Ṛk 9.78.4
Saṃhitā
गो॒जिन्नः॒ सोमो॑ रथ॒जिद्धि॑रण्य॒जित्स्व॒र्जिद॒ब्जित्प॑वते सहस्र॒जित् ।
यं दे॒वास॑श्चक्रि॒रे पी॒तये॒ मदं॒ स्वादि॑ष्ठं द्र॒प्सम॑रु॒णं म॑यो॒भुवं॑ ॥
गोजिन् नः सोमो रथजिद् धिरण्यजित् स्वर्जिद् अब्जित् पवते सहस्रजित् |
यं देवासश् चक्रिरे पीतये मदं स्वादिष्ठं द्रप्सम् अरुणम् मयोभुवम् ||
gojínnaḥ sómo rathajíddhiraṇyajítsvarjídabjítpavate sahasrajít ǀ
yám devā́saścakriré pītáye mádam svā́diṣṭham drapsámaruṇám mayobhúvam ǁ
gojin naḥ somo rathajid dhiraṇyajit svarjid abjit pavate sahasrajit |
yaṃ devāsaś cakrire pītaye madaṃ svādiṣṭhaṃ drapsam aruṇam mayobhuvam ||
Padapāṭha
गो॒ऽजित् । नः॒ । सोमः॑ । र॒थ॒ऽजित् । हि॒र॒ण्य॒ऽजित् । स्वः॒ऽजित् । अ॒प्ऽजित् । प॒व॒ते॒ । स॒ह॒स्र॒ऽजित् ।
यम् । दे॒वासः॑ । च॒क्रि॒रे । पी॒तये॑ । मद॑म् । स्वादि॑ष्ठम् । द्र॒प्सम् । अ॒रु॒णम् । म॒यः॒ऽभुव॑म् ॥
गोऽजित् । नः । सोमः । रथऽजित् । हिरण्यऽजित् । स्वःऽजित् । अप्ऽजित् । पवते । सहस्रऽजित् ।
यम् । देवासः । चक्रिरे । पीतये । मदम् । स्वादिष्ठम् । द्रप्सम् । अरुणम् । मयःऽभुवम् ॥
go-jít ǀ naḥ ǀ sómaḥ ǀ ratha-jít ǀ hiraṇya-jít ǀ svaḥ-jít ǀ ap-jít ǀ pavate ǀ sahasra-jít ǀ
yám ǀ devā́saḥ ǀ cakriré ǀ pītáye ǀ mádam ǀ svā́diṣṭham ǀ drapsám ǀ aruṇám ǀ mayaḥ-bhúvam ǁ
go-jit ǀ naḥ ǀ somaḥ ǀ ratha-jit ǀ hiraṇya-jit ǀ svaḥ-jit ǀ ap-jit ǀ pavate ǀ sahasra-jit ǀ
yam ǀ devāsaḥ ǀ cakrire ǀ pītaye ǀ madam ǀ svādiṣṭham ǀ drapsam ǀ aruṇam ǀ mayaḥ-bhuvam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 09.078.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.3.03.04
- Maṇḍala · Anuvāka · Ṛk
- 09.04.085
- Devatā देवता
- Soma Pavamāna
- Ṛṣi ऋषि
- Kavi Bhārgava
- Chandas छन्दस्
- Jagatī
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.