अष्टाङ्गहृदयसंहिताAṣṭāṅgahṛdayasaṃhitā

AHS, 5, 5

79 of 120 · 110 verses

Select a line for its word-by-word analysis.

1.1१.१

राज्ञोक्तम् अथातो बस्तिव्यापत्सिद्धिं व्याख्यास्यामः । (१।१)

rājñoktam athāto bastivyāpatsiddhiṃ vyākhyāsyāmaḥ |

1.2१.२

इति ह स्माहुर् आत्रेयादयो महर्षयः । (१।२)

iti ha smāhur ātreyādayo maharṣayaḥ |

1.3१.३

अस्निग्धस्विन्नदेहस्य गुरुकोष्ठस्य योजितः । (१।३)

asnigdhasvinnadehasya gurukoṣṭhasya yojitaḥ |

1.4१.४

शीतो ऽल्पस्नेहलवणद्रव्यमात्रो घनो ऽपि वा ॥ (१।४)

śīto 'lpasnehalavaṇadravyamātro ghano 'pi vā ||

2.1२.१

वस्तिः संक्षोभ्य तं दोषं दुर्बलत्वाद् अनिर्हरन् । (२।१)

vastiḥ saṃkṣobhya taṃ doṣaṃ durbalatvād anirharan |

2.2२.२

करोत्ययोगं तेन स्याद् वातमूत्रशकृद्ग्रहः ॥ (२।२)

karotyayogaṃ tena syād vātamūtraśakṛdgrahaḥ ||

3.1३.१

नाभिवस्तिरुजा दाहो हृल्लेपः श्वयथुर् गुदे । (३।१)

nābhivastirujā dāho hṛllepaḥ śvayathur gude |

3.2३.२

कण्डूर् गण्डानि वैवर्ण्यम् अरतिर् वह्निमार्दवम् ॥ (३।२)

kaṇḍūr gaṇḍāni vaivarṇyam aratir vahnimārdavam ||

4.1४.१

क्वाथद्वयं प्राग्विहितं मध्यदोषे ऽतिसारिणि । (४।१)

kvāthadvayaṃ prāgvihitaṃ madhyadoṣe 'tisāriṇi |

4.2४.२

उष्णस्य तस्माद् एकस्य तत्र पानं प्रशस्यते ॥ (४।२)

uṣṇasya tasmād ekasya tatra pānaṃ praśasyate ||

5.1५.१

फलवर्त्यस् तथा स्वेदाः कालं ज्ञात्वा विरेचनम् । (५।१)

phalavartyas tathā svedāḥ kālaṃ jñātvā virecanam |

5.2५.२

बिल्वमूलत्रिवृद्दारुयवकोलकुलत्थवान् ॥ (५।२)

bilvamūlatrivṛddāruyavakolakulatthavān ||

6.1६.१

सुरादिमूत्रवान् वस्तिः सप्राक्पेष्यस् तम् आनयेत् । (६।१)

surādimūtravān vastiḥ saprākpeṣyas tam ānayet |

6.2६.२

युक्तो ऽल्पवीर्यो दोषाढ्ये रूक्षे क्रूराशये ऽथवा ॥ (६।२)

yukto 'lpavīryo doṣāḍhye rūkṣe krūrāśaye 'thavā ||

7.1७.१

वस्तिर् दोषावृतो रुद्धमार्गो रुन्ध्यात् समीरणम् । (७।१)

vastir doṣāvṛto ruddhamārgo rundhyāt samīraṇam |

7.2७.२

स विमार्गो ऽनिलः कुर्याद् आध्मानं मर्मपीडनम् ॥ (७।२)

sa vimārgo 'nilaḥ kuryād ādhmānaṃ marmapīḍanam ||

8.1८.१

विदाहं गुदकोष्ठस्य मुष्कवङ्क्षणवेदनाम् । (८।१)

vidāhaṃ gudakoṣṭhasya muṣkavaṅkṣaṇavedanām |

8.2८.२

रुणद्धि हृदयं शूलैरितश्चेतश्च धावति ॥ (८।२)

ruṇaddhi hṛdayaṃ śūlairitaścetaśca dhāvati ||

9.1९.१

स्वभ्यक्तस्विन्नगात्रस्य तत्र वर्तिं प्रयोजयेत् । (९।१)

svabhyaktasvinnagātrasya tatra vartiṃ prayojayet |

9.2९.२

बिल्वादिश्च निरूहः स्यात् पीलुसर्षपमूत्रवान् ॥ (९।२)

bilvādiśca nirūhaḥ syāt pīlusarṣapamūtravān ||

10.1१०.१

सरलामरदारुभ्यां साधितं चानुवासनम् । (१०।१)

saralāmaradārubhyāṃ sādhitaṃ cānuvāsanam |

10.2१०.२

कुर्वतो वेगसंरोधं पीडितो वातिमात्रया ॥ (१०।२)

kurvato vegasaṃrodhaṃ pīḍito vātimātrayā ||

11.1११.१

अस्निग्धलवणोष्णो वा वस्तिरल्पो ऽल्पभेषजः । (११।१)

asnigdhalavaṇoṣṇo vā vastiralpo 'lpabheṣajaḥ |

11.2११.२

मृदुर् वा मारुतेनोर्ध्वं विक्षिप्तो मुखनासिकात् ॥ (११।२)

mṛdur vā mārutenordhvaṃ vikṣipto mukhanāsikāt ||

12.1१२.१

निरेति मूर्छाहृल्लासतृड्दाहादीन् प्रवर्तयन् । (१२।१)

nireti mūrchāhṛllāsatṛḍdāhādīn pravartayan |

12.2१२.२

मूर्छाविकारं दृष्ट्वास्य सिञ्चेच्छीताम्बुना मुखम् ॥ (१२।२)

mūrchāvikāraṃ dṛṣṭvāsya siñcecchītāmbunā mukham ||

13.1१३.१

व्यजेद् आ क्लमनाशाच्च प्राणायामं च कारयेत् । (१३।१)

vyajed ā klamanāśācca prāṇāyāmaṃ ca kārayet |

13.2१३.२

पृष्ठपार्श्वोदरं मृज्यात् करैरुष्णैरधोमुखम् ॥ (१३।२)

pṛṣṭhapārśvodaraṃ mṛjyāt karairuṣṇairadhomukham ||

14.1१४.१

केशेषूत्क्षिप्य धुन्वीत भीषयेद् व्यालदंष्ट्रिभिः । (१४।१)

keśeṣūtkṣipya dhunvīta bhīṣayed vyāladaṃṣṭribhiḥ |

14.2१४.२

शस्त्रोल्काराजपुरुषैर् वस्तिरेति तथा ह्यधः ॥ (१४।२)

śastrolkārājapuruṣair vastireti tathā hyadhaḥ ||

15.1१५.१

पाणिवस्त्रैर् गलापीडं कुर्यान् न म्रियते तथा । (१५।१)

pāṇivastrair galāpīḍaṃ kuryān na mriyate tathā |

15.2१५.२

प्राणोदाननिरोधाद्धि सुप्रसिद्धतरायनः ॥ (१५।२)

prāṇodānanirodhāddhi suprasiddhatarāyanaḥ ||

16.1१६.१

अपानः पवनो वस्तिं तम् आश्वेवापकर्षति । (१६।१)

apānaḥ pavano vastiṃ tam āśvevāpakarṣati |

16.2१६.२

कुष्ठक्रमुककल्कं च पाययेताम्लसंयुतम् ॥ (१६।२)

kuṣṭhakramukakalkaṃ ca pāyayetāmlasaṃyutam ||

17.1१७.१

औष्ण्यात् तैक्ष्ण्यात् सरत्वाच्च वस्तिं सो ऽस्यानुलोमयेत् । (१७।१)

auṣṇyāt taikṣṇyāt saratvācca vastiṃ so 'syānulomayet |

17.2१७.२

गोमूत्रेण त्रिवृत्पथ्याकल्कं वाधोऽनुलोमनम् ॥ (१७।२)

gomūtreṇa trivṛtpathyākalkaṃ vādho'nulomanam ||

18.1१८.१

पक्वाशयस्थिते स्विन्ने निरूहो दाशमूलिकः । (१८।१)

pakvāśayasthite svinne nirūho dāśamūlikaḥ |

18.2१८.२

यवकोलकुलत्थैश्च विधेयो मूत्रसाधितैः ॥ (१८।२)

yavakolakulatthaiśca vidheyo mūtrasādhitaiḥ ||

19.1१९.१

वस्तिर् गोमूत्रसिद्धैर् वा सामृतावंशपल्लवैः । (१९।१)

vastir gomūtrasiddhair vā sāmṛtāvaṃśapallavaiḥ |

19.2१९.२

पूतिकरञ्जत्वक्पत्त्रशठीदेवाह्वरोहिषैः ॥ (१९।२)

pūtikarañjatvakpattraśaṭhīdevāhvarohiṣaiḥ ||

20.1२०.१

सतैलगुडसिन्धूत्थो विरेकौषधकल्कवान् । (२०।१)

satailaguḍasindhūttho virekauṣadhakalkavān |

20.2२०.२

बिल्वादिपञ्चमूलेन सिद्धो वस्तिरुरःस्थिते ॥ (२०।२)

bilvādipañcamūlena siddho vastiruraḥsthite ||

21.1२१.१

शिरःस्थे नावनं धूमः प्रच्छाद्यं सर्षपैः शिरः । (२१।१)

śiraḥsthe nāvanaṃ dhūmaḥ pracchādyaṃ sarṣapaiḥ śiraḥ |

21.2२१.२

वस्तिर् अत्युष्णतीक्ष्णाम्लघनो ऽतिस्वेदितस्य वा ॥ (२१।२)

vastir atyuṣṇatīkṣṇāmlaghano 'tisveditasya vā ||

22.1२२.१

अल्पे दोषे मृदौ कोष्ठे प्रयुक्तो वा पुनः पुनः । (२२।१)

alpe doṣe mṛdau koṣṭhe prayukto vā punaḥ punaḥ |

22.2२२.२

अतियोगत्वम् आपन्नो भवेत् कुक्षिरुजाकरः ॥ (२२।२)

atiyogatvam āpanno bhavet kukṣirujākaraḥ ||

23.1२३.१

विरेचनातियोगेन स तुल्याकृतिसाधनः । (२३।१)

virecanātiyogena sa tulyākṛtisādhanaḥ |

23.2२३.२

वस्तिः क्षाराम्लतीक्ष्णोष्णलवणः पैत्तिकस्य वा ॥ (२३।२)

vastiḥ kṣārāmlatīkṣṇoṣṇalavaṇaḥ paittikasya vā ||

24.1२४.१

गुदं दहन् लिखन् क्षिण्वन् करोत्यस्य परिस्रवम् । (२४।१)

gudaṃ dahan likhan kṣiṇvan karotyasya parisravam |

24.2२४.२

स विदग्धं स्रवत्यस्रं वर्णैः पित्तं च भूरिभिः ॥ (२४।२)

sa vidagdhaṃ sravatyasraṃ varṇaiḥ pittaṃ ca bhūribhiḥ ||

25.1२५.१

बहुशश्चातिवेगेन मोहं गच्छति सो ऽसकृत् । (२५।१)

bahuśaścātivegena mohaṃ gacchati so 'sakṛt |

25.2२५.२

रक्तपित्तातिसारघ्नी क्रिया तत्र प्रशस्यते ॥ (२५।२)

raktapittātisāraghnī kriyā tatra praśasyate ||

26.1२६.१

दाहादिषु त्रिवृत्कल्कं मृद्वीकावारिणा पिबेत् । (२६।१)

dāhādiṣu trivṛtkalkaṃ mṛdvīkāvāriṇā pibet |

26.2२६.२

तद्धि पित्तशकृद्वातान् हृत्वा दाहादिकाञ् जयेत् ॥ (२६।२)

taddhi pittaśakṛdvātān hṛtvā dāhādikāñ jayet ||

27.1२७.१

विशुद्धश्च पिबेच्छीतां यवागूं शर्करायुताम् । (२७।१)

viśuddhaśca pibecchītāṃ yavāgūṃ śarkarāyutām |

27.2२७.२

युञ्ज्याद् वातिविरिक्तस्य क्षीणविट्कस्य भोजनम् ॥ (२७।२)

yuñjyād vātiviriktasya kṣīṇaviṭkasya bhojanam ||

28.1२८.१

माषयूषेण कुल्माषान् पानं दध्यथवा सुराम् । (२८।१)

māṣayūṣeṇa kulmāṣān pānaṃ dadhyathavā surām |

28.2२८.२

सिद्धिर् वस्त्यापदाम् एवं स्नेहवस्तेस् तु वक्ष्यते ॥ (२८।२)

siddhir vastyāpadām evaṃ snehavastes tu vakṣyate ||

29.1२९.१

शीतो ऽल्पो वाधिके वाते पित्ते ऽत्युष्णः कफे मृदुः । (२९।१)

śīto 'lpo vādhike vāte pitte 'tyuṣṇaḥ kaphe mṛduḥ |

29.2२९.२

अतिभुक्ते गुरुर् वर्चःसंचये ऽल्पबलस् तथा ॥ (२९।२)

atibhukte gurur varcaḥsaṃcaye 'lpabalas tathā ||

30.1३०.१

दत्तस् तैरावृतः स्नेहो नायात्यभिभवाद् अपि । (३०।१)

dattas tairāvṛtaḥ sneho nāyātyabhibhavād api |

30.2३०.२

स्तम्भोरुसदनाध्मानज्वरशूलाङ्गमर्दनैः ॥ (३०।२)

stambhorusadanādhmānajvaraśūlāṅgamardanaiḥ ||

31.1३१.१

पार्श्वरुग्वेष्टनैर् विद्याद् वायुना स्नेहम् आवृतम् । (३१।१)

pārśvarugveṣṭanair vidyād vāyunā sneham āvṛtam |

31.2३१.२

स्निग्धाम्ललवणोष्णैस् तं रास्नापीतद्रुतैलिकैः ॥ (३१।२)

snigdhāmlalavaṇoṣṇais taṃ rāsnāpītadrutailikaiḥ ||

32.1३२.१

सौवीरकसुराकोलकुलत्थयवसाधितैः । (३२।१)

sauvīrakasurākolakulatthayavasādhitaiḥ |

32.2३२.२

निरूहैर् निर्हरेत् सम्यक् समूत्रैः पाञ्चमूलिकैः ॥ (३२।२)

nirūhair nirharet samyak samūtraiḥ pāñcamūlikaiḥ ||

33.1३३.१

ताभ्याम् एव च तैलाभ्यां सायं भुक्ते ऽनुवासयेत् । (३३।१)

tābhyām eva ca tailābhyāṃ sāyaṃ bhukte 'nuvāsayet |

33.2३३.२

तृड्दाहरागसंमोहवैवर्ण्यतमकज्वरैः ॥ (३३।२)

tṛḍdāharāgasaṃmohavaivarṇyatamakajvaraiḥ ||

34.1३४.१

विद्यात् पित्तावृतं स्वादुतिक्तैस् तं वस्तिभिर् हरेत् । (३४।१)

vidyāt pittāvṛtaṃ svādutiktais taṃ vastibhir haret |

34.2३४.२

तन्द्राशीतज्वरालस्यप्रसेकारुचिगौरवैः ॥ (३४।२)

tandrāśītajvarālasyaprasekārucigauravaiḥ ||

35.1३५.१

सम्मूर्छाग्लानिभिर् विद्याच्छ्लेष्मणा स्नेहम् आवृतम् । (३५।१)

sammūrchāglānibhir vidyācchleṣmaṇā sneham āvṛtam |

35.2३५.२

कषायतिक्तकटुकैः सुरामूत्रोपसाधितैः ॥ (३५।२)

kaṣāyatiktakaṭukaiḥ surāmūtropasādhitaiḥ ||

36.1३६.१

फलतैलयुतैः साम्लैर् वस्तिभिस् तं विनिर्हरेत् । (३६।१)

phalatailayutaiḥ sāmlair vastibhis taṃ vinirharet |

36.2३६.२

छर्दिमूर्छारुचिग्लानिशूलनिद्राङ्गमर्दनैः ॥ (३६।२)

chardimūrchāruciglāniśūlanidrāṅgamardanaiḥ ||

37.1३७.१

आमलिङ्गैः सदाहैस् तं विद्याद् अत्यशनावृतम् । (३७।१)

āmaliṅgaiḥ sadāhais taṃ vidyād atyaśanāvṛtam |

37.2३७.२

कटूनां लवणानां च क्वाथैश्चूर्णैश्च पाचनम् ॥ (३७।२)

kaṭūnāṃ lavaṇānāṃ ca kvāthaiścūrṇaiśca pācanam ||

38.1३८.१

मृदुर् विरेकः सर्वं च तत्रामविहितं हितम् । (३८।१)

mṛdur virekaḥ sarvaṃ ca tatrāmavihitaṃ hitam |

38.2३८.२

विण्मूत्रानिलसङ्गार्तिगुरुत्वाध्मानहृद्ग्रहैः ॥ (३८।२)

viṇmūtrānilasaṅgārtigurutvādhmānahṛdgrahaiḥ ||

39.1३९.१

स्नेहं विडावृतं ज्ञात्वा स्नेहस्वेदैः सवर्तिभिः । (३९।१)

snehaṃ viḍāvṛtaṃ jñātvā snehasvedaiḥ savartibhiḥ |

39.2३९.२

श्यामाबिल्वादिसिद्धैश्च निरूहैः सानुवासनैः ॥ (३९।२)

śyāmābilvādisiddhaiśca nirūhaiḥ sānuvāsanaiḥ ||

40.1४०.१

निर्हरेद् विधिना सम्यग् उदावर्तहरेण च । (४०।१)

nirhared vidhinā samyag udāvartahareṇa ca |

40.2४०.२

अभुक्ते शूनपायौ वा पेयामात्राशितस्य वा ॥ (४०।२)

abhukte śūnapāyau vā peyāmātrāśitasya vā ||

41.1४१.१

गुदे प्रणिहितः स्नेहो वेगाद्धावत्यनावृतः । (४१।१)

gude praṇihitaḥ sneho vegāddhāvatyanāvṛtaḥ |

41.2४१.२

ऊर्ध्वं कायं ततः कण्ठाद् ऊर्ध्वेभ्यः खेभ्य एत्यपि ॥ (४१।२)

ūrdhvaṃ kāyaṃ tataḥ kaṇṭhād ūrdhvebhyaḥ khebhya etyapi ||

42.1४२.१

मूत्रश्यामात्रिवृत्सिद्धो यवकोलकुलत्थवान् । (४२।१)

mūtraśyāmātrivṛtsiddho yavakolakulatthavān |

42.2४२.२

तत्सिद्धतैलो देयः स्यान् निरूहः सानुवासनः ॥ (४२।२)

tatsiddhatailo deyaḥ syān nirūhaḥ sānuvāsanaḥ ||

43.1४३.१

कण्ठाद् आगच्छतः स्तम्भकण्ठग्रहविरेचनैः । (४३।१)

kaṇṭhād āgacchataḥ stambhakaṇṭhagrahavirecanaiḥ |

43.2४३.२

छर्दिघ्नीभिः क्रियाभिश्च तस्य कुर्यान् निबर्हणम् ॥ (४३।२)

chardighnībhiḥ kriyābhiśca tasya kuryān nibarhaṇam ||

44.1४४.१

नापक्वं प्रणयेत् स्नेहं गुदं स ह्युपलिम्पति । (४४।१)

nāpakvaṃ praṇayet snehaṃ gudaṃ sa hyupalimpati |

44.2४४.२

ततः कुर्यात् सरुङ्मोहकण्डूशोफान् क्रियात्र च ॥ (४४।२)

tataḥ kuryāt saruṅmohakaṇḍūśophān kriyātra ca ||

45.1४५.१

तीक्ष्णो वस्तिस् तथा तैलम् अर्कपत्त्ररसे शृतम् । (४५।१)

tīkṣṇo vastis tathā tailam arkapattrarase śṛtam |

45.2४५.२

अनुच्छ्वास्य तु बद्धे वा दत्ते निःशेष एव वा ॥ (४५।२)

anucchvāsya tu baddhe vā datte niḥśeṣa eva vā ||

46.1४६.१

प्रविश्य क्षुभितो वायुः शूलतोदकरो भवेत् । (४६।१)

praviśya kṣubhito vāyuḥ śūlatodakaro bhavet |

46.2४६.२

तत्राभ्यङ्गो गुदे स्वेदो वातघ्नान्यशनानि च ॥ (४६।२)

tatrābhyaṅgo gude svedo vātaghnānyaśanāni ca ||

47.1४७.१

द्रुतं प्रणीते निष्कृष्टे सहसोत्क्षिप्त एव वा । (४७।१)

drutaṃ praṇīte niṣkṛṣṭe sahasotkṣipta eva vā |

47.2४७.२

स्यात् कटीगुदजङ्घोरुवस्तिस्तम्भार्तिभेदनम् ॥ (४७।२)

syāt kaṭīgudajaṅghoruvastistambhārtibhedanam ||

48.1४८.१

भोजनं तत्र वातघ्नं स्वेदाभ्यङ्गाः सवस्तयः । (४८।१)

bhojanaṃ tatra vātaghnaṃ svedābhyaṅgāḥ savastayaḥ |

48.2४८.२

पीड्यमाने ऽन्तरा मुक्ते गुदे प्रतिहतो ऽनिलः ॥ (४८।२)

pīḍyamāne 'ntarā mukte gude pratihato 'nilaḥ ||

49.1४९.१

उरःशिरोरुजं सादम् ऊर्वोश्च जनयेद् बली । (४९।१)

uraḥśirorujaṃ sādam ūrvośca janayed balī |

49.2४९.२

वस्तिः स्यात् तत्र बिल्वादिफलश्यामादिमूत्रवान् ॥ (४९।२)

vastiḥ syāt tatra bilvādiphalaśyāmādimūtravān ||

50.1५०.१

अतिप्रपीडितः कोष्ठे तिष्ठत्यायाति वा गलम् । (५०।१)

atiprapīḍitaḥ koṣṭhe tiṣṭhatyāyāti vā galam |

50.2५०.२

तत्र वस्तिर् विरेकश्च गलपीडादि कर्म च ॥ (५०।२)

tatra vastir virekaśca galapīḍādi karma ca ||

51.1५१.१

वमनाद्यैर् विशुद्धं च क्षामदेहबलानलम् । (५१।१)

vamanādyair viśuddhaṃ ca kṣāmadehabalānalam |

51.2५१.२

यथाण्डं तरुणं पूर्णं तैलपात्रं यथा तथा ॥ (५१।२)

yathāṇḍaṃ taruṇaṃ pūrṇaṃ tailapātraṃ yathā tathā ||

52.1५२.१

भिषक् प्रयत्नतो रक्षेत् सर्वस्माद् अपचारतः । (५२।१)

bhiṣak prayatnato rakṣet sarvasmād apacārataḥ |

52.2५२.२

दद्यान् मधुरहृद्यानि ततो ऽम्ललवणौ रसौ ॥ (५२।२)

dadyān madhurahṛdyāni tato 'mlalavaṇau rasau ||

53.1५३.१

स्वादुतिक्तौ ततो भूयः कषायकटुकौ ततः । (५३।१)

svādutiktau tato bhūyaḥ kaṣāyakaṭukau tataḥ |

53.2५३.२

अन्योन्यप्रत्यनीकानां रसानां स्निग्धरूक्षयोः ॥ (५३।२)

anyonyapratyanīkānāṃ rasānāṃ snigdharūkṣayoḥ ||

54.1५४.१

व्यत्यासाद् उपयोगेन क्रमात् तं प्रकृतिं नयेत् । (५४।१)

vyatyāsād upayogena kramāt taṃ prakṛtiṃ nayet |

54.2५४.२

सर्वंसहः स्थिरबलो विज्ञेयः प्रकृतिं गतः ॥ (५४।२)

sarvaṃsahaḥ sthirabalo vijñeyaḥ prakṛtiṃ gataḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

AHS, 5, 5

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit