Ṛgveda · Maṇḍala 9 · Sūkta 78

Ṛk 9.78.5

Soma Pavamāna · Kavi Bhārgava

The whole sūkta Link

Saṃhitā

ए॒तानि॑ सोम॒ पव॑मानो अस्म॒युः स॒त्यानि॑ कृ॒ण्वंद्रवि॑णान्यर्षसि ।
ज॒हि शत्रु॑मंति॒के दू॑र॒के च॒ य उ॒र्वीं गव्यू॑ति॒मभ॑यं च नस्कृधि ॥

एतानि सोम पवमानो अस्मयुः सत्यानि कृण्वन् द्रविणान्य् अर्षसि |
जहि शत्रुम् अन्तिके दूरके च य उर्वीं गव्यूतिम् अभयं च नस् कृधि ||

etā́ni soma pávamāno asmayúḥ satyā́ni kṛṇvándráviṇānyarṣasi ǀ
jahí śátrumantiké dūraké ca yá urvī́m gávyūtimábhayam ca naskṛdhi ǁ

etāni soma pavamāno asmayuḥ satyāni kṛṇvan draviṇāny arṣasi |
jahi śatrum antike dūrake ca ya urvīṃ gavyūtim abhayaṃ ca nas kṛdhi ||

Padapāṭha

ए॒तानि॑ । सो॒म॒ । पव॑मानः । अ॒स्म॒ऽयुः । स॒त्यानि॑ । कृ॒ण्वन् । द्रवि॑णानि । अ॒र्ष॒सि॒ ।
ज॒हि । शत्रु॑म् । अ॒न्ति॒के । दू॒र॒के । च॒ । यः । उ॒र्वीम् । गव्यू॑तिम् । अभ॑यम् । च॒ । नः॒ । कृ॒धि॒ ॥

एतानि । सोम । पवमानः । अस्मऽयुः । सत्यानि । कृण्वन् । द्रविणानि । अर्षसि ।
जहि । शत्रुम् । अन्तिके । दूरके । च । यः । उर्वीम् । गव्यूतिम् । अभयम् । च । नः । कृधि ॥

etā́ni ǀ soma ǀ pávamānaḥ ǀ asma-yúḥ ǀ satyā́ni ǀ kṛṇván ǀ dráviṇāni ǀ arṣasi ǀ
jahí ǀ śátrum ǀ antiké ǀ dūraké ǀ ca ǀ yáḥ ǀ urvī́m ǀ gávyūtim ǀ ábhayam ǀ ca ǀ naḥ ǀ kṛdhi ǁ

etāni ǀ soma ǀ pavamānaḥ ǀ asma-yuḥ ǀ satyāni ǀ kṛṇvan ǀ draviṇāni ǀ arṣasi ǀ
jahi ǀ śatrum ǀ antike ǀ dūrake ǀ ca ǀ yaḥ ǀ urvīm ǀ gavyūtim ǀ abhayam ǀ ca ǀ naḥ ǀ kṛdhi ǁ

References

Maṇḍala · Sūkta · Ṛk
09.078.05
Aṣṭaka · Adhyāya · Varga · Ṛk
7.3.03.05
Maṇḍala · Anuvāka · Ṛk
09.04.086
Devatā देवता
Soma Pavamāna
Ṛṣi ऋषि
Kavi Bhārgava
Chandas छन्दस्
Jagatī
Svara स्वरः
निषादः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 9.78.5

Interpretations

Sāyaṇa

अचोदसइति पंचर्चंद्वादशंसूक्तं ऋष्याद्याः पूर्ववत् । अचोदसइत्यनुक्रान्तं । गतोविनि- योगः ।