Ṛk 8.22.6
Saṃhitā
द॒श॒स्यंता॒ मन॑वे पू॒र्व्यं दि॒वि यवं॒ वृके॑ण कर्षथः ।
ता वा॑म॒द्य सु॑म॒तिभिः॑ शुभस्पती॒ अश्वि॑ना॒ प्र स्तु॑वीमहि ॥
दशस्यन्ता मनवे पूर्व्यं दिवि यवं वृकेण कर्षथः |
ता वाम् अद्य सुमतिभिः शुभस् पती अश्विना प्र स्तुवीमहि ||
daśasyántā mánave pūrvyám diví yávam vṛ́keṇa karṣathaḥ ǀ
tā́ vāmadyá sumatíbhiḥ śubhaspatī áśvinā prá stuvīmahi ǁ
daśasyantā manave pūrvyaṃ divi yavaṃ vṛkeṇa karṣathaḥ |
tā vām adya sumatibhiḥ śubhas patī aśvinā pra stuvīmahi ||
Padapāṭha
द॒श॒स्यन्ता॑ । मन॑वे । पू॒र्व्यम् । दि॒वि । यव॑म् । वृके॑ण । क॒र्ष॒थः॒ ।
ता । वा॒म् । अ॒द्य । सु॒म॒तिऽभिः॑ । शु॒भः॒ । प॒ती॒ इति॑ । अश्वि॑ना । प्र । स्तु॒वी॒म॒हि॒ ॥
दशस्यन्ता । मनवे । पूर्व्यम् । दिवि । यवम् । वृकेण । कर्षथः ।
ता । वाम् । अद्य । सुमतिऽभिः । शुभः । पती इति । अश्विना । प्र । स्तुवीमहि ॥
daśasyántā ǀ mánave ǀ pūrvyám ǀ diví ǀ yávam ǀ vṛ́keṇa ǀ karṣathaḥ ǀ
tā́ ǀ vām ǀ adyá ǀ sumatí-bhiḥ ǀ śubhaḥ ǀ patī íti ǀ áśvinā ǀ prá ǀ stuvīmahi ǁ
daśasyantā ǀ manave ǀ pūrvyam ǀ divi ǀ yavam ǀ vṛkeṇa ǀ karṣathaḥ ǀ
tā ǀ vām ǀ adya ǀ sumati-bhiḥ ǀ śubhaḥ ǀ patī iti ǀ aśvinā ǀ pra ǀ stuvīmahi ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.022.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.2.06.01
- Maṇḍala · Anuvāka · Ṛk
- 08.04.024
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Sobhari Kāṇva
- Chandas छन्दस्
- Satobṛhatī, Kakubh, Bṛhatī, Anuṣṭubh, Madhyejyotis
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.