अष्टाङ्गहृदयसंहिताAṣṭāṅgahṛdayasaṃhitā

AHS, 1, 27

27 of 120 · 108 verses

Select a line for its word-by-word analysis.

1.1१.१

अथातः सिराव्यधविधिम् अध्यायं व्याख्यास्यामः । (१।१)

athātaḥ sirāvyadhavidhim adhyāyaṃ vyākhyāsyāmaḥ |

1.2१.२

इति ह स्माहुर् आत्रेयादयो महर्षयः । (१।२)

iti ha smāhur ātreyādayo maharṣayaḥ |

1.3१.३

मधुरं लवणं किंचिद् अशीतोष्णम् असंहतम् । (१।३)

madhuraṃ lavaṇaṃ kiṃcid aśītoṣṇam asaṃhatam |

1.4१.४

पद्मेन्द्रगोपहेमाविशशलोहितलोहितम् ॥ (१।४)

padmendragopahemāviśaśalohitalohitam ||

2.1२.१

लोहितं प्रभवः शुद्धं तनोस् तेनैव च स्थितः । (२।१)

lohitaṃ prabhavaḥ śuddhaṃ tanos tenaiva ca sthitaḥ |

2.2२.२

तत् पित्तश्लेष्मलैः प्रायो दूष्यते कुरुते ततः ॥ (२।२)

tat pittaśleṣmalaiḥ prāyo dūṣyate kurute tataḥ ||

3.1३.१

विसर्पविद्रधिप्लीहगुल्माग्निसदनज्वरान् । (३।१)

visarpavidradhiplīhagulmāgnisadanajvarān |

3.2३.२

मुखनेत्रशिरोरोगमदतृड्लवणास्यताः ॥ (३।२)

mukhanetraśirorogamadatṛḍlavaṇāsyatāḥ ||

4.1४.१

कुष्ठवातास्रपित्तास्रकट्वम्लोद्गिरणभ्रमान् । (४।१)

kuṣṭhavātāsrapittāsrakaṭvamlodgiraṇabhramān |

4.2४.२

शीतोष्णस्निग्धरूक्षाद्यैरुपक्रान्ताश्च ये गदाः ॥ (४।२)

śītoṣṇasnigdharūkṣādyairupakrāntāśca ye gadāḥ ||

5.1५.१

सम्यक् साध्या न सिध्यन्ति ते च रक्तप्रकोपजाः । (५।१)

samyak sādhyā na sidhyanti te ca raktaprakopajāḥ |

5.2५.२

तेषु स्रावयितुं रक्तम् उद्रिक्तं व्यधयेत् सिराम् ॥ (५।२)

teṣu srāvayituṃ raktam udriktaṃ vyadhayet sirām ||

6.1६.१

न तूनषोडशातीतसप्तत्यब्दस्रुतासृजाम् । (६।१)

na tūnaṣoḍaśātītasaptatyabdasrutāsṛjām |

6.2६.२

अस्निग्धास्वेदितात्यर्थस्वेदितानिलरोगिणाम् ॥ (६।२)

asnigdhāsveditātyarthasveditānilarogiṇām ||

7.1७.१

गर्भिणीसूतिकाजीर्णपित्तास्रश्वासकासिनाम् । (७।१)

garbhiṇīsūtikājīrṇapittāsraśvāsakāsinām |

7.2७.२

अतीसारोदरच्छर्दिपाण्डुसर्वाङ्गशोफिनाम् ॥ (७।२)

atīsārodaracchardipāṇḍusarvāṅgaśophinām ||

8.1८.१

स्नेहपीते प्रयुक्तेषु तथा पञ्चसु कर्मसु । (८।१)

snehapīte prayukteṣu tathā pañcasu karmasu |

8.2८.२

नायन्त्रितां सिरां विध्येन् न तिर्यङ् नाप्यनुत्थिताम् ॥ (८।२)

nāyantritāṃ sirāṃ vidhyen na tiryaṅ nāpyanutthitām ||

9.1९.१

नातिशीतोष्णवाताभ्रेष्वन्यत्रात्ययिकाद् गदात् । (९।१)

nātiśītoṣṇavātābhreṣvanyatrātyayikād gadāt |

9.2९.२

शिरोनेत्रविकारेषु ललाट्यां मोक्षयेत् सिराम् ॥ (९।२)

śironetravikāreṣu lalāṭyāṃ mokṣayet sirām ||

10.1१०.१

अपाङ्ग्याम् उपनास्यां वा कर्णरोगेषु कर्णजाम् । (१०।१)

apāṅgyām upanāsyāṃ vā karṇarogeṣu karṇajām |

10.2१०.२

नासारोगेषु नासाग्रे स्थितां नासाललाटयोः ॥ (१०।२)

nāsārogeṣu nāsāgre sthitāṃ nāsālalāṭayoḥ ||

11.1११.१

पीनसे मुखरोगेषु जिह्वौष्ठहनुतालुगाः । (११।१)

pīnase mukharogeṣu jihvauṣṭhahanutālugāḥ |

11.2११.२

जत्रूर्ध्वग्रन्थिषु ग्रीवाकर्णशङ्खशिरःश्रिताः ॥ (११।२)

jatrūrdhvagranthiṣu grīvākarṇaśaṅkhaśiraḥśritāḥ ||

12.1१२.१

उरोऽपाङ्गललाटस्था उन्मादे ऽपस्मृतौ पुनः । (१२।१)

uro'pāṅgalalāṭasthā unmāde 'pasmṛtau punaḥ |

12.2१२.२

हनुसंधौ समस्ते वा सिरां भ्रूमध्यगामिनीम् ॥ (१२।२)

hanusaṃdhau samaste vā sirāṃ bhrūmadhyagāminīm ||

13.1१३.१

विद्रधौ पार्श्वशूले च पार्श्वकक्षास्तनान्तरे । (१३।१)

vidradhau pārśvaśūle ca pārśvakakṣāstanāntare |

13.2१३.२

तृतीयके ऽंसयोर् मध्ये स्कन्धस्याधश्चतुर्थके ॥ (१३।२)

tṛtīyake 'ṃsayor madhye skandhasyādhaścaturthake ||

14.1१४.१

प्रवाहिकायां शूलिन्यां श्रोणितो द्व्यङ्गुले स्थिताम् । (१४।१)

pravāhikāyāṃ śūlinyāṃ śroṇito dvyaṅgule sthitām |

14.2१४.२

शुक्रमेढ्रामये मेढ्र ऊरुगां गलगण्डयोः ॥ (१४।२)

śukrameḍhrāmaye meḍhra ūrugāṃ galagaṇḍayoḥ ||

15.1१५.१

गृध्रस्यां जानुनो ऽधस्ताद् ऊर्ध्वं वा चतुरङ्गुले । (१५।१)

gṛdhrasyāṃ jānuno 'dhastād ūrdhvaṃ vā caturaṅgule |

15.2१५.२

इन्द्रवस्तेरधो ऽपच्यां द्व्यङ्गुले चतुरङ्गुले ॥ (१५।२)

indravasteradho 'pacyāṃ dvyaṅgule caturaṅgule ||

16.1१६.१

ऊर्ध्वं गुल्फस्य सक्थ्यर्तौ तथा क्रोष्टुकशीर्षके । (१६।१)

ūrdhvaṃ gulphasya sakthyartau tathā kroṣṭukaśīrṣake |

16.2१६.२

पाददाहे खुडे हर्षे विपाद्यां वातकण्टके ॥ (१६।२)

pādadāhe khuḍe harṣe vipādyāṃ vātakaṇṭake ||

17.1१७.१

चिप्ये च द्व्यङ्गुले विध्येद् उपरि क्षिप्रमर्मणः । (१७।१)

cipye ca dvyaṅgule vidhyed upari kṣipramarmaṇaḥ |

17.2१७.२

गृध्रस्याम् इव विश्वाच्यां यथोक्तानाम् अदर्शने ॥ (१७।२)

gṛdhrasyām iva viśvācyāṃ yathoktānām adarśane ||

18.1१८.१

मर्महीने यथासन्ने देशे ऽन्यां व्यधयेत् सिराम् । (१८।१)

marmahīne yathāsanne deśe 'nyāṃ vyadhayet sirām |

18.2१८.२

अथ स्निग्धतनुः सज्जसर्वोपकरणो बली ॥ (१८।२)

atha snigdhatanuḥ sajjasarvopakaraṇo balī ||

19.1१९.१

कृतस्वस्त्ययनः स्निग्धरसान्नप्रतिभोजितः । (१९।१)

kṛtasvastyayanaḥ snigdharasānnapratibhojitaḥ |

19.2१९.२

अग्नितापातपस्विन्नो जानूच्चासनसंस्थितः ॥ (१९।२)

agnitāpātapasvinno jānūccāsanasaṃsthitaḥ ||

20.1२०.१

मृदुपट्टात्तकेशान्तो जानुस्थापितकूर्परः । (२०।१)

mṛdupaṭṭāttakeśānto jānusthāpitakūrparaḥ |

20.2२०.२

मुष्टिभ्यां वस्त्रगर्भाभ्यां मन्ये गाढं निपीडयेत् ॥ (२०।२)

muṣṭibhyāṃ vastragarbhābhyāṃ manye gāḍhaṃ nipīḍayet ||

21.1२१.१

दन्तप्रपीडनोत्कासगण्डाध्मानानि चाचरेत् । (२१।१)

dantaprapīḍanotkāsagaṇḍādhmānāni cācaret |

21.2२१.२

पृष्ठतो यन्त्रयेच्चैनं वस्त्रम् आवेष्टयन् नरः ॥ (२१।२)

pṛṣṭhato yantrayeccainaṃ vastram āveṣṭayan naraḥ ||

22.1२२.१

कन्धरायां परिक्षिप्य न्यस्यान्तर् वामतर्जनीम् । (२२।१)

kandharāyāṃ parikṣipya nyasyāntar vāmatarjanīm |

22.2२२.२

एषो ऽन्तर्मुखवर्ज्यानां सिराणां यन्त्रणे विधिः ॥ (२२।२)

eṣo 'ntarmukhavarjyānāṃ sirāṇāṃ yantraṇe vidhiḥ ||

23.1२३.१

ततो मध्यमयाङ्गुल्या वैद्यो ऽङ्गुष्ठविमुक्तया । (२३।१)

tato madhyamayāṅgulyā vaidyo 'ṅguṣṭhavimuktayā |

23.2२३.२

ताडयेद् उत्थितां ज्ञात्वा स्पर्शाद् वाङ्गुष्ठपीडनैः ॥ (२३।२)

tāḍayed utthitāṃ jñātvā sparśād vāṅguṣṭhapīḍanaiḥ ||

24.1२४.१

कुठार्या लक्षयेन् मध्ये वामहस्तगृहीतया । (२४।१)

kuṭhāryā lakṣayen madhye vāmahastagṛhītayā |

24.2२४.२

फलोद्देशे सुनिष्कम्पं सिरां तद्वच्च मोक्षयेत् ॥ (२४।२)

phaloddeśe suniṣkampaṃ sirāṃ tadvacca mokṣayet ||

25.1२५.१

ताडयन् पीडयंश्चैनां विध्येद् व्रीहिमुखेन तु । (२५।१)

tāḍayan pīḍayaṃścaināṃ vidhyed vrīhimukhena tu |

25.2२५.२

अङ्गुष्ठेनोन्नमय्याग्रे नासिकाम् उपनासिकाम् ॥ (२५।२)

aṅguṣṭhenonnamayyāgre nāsikām upanāsikām ||

26.1२६.१

अभ्युन्नतविदष्टाग्रजिह्वस्याधस् तदाश्रयाम् । (२६।१)

abhyunnatavidaṣṭāgrajihvasyādhas tadāśrayām |

26.2२६.२

यन्त्रयेत् स्तनयोरूर्ध्वं ग्रीवाश्रितसिराव्यधे ॥ (२६।२)

yantrayet stanayorūrdhvaṃ grīvāśritasirāvyadhe ||

27.1२७.१

पाषाणगर्भहस्तस्य जानुस्थे प्रसृते भुजे । (२७।१)

pāṣāṇagarbhahastasya jānusthe prasṛte bhuje |

27.2२७.२

कुक्षेरारभ्य मृदिते विध्येद् बद्धोर्ध्वपट्टके ॥ (२७।२)

kukṣerārabhya mṛdite vidhyed baddhordhvapaṭṭake ||

28.1२८.१

विध्येद्धस्तसिरां बाहावनाकुञ्चितकूर्परे । (२८।१)

vidhyeddhastasirāṃ bāhāvanākuñcitakūrpare |

28.2२८.२

बद्ध्वा सुखोपविष्टस्य मुष्टिम् अङ्गुष्ठगर्भिणम् ॥ (२८।२)

baddhvā sukhopaviṣṭasya muṣṭim aṅguṣṭhagarbhiṇam ||

29.1२९.१

ऊर्ध्वं वेध्यप्रदेशाच्च पट्टिकां चतुरङ्गुले । (२९।१)

ūrdhvaṃ vedhyapradeśācca paṭṭikāṃ caturaṅgule |

29.2२९.२

विध्येद् आलम्बमानस्य बाहुभ्यां पार्श्वयोः सिराम् ॥ (२९।२)

vidhyed ālambamānasya bāhubhyāṃ pārśvayoḥ sirām ||

30.1३०.१

प्रहृष्टे मेहने जङ्घासिरां जानुन्यकुञ्चिते । (३०।१)

prahṛṣṭe mehane jaṅghāsirāṃ jānunyakuñcite |

30.2३०.२

पादे तु सुस्थिते ऽधस्ताज्जानुसंधेर् निपीडिते ॥ (३०।२)

pāde tu susthite 'dhastājjānusaṃdher nipīḍite ||

31.1३१.१

गाढं कराभ्याम् आ गुल्फं चरणे तस्य चोपरि । (३१।१)

gāḍhaṃ karābhyām ā gulphaṃ caraṇe tasya copari |

31.2३१.२

द्वितीये कुञ्चिते किंचिदारूढे हस्तवत् ततः ॥ (३१।२)

dvitīye kuñcite kiṃcidārūḍhe hastavat tataḥ ||

32.1३२.१

बद्ध्वा विध्येत् सिराम् इत्थम् अनुक्तेष्वपि कल्पयेत् । (३२।१)

baddhvā vidhyet sirām ittham anukteṣvapi kalpayet |

32.2३२.२

तेषु तेषु प्रदेशेषु तत् तद् यन्त्रम् उपायवित् ॥ (३२।२)

teṣu teṣu pradeśeṣu tat tad yantram upāyavit ||

33.1३३.१

मांसले निक्षिपेद् देशे व्रीह्यास्यं व्रीहिमात्रकम् । (३३।१)

māṃsale nikṣiped deśe vrīhyāsyaṃ vrīhimātrakam |

33.2३३.२

यवार्धम् अस्थ्नाम् उपरि सिरां विध्यन् कुठारिकाम् ॥ (३३।२)

yavārdham asthnām upari sirāṃ vidhyan kuṭhārikām ||

34.1३४.१

सम्यग्विद्धा स्रवेद्धारां यन्त्रे मुक्ते तु न स्रवेत् । (३४।१)

samyagviddhā sraveddhārāṃ yantre mukte tu na sravet |

34.2३४.२

अल्पकालं वहत्यल्पं दुर्विद्धा तैलचूर्णनैः ॥ (३४।२)

alpakālaṃ vahatyalpaṃ durviddhā tailacūrṇanaiḥ ||

35.1३५.१

सशब्दम् अतिविद्धा तु स्रवेद् दुःखेन धार्यते । (३५।१)

saśabdam atividdhā tu sraved duḥkhena dhāryate |

35.2३५.२

भीमूर्छायन्त्रशैथिल्यकुण्ठशस्त्रातितृप्तयः ॥ (३५।२)

bhīmūrchāyantraśaithilyakuṇṭhaśastrātitṛptayaḥ ||

36.1३६.१

क्षामत्ववेगितास्वेदा रक्तस्यास्रुतिहेतवः । (३६।१)

kṣāmatvavegitāsvedā raktasyāsrutihetavaḥ |

36.2३६.२

असम्यग् अस्रे स्रवति वेल्लव्योषनिशानतैः ॥ (३६।२)

asamyag asre sravati vellavyoṣaniśānataiḥ ||

37.1३७.१

सागारधूमलवणतैलैर् दिह्यात् सिरामुखम् । (३७।१)

sāgāradhūmalavaṇatailair dihyāt sirāmukham |

37.2३७.२

सम्यक्प्रवृत्ते कोष्णेन तैलेन लवणेन च ॥ (३७।२)

samyakpravṛtte koṣṇena tailena lavaṇena ca ||

38.1३८.१

अग्रे स्रवति दुष्टास्रं कुसुम्भाद् इव पीतिका । (३८।१)

agre sravati duṣṭāsraṃ kusumbhād iva pītikā |

38.2३८.२

सम्यक् स्रुत्वा स्वयं तिष्ठेच्छुद्धं तद् इति नाहरेत् ॥ (३८।२)

samyak srutvā svayaṃ tiṣṭhecchuddhaṃ tad iti nāharet ||

39.1३९.१

यन्त्रं विमुच्य मूर्छायां वीजिते व्यजनैः पुनः । (३९।१)

yantraṃ vimucya mūrchāyāṃ vījite vyajanaiḥ punaḥ |

39.2३९.२

स्रावयेन् मूर्छति पुनस् त्वपरेद्युस् त्र्यहे ऽपि वा ॥ (३९।२)

srāvayen mūrchati punas tvaparedyus tryahe 'pi vā ||

40.1४०.१

वाताच्छ्यावारुणं रूक्षं वेगस्राव्यच्छफेनिलम् । (४०।१)

vātācchyāvāruṇaṃ rūkṣaṃ vegasrāvyacchaphenilam |

40.2४०.२

पित्तात् पीतासितं विस्रम् अस्कन्द्यौष्ण्यात् सचन्द्रिकम् ॥ (४०।२)

pittāt pītāsitaṃ visram askandyauṣṇyāt sacandrikam ||

41.1४१.१

कफात् स्निग्धम् असृक् पाण्डु तन्तुमत् पिच्छिलं घनम् । (४१।१)

kaphāt snigdham asṛk pāṇḍu tantumat picchilaṃ ghanam |

41.2४१.२

संसृष्टलिङ्गं संसर्गात् त्रिदोषं मलिनाविलम् ॥ (४१।२)

saṃsṛṣṭaliṅgaṃ saṃsargāt tridoṣaṃ malināvilam ||

42.1४२.१

अशुद्धौ बलिनो ऽप्यस्रं न प्रस्थात् स्रावयेत् परम् । (४२।१)

aśuddhau balino 'pyasraṃ na prasthāt srāvayet param |

42.2४२.२

अतिस्रुतौ हि मृत्युः स्याद् दारुणा वा चलामयाः ॥ (४२।२)

atisrutau hi mṛtyuḥ syād dāruṇā vā calāmayāḥ ||

43.1४३.१

तत्राभ्यङ्गरसक्षीररक्तपानानि भेषजम् । (४३।१)

tatrābhyaṅgarasakṣīraraktapānāni bheṣajam |

43.2४३.२

स्रुते रक्ते शनैर् यन्त्रम् अपनीय हिमाम्बुना ॥ (४३।२)

srute rakte śanair yantram apanīya himāmbunā ||

44.1४४.१

प्रक्षाल्य तैलप्लोताक्तं बन्धनीयं सिरामुखम् । (४४।१)

prakṣālya tailaplotāktaṃ bandhanīyaṃ sirāmukham |

44.2४४.२

अशुद्धं स्रावयेद् भूयः सायम् अह्न्यपरे ऽपि वा ॥ (४४।२)

aśuddhaṃ srāvayed bhūyaḥ sāyam ahnyapare 'pi vā ||

45.1४५.१

स्नेहोपस्कृतदेहस्य पक्षाद् वा भृशदूषितम् । (४५।१)

snehopaskṛtadehasya pakṣād vā bhṛśadūṣitam |

45.2४५.२

किंचिद्धि शेषे दुष्टास्रे नैव रोगो ऽतिवर्तते ॥ (४५।२)

kiṃciddhi śeṣe duṣṭāsre naiva rogo 'tivartate ||

46.1४६.१

सशेषम् अप्यतो धार्यं न चातिस्रुतिम् आचरेत् । (४६।१)

saśeṣam apyato dhāryaṃ na cātisrutim ācaret |

46.2४६.२

हरेच्छृङ्गादिभिः शेषं प्रसादम् अथवा नयेत् ॥ (४६।२)

harecchṛṅgādibhiḥ śeṣaṃ prasādam athavā nayet ||

47.1४७.१

शीतोपचारपित्तास्रक्रियाशुद्धिविशोषणैः । (४७।१)

śītopacārapittāsrakriyāśuddhiviśoṣaṇaiḥ |

47.2४७.२

दुष्टं रक्तम् अनुद्रिक्तम् एवम् एव प्रसादयेत् ॥ (४७।२)

duṣṭaṃ raktam anudriktam evam eva prasādayet ||

48.1४८.१

रक्ते त्वतिष्ठति क्षिप्रं स्तम्भनीम् आचरेत् क्रियाम् । (४८।१)

rakte tvatiṣṭhati kṣipraṃ stambhanīm ācaret kriyām |

48.2४८.२

लोध्रप्रियङ्गुपत्तङ्गमाषयष्ट्याह्वगैरिकैः ॥ (४८।२)

lodhrapriyaṅgupattaṅgamāṣayaṣṭyāhvagairikaiḥ ||

49.1४९.१

मृत्कपालाञ्जनक्षौममषीक्षीरित्वगङ्कुरैः । (४९।१)

mṛtkapālāñjanakṣaumamaṣīkṣīritvagaṅkuraiḥ |

49.2४९.२

विचूर्णयेद् व्रणमुखं पद्मकादिहिमं पिबेत् ॥ (४९।२)

vicūrṇayed vraṇamukhaṃ padmakādihimaṃ pibet ||

50.1५०.१

ताम् एव वा सिरां विध्येद् व्यधात् तस्माद् अनन्तरम् । (५०।१)

tām eva vā sirāṃ vidhyed vyadhāt tasmād anantaram |

50.2५०.२

सिरामुखं वा त्वरितं दहेत् तप्तशलाकया ॥ (५०।२)

sirāmukhaṃ vā tvaritaṃ dahet taptaśalākayā ||

51.1५१.१

उन्मार्गगा यन्त्रनिपीडनेन स्वस्थानम् आयान्ति पुनर् न यावत् । (५१।१)

unmārgagā yantranipīḍanena svasthānam āyānti punar na yāvat |

51.2५१.२

दोषाः प्रदुष्टा रुधिरं प्रपन्नास् तावद्धिताहारविहारभाक् स्यात् ॥ (५१।२)

doṣāḥ praduṣṭā rudhiraṃ prapannās tāvaddhitāhāravihārabhāk syāt ||

52.1५२.१

नात्युष्णशीतं लघु दीपनीयं रक्ते ऽपनीते हितम् अन्नपानम् । (५२।१)

nātyuṣṇaśītaṃ laghu dīpanīyaṃ rakte 'panīte hitam annapānam |

52.2५२.२

तदा शरीरं ह्यनवस्थितासृग् अग्निर् विशेषाद् इति रक्षितव्यः ॥ (५२।२)

tadā śarīraṃ hyanavasthitāsṛg agnir viśeṣād iti rakṣitavyaḥ ||

53.1५३.१

प्रसन्नवर्णेन्द्रियम् इन्द्रियार्थान् इच्छन्तम् अव्याहतपक्तृवेगम् । (५३।१)

prasannavarṇendriyam indriyārthān icchantam avyāhatapaktṛvegam |

53.2५३.२

सुखान्वितं पुष्टिबलोपपन्नं विशुद्धरक्तं पुरुषं वदन्ति ॥ (५३।२)

sukhānvitaṃ puṣṭibalopapannaṃ viśuddharaktaṃ puruṣaṃ vadanti ||

Data courtesy of The Digital Corpus of Sanskrit.

AHS, 1, 27

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit