अष्टाङ्गहृदयसंहिताAṣṭāṅgahṛdayasaṃhitā

AHS, 1, 9

9 of 120 · 57 verses

Select a line for its word-by-word analysis.

1.1१.१

द्रव्य wइछ्तिग्स्ते कतेगोरिएद्रव्यम् एव रसादीनां श्रेष्ठं ते हि तदाश्रयाः । (१।१)

dravya wichtigste Kategoriedravyam eva rasādīnāṃ śreṣṭhaṃ te hi tadāśrayāḥ |

1.2१.२

पञ्चभूतात्मकं तत् तु क्ष्माम् अधिष्ठाय जायते ॥ (१।२)

pañcabhūtātmakaṃ tat tu kṣmām adhiṣṭhāya jāyate ||

2.1२.१

महाभूत => द्रव्यअम्बुयोन्यग्निपवननभसाम् समवायतः । (२।१)

mahābhūta => dravyaambuyonyagnipavananabhasām samavāyataḥ |

2.2२.२

स्त्¦र्क्स्तेस् महाभूत बेस्तिम्म्त् छरक्तेर् वोन् द्रव्यतन्निर्वृत्तिर् विशेषश् च व्यपदेशस् तु भूयसा ॥ (२।२)

st¦rkstes mahābhūta bestimmt Charakter von dravyatannirvṛttir viśeṣaś ca vyapadeśas tu bhūyasā ||

3.1३.१

तस्मान् नैकरसं द्रव्यं भूतसंघातसम्भवात् । (३।१)

tasmān naikarasaṃ dravyaṃ bhūtasaṃghātasambhavāt |

3.2३.२

रस, अनुरसनैकदोषास् ततो रोगास् तत्र व्यक्तो रसः स्मृतः ॥ (३।२)

rasa, anurasanaikadoṣās tato rogās tatra vyakto rasaḥ smṛtaḥ ||

4.1४.१

अव्यक्तो ऽनुरसः किंचिद् अन्ते व्यक्तो ऽपि चेष्यते । (४।१)

avyakto 'nurasaḥ kiṃcid ante vyakto 'pi ceṣyate |

4.2४.२

गुर्वादयो गुणा द्रव्ये पृथिव्यादौ रसाश्रये ॥ (४।२)

gurvādayo guṇā dravye pṛthivyādau rasāśraye ||

5.1५.१

रसेषु व्यपदिश्यन्ते साहचर्योपचारतः । (५।१)

raseṣu vyapadiśyante sāhacaryopacārataḥ |

5.2५.२

द्रव्य:: पार्थिवतत्र द्रव्यं गुरुस्थूलस्थिरगन्धगुणोल्बणम् ॥ (५।२)

dravya:: pārthivatatra dravyaṃ gurusthūlasthiragandhaguṇolbaṇam ||

6.1६.१

पार्थिवं गौरवस्थैर्यसंघातोपचयावहम् । (६।१)

pārthivaṃ gauravasthairyasaṃghātopacayāvaham |

6.2६.२

द्रव्य:: आप्यद्रवशीतगुरुस्निग्धमन्दसान्द्ररसोल्बणम् ॥ (६।२)

dravya:: āpyadravaśītagurusnigdhamandasāndrarasolbaṇam ||

7.1७.१

आप्यं स्नेहनविष्यन्दक्लेदप्रह्लादबन्धकृत् । (७।१)

āpyaṃ snehanaviṣyandakledaprahlādabandhakṛt |

7.2७.२

द्रव्य:: आग्नेयरूक्षतीक्ष्णोष्णविशदसूक्ष्मरूपगुणोल्बणम् ॥ (७।२)

dravya:: āgneyarūkṣatīkṣṇoṣṇaviśadasūkṣmarūpaguṇolbaṇam ||

8.1८.१

आग्नेयं दाहभावर्णप्रकाशपवनात्मकम् । (८।१)

āgneyaṃ dāhabhāvarṇaprakāśapavanātmakam |

8.2८.२

द्रव्य:: वायव्यवायव्यं रूक्षविशदलघुस्पर्शगुणोल्बणम् ॥ (८।२)

dravya:: vāyavyavāyavyaṃ rūkṣaviśadalaghusparśaguṇolbaṇam ||

9.1९.१

रौक्ष्यलाघववैशद्यविचारग्लानिकारकम् । (९।१)

raukṣyalāghavavaiśadyavicāraglānikārakam |

9.2९.२

द्रव्य:: आकाशीयनाभसं सूक्ष्मविशदलघुशब्दगुणोल्बणम् ॥ (९।२)

dravya:: ākāśīyanābhasaṃ sūkṣmaviśadalaghuśabdaguṇolbaṇam ||

10.1१०.१

सौषिर्यलाघवकरं जगत्य् एवम् अनौषधम् । (१०।१)

sauṣiryalāghavakaraṃ jagaty evam anauṣadham |

10.2१०.२

न किंचिद् विद्यते द्रव्यं वशान् नानार्थयोगयोः ॥ (१०।२)

na kiṃcid vidyate dravyaṃ vaśān nānārthayogayoḥ ||

11.1११.१

द्रव्य:: मोवेमेन्त् => महाभूतद्रव्यम् ऊर्ध्वगमं तत्र प्रायो ऽग्निपवनोत्कटम् । (११।१)

dravya:: movement => mahābhūtadravyam ūrdhvagamaṃ tatra prāyo 'gnipavanotkaṭam |

11.2११.२

अधोगामि च भूयिष्ठं भूमितोयगुणाधिकम् ॥ (११।२)

adhogāmi ca bhūyiṣṭhaṃ bhūmitoyaguṇādhikam ||

12.1१२.१

इति द्रव्यं रसान् भेदैर् उत्तरत्रोपदेक्ष्यते । (१२।१)

iti dravyaṃ rasān bhedair uttaratropadekṣyate |

12.2१२.२

वीर्य:: देड़िनितिओन्वीर्यं पुनर् वदन्त्य् एके गुरु स्निग्धं हिमं मृदु ॥ (१२।२)

vīrya:: definitionvīryaṃ punar vadanty eke guru snigdhaṃ himaṃ mṛdu ||

13.1१३.१

लघु रूक्षोष्णतीक्ष्णं च तद् एवं मतम् अष्टधा । (१३।१)

laghu rūkṣoṣṇatīkṣṇaṃ ca tad evaṃ matam aṣṭadhā |

13.2१३.२

वीर्य:: देड़िनितिओन् (चरक)चरकस् त्व् आह वीर्यं तत् क्रियते येन या क्रिया ॥ (१३।२)

vīrya:: definition (Caraka)carakas tv āha vīryaṃ tat kriyate yena yā kriyā ||

14.1१४.१

नावीर्यं कुरुते किंचित् सर्वा वीर्यकृता हि सा । (१४।१)

nāvīryaṃ kurute kiṃcit sarvā vīryakṛtā hi sā |

14.2१४.२

गुर्वादिष्व् एव वीर्याख्या तेनान्वर्थेति वर्ण्यते ॥ (१४।२)

gurvādiṣv eva vīryākhyā tenānvartheti varṇyate ||

15.1१५.१

समग्रगुणसारेषु शक्त्युत्कर्षविवर्तिषु । (१५।१)

samagraguṇasāreṣu śaktyutkarṣavivartiṣu |

15.2१५.२

व्यवहाराय मुख्यत्वाद् बह्वग्रग्रहणाद् अपि ॥ (१५।२)

vyavahārāya mukhyatvād bahvagragrahaṇād api ||

16.1१६.१

अतश् च विपरीतत्वात् सम्भवत्य् अपि नैव सा । (१६।१)

ataś ca viparītatvāt sambhavaty api naiva sā |

16.2१६.२

विवक्ष्यते रसाद्येषु वीर्यं गुर्वादयो ह्य् अतः ॥ (१६।२)

vivakṣyate rasādyeṣu vīryaṃ gurvādayo hy ataḥ ||

17.1१७.१

वीर्य:: देड़िनितिओन् (३)उष्णं शीतं द्विधैवान्ये वीर्यम् आचक्षते ऽपि च । (१७।१)

vīrya:: definition (3)uṣṇaṃ śītaṃ dvidhaivānye vīryam ācakṣate 'pi ca |

17.2१७.२

नानात्मकम् अपि द्रव्यम् अग्नीषोमौ महाबलौ ॥ (१७।२)

nānātmakam api dravyam agnīṣomau mahābalau ||

18.1१८.१

व्यक्ताव्यक्तं जगद् इव नातिक्रामति जातुचित् । (१८।१)

vyaktāvyaktaṃ jagad iva nātikrāmati jātucit |

18.2१८.२

तत्रोष्णं भ्रमतृड्ग्लानिस्वेददाहाशुपाकिताः ॥ (१८।२)

tatroṣṇaṃ bhramatṛḍglānisvedadāhāśupākitāḥ ||

19.1१९.१

शमं च वातकफयोः करोति शिशिरं पुनः । (१९।१)

śamaṃ ca vātakaphayoḥ karoti śiśiraṃ punaḥ |

19.2१९.२

ह्लादनं जीवनं स्तम्भं प्रसादं रक्तपित्तयोः ॥ (१९।२)

hlādanaṃ jīvanaṃ stambhaṃ prasādaṃ raktapittayoḥ ||

20.1२०.१

विपाक:: देड़िनितिओन्जाठरेणाग्निना योगाद् यद् उदेति रसान्तरम् । (२०।१)

vipāka:: definitionjāṭhareṇāgninā yogād yad udeti rasāntaram |

20.2२०.२

रसानां परिणामान्ते स विपाक इति स्मृतः ॥ (२०।२)

rasānāṃ pariṇāmānte sa vipāka iti smṛtaḥ ||

21.1२१.१

स्वादुः पटुश् च मधुरम् अम्लो ऽम्लं पच्यते रसः । (२१।१)

svāduḥ paṭuś ca madhuram amlo 'mlaṃ pacyate rasaḥ |

21.2२१.२

तिक्तोष्णकषायाणां विपाकः प्रायशः कटुः ॥ (२१।२)

tiktoṣṇakaṣāyāṇāṃ vipākaḥ prāyaśaḥ kaṭuḥ ||

22.1२२.१

रसैर् असौ तुल्यफलस् तत्र द्रव्यं शुभाशुभम् । (२२।१)

rasair asau tulyaphalas tatra dravyaṃ śubhāśubham |

22.2२२.२

किंचिद् रसेन कुरुते कर्म पाकेन चापरम् ॥ (२२।२)

kiṃcid rasena kurute karma pākena cāparam ||

23.1२३.१

गुणान्तरेण वीर्येण प्रभावेणैव किंचन । (२३।१)

guṇāntareṇa vīryeṇa prabhāveṇaiva kiṃcana |

23.2२३.२

स्त्¦र्क्स्तेस् रस उस्w। इन् एइनेर् सुब्स्त्। बेस्तिम्म्त् इह्रे एइग्।यद् यद् द्रव्ये रसादीनां बलवत्त्वेन वर्तते ॥ (२३।२)

st¦rkstes rasa usw. in einer Subst. bestimmt ihre Eig.yad yad dravye rasādīnāṃ balavattvena vartate ||

24.1२४.१

अभिभूयेतरांस् तत् तत् कारणत्वं प्रपद्यते । (२४।१)

abhibhūyetarāṃs tat tat kāraṇatvaṃ prapadyate |

24.2२४.२

विरुद्धगुणसंयोगे भूयसाल्पं हि जीयते ॥ (२४।२)

viruddhaguṇasaṃyoge bhūyasālpaṃ hi jīyate ||

25.1२५.१

रेइहेन्ड़ोल्गे वोन् रस बिस् प्रभावरसं विपाकस् तौ वीर्यं प्रभावस् तान्य् अपोहति । (२५।१)

Reihenfolge von rasa bis prabhāvarasaṃ vipākas tau vīryaṃ prabhāvas tāny apohati |

25.2२५.२

बलसाम्ये रसादीनाम् इति नैसर्गिकं बलम् ॥ (२५।२)

balasāmye rasādīnām iti naisargikaṃ balam ||

26.1२६.१

प्रभाव:: अक्तिव् बेइ रसादिसाम्यरसादिसाम्ये यत् कर्म विशिष्टं तत् प्रभावजम् । (२६।१)

prabhāva:: aktiv bei rasādisāmyarasādisāmye yat karma viśiṣṭaṃ tat prabhāvajam |

26.2२६.२

दन्ती रसाद्यैस् तुल्यापि चित्रकस्य विरेचनी ॥ (२६।२)

dantī rasādyais tulyāpi citrakasya virecanī ||

27.1२७.१

मधुकस्य च मृद्वीका घृतं क्षीरस्य दीपनम् । (२७।१)

madhukasya ca mṛdvīkā ghṛtaṃ kṣīrasya dīpanam |

27.2२७.२

इति सामान्यतः कर्म द्रव्यादीनां पुनश् च तत् ॥ (२७।२)

iti sāmānyataḥ karma dravyādīnāṃ punaś ca tat ||

28.1२८.१

विचित्रप्रत्ययारब्धद्रव्यभेदेन भिद्यते । (२८।१)

vicitrapratyayārabdhadravyabhedena bhidyate |

28.2२८.२

स्वादुर् गुरुश् च गोधूमो वातजिद् वातकृद् यवः ॥ (२८।२)

svādur guruś ca godhūmo vātajid vātakṛd yavaḥ ||

29.0२९.०

उष्णा मत्स्याः पयः शीतं कटुः सिंहो न शूकरः ॥ (२९।०)

uṣṇā matsyāḥ payaḥ śītaṃ kaṭuḥ siṃho na śūkaraḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

AHS, 1, 9

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit