Ṛk 8.22.10
Saṃhitā
याभिः॑ प॒क्थमव॑थो॒ याभि॒रध्रि॑गुं॒ याभि॑र्ब॒भ्रुं विजो॑षसं ।
ताभि॑र्नो म॒क्षू तूय॑मश्वि॒ना ग॑तं भिष॒ज्यतं॒ यदातु॑रं ॥
याभिः पक्थम् अवथो याभिर् अध्रिगुं याभिर् बभ्रुं विजोषसम् |
ताभिर् नो मक्षू तूयम् अश्विना गतम् भिषज्यतं यद् आतुरम् ||
yā́bhiḥ pakthámávatho yā́bhirádhrigum yā́bhirbabhrúm víjoṣasam ǀ
tā́bhirno makṣū́ tū́yamaśvinā́ gatam bhiṣajyátam yádā́turam ǁ
yābhiḥ paktham avatho yābhir adhriguṃ yābhir babhruṃ vijoṣasam |
tābhir no makṣū tūyam aśvinā gatam bhiṣajyataṃ yad āturam ||
Padapāṭha
याभिः॑ । प॒क्थम् । अव॑थः । याभिः॑ । अध्रि॑ऽगुम् । याभिः॑ । ब॒भ्रुम् । विऽजो॑षसम् ।
ताभिः॑ । नः॒ । म॒क्षु । तूय॑म् । अ॒श्वि॒ना॒ । आ । ग॒त॒म् । भि॒ष॒ज्यत॑म् । यत् । आतु॑रम् ॥
याभिः । पक्थम् । अवथः । याभिः । अध्रिऽगुम् । याभिः । बभ्रुम् । विऽजोषसम् ।
ताभिः । नः । मक्षु । तूयम् । अश्विना । आ । गतम् । भिषज्यतम् । यत् । आतुरम् ॥
yā́bhiḥ ǀ pakthám ǀ ávathaḥ ǀ yā́bhiḥ ǀ ádhri-gum ǀ yā́bhiḥ ǀ babhrúm ǀ ví-joṣasam ǀ
tā́bhiḥ ǀ naḥ ǀ makṣú ǀ tū́yam ǀ aśvinā ǀ ā́ ǀ gatam ǀ bhiṣajyátam ǀ yát ǀ ā́turam ǁ
yābhiḥ ǀ paktham ǀ avathaḥ ǀ yābhiḥ ǀ adhri-gum ǀ yābhiḥ ǀ babhrum ǀ vi-joṣasam ǀ
tābhiḥ ǀ naḥ ǀ makṣu ǀ tūyam ǀ aśvinā ǀ ā ǀ gatam ǀ bhiṣajyatam ǀ yat ǀ āturam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.022.10
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.2.06.05
- Maṇḍala · Anuvāka · Ṛk
- 08.04.028
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Sobhari Kāṇva
- Chandas छन्दस्
- Satobṛhatī, Kakubh, Bṛhatī, Anuṣṭubh, Madhyejyotis
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.