Ṛk 9.78.3
Saṃhitā
स॒मु॒द्रिया॑ अप्स॒रसो॑ मनी॒षिण॒मासी॑ना अं॒तर॒भि सोम॑मक्षरन् ।
ता ईं॑ हिन्वंति ह॒र्म्यस्य॑ स॒क्षणिं॒ याचं॑ते सु॒म्नं पव॑मान॒मक्षि॑तं ॥
समुद्रिया अप्सरसो मनीषिणम् आसीना अन्तर् अभि सोमम् अक्षरन् |
ता ईं हिन्वन्ति हर्म्यस्य सक्षणिं याचन्ते सुम्नम् पवमानम् अक्षितम् ||
samudríyā apsaráso manīṣíṇamā́sīnā antárabhí sómamakṣaran ǀ
tā́ īm hinvanti harmyásya sakṣáṇim yā́cante sumnám pávamānamákṣitam ǁ
samudriyā apsaraso manīṣiṇam āsīnā antar abhi somam akṣaran |
tā īṃ hinvanti harmyasya sakṣaṇiṃ yācante sumnam pavamānam akṣitam ||
Padapāṭha
स॒मु॒द्रियाः॑ । अ॒प्स॒रसः॑ । म॒नी॒षिण॑म् । आसी॑नाः । अ॒न्तः । अ॒भि । सोम॑म् । अ॒क्ष॒र॒न् ।
ताः । ई॒म् । हि॒न्व॒न्ति॒ । ह॒र्म्यस्य॑ । स॒क्षणि॑म् । याच॑न्ते । सु॒म्नम् । पव॑मानम् । अक्षि॑तम् ॥
समुद्रियाः । अप्सरसः । मनीषिणम् । आसीनाः । अन्तः । अभि । सोमम् । अक्षरन् ।
ताः । ईम् । हिन्वन्ति । हर्म्यस्य । सक्षणिम् । याचन्ते । सुम्नम् । पवमानम् । अक्षितम् ॥
samudríyāḥ ǀ apsarásaḥ ǀ manīṣíṇam ǀ ā́sīnāḥ ǀ antáḥ ǀ abhí ǀ sómam ǀ akṣaran ǀ
tā́ḥ ǀ īm ǀ hinvanti ǀ harmyásya ǀ sakṣáṇim ǀ yā́cante ǀ sumnám ǀ pávamānam ǀ ákṣitam ǁ
samudriyāḥ ǀ apsarasaḥ ǀ manīṣiṇam ǀ āsīnāḥ ǀ antaḥ ǀ abhi ǀ somam ǀ akṣaran ǀ
tāḥ ǀ īm ǀ hinvanti ǀ harmyasya ǀ sakṣaṇim ǀ yācante ǀ sumnam ǀ pavamānam ǀ akṣitam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 09.078.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.3.03.03
- Maṇḍala · Anuvāka · Ṛk
- 09.04.084
- Devatā देवता
- Soma Pavamāna
- Ṛṣi ऋषि
- Kavi Bhārgava
- Chandas छन्दस्
- Jagatī
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.