ phale |

8.2८.२

गतेरन्वेषणे श्लक्ष्णा गण्डूपदमुखैषणी ॥ (८।२)

gateranveṣaṇe ślakṣṇā gaṇḍūpadamukhaiṣaṇī ||

9.1९.१

भेदनार्थे ऽपरा सूचीमुखा मूलनिविष्टखा । (९।१)

bhedanārthe 'parā sūcīmukhā mūlaniviṣṭakhā |

9.2९.२

वेतसं व्यधने स्राव्ये शरार्यास्यत्रिकूर्चके ॥ (९।२)

vetasaṃ vyadhane srāvye śarāryāsyatrikūrcake ||

10.1१०.१

कुशाटा वदने स्राव्ये द्व्यङ्गुलं स्यात् तयोः फलम् । (१०।१)

kuśāṭā vadane srāvye dvyaṅgulaṃ syāt tayoḥ phalam |

10.2१०.२

तद्वद् अन्तर्मुखं तस्य फलम् अध्यर्धम् अङ्गुलम् ॥ (१०।२)

tadvad antarmukhaṃ tasya phalam adhyardham aṅgulam ||

11.1११.१

अर्धचन्द्राननं चैतत् तथाध्यर्धाङ्गुलं फले । (११।१)

ardhacandrānanaṃ caitat tathādhyardhāṅgulaṃ phale |

11.2११.२

व्रीहिवक्त्रं प्रयोज्य च तत् सिरोदरयोर् व्यधे ॥ (११।२)

vrīhivaktraṃ prayojya ca tat sirodarayor vyadhe ||

12.1१२.१

पृथुः कुठारी गोदन्तसदृशार्धाङ्गुलानना । (१२।१)

pṛthuḥ kuṭhārī godantasadṛśārdhāṅgulānanā |

12.2१२.२

तयोर्ध्वदण्डया विध्येद् उपर्यस्थ्नां स्थितां सिराम् ॥ (१२।२)

tayordhvadaṇḍayā vidhyed uparyasthnāṃ sthitāṃ sirām ||

13.1१३.१

ताम्री शलाका द्विमुखी मुखे कुरुवकाकृतिः । (१३।१)

tāmrī śalākā dvimukhī mukhe kuruvakākṛtiḥ |

13.2१३.२

लिङ्गनाशं तया विध्येत् कुर्याद् अङ्गुलिशस्त्रकम् ॥ (१३।२)

liṅganāśaṃ tayā vidhyet kuryād aṅguliśastrakam ||

14.1१४.१

मुद्रिकानिर्गतमुखं फले त्वर्धाङ्गुलायतम् । (१४।१)

mudrikānirgatamukhaṃ phale tvardhāṅgulāyatam |

14.2१४.२

योगतो वृद्धिपत्त्रेण मण्डलाग्रेण वा समम् ॥ (१४।२)

yogato vṛddhipattreṇa maṇḍalāgreṇa vā samam ||

15.1१५.१

तत् प्रदेशिन्यग्रपर्वप्रमाणार्पणमुद्रिकम् । (१५।१)

tat pradeśinyagraparvapramāṇārpaṇamudrikam |

15.2१५.२

सूत्रबद्धं गलस्रोतोरोगच्छेदनभेदने ॥ (१५।२)

sūtrabaddhaṃ galasrotorogacchedanabhedane ||

16.1१६.१

ग्रहणे शुण्डिकार्मादेर् बडिशं सुनताननम् । (१६।१)

grahaṇe śuṇḍikārmāder baḍiśaṃ sunatānanam |

16.2१६.२

छेदे ऽस्थ्नां करपत्त्रं तु खरधारं दशाङ्गुलम् ॥ (१६।२)

chede 'sthnāṃ karapattraṃ tu kharadhāraṃ daśāṅgulam ||

17.1१७.१

विस्तारे द्व्यङ्गुलं सूक्ष्मदन्तं सुत्सरुबन्धनम् । (१७।१)

vistāre dvyaṅgulaṃ sūkṣmadantaṃ sutsarubandhanam |

17.2१७.२

स्नायुसूत्रकचछेदे कर्तरी कर्तरीनिभा ॥ (१७।२)

snāyusūtrakacachede kartarī kartarīnibhā ||

18.1१८.१

वक्रर्जुधारं द्विमुखं नखशस्त्रं नवाङ्गुलम् । (१८।१)

vakrarjudhāraṃ dvimukhaṃ nakhaśastraṃ navāṅgulam |

18.2१८.२

सूक्ष्मशल्योद्धृतिच्छेदभेदप्रच्छानलेखने ॥ (१८।२)

sūkṣmaśalyoddhṛticchedabhedapracchānalekhane ||

19.1१९.१

एकधारं चतुष्कोणं प्रबद्धाकृति चैकतः । (१९।१)

ekadhāraṃ catuṣkoṇaṃ prabaddhākṛti caikataḥ |

19.2१९.२

दन्तलेखनकं तेन शोधयेद् दन्तशर्कराम् ॥ (१९।२)

dantalekhanakaṃ tena śodhayed dantaśarkarām ||

20.1२०.१

वृत्ता गूढदृढाः पाशे तिस्रः सूच्यो ऽत्र सीवने । (२०।१)

vṛttā gūḍhadṛḍhāḥ pāśe tisraḥ sūcyo 'tra sīvane |

20.2२०.२

मांसलानां प्रदेशानां त्र्यश्रा त्र्यङ्गुलम् आयता ॥ (२०।२)

māṃsalānāṃ pradeśānāṃ tryaśrā tryaṅgulam āyatā ||

21.1२१.१

अल्पमांसास्थिसंधिस्थव्रणानां द्व्यङ्गुलायता । (२१।१)

alpamāṃsāsthisaṃdhisthavraṇānāṃ dvyaṅgulāyatā |

21.2२१.२

व्रीहिवक्त्रा धनुर्वक्रा पक्वामाशयमर्मसु ॥ (२१।२)

vrīhivaktrā dhanurvakrā pakvāmāśayamarmasu ||

22.1२२.१

सा सार्धद्व्यङ्गुला सर्ववृत्तास् ताश्चतुरङ्गुलाः । (२२।१)

sā sārdhadvyaṅgulā sarvavṛttās tāścaturaṅgulāḥ |

22.2२२.२

कूर्चो वृत्तैकपीठस्थाः सप्ताष्टौ वा सुबन्धनाः ॥ (२२।२)

kūrco vṛttaikapīṭhasthāḥ saptāṣṭau vā subandhanāḥ ||

23.1२३.१

स योज्यो नीलिकाव्यङ्गकेशशातेषु कुट्टने । (२३।१)

sa yojyo nīlikāvyaṅgakeśaśāteṣu kuṭṭane |

23.2२३.२

अर्धाङ्गुलमुखैर् वृत्तैरष्टाभिः कण्टकैः खजः ॥ (२३।२)

ardhāṅgulamukhair vṛttairaṣṭābhiḥ kaṇṭakaiḥ khajaḥ ||

24.1२४.१

पाणिभ्यां मथ्यमानेन घ्राणात् तेन हरेद् असृक् । (२४।१)

pāṇibhyāṃ mathyamānena ghrāṇāt tena hared asṛk |

24.2२४.२

व्यधनं कर्णपालीनां यूथिकामुकुलाननम् ॥ (२४।२)

vyadhanaṃ karṇapālīnāṃ yūthikāmukulānanam ||

25.1२५.१

आरार्धाङ्गुलवृत्तास्या तत्प्रवेशा तथोर्ध्वतः । (२५।१)

ārārdhāṅgulavṛttāsyā tatpraveśā tathordhvataḥ |

25.2२५.२

चतुरश्रा तया विध्येच्छोफं पक्वामसंशये ॥ (२५।२)

caturaśrā tayā vidhyecchophaṃ pakvāmasaṃśaye ||

26.1२६.१

कर्णपालीं च बहलां बहलायाश्च शस्यते । (२६।१)

karṇapālīṃ ca bahalāṃ bahalāyāśca śasyate |

26.2२६.२

सूची त्रिभागसुषिरा त्र्यङ्गुला कर्णवेधनी ॥ (२६।२)

sūcī tribhāgasuṣirā tryaṅgulā karṇavedhanī ||

27.1२७.१

जलौकःक्षारदहनकाचोपलनखादयः । (२७।१)

jalaukaḥkṣāradahanakācopalanakhādayaḥ |

27.2२७.२

अलौहान्यनुशस्त्राणि तान्येवं च विकल्पयेत् ॥ (२७।२)

alauhānyanuśastrāṇi tānyevaṃ ca vikalpayet ||

28.1२८.१

अपराण्यपि यन्त्रादीन्युपयोगं च यौगिकम् । (२८।१)

aparāṇyapi yantrādīnyupayogaṃ ca yaugikam |

28.2२८.२

उत्पाट्यपाट्यसीव्यैष्यलेख्यप्रच्छानकुट्टनम् ॥ (२८।२)

utpāṭyapāṭyasīvyaiṣyalekhyapracchānakuṭṭanam ||

29.1२९.१

छेद्यं भेद्यं व्यधो मन्थो ग्रहो दाहश्च तत्क्रियाः । (२९।१)

chedyaṃ bhedyaṃ vyadho mantho graho dāhaśca tatkriyāḥ |

29.2२९.२

कुण्ठखण्डतनुस्थूलह्रस्वदीर्घत्ववक्रताः ॥ (२९।२)

kuṇṭhakhaṇḍatanusthūlahrasvadīrghatvavakratāḥ ||

30.1३०.१

शस्त्राणां खरधारत्वम् अष्टौ दोषाः प्रकीर्तिताः । (३०।१)

śastrāṇāṃ kharadhāratvam aṣṭau doṣāḥ prakīrtitāḥ |

30.2३०.२

छेदभेदनलेख्यार्थं शस्त्रं वृन्तफलान्तरे ॥ (३०।२)

chedabhedanalekhyārthaṃ śastraṃ vṛntaphalāntare ||

31.1३१.१

तर्जनीमध्यमाङ्गुष्ठैर् गृह्णीयात् सुसमाहितः । (३१।१)

tarjanīmadhyamāṅguṣṭhair gṛhṇīyāt susamāhitaḥ |

31.2३१.२

विस्रावणानि वृन्ताग्रे तर्जन्यङ्गुष्ठकेन च ॥ (३१।२)

visrāvaṇāni vṛntāgre tarjanyaṅguṣṭhakena ca ||

32.1३२.१

तलप्रच्छन्नवृन्ताग्रं ग्राह्यं व्रीहिमुखं मुखे । (३२।१)

talapracchannavṛntāgraṃ grāhyaṃ vrīhimukhaṃ mukhe |

32.2३२.२

मूलेष्वाहरणार्थानि क्रियासौकर्यतो ऽपरम् ॥ (३२।२)

mūleṣvāharaṇārthāni kriyāsaukaryato 'param ||

33.1३३.१

स्यान् नवाङ्गुलविस्तारः सुघनो द्वादशाङ्गुलः । (३३।१)

syān navāṅgulavistāraḥ sughano dvādaśāṅgulaḥ |

33.2३३.२

क्षौमपत्त्रोर्णकौशेयदुकूलमृदुचर्मजः ॥ (३३।२)

kṣaumapattrorṇakauśeyadukūlamṛducarmajaḥ ||

34.1३४.१

विन्यस्तपाशः सुस्यूतः सान्तरोर्णास्थशस्त्रकः । (३४।१)

vinyastapāśaḥ susyūtaḥ sāntarorṇāsthaśastrakaḥ |

34.2३४.२

शलाकापिहितास्यश्च शस्त्रकोशः सुसंचयः ॥ (३४।२)

śalākāpihitāsyaśca śastrakośaḥ susaṃcayaḥ ||

35.1३५.१

जलौकसस् तु सुखिनां रक्तस्रावाय योजयेत् । (३५।१)

jalaukasas tu sukhināṃ raktasrāvāya yojayet |

35.2३५.२

दुष्टाम्बुमत्स्यभेकाहिशवकोथमलोद्भवाः ॥ (३५।२)

duṣṭāmbumatsyabhekāhiśavakothamalodbhavāḥ ||

36.1३६.१

रक्ताः श्वेता भृशं कृष्णाश्चपलाः स्थूलपिच्छिलाः । (३६।१)

raktāḥ śvetā bhṛśaṃ kṛṣṇāścapalāḥ sthūlapicchilāḥ |

36.2३६.२

इन्द्रायुधविचित्रोर्ध्वराजयो रोमशाश्च ताः ॥ (३६।२)

indrāyudhavicitrordhvarājayo romaśāśca tāḥ ||

37.1३७.१

सविषा वर्जयेत् ताभिः कण्डूपाकज्वरभ्रमाः । (३७।१)

saviṣā varjayet tābhiḥ kaṇḍūpākajvarabhramāḥ |

37.2३७.२

विषपित्तास्रनुत् कार्यं तत्र शुद्धाम्बुजाः पुनः ॥ (३७।२)

viṣapittāsranut kāryaṃ tatra śuddhāmbujāḥ punaḥ ||

38.1३८.१

निर्विषाः शैवलश्यावा वृत्ता नीलोर्ध्वराजयः । (३८।१)

nirviṣāḥ śaivalaśyāvā vṛttā nīlordhvarājayaḥ |

38.2३८.२

कषायपृष्ठास् तन्वङ्ग्यः किंचित्पीतोदराश्च याः ॥ (३८।२)

kaṣāyapṛṣṭhās tanvaṅgyaḥ kiṃcitpītodarāśca yāḥ ||

39.1३९.१

ता अप्यसम्यग्वमनात् प्रततं च निपातनात् । (३९।१)

tā apyasamyagvamanāt pratataṃ ca nipātanāt |

39.2३९.२

सीदन्तीः सलिलं प्राप्य रक्तमत्ता इति त्यजेत् ॥ (३९।२)

sīdantīḥ salilaṃ prāpya raktamattā iti tyajet ||

40.1४०.१

अथेतरा निशाकल्कयुक्ते ऽम्भसि परिप्लुताः । (४०।१)

athetarā niśākalkayukte 'mbhasi pariplutāḥ |

40.2४०.२

अवन्तिसोमे तक्रे वा पुनश्चाश्वासिता जले ॥ (४०।२)

avantisome takre vā punaścāśvāsitā jale ||

41.1४१.१

लागयेद् घृतमृत्स्तन्यरक्तशस्त्रनिपातनैः । (४१।१)

lāgayed ghṛtamṛtstanyaraktaśastranipātanaiḥ |

41.2४१.२

पिबन्तीरुन्नतस्कन्धाश्छादयेन् मृदुवाससा ॥ (४१।२)

pibantīrunnataskandhāśchādayen mṛduvāsasā ||

42.1४२.१

संपृक्ताद् दुष्टशुद्धास्राज् जलौका दुष्टशोणितम् । (४२।१)

saṃpṛktād duṣṭaśuddhāsrāj jalaukā duṣṭaśoṇitam |

42.2४२.२

आदत्ते प्रथमं हंसः क्षीरं क्षीरोदकाद् इव ॥ (४२।२)

ādatte prathamaṃ haṃsaḥ kṣīraṃ kṣīrodakād iva ||

43.1४३.१

गुल्मार्शोविद्रधीन् कुष्ठवातरक्तगलामयान् । (४३।१)

gulmārśovidradhīn kuṣṭhavātaraktagalāmayān |

43.2४३.२

नेत्ररुग्विषवीसर्पान् शमयन्ति जलौकसः ॥ (४३।२)

netrarugviṣavīsarpān śamayanti jalaukasaḥ ||

44.1४४.१

दंशस्य तोदे कण्ड्वां वा मोक्षयेद् वामयेच्च ताम् । (४४।१)

daṃśasya tode kaṇḍvāṃ vā mokṣayed vāmayecca tām |

44.2४४.२

पटुतैलाक्तवदनां श्लक्ष्णकण्डनरूषिताम् ॥ (४४।२)

paṭutailāktavadanāṃ ślakṣṇakaṇḍanarūṣitām ||

45.1४५.१

रक्षन् रक्तमदाद् भूयः सप्ताहं ता न पातयेत् । (४५।१)

rakṣan raktamadād bhūyaḥ saptāhaṃ tā na pātayet |

45.2४५.२

पूर्ववत् पटुता दार्ढ्यं सम्यग्वान्ते जलौकसाम् ॥ (४५।२)

pūrvavat paṭutā dārḍhyaṃ samyagvānte jalaukasām ||

46.1४६.१

क्लमो ऽतियोगान् मृत्युर् वा दुर्वान्ते स्तब्धता मदः । (४६।१)

klamo 'tiyogān mṛtyur vā durvānte stabdhatā madaḥ |

46.2४६.२

अन्यत्रान्यत्र ताः स्थाप्या घटे मृत्स्नाम्बुगर्भिणि ॥ (४६।२)

anyatrānyatra tāḥ sthāpyā ghaṭe mṛtsnāmbugarbhiṇi ||

47.1४७.१

लालादिकोथनाशार्थं सविषाः स्युस् तदन्वयात् । (४७।१)

lālādikothanāśārthaṃ saviṣāḥ syus tadanvayāt |

47.2४७.२

अशुद्धौ स्रावयेद् दंशान् हरिद्रागुडमाक्षिकैः ॥ (४७।२)

aśuddhau srāvayed daṃśān haridrāguḍamākṣikaiḥ ||

48.1४८.१

शतधौताज्यपिचवस् ततो लेपाश्च शीतलाः । (४८।१)

śatadhautājyapicavas tato lepāśca śītalāḥ |

48.2४८.२

दुष्टरक्तापगमनात् सद्यो रागरुजां शमः ॥ (४८।२)

duṣṭaraktāpagamanāt sadyo rāgarujāṃ śamaḥ ||

49.1४९.१

अशुद्धं चलितं स्थानात् स्थितं रक्तं व्रणाशये । (४९।१)

aśuddhaṃ calitaṃ sthānāt sthitaṃ raktaṃ vraṇāśaye |

49.2४९.२

व्यम्लीभवेत् पर्युषितं तस्मात् तत् स्रावयेत् पुनः ॥ (४९।२)

vyamlībhavet paryuṣitaṃ tasmāt tat srāvayet punaḥ ||

50.1५०.१

युञ्ज्यान् नालाबुघटिका रक्ते पित्तेन दूषिते । (५०।१)

yuñjyān nālābughaṭikā rakte pittena dūṣite |

50.2५०.२

तासाम् अनलसंयोगाद् युञ्ज्यात् तु कफवायुना ॥ (५०।२)

tāsām analasaṃyogād yuñjyāt tu kaphavāyunā ||

51.1५१.१

कफेन दुष्टं रुधिरं न शृङ्गेण विनिर्हरेत् । (५१।१)

kaphena duṣṭaṃ rudhiraṃ na śṛṅgeṇa vinirharet |

51.2५१.२

स्कन्नत्वाद् वातपित्ताभ्यां दुष्टं शृङ्गेण निर्हरेत् ॥ (५१।२)

skannatvād vātapittābhyāṃ duṣṭaṃ śṛṅgeṇa nirharet ||

52.1५२.१

गात्रं बद्ध्वोपरि दृढं रज्ज्वा पट्टेन वा समम् । (५२।१)

gātraṃ baddhvopari dṛḍhaṃ rajjvā paṭṭena vā samam |

52.2५२.२

स्नायुसंध्यस्थिमर्माणि त्यजन् प्रच्छानम् आचरेत् ॥ (५२।२)

snāyusaṃdhyasthimarmāṇi tyajan pracchānam ācaret ||

53.1५३.१

अधोदेश प्रविसृतैः पदैरुपरिगामिभिः । (५३।१)

adhodeśa pravisṛtaiḥ padairuparigāmibhiḥ |

53.2५३.२

न गाढघनतिर्यग्भिर् न पदे पदम् आचरन् ॥ (५३।२)

na gāḍhaghanatiryagbhir na pade padam ācaran ||

54.1५४.१

प्रच्छानेनैकदेशस्थं ग्रथितं जलजन्मभिः । (५४।१)

pracchānenaikadeśasthaṃ grathitaṃ jalajanmabhiḥ |

54.2५४.२

हरेच्छृङ्गादिभिः सुप्तम् असृग् व्यापि सिराव्यधैः ॥ (५४।२)

harecchṛṅgādibhiḥ suptam asṛg vyāpi sirāvyadhaiḥ ||

55.1५५.१

प्रच्छानं पिण्डिते वा स्याद् अवगाढे जलौकसः । (५५।१)

pracchānaṃ piṇḍite vā syād avagāḍhe jalaukasaḥ |

55.2५५.२

त्वक्स्थे ऽलाबुघटीशृङ्गं सिरैव व्यापके ऽसृजि ॥ (५५।२)

tvaksthe 'lābughaṭīśṛṅgaṃ siraiva vyāpake 'sṛji ||

56.1५६.१

वातादिधाम वा शृङ्गजलौकोऽलाबुभिः क्रमात् । (५६।१)

vātādidhāma vā śṛṅgajalauko'lābubhiḥ kramāt |

56.2५६.२

स्रुतासृजः प्रदेहाद्यैः शीतैः स्याद् वायुकोपतः ॥ (५६।२)

srutāsṛjaḥ pradehādyaiḥ śītaiḥ syād vāyukopataḥ ||

57.1५७.१

सतोदकण्डुः शोफस् तं सर्पिषोष्णेन सेचयेत् ॥ (५७।१)

satodakaṇḍuḥ śophas taṃ sarpiṣoṣṇena secayet ||

Data courtesy of The Digital Corpus of Sanskrit.

AHS, 1, 26

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit