Ṛk 8.22.1
Saṃhitā
ओ त्यम॑ह्व॒ आ रथ॑म॒द्या दंसि॑ष्ठमू॒तये॑ ।
यम॑श्विना सुहवा रुद्रवर्तनी॒ आ सू॒र्यायै॑ त॒स्थथुः॑ ॥
ओ त्यम् अह्व आ रथम् अद्या दंसिष्ठम् ऊतये |
यम् अश्विना सुहवा रुद्रवर्तनी आ सूर्यायै तस्थथुः ||
ó tyámahva ā́ ráthamadyā́ dáṃsiṣṭhamūtáye ǀ
yámaśvinā suhavā rudravartanī ā́ sūryā́yai tastháthuḥ ǁ
o tyam ahva ā ratham adyā daṃsiṣṭham ūtaye |
yam aśvinā suhavā rudravartanī ā sūryāyai tasthathuḥ ||
Padapāṭha
ओ इति॑ । त्यम् । अ॒ह्वे॒ । आ । रथ॑म् । अ॒द्य । दंसि॑ष्ठम् । ऊ॒तये॑ ।
यम् । अ॒श्वि॒ना॒ । सु॒ऽह॒वा॒ । रु॒द्र॒व॒र्त॒नी॒ इति॑ रुद्रऽवर्तनी । आ । सू॒र्यायै॑ । त॒स्थथुः॑ ॥
ओ इति । त्यम् । अह्वे । आ । रथम् । अद्य । दंसिष्ठम् । ऊतये ।
यम् । अश्विना । सुऽहवा । रुद्रवर्तनी इति रुद्रऽवर्तनी । आ । सूर्यायै । तस्थथुः ॥
ó íti ǀ tyám ǀ ahve ǀ ā́ ǀ rátham ǀ adyá ǀ dáṃsiṣṭham ǀ ūtáye ǀ
yám ǀ aśvinā ǀ su-havā ǀ rudravartanī íti rudra-vartanī ǀ ā́ ǀ sūryā́yai ǀ tastháthuḥ ǁ
o iti ǀ tyam ǀ ahve ǀ ā ǀ ratham ǀ adya ǀ daṃsiṣṭham ǀ ūtaye ǀ
yam ǀ aśvinā ǀ su-havā ǀ rudravartanī iti rudra-vartanī ǀ ā ǀ sūryāyai ǀ tasthathuḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.022.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.2.05.01
- Maṇḍala · Anuvāka · Ṛk
- 08.04.019
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Sobhari Kāṇva
- Chandas छन्दस्
- Satobṛhatī, Kakubh, Bṛhatī, Anuṣṭubh, Madhyejyotis
- Svara स्वरः
- मध्यमः
Text and interpretations from the Ṛgveda database of theveda.org.in.