अष्टाङ्गहृदयसंहिताAṣṭāṅgahṛdayasaṃhitā

AHS, 6, 25

105 of 120 · 137 verses

Select a line for its word-by-word analysis.

1.1१.१

अथातो व्रणप्रतिषेधं व्याख्यास्यामः । (१।१)

athāto vraṇapratiṣedhaṃ vyākhyāsyāmaḥ |

1.2१.२

इति ह स्माहुरात्रेयादयो महर्षयः । (१।२)

iti ha smāhurātreyādayo maharṣayaḥ |

1.3१.३

व्रणो द्विधा निजागन्तुदुष्टशुद्धविभेदतः । (१।३)

vraṇo dvidhā nijāgantuduṣṭaśuddhavibhedataḥ |

1.4१.४

निजो दोषैः शरीरोत्थैरागन्तुर् बाह्यहेतुजः ॥ (१।४)

nijo doṣaiḥ śarīrotthairāgantur bāhyahetujaḥ ||

2.1२.१

दोषैरधिष्ठितो दुष्टः शुद्धस्तैरनधिष्ठितः । (२।१)

doṣairadhiṣṭhito duṣṭaḥ śuddhastairanadhiṣṭhitaḥ |

2.2२.२

संवृतत्वं विवृतता काठिन्यं मृदुताति वा ॥ (२।२)

saṃvṛtatvaṃ vivṛtatā kāṭhinyaṃ mṛdutāti vā ||

3.1३.१

अत्युत्सन्नावसन्नत्वम् अत्यौष्ण्यम् अतिशीतता । (३।१)

atyutsannāvasannatvam atyauṣṇyam atiśītatā |

3.2३.२

रक्तत्वं पाण्डुता कार्ष्ण्यं पूतिपूयपरिस्रुतिः ॥ (३।२)

raktatvaṃ pāṇḍutā kārṣṇyaṃ pūtipūyaparisrutiḥ ||

4.1४.१

पूतिमांससिरास्नायुच्छन्नतोत्सङ्गितातिरुक् । (४।१)

pūtimāṃsasirāsnāyucchannatotsaṅgitātiruk |

4.2४.२

संरम्भदाहश्वयथुकण्ड्वादिभिरुपद्रुतः ॥ (४।२)

saṃrambhadāhaśvayathukaṇḍvādibhirupadrutaḥ ||

5.1५.१

दीर्घकालानुबन्धश्च विद्याद् दुष्टव्रणाकृतिम् । (५।१)

dīrghakālānubandhaśca vidyād duṣṭavraṇākṛtim |

5.2५.२

स पञ्चदशधा दोषैः सरक्तैस्तत्र मारुतात् ॥ (५।२)

sa pañcadaśadhā doṣaiḥ saraktaistatra mārutāt ||

6.1६.१

श्यावः कृष्णो ऽरुणो भस्मकपोतास्थिनिभो ऽपि वा । (६।१)

śyāvaḥ kṛṣṇo 'ruṇo bhasmakapotāsthinibho 'pi vā |

6.2६.२

मस्तुमांसपुलाकाम्बुतुल्यतन्वल्पसंस्रुतिः ॥ (६।२)

mastumāṃsapulākāmbutulyatanvalpasaṃsrutiḥ ||

7.1७.१

निर्मांसस्तोदभेदाढ्यो रूक्षश्चटचटायते । (७।१)

nirmāṃsastodabhedāḍhyo rūkṣaścaṭacaṭāyate |

7.2७.२

पित्तेन क्षिप्रजः पीतो नीलः कपिलपिङ्गलः ॥ (७।२)

pittena kṣiprajaḥ pīto nīlaḥ kapilapiṅgalaḥ ||

8.1८.१

मूत्रकिंशुकभस्माम्बुतैलाभोष्णबहुस्रुतिः । (८।१)

mūtrakiṃśukabhasmāmbutailābhoṣṇabahusrutiḥ |

8.2८.२

क्षारोक्षितक्षतसमव्यथो रागोष्मपाकवान् ॥ (८।२)

kṣārokṣitakṣatasamavyatho rāgoṣmapākavān ||

9.1९.१

कफेन पाण्डुः कण्डूमान् बहुश्वेतघनस्रुतिः । (९।१)

kaphena pāṇḍuḥ kaṇḍūmān bahuśvetaghanasrutiḥ |

9.2९.२

स्थूलौष्ठः कठिनः स्नायुसिराजालततो ऽल्परुक् ॥ (९।२)

sthūlauṣṭhaḥ kaṭhinaḥ snāyusirājālatato 'lparuk ||

10.1१०.१

प्रवालरक्तो रक्तेन सरक्तं पूयम् उद्गिरेत् । (१०।१)

pravālarakto raktena saraktaṃ pūyam udgiret |

10.2१०.२

वाजिस्थानसमो गन्धे युक्तो लिङ्गैश्च पैत्तिकैः ॥ (१०।२)

vājisthānasamo gandhe yukto liṅgaiśca paittikaiḥ ||

11.1११.१

द्वाभ्यां त्रिभिश्च सर्वैश्च विद्याल्लक्षणसंकरात् । (११।१)

dvābhyāṃ tribhiśca sarvaiśca vidyāllakṣaṇasaṃkarāt |

11.2११.२

जिह्वाप्रभो मृदुः श्लक्ष्णः श्यावौष्ठपिटिकः समः ॥ (११।२)

jihvāprabho mṛduḥ ślakṣṇaḥ śyāvauṣṭhapiṭikaḥ samaḥ ||

12.1१२.१

किंचिदुन्नतमध्यो वा व्रणः शुद्धो ऽनुपद्रवः । (१२।१)

kiṃcidunnatamadhyo vā vraṇaḥ śuddho 'nupadravaḥ |

12.2१२.२

त्वगामिषसिरास्नायुसंध्यस्थीनि व्रणाशयाः ॥ (१२।२)

tvagāmiṣasirāsnāyusaṃdhyasthīni vraṇāśayāḥ ||

13.1१३.१

कोष्ठो मर्म च तान्यष्टौ दुःसाध्यान्युत्तरोत्तरम् । (१३।१)

koṣṭho marma ca tānyaṣṭau duḥsādhyānyuttarottaram |

13.2१३.२

सुसाध्यः सत्त्वमांसाग्निवयोबलवति व्रणः ॥ (१३।२)

susādhyaḥ sattvamāṃsāgnivayobalavati vraṇaḥ ||

14.1१४.१

वृत्तो दीर्घस्त्रिपुटकश्चतुरश्राकृतिश्च यः । (१४।१)

vṛtto dīrghastripuṭakaścaturaśrākṛtiśca yaḥ |

14.2१४.२

तथा स्फिक्पायुमेढ्रौष्ठपृष्ठान्तर्वक्त्रगण्डगः ॥ (१४।२)

tathā sphikpāyumeḍhrauṣṭhapṛṣṭhāntarvaktragaṇḍagaḥ ||

15.1१५.१

कृच्छ्रसाध्यो ऽक्षिदशननासिकापाङ्गनाभिषु । (१५।१)

kṛcchrasādhyo 'kṣidaśananāsikāpāṅganābhiṣu |

15.2१५.२

सेवनीजठरश्रोत्रपार्श्वकक्षास्तनेषु च ॥ (१५।२)

sevanījaṭharaśrotrapārśvakakṣāstaneṣu ca ||

16.1१६.१

फेनपूयानिलवहः शल्यवान् ऊर्ध्वनिर्वमी । (१६।१)

phenapūyānilavahaḥ śalyavān ūrdhvanirvamī |

16.2१६.२

भगन्दरो ऽन्तर्वदनस्तथा कट्यस्थिसंश्रितः ॥ (१६।२)

bhagandaro 'ntarvadanastathā kaṭyasthisaṃśritaḥ ||

17.1१७.१

कुष्ठिनां विषजुष्टानां शोषिणां मधुमेहिनां । (१७।१)

kuṣṭhināṃ viṣajuṣṭānāṃ śoṣiṇāṃ madhumehināṃ |

17.2१७.२

व्रणाः कृच्छ्रेण सिध्यन्ति येषां च स्युर् व्रणे व्रणाः ॥ (१७।२)

vraṇāḥ kṛcchreṇa sidhyanti yeṣāṃ ca syur vraṇe vraṇāḥ ||

18.1१८.१

नैव सिध्यन्ति वीसर्पज्वरातीसारकासिनाम् । (१८।१)

naiva sidhyanti vīsarpajvarātīsārakāsinām |

18.2१८.२

पिपासूनाम् अनिद्राणां श्वासिनाम् अविपाकिनाम् ॥ (१८।२)

pipāsūnām anidrāṇāṃ śvāsinām avipākinām ||

19.1१९.१

भिन्ने शिरःकपाले वा मस्तुलुङ्गस्य दर्शने । (१९।१)

bhinne śiraḥkapāle vā mastuluṅgasya darśane |

19.2१९.२

स्नायुक्लेदात् सिराछेदाद् गाम्भीर्यात् कृमिभक्षणात् ॥ (१९।२)

snāyukledāt sirāchedād gāmbhīryāt kṛmibhakṣaṇāt ||

20.1२०.१

अस्थिभेदात् सशल्यत्वात् सविषत्वाद् अतर्कितात् । (२०।१)

asthibhedāt saśalyatvāt saviṣatvād atarkitāt |

20.2२०.२

मिथ्याबन्धाद् अतिस्नेहाद् रौक्ष्याद् रोमादिघट्टनात् ॥ (२०।२)

mithyābandhād atisnehād raukṣyād romādighaṭṭanāt ||

21.1२१.१

क्षोभाद् अशुद्धकोष्ठत्वात् सौहित्याद् अतिकर्शनात् । (२१।१)

kṣobhād aśuddhakoṣṭhatvāt sauhityād atikarśanāt |

21.2२१.२

मद्यपानाद् दिवास्वप्नाद् व्यवायाद् रात्रिजागरात् ॥ (२१।२)

madyapānād divāsvapnād vyavāyād rātrijāgarāt ||

22.1२२.१

व्रणो मिथ्योपचाराच्च नैव साध्यो ऽपि सिध्यति । (२२।१)

vraṇo mithyopacārācca naiva sādhyo 'pi sidhyati |

22.2२२.२

कपोतवर्णप्रतिमा यस्यान्ताः क्लेदवर्जिताः ॥ (२२।२)

kapotavarṇapratimā yasyāntāḥ kledavarjitāḥ ||

23.1२३.१

स्थिराश्चिपिटिकावन्तो रोहतीति तम् आदिशेत् । (२३।१)

sthirāścipiṭikāvanto rohatīti tam ādiśet |

23.2२३.२

अथात्र शोफावस्थायां यथासन्नं विशोधनम् ॥ (२३।२)

athātra śophāvasthāyāṃ yathāsannaṃ viśodhanam ||

24.1२४.१

योज्यं शोफो हि शुद्धानां व्रणश्चाशु प्रशाम्यति । (२४।१)

yojyaṃ śopho hi śuddhānāṃ vraṇaścāśu praśāmyati |

24.2२४.२

कुर्याच्छीतोपचारं च शोफावस्थस्य संततम् ॥ (२४।२)

kuryācchītopacāraṃ ca śophāvasthasya saṃtatam ||

25.1२५.१

दोषाग्निरग्निवत् तेन प्रयाति सहसा शमम् । (२५।१)

doṣāgniragnivat tena prayāti sahasā śamam |

25.2२५.२

शोफे व्रणे च कठिने विवर्णे वेदनान्विते ॥ (२५।२)

śophe vraṇe ca kaṭhine vivarṇe vedanānvite ||

26.1२६.१

विषयुक्ते विशेषेण जलजाद्यैर् हरेद् असृक् । (२६।१)

viṣayukte viśeṣeṇa jalajādyair hared asṛk |

26.2२६.२

दुष्टास्रे ऽपगते सद्यः शोफरागरुजां शमः ॥ (२६।२)

duṣṭāsre 'pagate sadyaḥ śopharāgarujāṃ śamaḥ ||

27.1२७.१

हृते हृते च रुधिरे सुशीतैः स्पर्शवीर्ययोः । (२७।१)

hṛte hṛte ca rudhire suśītaiḥ sparśavīryayoḥ |

27.2२७.२

सुश्लक्ष्णैस्तदहःपिष्टैः क्षीरेक्षुस्वरसद्रवैः ॥ (२७।२)

suślakṣṇaistadahaḥpiṣṭaiḥ kṣīrekṣusvarasadravaiḥ ||

28.1२८.१

शतधौतघृतोपेतैर् मुहुरन्यैर् अशोषिभिः । (२८।१)

śatadhautaghṛtopetair muhuranyair aśoṣibhiḥ |

28.2२८.२

प्रतिलोमं हितो लेपः सेकाभ्यङ्गाश्च तत्कृताः ॥ (२८।२)

pratilomaṃ hito lepaḥ sekābhyaṅgāśca tatkṛtāḥ ||

29.1२९.१

न्यग्रोधोदुम्बराश्वत्थप्लक्षवेतसवल्कलैः । (२९।१)

nyagrodhodumbarāśvatthaplakṣavetasavalkalaiḥ |

29.2२९.२

प्रदेहो भूरिसर्पिर्भिः शोफनिर्वापणः परम् ॥ (२९।२)

pradeho bhūrisarpirbhiḥ śophanirvāpaṇaḥ param ||

30.1३०.१

वातोल्बणानां स्तब्धानां कठिनानां महारुजाम् । (३०।१)

vātolbaṇānāṃ stabdhānāṃ kaṭhinānāṃ mahārujām |

30.2३०.२

स्रुतासृजां च शोफानां व्रणानाम् अपि चेदृशाम् ॥ (३०।२)

srutāsṛjāṃ ca śophānāṃ vraṇānām api cedṛśām ||

31.1३१.१

आनूपवेसवाराद्यैः स्वेदः सोमास्तिलाः पुनः । (३१।१)

ānūpavesavārādyaiḥ svedaḥ somāstilāḥ punaḥ |

31.2३१.२

भृष्टा निर्वापिताः क्षीरे तत्पिष्टा दाहरुग्घराः ॥ (३१।२)

bhṛṣṭā nirvāpitāḥ kṣīre tatpiṣṭā dāharuggharāḥ ||

32.1३२.१

स्थिरान् मन्दरुजः शोफान् स्नेहैर् वातकफापहैः । (३२।१)

sthirān mandarujaḥ śophān snehair vātakaphāpahaiḥ |

32.2३२.२

अभ्यज्य स्वेदयित्वा च वेणुनाड्या शनैः शनैः ॥ (३२।२)

abhyajya svedayitvā ca veṇunāḍyā śanaiḥ śanaiḥ ||

33.1३३.१

विम्लापनार्थं मृद्नीयात् तलेनाङ्गुष्ठकेन वा । (३३।१)

vimlāpanārthaṃ mṛdnīyāt talenāṅguṣṭhakena vā |

33.2३३.२

यवगोधूममुद्गैश्च सिद्धपिष्टैः प्रलेपयेत् ॥ (३३।२)

yavagodhūmamudgaiśca siddhapiṣṭaiḥ pralepayet ||

34.1३४.१

विलीयते स चेन् नैवं ततस्तम् उपनाहयेत् । (३४।१)

vilīyate sa cen naivaṃ tatastam upanāhayet |

34.2३४.२

अविदग्धस्तथा शान्तिं विदग्धः पाकम् अश्नुते ॥ (३४।२)

avidagdhastathā śāntiṃ vidagdhaḥ pākam aśnute ||

35.1३५.१

सकोलतिलवल्लोमा दध्यम्ला सक्तुपिण्डिका । (३५।१)

sakolatilavallomā dadhyamlā saktupiṇḍikā |

35.2३५.२

सकिण्वकुष्ठलवणा कोष्णा शस्तोपनाहने ॥ (३५।२)

sakiṇvakuṣṭhalavaṇā koṣṇā śastopanāhane ||

36.1३६.१

सुपक्वे पिण्डिते शोफे पीडनैरुपपीडिते । (३६।१)

supakve piṇḍite śophe pīḍanairupapīḍite |

36.2३६.२

दारणं दारणार्हस्य सुकुमारस्य चेष्यते ॥ (३६।२)

dāraṇaṃ dāraṇārhasya sukumārasya ceṣyate ||

37.1३७.१

गुग्गुल्वतसिगोदन्तस्वर्णक्षीरीकपोतविट् । (३७।१)

guggulvatasigodantasvarṇakṣīrīkapotaviṭ |

37.2३७.२

क्षारौषधानि क्षाराश्च पक्वशोफविदारणम् ॥ (३७।२)

kṣārauṣadhāni kṣārāśca pakvaśophavidāraṇam ||

38.1३८.१

पूयगर्भान् अणुद्वारान् सोत्सङ्गान् मर्मगान् अपि । (३८।१)

pūyagarbhān aṇudvārān sotsaṅgān marmagān api |

38.2३८.२

निःस्नेहैः पीडनद्रव्यैः समन्तात् प्रतिपीडयेत् ॥ (३८।२)

niḥsnehaiḥ pīḍanadravyaiḥ samantāt pratipīḍayet ||

39.1३९.१

शुष्यन्तं समुपेक्षेत प्रलेपं पीडनं प्रति । (३९।१)

śuṣyantaṃ samupekṣeta pralepaṃ pīḍanaṃ prati |

39.2३९.२

न मुखे चैनम् आलिम्पेत् तथा दोषः प्रसिच्यते ॥ (३९।२)

na mukhe cainam ālimpet tathā doṣaḥ prasicyate ||

40.1४०.१

कलाययवगोधूममाषमुद्गहरेणवः । (४०।१)

kalāyayavagodhūmamāṣamudgahareṇavaḥ |

40.2४०.२

द्रव्याणां पिच्छिलानां च त्वङ्मूलानि प्रपीडनम् ॥ (४०।२)

dravyāṇāṃ picchilānāṃ ca tvaṅmūlāni prapīḍanam ||

41.1४१.१

सप्तसु क्षालनाद्येषु सुरसारग्वधादिकौ । (४१।१)

saptasu kṣālanādyeṣu surasāragvadhādikau |

41.2४१.२

भृशं दुष्टे व्रणे योज्यौ मेहकुष्ठव्रणेषु च ॥ (४१।२)

bhṛśaṃ duṣṭe vraṇe yojyau mehakuṣṭhavraṇeṣu ca ||

42.1४२.१

अथवा क्षालनं क्वाथः पटोलीनिम्बपत्त्रजः । (४२।१)

athavā kṣālanaṃ kvāthaḥ paṭolīnimbapattrajaḥ |

42.2४२.२

अविशुद्धे विशुद्धे तु न्यग्रोधादित्वगुद्भवः ॥ (४२।२)

aviśuddhe viśuddhe tu nyagrodhāditvagudbhavaḥ ||

43.1४३.१

पटोलीतिलयष्ट्याह्वत्रिवृद्दन्तीनिशाद्वयम् । (४३।१)

paṭolītilayaṣṭyāhvatrivṛddantīniśādvayam |

43.2४३.२

निम्बपत्त्राणि चालेपः सपटुर् व्रणशोधनः ॥ (४३।२)

nimbapattrāṇi cālepaḥ sapaṭur vraṇaśodhanaḥ ||

44.1४४.१

व्रणान् विशोधयेद् वर्त्या सूक्ष्मास्यान् संधिमर्मगान् । (४४।१)

vraṇān viśodhayed vartyā sūkṣmāsyān saṃdhimarmagān |

44.2४४.२

कृतया त्रिवृतादन्तीलाङ्गलीमधुसैन्धवैः ॥ (४४।२)

kṛtayā trivṛtādantīlāṅgalīmadhusaindhavaiḥ ||

45.1४५.१

वाताभिभूतान् सास्रावान् धूपयेद् उग्रवेदनान् । (४५।१)

vātābhibhūtān sāsrāvān dhūpayed ugravedanān |

45.2४५.२

यवाज्यभूर्जमदनश्रीवेष्टकसुराह्वयैः ॥ (४५।२)

yavājyabhūrjamadanaśrīveṣṭakasurāhvayaiḥ ||

46.1४६.१

निर्वापयेद् भृशं शीतैः पित्तरक्तविषोल्बणान् । (४६।१)

nirvāpayed bhṛśaṃ śītaiḥ pittaraktaviṣolbaṇān |

46.2४६.२

शुष्काल्पमांसे गम्भीरे व्रण उत्सादनं हितम् ॥ (४६।२)

śuṣkālpamāṃse gambhīre vraṇa utsādanaṃ hitam ||

47.1४७.१

न्यग्रोधपद्मकादिभ्याम् अश्वगन्धाबलातिलैः । (४७।१)

nyagrodhapadmakādibhyām aśvagandhābalātilaiḥ |

47.2४७.२

अद्यान् मांसादमांसानि विधिनोपहितानि च ॥ (४७।२)

adyān māṃsādamāṃsāni vidhinopahitāni ca ||

48.1४८.१

मांसं मांसादमांसेन वर्धते शुद्धचेतसः । (४८।१)

māṃsaṃ māṃsādamāṃsena vardhate śuddhacetasaḥ |

48.2४८.२

उत्सन्नमृदुमांसानां व्रणानाम् अवसादनम् ॥ (४८।२)

utsannamṛdumāṃsānāṃ vraṇānām avasādanam ||

49.1४९.१

जातीमुकुलकासीसमनोह्वालपुराग्निकैः । (४९।१)

jātīmukulakāsīsamanohvālapurāgnikaiḥ |

49.2४९.२

उत्सन्नमांसान् कठिनान् कण्डूयुक्तांश्चिरोत्थितान् ॥ (४९।२)

utsannamāṃsān kaṭhinān kaṇḍūyuktāṃścirotthitān ||

50.1५०.१

व्रणान् सुदुःखशोध्यांश्च शोधयेत् क्षारकर्मणा । (५०।१)

vraṇān suduḥkhaśodhyāṃśca śodhayet kṣārakarmaṇā |

50.2५०.२

स्रवन्तो ऽश्मरीजा मूत्रं ये चान्ये रक्तवाहिनः ॥ (५०।२)

sravanto 'śmarījā mūtraṃ ye cānye raktavāhinaḥ ||

51.1५१.१

छिन्नाश्च संधयो येषां यथोक्तैर् ये च शोधनैः । (५१।१)

chinnāśca saṃdhayo yeṣāṃ yathoktair ye ca śodhanaiḥ |

51.2५१.२

शोध्यमाना न शुध्यन्ति शोध्याः स्युस्ते ऽग्निकर्मणा ॥ (५१।२)

śodhyamānā na śudhyanti śodhyāḥ syuste 'gnikarmaṇā ||

52.1५२.१

शुद्धानां रोपणं योज्यम् उत्सादाय यद् ईरितम् । (५२।१)

śuddhānāṃ ropaṇaṃ yojyam utsādāya yad īritam |

52.2५२.२

अश्वगन्धा रुहा लोध्रं कट्फलं मधुयष्टिका ॥ (५२।२)

aśvagandhā ruhā lodhraṃ kaṭphalaṃ madhuyaṣṭikā ||

53.1५३.१

समङ्गा धातकीपुष्पं परमं व्रणरोपणम् । (५३।१)

samaṅgā dhātakīpuṣpaṃ paramaṃ vraṇaropaṇam |

53.2५३.२

अपेतपूतिमांसानां मांसस्थानाम् अरोहताम् ॥ (५३।२)

apetapūtimāṃsānāṃ māṃsasthānām arohatām ||

54.1५४.१

कल्कं संरोहणं कुर्यात् तिलानां मधुकान्वितम् । (५४।१)

kalkaṃ saṃrohaṇaṃ kuryāt tilānāṃ madhukānvitam |

54.2५४.२

स्निग्धोष्णतिक्तमधुरकषायत्वैः स सर्वजित् ॥ (५४।२)

snigdhoṣṇatiktamadhurakaṣāyatvaiḥ sa sarvajit ||

55.1५५.१

स क्षौद्रनिम्बपत्त्राभ्यां युक्तः संशोधनं परम् । (५५।१)

sa kṣaudranimbapattrābhyāṃ yuktaḥ saṃśodhanaṃ param |

55.2५५.२

पूर्वाभ्यां सर्पिषा चासौ युक्तः स्याद् आशु रोपणः ॥ (५५।२)

pūrvābhyāṃ sarpiṣā cāsau yuktaḥ syād āśu ropaṇaḥ ||

56.1५६.१

तिलवद् यवकल्कं तु केचिद् इच्छन्ति तद्विदः । (५६।१)

tilavad yavakalkaṃ tu kecid icchanti tadvidaḥ |

56.2५६.२

सास्रपित्तविषागन्तुगम्भीरान् सोष्मणो व्रणान् ॥ (५६।२)

sāsrapittaviṣāgantugambhīrān soṣmaṇo vraṇān ||

57.1५७.१

क्षीररोपणभैषज्यशृतेनाज्येन रोपयेत् । (५७।१)

kṣīraropaṇabhaiṣajyaśṛtenājyena ropayet |

57.2५७.२

रोपणौषधसिद्धेन तैलेन कफवातजान् ॥ (५७।२)

ropaṇauṣadhasiddhena tailena kaphavātajān ||

58.1५८.१

काच्छीलोध्राभयासर्जसिन्दूराञ्जनतुत्थकम् । (५८।१)

kācchīlodhrābhayāsarjasindūrāñjanatutthakam |

58.2५८.२

चूर्णितं तैलमदनैर् युक्तं रोपणम् उत्तमम् ॥ (५८।२)

cūrṇitaṃ tailamadanair yuktaṃ ropaṇam uttamam ||

59.1५९.१

समानां स्थिरमांसानां त्वक्स्थानां चूर्ण इष्यते । (५९।१)

samānāṃ sthiramāṃsānāṃ tvaksthānāṃ cūrṇa iṣyate |

59.2५९.२

ककुभोदुम्बराश्वत्थजम्बूकट्फललोध्रजैः ॥ (५९।२)

kakubhodumbarāśvatthajambūkaṭphalalodhrajaiḥ ||

60.1६०.१

त्वचमाशु निगृह्णन्ति त्वक्चूर्णैश्चूर्णिता व्रणाः । (६०।१)

tvacamāśu nigṛhṇanti tvakcūrṇaiścūrṇitā vraṇāḥ |

60.2६०.२

लाक्षामनोह्वामञ्जिष्ठाहरितालनिशाद्वयैः ॥ (६०।२)

lākṣāmanohvāmañjiṣṭhāharitālaniśādvayaiḥ ||

61.1६१.१

प्रलेपः सघृतक्षौद्रस्त्वग्विशुद्धिकरः परम् । (६१।१)

pralepaḥ saghṛtakṣaudrastvagviśuddhikaraḥ param |

61.2६१.२

कालीयकलताम्रास्थिहेमकालारसोत्तमैः ॥ (६१।२)

kālīyakalatāmrāsthihemakālārasottamaiḥ ||

62.1६२.१

लेपः सगोमयरसः सवर्णकरणः परम् । (६२।१)

lepaḥ sagomayarasaḥ savarṇakaraṇaḥ param |

62.2६२.२

दग्धो वारणदन्तो ऽन्तर्धूमं तैलं रसाञ्जनम् ॥ (६२।२)

dagdho vāraṇadanto 'ntardhūmaṃ tailaṃ rasāñjanam ||

63.1६३.१

रोमसंजननो लेपस्तद्वत् तैलपरिप्लुता । (६३।१)

romasaṃjanano lepastadvat tailapariplutā |

63.2६३.२

चतुष्पान्नखरोमास्थित्वक्शृङ्गखुरजा मषी ॥ (६३।२)

catuṣpānnakharomāsthitvakśṛṅgakhurajā maṣī ||

64.1६४.१

व्रणिनः शस्त्रकर्मोक्तं पथ्यापथ्यान्नम् आदिशेत् । (६४।१)

vraṇinaḥ śastrakarmoktaṃ pathyāpathyānnam ādiśet |

64.2६४.२

द्वे पञ्चमूले वर्गश्च वातघ्नो वातिके हितः ॥ (६४।२)

dve pañcamūle vargaśca vātaghno vātike hitaḥ ||

65.1६५.१

न्यग्रोधपद्मकाद्यौ तु तद्वत् पित्तप्रदूषिते । (६५।१)

nyagrodhapadmakādyau tu tadvat pittapradūṣite |

65.2६५.२

आरग्वधादिः श्लेष्मघ्नः कफे मिश्रास्तु मिश्रजे ॥ (६५।२)

āragvadhādiḥ śleṣmaghnaḥ kaphe miśrāstu miśraje ||

66.1६६.१

एभिः प्रक्षालनं लेपो घृतं तैलं रसक्रिया । (६६।१)

ebhiḥ prakṣālanaṃ lepo ghṛtaṃ tailaṃ rasakriyā |

66.2६६.२

चूर्णो वर्तिश्च संयोज्य व्रणे सप्त यथायथम् ॥ (६६।२)

cūrṇo vartiśca saṃyojya vraṇe sapta yathāyatham ||

67.1६७.१

जातीनिम्बपटोलपत्त्रकटुकादार्वीनिशाशारिवा । (६७।१)

jātīnimbapaṭolapattrakaṭukādārvīniśāśārivā |

67.2६७.२

मञ्जिष्ठाभयसिक्थतुत्थमधुकैर् नक्ताह्वबीजान्वितैः । (६७।२)

mañjiṣṭhābhayasikthatutthamadhukair naktāhvabījānvitaiḥ |

67.3६७.३

सर्पिः साध्यम् अनेन सूक्ष्मवदना मर्माश्रिताः क्लेदिनो गम्भीराः सरुजो व्रणाः सगतयः शुध्यन्ति रोहन्ति च ॥ (६७।३)

sarpiḥ sādhyam anena sūkṣmavadanā marmāśritāḥ kledino gambhīrāḥ sarujo vraṇāḥ sagatayaḥ śudhyanti rohanti ca ||

Data courtesy of The Digital Corpus of Sanskrit.

AHS, 6, 25

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit