Ṛk 8.22.5
Saṃhitā
रथो॒ यो वां॑ त्रिवंधु॒रो हिर॑ण्याभीशुरश्विना ।
परि॒ द्यावा॑पृथि॒वी भूष॑ति श्रु॒तस्तेन॑ नास॒त्या ग॑तं ॥
रथो यो वां त्रिवन्धुरो हिरण्याभीशुर् अश्विना |
परि द्यावापृथिवी भूषति श्रुतस् तेन नासत्या गतम् ||
rátho yó vām trivandhuró híraṇyābhīśuraśvinā ǀ
pári dyā́vāpṛthivī́ bhū́ṣati śrutásténa nāsatyā́ gatam ǁ
ratho yo vāṃ trivandhuro hiraṇyābhīśur aśvinā |
pari dyāvāpṛthivī bhūṣati śrutas tena nāsatyā gatam ||
Padapāṭha
रथः॑ । यः । वा॒म् । त्रि॒ऽव॒न्धु॒रः । हिर॑ण्यऽअभीशुः । अ॒श्वि॒ना॒ ।
परि॑ । द्यावा॑पृथि॒वी इति॑ । भूष॑ति । श्रु॒तः । तेन॑ । ना॒स॒त्या॒ । आ । ग॒त॒म् ॥
रथः । यः । वाम् । त्रिऽवन्धुरः । हिरण्यऽअभीशुः । अश्विना ।
परि । द्यावापृथिवी इति । भूषति । श्रुतः । तेन । नासत्या । आ । गतम् ॥
ráthaḥ ǀ yáḥ ǀ vām ǀ tri-vandhuráḥ ǀ híraṇya-abhīśuḥ ǀ aśvinā ǀ
pári ǀ dyā́vāpṛthivī́ íti ǀ bhū́ṣati ǀ śrutáḥ ǀ téna ǀ nāsatyā ǀ ā́ ǀ gatam ǁ
rathaḥ ǀ yaḥ ǀ vām ǀ tri-vandhuraḥ ǀ hiraṇya-abhīśuḥ ǀ aśvinā ǀ
pari ǀ dyāvāpṛthivī iti ǀ bhūṣati ǀ śrutaḥ ǀ tena ǀ nāsatyā ǀ ā ǀ gatam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.022.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.2.05.05
- Maṇḍala · Anuvāka · Ṛk
- 08.04.023
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Sobhari Kāṇva
- Chandas छन्दस्
- Satobṛhatī, Kakubh, Bṛhatī, Anuṣṭubh, Madhyejyotis
- Svara स्वरः
- मध्यमः
Text and interpretations from the Ṛgveda database of theveda.org.in.