Ṛk 8.22.4
Saṃhitā
यु॒वो रथ॑स्य॒ परि॑ च॒क्रमी॑यत ई॒र्मान्यद्वा॑मिषण्यति ।
अ॒स्माँ अच्छा॑ सुम॒तिर्वां॑ शुभस्पती॒ आ धे॒नुरि॑व धावतु ॥
युवो रथस्य परि चक्रम् ईयत ईर्मान्यद् वाम् इषण्यति |
अस्मां अच्छा सुमतिर् वां शुभस् पती आ धेनुर् इव धावतु ||
yuvó ráthasya pári cakrámīyata īrmā́nyádvāmiṣaṇyati ǀ
asmā́m̐ ácchā sumatírvām śubhaspatī ā́ dhenúriva dhāvatu ǁ
yuvo rathasya pari cakram īyata īrmānyad vām iṣaṇyati |
asmāṃ acchā sumatir vāṃ śubhas patī ā dhenur iva dhāvatu ||
Padapāṭha
यु॒वोः । रथ॑स्य । परि॑ । च॒क्रम् । ई॒य॒ते॒ । ई॒र्मा । अ॒न्यत् । वा॒म् । इ॒ष॒ण्य॒ति॒ ।
अ॒स्मान् । अच्छ॑ । सु॒ऽम॒तिः । वा॒म् । शु॒भः॒ । प॒ती॒ इति॑ । आ । धे॒नुःऽइ॑व । धा॒व॒तु॒ ॥
युवोः । रथस्य । परि । चक्रम् । ईयते । ईर्मा । अन्यत् । वाम् । इषण्यति ।
अस्मान् । अच्छ । सुऽमतिः । वाम् । शुभः । पती इति । आ । धेनुःऽइव । धावतु ॥
yuvóḥ ǀ ráthasya ǀ pári ǀ cakrám ǀ īyate ǀ īrmā́ ǀ anyát ǀ vām ǀ iṣaṇyati ǀ
asmā́n ǀ áccha ǀ su-matíḥ ǀ vām ǀ śubhaḥ ǀ patī íti ǀ ā́ ǀ dhenúḥ-iva ǀ dhāvatu ǁ
yuvoḥ ǀ rathasya ǀ pari ǀ cakram ǀ īyate ǀ īrmā ǀ anyat ǀ vām ǀ iṣaṇyati ǀ
asmān ǀ accha ǀ su-matiḥ ǀ vām ǀ śubhaḥ ǀ patī iti ǀ ā ǀ dhenuḥ-iva ǀ dhāvatu ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.022.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.2.05.04
- Maṇḍala · Anuvāka · Ṛk
- 08.04.022
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Sobhari Kāṇva
- Chandas छन्दस्
- Satobṛhatī, Kakubh, Bṛhatī, Anuṣṭubh, Madhyejyotis
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.