Ṛk 9.79.3
Saṃhitā
उ॒त स्वस्या॒ अरा॑त्या अ॒रिर्हि ष उ॒तान्यस्या॒ अरा॑त्या॒ वृको॒ हि षः ।
धन्व॒न्न तृष्णा॒ सम॑रीत॒ ताँ अ॒भि सोम॑ ज॒हि प॑वमान दुरा॒ध्यः॑ ॥
उत स्वस्या अरात्या अरिर् हि ष उतान्यस्या अरात्या वृको हि षः |
धन्वन् न तृष्णा सम् अरीत तां अभि सोम जहि पवमान दुराध्यः ||
utá svásyā árātyā arírhí ṣá utā́nyásyā árātyā vṛ́ko hí ṣáḥ ǀ
dhánvanná tṛ́ṣṇā sámarīta tā́m̐ abhí sóma jahí pavamāna durādhyáḥ ǁ
uta svasyā arātyā arir hi ṣa utānyasyā arātyā vṛko hi ṣaḥ |
dhanvan na tṛṣṇā sam arīta tāṃ abhi soma jahi pavamāna durādhyaḥ ||
Padapāṭha
उ॒त । स्वस्याः॑ । अरा॑त्याः । अ॒रिः । हि । सः । उ॒त । अ॒न्यस्याः॑ । अरा॑त्याः । वृकः॑ । हि । सः ।
धन्व॑न् । न । तृष्णा॑ । सम् । अ॒री॒त॒ । तान् । अ॒भि । सोम॑ । ज॒हि । प॒व॒मा॒न॒ । दुः॒ऽआ॒ध्यः॑ ॥
उत । स्वस्याः । अरात्याः । अरिः । हि । सः । उत । अन्यस्याः । अरात्याः । वृकः । हि । सः ।
धन्वन् । न । तृष्णा । सम् । अरीत । तान् । अभि । सोम । जहि । पवमान । दुःऽआध्यः ॥
utá ǀ svásyāḥ ǀ árātyāḥ ǀ aríḥ ǀ hí ǀ sáḥ ǀ utá ǀ anyásyāḥ ǀ árātyāḥ ǀ vṛ́kaḥ ǀ hí ǀ sáḥ ǀ
dhánvan ǀ ná ǀ tṛ́ṣṇā ǀ sám ǀ arīta ǀ tā́n ǀ abhí ǀ sóma ǀ jahí ǀ pavamāna ǀ duḥ-ādhyáḥ ǁ
uta ǀ svasyāḥ ǀ arātyāḥ ǀ ariḥ ǀ hi ǀ saḥ ǀ uta ǀ anyasyāḥ ǀ arātyāḥ ǀ vṛkaḥ ǀ hi ǀ saḥ ǀ
dhanvan ǀ na ǀ tṛṣṇā ǀ sam ǀ arīta ǀ tān ǀ abhi ǀ soma ǀ jahi ǀ pavamāna ǀ duḥ-ādhyaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 09.079.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.3.04.03
- Maṇḍala · Anuvāka · Ṛk
- 09.04.089
- Devatā देवता
- Soma Pavamāna
- Ṛṣi ऋषि
- Kavi Bhārgava
- Chandas छन्दस्
- Jagatī
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.