Ṛk 8.22.8
Saṃhitā
अ॒यं वा॒मद्रि॑भिः सु॒तः सोमो॑ नरा वृषण्वसू ।
आ या॑तं॒ सोम॑पीतये॒ पिब॑तं दा॒शुषो॑ गृ॒हे ॥
अयं वाम् अद्रिभिः सुतः सोमो नरा वृषण्वसू |
आ यातं सोमपीतये पिबतं दाशुषो गृहे ||
ayám vāmádribhiḥ sutáḥ sómo narā vṛṣaṇvasū ǀ
ā́ yātam sómapītaye píbatam dāśúṣo gṛhé ǁ
ayaṃ vām adribhiḥ sutaḥ somo narā vṛṣaṇvasū |
ā yātaṃ somapītaye pibataṃ dāśuṣo gṛhe ||
Padapāṭha
अ॒यम् । वा॒म् । अद्रि॑ऽभिः । सु॒तः । सोमः॑ । न॒रा॒ । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू ।
आ । या॒त॒म् । सोम॑ऽपीतये । पिब॑तम् । दा॒शुषः॑ । गृ॒हे ॥
अयम् । वाम् । अद्रिऽभिः । सुतः । सोमः । नरा । वृषण्वसू इति वृषण्ऽवसू ।
आ । यातम् । सोमऽपीतये । पिबतम् । दाशुषः । गृहे ॥
ayám ǀ vām ǀ ádri-bhiḥ ǀ sutáḥ ǀ sómaḥ ǀ narā ǀ vṛṣaṇvasū íti vṛṣaṇ-vasū ǀ
ā́ ǀ yātam ǀ sóma-pītaye ǀ píbatam ǀ dāśúṣaḥ ǀ gṛhé ǁ
ayam ǀ vām ǀ adri-bhiḥ ǀ sutaḥ ǀ somaḥ ǀ narā ǀ vṛṣaṇvasū iti vṛṣaṇ-vasū ǀ
ā ǀ yātam ǀ soma-pītaye ǀ pibatam ǀ dāśuṣaḥ ǀ gṛhe ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.022.08
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.2.06.03
- Maṇḍala · Anuvāka · Ṛk
- 08.04.026
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Sobhari Kāṇva
- Chandas छन्दस्
- Satobṛhatī, Kakubh, Bṛhatī, Anuṣṭubh, Madhyejyotis
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.